चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः
आकाशशब्दप्रवृत्तिनिमित्तस्य भगवदधीनत्वाभावान्नाकाशशब्दवाच्यो हरिरित्यभ्यधिशेका
चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः
सुधा
तत्राभ्यधिकां शङ्कां दर्शयति चेष्टा हीति ।
अनुव्याख्यानम्
चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः ॥
अचेतनस्वभावस्तु विवरादिः कथं ततः ॥
इति शङ्कानिवृत्त्यर्थम्
सुधा
युक्तमिन्द्रादिशब्दानां पुरन्दरादिष्वमुख्यत्वम् । निरवधिकस्य प्रवृत्तिनिमित्त-स्यैश्वर्यादेरसम्भवात् । अल्पस्यापि परमेश्वरायत्तत्वात् । युक्तं च स्वतन्त्रानवधिकैश्वर्यादिमति परमेश्वरे मुख्यत्वम् । न चैवमाकाशशब्दप्रवृत्तिनिमित्तमवकाशत्वं भूते निरवधिकं न सम्भवति । क्वचित्कदाचिदप्यभावाभावात् । नापीश्वरायत्तम् । ऐश्वर्यं हि वर्षणशासनपालनादिरूपा चेतन-सम्बन्धिनी चेष्टा । सा चागन्तुकज्ञानेच्छादिकारणव्यपेक्षत्वात्स्वयमागन्तुकत्वाच्च कारणद्वारा स्वरूपतश्च परमेश्वरप्रसादाऽऽयत्तेति युज्यते । आकाशाऽऽदीशब्दप्रवृत्तिनिमित्तं तु विवरत्वादिकं न तावदागन्तुकज्ञानादिकारणद्वारा परमेश्वरायत्तम् । अचेतनाश्रितत्वात् । नापि स्वरूपतः । स्वभाव-त्वादनागन्तुकत्वात् । न चाकाशशब्दस्येश्वरे योगः सम्भवति । तस्य मनागप्यवकाशत्वाभावात् । तस्मादाकाशशब्दं भूतमेवेत्यभ्यधिकाशङ्कानिवृत्त्यर्थं सूत्रितमिति शेषः । विवराऽदिरिति भावप्रधानो निर्देशः । आदिग्रहणेनाकाशग्रहणमुपलक्षणमिति सूचयति । ततः परमेश्वरात् । तदायत्त इति यावत् । कथमित्याक्षेपे ।
शेषवाक्यार्थचन्द्रिका
नन्वेतावता पूर्वाधिकरणसिद्धान्तन्यायवैषम्येणेह पूर्वपक्षोत्थानादधि- करणाऽऽरम्भो युज्यत इत्युक्तं भवति । न चैतत्सम्भवति । तथा सति भाष्ये इन्द्रदिशब्दापेक्षया आकाशादिशब्देषु वैषम्यस्योपपादनीयत्वापातात् । न ह्यनेन भाष्येण तदुच्यते । भूते आकाशादिशब्दानां महायोगविद्वद्रूढ्योर्भगवति च तदुभयाभावस्य चाप्रतिपादनात्तत्कथं वैषम्येण पूर्वपक्षवृत्तिः । न च ‘विवरादिः कथं ततः’ इत्येतदेव वैषम्याभिधायकमत्र विवरत्वादेर्भूतेऽनन्याधीनत्वस्य स्पष्टमभिधाना-दिति वाच्यम् । तथात्वे विवरत्वादिरित्येव वक्तव्यतया विवरादिरित्युक्त्यसामञ्जस्यात् । भावप्रधान-त्वाश्रयणेन कथञ्चित्तत्सामञ्जस्येऽप्याकाशादिशब्दनिर्वचनलभ्यार्थस्यैवानन्याधीनताया