आकाश इति नाम च
निरवकाशविष्णुलिङ्गैर् आकाशशब्दवाच्यो हारेरेव
आकाश इति नाम च
सुधा
नन्वत्राकाशः परमात्मा तल्लिङ्गादित्येतावदुच्यते । न पुनरुक्तपूर्वपक्षाच्छादकं किञ्चिदित्यतः सूत्रस्यार्थान्तरमाह आकाश इति ।
अनुव्याख्यानम्
आकाश इति नाम च ॥
परतोऽपि वरीयस्त्वपूर्वाल्लिङ्गाद्धरेर्भवेत् ॥
सुधा
आकाशनामबलात्खलु परेण भूतमाशङ्कितम् । न च तद्युक्तम् । यतो निरवकाशा-त्परोवरीयस्त्वादेरनेकस्माल्लिङ्गादाकाश इति नाम च हरेर्भवेत् । वाचकमिति शेषः । अत्रोप-सर्जनतया समासे निर्दिष्टेनापि वरीयस्त्वेन बुद्ध्या विविक्तेन परतोऽपीत्यस्य सम्बन्धो नानुपपन्नः । सर्वभूतोत्पत्तिकारणत्वपूर्वादिति वक्तव्ये परोवरीयस्त्वपूर्वादित्युक्तम् । प्रथमप्रतीतस्यापि सर्वभूत- कारणात्वादेर्भूतेऽपि कथञ्चिव्द्याख्यातुं शक्यत्वात् । परोपरीयस्त्वादेः सर्वथाऽपि तत्र नेतुमशक्यत्वात् ।
शेषवाक्यार्थचन्द्रिका
नन्वभ्यधिकाशङ्कयाऽधिकरणरम्भस्य ‘चेष्टा ही’त्यादिनैव समर्थ-ना‘दाकाश इति नाम चे’त्युत्तरभाष्यानर्थक्यमित्यत ‘इत्याशङ्कानिवृत्त्यर्थं सूत्रिमति’त्यनेनोक्तस्य सूत्रेऽभ्यधिकाशङ्कानिवृत्त्यर्थत्वस्य सूत्रार्थकथनेनोपपादनार्थत्वान्नानर्थक्यमिति भावेन सूत्रस्याभ्यधिका-शङ्कानिवृत्त्यर्थत्वायोगमाशङ्कते नन्विति ॥ पूर्वपक्षाच्छादकं किञ्चिदिति । सर्वभूतकारणत्वादे-र्वक्ष्यमाणरीत्या भूतेऽपि सम्भवेनोक्तपूर्वपक्षानिवर्तकत्वादिति भावः । किञ्चिदित्यतःपरं तस्मान्न सूत्रं शङ्कानिवृत्त्यर्थमिति शेषः ॥ सूत्रस्य अर्थान्तरमाहेति । आकाशः परमात्मा सर्वभूतकारणत्वादि-तल्लिङ्गादिति पूर्वपक्ष्युपदर्शितसूत्रार्थापेक्षयाऽन्यं सूत्रार्थमाहेत्यर्थः । आकाश इति नामापीति समुच्चयार्थ-कत्वायोगात्प्रकृतानुसन्धनार्थकतुशब्दार्थत्वं मनसि निधाय चशब्दयोजनामाह आकाशनामेति । ननु परतोऽपीत्यस्य न तावत्समासार्थेन सम्बन्धः । अयोग्यत्वात् । नापि वरीयस्त्वेन । वरीयस्त्वं पूर्वं यस्येति वरीयस्त्वपूर्वमिति समासे उपसर्जनतया तस्य निर्दिष्टत्वात्तत्सम्बन्धे चैकस्यैव वरीयस्त्वं विरुद्धप्रधानत्वोपसर्जनत्वप्रसक्तेरित्यत आह अत्रेति ॥ इति वक्तव्य इति । विषयवाक्ये प्रथम-प्रतीतत्वात्प्रथमातिक्रमे च कारणाभावात्सर्वभूतोत्पत्तिकारणत्वपूर्वादित्येव वक्तव्यमित्यर्थः ॥ इत्युक्त-मिति । भावे क्तः । इत्यक्तिरित्यर्थः । वक्ष्यमाणरीत्या स्वव्यतिरिक्तत्वेन सर्वशब्दसङ्कोचाद्यभिप्रायेण कथञ्चिदित्युक्तम् । अशक्यत्वादित्यतःपरमित्यभिप्रेत्येति शेषः ।
परिमल
उक्तपूर्वपक्षाच्छादकं किञ्चिदिति । योगरूढिभ्यां भूतमेवाकाशशब्दवाच्यं न पुनर्ब्रह्मेत्युक्ताशङ्कानिवर्तकम् । भगवति महायोगाविद्वद्रूढ्यादिकं किञ्चिदपि नोच्यत इत्यतो महायोग-विद्वद्रूढिभ्यां विष्णोरेवाकाशशब्दार्थत्वमित्यर्थान्तरमित्यर्थः ॥ भूतेऽपि कथञ्चिव्द्याख्यातुं शक्य-त्वादिति । एतेन परभाष्ये कारणत्वादिलिङ्गोक्तिरत्युक्तेति सूचितम् ।
श्रीनिवासतीर्थीया
समास इति । वरीयस्त्वपूर्वेति समास इत्यर्थः । तथाच देवदत्तस्य गुरुकुलमित्यादाविव नित्यसापेक्षत्वात्समास इति भावः ॥ सर्वभूतोत्पत्तीति । एतल्लिङ्गस्य सर्वाणि ह वा इति प्रथमवाक्य एवोक्तत्वादित्यर्थः । किमर्थं तथोक्तमित्यत आह प्रथमेति । अशक्यत्वादित्यनन्तर-मित्यभिप्रायेणेत्यर्थ इति शेषः । तथा च नेतुमशक्यत्वादित्यभिप्रायेण परोवरीयस्त्वपूर्वादित्युक्त-मित्यन्वयो द्रष्टव्यः ।
वाक्यार्थरत्नमाला
समुच्चयार्थत्व इति । समुच्चेयान्तरानुक्तेरिति भावः । तुशब्दार्थत्वमिति । एतेना‘‘काश इति नाम च हरेरि’’ति मूले चशब्दस्तुशब्दार्थ इत्युक्तं भवति । समुच्चयार्थेनेति । पूर्वं यस्येति बहुव्रीह्यर्थान्यपदार्थेनेत्यर्थः । तत्सम्बन्धेचेति । परतोऽपि यद्वरीयस्त्वमित्येवं परतोऽपीत्यनेन सम्बन्ध इत्यर्थः । सापेक्षत्वेनासमर्थत्वमनेनोक्तमिति ज्ञेयम् ।