नभो ददाति श्वसतां मार्गं यन्नियमाददः
आकाशस्य अवकाशदातृत्वमीश्वरायत्तम्
नभो ददाति श्वसतां मार्गं यन्नियमाददः
सुधा
न च परोवरीयस्त्वादिकं शक्यमेवं कथञ्चिव्द्याख्यातुम् । निरुपचरितं सर्वोत्तमत्वं हि परोवरीयस्त्वम् । अन्यथा ज्यायानित्यनेनैव गतार्थत्वप्रसङ्गात् । उद्गीथत्वं चोमित्येतदक्षरमुद्गीथ-मित्युक्तत्वान्न कथञ्चिदन्यत्र नेतुं शक्यते । आरोपोऽयमिति चेन्न । बाललीलाऽर्थत्वप्रसङ्गा-दुपनिषदाम् । अनन्तत्वं चाकाशस्य देशकालधर्मैरन्तवतो न सम्भवत्येव । आपेक्षिकं तु प्रकृत-विरुद्धम् । पृथिव्याः सामगतित्वम् ‘अन्तवद्वै खलु सौम्य ते सामे’ति निराकृत्य स्वयमप्यन्तवन्त-माकाशमभिदधता किमधिकमाचरितं स्यात् । अतोऽनन्तत्वमपि निरुपचरितमेवेति ।
नन्वाकाशश्रुतिरपि निरवकाशेत्युक्तम् । सत्यम् । दुरुक्तं तत् । न हि देशकालाभ्यां परिच्छिन्न-स्याकाशस्यावकाशदातृत्वं निरवधिकं सम्भवति । नापि स्वतन्त्रं परमेश्वरायत्तत्वात् । तत्कुत इत्यत आह नभ इति ।
अनुव्याख्यानम्
नभो ददाति श्वसतां मार्गं यन्नियमाददः ॥
इत्यादिवाक्यैः ॥ ८ ॥
सुधा
आदिग्रहणेन सर्वभूतगुणैर्युक्तमित्यादेः सङ्ग्रहः । तेन यदुक्तं परमेश्वरे योगानुपपत्ति-रिति तदपि समाहितं भवति । आकाशेऽवकाशदातृत्वस्येश्वरायत्तत्वमीश्वरस्यापि पृथक्तद्वत्त्वं चावगम्यत इति शेषः । उपपत्तिं तु वक्ष्यामः । तस्मादाकाशोपलक्षितसकलाधिभूत- शब्दपरम-मुख्यवाच्यो भगवान्हरिरिति सिद्धम् ॥ १-१-८ ॥
शेषवाक्यार्थचन्द्रिका
ननु चतुर्भ्यो भूतेभ्यो ज्यायस्त्वमेव परोवरीयस्त्वमिह विवक्षितमस्तु । किं निरुपचरितसर्वोत्तमत्वपर्यन्तधावनेनेत्यत आह अन्यथेति । चतुर्भ्यो भूतेभ्यो ज्येष्ठत्वस्य ज्यायानित्यनेनैवोक्तत्वादिति भावः । ननु चानन्तत्वं नान्तत्रयोख्खितत्वं किं नाम आकल्पावस्थितत्वम् । तच्च भूताकाशस्याप्यस्त्येवेति कथं तस्य निरवकाशत्वमित्यत आह आपेक्षिकं त्विति । प्रकृतविरुद्धत्वमेवोपपादयति पृथिव्या इति । नन्वस्तु लिङ्गानां विरवकाशत्वं तथाऽप्याकाशश्रुत्यनुसारेण भूतमेवात्र विवक्षितमस्तु किमाकाशस्य परमात्मत्वकल्पनया । न च निरवकाशलिङ्गेन श्रुतिबाधान्न भूतमाश्रयितुं युक्तमिति वाच्यम् । निरवकाशलिङ्गेन सावकाशायाः श्रुतेर्बाधेऽपि निरवकाशश्रुतिबाधे निरवकाशलिङ्गस्यासामर्थ्यान् निरवकाशत्वमात्रप्रयुक्तप्राबल्यापेक्षया स्वभावनिरवकाशत्वप्रयुक्ताबल्यस्य बलवत्त्वेन रूपद्वयेन प्रबलयाऽऽकाशश्रुत्यैव निरवकाशलिङ्गबाधसम्भवात् । न चानेकत्वेन लिङ्गा-नामप्यनेकत्वान्निरवकाशत्वाच्च रूपद्वयेन तेषामपि प्राबल्यमिति वाच्यम् । स्वभावप्रयुक्तप्राबल्या-पेक्षयाऽनेकत्वप्रयुक्तप्राबल्यस्य दुर्बलताया‘स्तयोः स्वभावो बलवानि’त्यादिप्रमाणसिद्धत्वेन निरवकाश-श्रुत्या बाधसम्भवात् । श्रुतेरभ्यस्यमानतया प्रकारत्रयेण श्रुतेः प्राबल्येन तया लिङ्गबाधस्य कैमुतिक-न्यायसिद्दत्वाच्चेत्याशयेन शङ्कते नन्विति ॥ उक्तमिति । आकाशशब्दस्य भूते महायोगविद्वद्रूढिभ्यां मुख्यत्वं ‘विवरादिः कथं ततः’ इत्यत्रोक्तमित्यर्थः । महायोगविद्वद्रूढयोरेवासिद्धेर्नाकाशश्रुतेर्निरव-काशतेति युक्तो निरवकाशलिङ्गैर्बाध इत्याशयेन महायोगाभावं दर्शयितुं तच्छब्दनिर्वचनलब्धस्यार्थस्य तत्र निरवधिकत्वाभावं तावदुपपादयति न हीति । देशकालाभ्यां परिच्छिन्नस्येति हेतुगर्भं विशेषणम् । भूते तस्यानन्याधीनत्वाभावमप्याह नापीति । उपलक्षणमेतद् वैदिकप्रयोगबाहुल्यासिद्ध्या विद्वद्रूढि-रप्यसिद्धेत्यपि द्रष्टव्यं तत्कुत इति । ऐश्वर्यादिवदागन्तुकज्ञानादिकारणद्वारा वा स्वरूपतो वाऽन्या-नधीनताया अचेतनाश्रितत्वस्वभावत्वाभ्यामुपपादितत्वादन्याधीनत्वं कुतः, न कुतोऽपीत्यर्थः । भूतगुणैर् अवकाशप्रदत्वादिभिः ॥
ब्रह्मणः सर्वभूतगुणैर्युक्तत्वप्रतिपादकप्रमाणस्याकाशावकाशदातृत्वस्येश्वरायत्ततारुपप्रकृत-प्रमेया-प्रतिपादकत्वादादिपदेन सङ्ग्रहो न युक्त इत्यतो नोक्तप्रमेयसाधकतयाऽस्योपन्यासः किन्तु न केवल-माकाशशगतस्यावकाशदातृत्वस्येश्वरायत्तत्वात्तस्य तत्र महायोगः किं नाम परिच्छिन्नादाकाशाद-परिच्छिन्ने ब्रह्मण्येवावकाशदातृत्वस्य निरवधिकत्वाच्च तस्य तत्र महायोग इत्यत्रैव । न चैतद्व्युत्पादन-मनर्थकम् । न चाकाशशब्दस्येश्वरे योगः सम्भवति । तस्य मनागप्यवकाशत्वाभावादिति पूर्वपक्षि-शङ्कितयोगानुपपत्तिशङ्कासमाधानार्थतयाऽर्थवत्त्वादित्याह तेनेति । साकाङ्क्षत्वात्प्रमाणद्वयसाध्यप्रदर्शन पूर्वकमपेक्षितक्रियामप्यव्याहरति आकाशेति । अचेतनस्वभावस्य कथमीश्वराधीनत्वम् । अन्याधीनत्वे स्वभावत्वहानेरित्यतः प्रमाणप्रश्नश्चेदुक्तमेव । सम्भावकप्रश्नश्चेत्तत्राह उपपत्तिं त्विति । गायत्र्यधिकरणेऽ न्यथा सर्वेश्वरत्वहानेरित्यादिनेति शेषः । यद्यप्यवकाशप्रदत्वस्य भगवत्येव निरवधिकत्वस्य सर्वभूत-गुणैर्युक्तमित्यादिप्रमाणसिद्धत्वान्न तस्याचेतनस्वभावत्वमित्येव वक्तुं युक्तमित्यनर्थकं सिद्धान्तेऽचेतन-स्वभावस्येशतन्त्रत्वसमर्थनम् । तथाऽपि स्वभावनियामकत्वरूपमहागुणसिद्ध्यर्थं जडमात्रस्वभाव-
निमित्तकशब्दान्तरसमन्वये न्यायः फलिष्यतीति प्रदर्शनार्थं च कृत्वा चिन्तया कृतमित्यवधेयम् ॥१।१।८॥
परिमल
निरुपचरितं सर्वोत्तमत्वं हीति ।
परस्मादुत्तमं प्रोक्तं परो इति ततः परम् ।
परोवरं परं तस्मात्प्रोक्तं पारोवरीयकम् ॥
इति छान्दोग्यभाष्योक्तेरिति भावः । उत्तमत्वमात्रविवक्षायां बाधकं चाह अन्यथेति । यद्वा परिमाणत आधिक्यं परोवरीयशब्दार्थ इति विवक्षायां बाधकमाह अन्यथेति । ज्यायानित्यस्य व्याप्ततम इत्यर्थत्वात् । वृद्धशब्दस्येयसुप्रत्यये ज्यादेशे च ज्यायानिति रूपनिष्पत्तेः ॥ ओमितीति । ओमित्ये-तन्नामकमक्षरशब्दितं ब्रह्मोद्गिथमुद्गीथनामकमुपासीते’ति छान्दोग्योपक्रमे उक्तत्वादित्यर्थः । इत्यादे-रिति । सर्वभूतगुणैर्युक्तं दैवं त्वं ज्ञातुमर्हसीति मोक्षधर्मवाक्यस्यान्यत्र भाष्यकारोक्तस्य सङ्ग्रह इत्यर्थः । सर्वेषां पृथिव्यादिभूतानां ये धारकत्वतर्पकत्वतापकत्वशोषकत्वावकाशदातृत्वादयो गुणास्तैर्गुणैर्युक्तं विष्ण्वाख्यं दैवं ज्ञातुमर्हसीति कञ्चित्प्रत्युच्यते । कथं समाहितमित्यतः महायोगो हि द्वेधा । अन्यगतशब्दप्रवृत्तिहेतुं प्रति स्वातन्त्र्यं शब्दप्रवृत्तिहेतुपौष्कल्यवत्त्वं चेति । तत्राऽऽद्यं नभ इति भागवत-सिद्धम् । अन्त्यं तु आदिपदोपात्तमोक्षधर्मवाक्यसिद्धमिति भावेनाह आकाशेऽवकाशदातृत्वस्येति । ननूक्तमत्राचेतनगतं तत्स्वभावभूतं च कथमन्याधीनमिति तत्राह उपपत्तिं त्विति । गायत्र्यधिकरणोप-क्रमे आकाशाधिकरणवैषम्यं व्युत्पादयन्तो वक्ष्याम इत्यर्थः ॥ १-१-८ ॥
यादुपत्यम्
अचेतनस्वभावस्य विवरत्वादेः परमेश्वरायत्तत्वस्योक्तरीत्याऽसम्भवादागम-सिद्धमपि तत्कथमङ्गीकार्यमित्यत आह उपपत्तिं त्विति । गायत्र्यधिकरण इति शेषः । तत्र हि ‘यद्यपि विवरत्वादीनां कारणता’ इत्यादिग्रन्थेनाकाशस्य धर्मिण एवोत्पत्त्यादावीश्वराधीनत्वेन तद्धर्मस्यापि तथाभावोऽवर्जनीय इत्युपपत्तिर्वक्ष्यत इत्यर्थः ॥ १-१-८ ॥
श्रीनिवासतीर्थीया
अन्यथा सर्वोत्तमत्वमात्रार्थत्वे । उद्गीथत्वमपि सर्वभूतोत्पत्तिकारणत्वादि-लिङ्गवदाकाशेऽपि कथञ्चिद्वक्तुं शक्यत एवेत्याशयेन शङ्कते आरोपोऽयमिति ॥ बालेति । अविद्यमानार्थ प्रतिपादकत्वेनेत्यर्थः । ‘नाविद्यमानं ब्रुवते वेदा ध्यातुमि’त्युक्तेरिति भावः । अनन्तत्वं देशकालगुणै-श्चानन्तत्वमित्यर्थः ॥ आपेक्षिकमिति । वाय्वाद्यपेक्षया देशानन्त्यस्य व्युत्क्रमाल्लयाङ्गीकारेण कालानन्त्यस्यापि सत्त्वादित्यादिरूपमापेक्षिकमित्यर्थः । तदुपपादयति पृथिव्या इति । सामगतित्वं सामरूपगतिमत्त्वम् ॥ स्वयमप्यन्तवन्तमिति । न चाकाशे आपेक्षिकमनन्तत्वमस्तीति वाच्यम् । साम््नयपि तादृशानन्तत्वस्य वक्तुं शक्यत्वेन तन्निराकरणानुपपत्तिप्रसङ्गादिति भावः । यदुक्तमिति । न चाकाशशब्दस्येश्वरे योगः सम्भवति । तस्य मनागप्यवकाशत्वाभावादिति यदुक्तमित्यर्थः । समाहितमिति । आदिपदगृहीतेन सर्वभूतगुणैरितिवाक्येनाकाशधर्मस्याप्यवकाशत्वस्य भगवत्येवा-वगमादिति भावः । समन्वेतव्यशब्दताऽवच्छेदकोपाधिं वदन्नुपसंहरति तस्मादिति ॥ १-१-८ ॥
वाक्यार्थरत्नमाला
नचानेकत्वेनेति । लिङ्गानामनेकत्वस्य विद्यमानत्वादनेकत्वनिरवकाशत्व- रूपप्रकारद्वयेन प्राबल्यमित्यर्थः । श्रुतेरभ्यस्यमानतयेति । अभ्यासस्य तात्पर्यलिङ्गस्य प्राप्तेरिति भावः। महायोगविद्वद्रूढ्योरेवासिद्धेरिति नञ्गर्भः पाठो युक्तो मूलकोशगतश्च । एवं च यत्पूर्वपक्षिणेत्येत चन्द्रिकानुसारेणाह । यद्यप्यवकाशप्रादत्वस्येत्यादि ॥
॥ इति आकाशाधिकरणम् ॥