भाष्ये वक्तव्यतया विवरत्वादेरन्यानधीनत्ववर्णनस्यासङ्गतिप्रसङ्गः । विवरत्वादेरेव तच्छब्दनिर्वचनलब्धावकाशत्वादि-रूपत्वेन कथञ्चित्सङ्गतिलाभेऽपि न भूते महायोगसिद्धिः । निर्वचनलभ्यस्यार्थस्यानन्याधीनत्ववत्तत्र निरवधिकताया अपि महायोगोपपादकत्वेन भूते विवरत्वादेर्निरवधिकत्वास्यात्रानभिधानात् । विद्वद्रूढे-रप्यत्रानुक्त्या भूते मुख्यत्वासिद्धाविन्द्रादिशब्दवैषम्यासिद्धिरेव । भूत एव भगवत्यपि महायोग-विद्वद्रूढियां प्रवृत्तौ भूतमेवेति पूर्वपक्ष्यभिमतावधारणायोगेन तदुपपादकतया भगवति महायोग-विद्वद्रूढ्यभावस्यावश्यवक्तव्यस्येहानुक्तेश्च । विवरादिरित्युक्तेरपेक्षिताशेषार्थसूचकत्वाभिप्रायेऽपि विवरादिरित्येतावतैव वैषम्यसूचनेन चेष्टा हीति कारिकापूर्वार्धस्याचेतनस्वभावस्त्वित्युत्तरार्थ-भाष्यखण्डस्य चानर्थक्यम् । न चानन्याधीनत्वे हेतुकथनपरत्वात्तत्सार्थक्यमिति वाच्यम् । चेतन-स्वभाववदचेतनस्वभावस्यापीश्वराधीनत्वोपपत्त्याऽप्रयोजकत्वेन तत्र तस्य हेतुत्वायोगादन्याधीनत्वे स्वभावत्वहान्यापत्त्या स्यभावत्वमात्रस्यैव तत्र हेतुत्वेनाचेतनपदाऽऽनर्थक्यप्रसङ्गाच्च । अनेनैव न्यायेनैश्वर्यादेरपि भगवदधीनत्वाऽऽपत्त्येन्द्रादिशब्दापेक्षया वैषम्यासिद्धिप्रसङ्गाच्च । तस्मान्नाभ्यधिका-शङ्कासमर्पकत्वं भाष्यस्येति कथमभ्यधिकाशङ्कामाहेति भाष्यस्यावतरणमित्यतोऽपेक्षितार्थपूरणेन भाष्यस्य वैषम्योपपादकत्वमुपपादयितुं पूर्वाधिकरणसिद्धान्तं तावदनुवदति युक्तमित्यादिना ।
असम्भवादिति । पुरन्दरादिगतस्य परमैश्वर्यादेः सावधिकतायाः श्रुतिपुराणादिप्रसिद्धत्वादिति भावः ॥ परमेश्वरायत्तत्वादिति । तदायत्तत्वमपि श्रुतिपुराणादिप्रसिद्धमिति भावः । अनेनेन्द्रादिशब्दानां पुरन्दरादिषु महायोगाभाव उपपादितो भवति । उपलक्षणं चैतत् । विद्वद्रूढिरपीश्वरसन्निधाननिमित्तैवेति न तत्र तेषामखण्डशक्तिरित्यपि द्रष्टव्यम् । एवं पुरन्दरादिषु महायोगविद्वद्रूढ्यभावादिन्द्रादिशब्दानां तत्रामुख्यत्वमुपपाद्य भगवति मुख्यत्वमुपपादयति युक्तं चेति । स्वतन्त्र इत्यादिना भगवति महायोगोपपादनम् । उपलक्षणं चैतत् । इन्द्रं मित्रं वरुणमग्निमाहुरित्यादिश्रुत्यादेस्तेषां भगवति विद्वद्रूढिरपि सिद्धेति द्रष्टव्यम् ।
एवं पूर्वाधिकरणसिद्धान्तन्यायमुपन्यस्य तद्वैषम्येण पूर्वपक्षं दिदर्शयिषुराकाशादिशब्दानां भूते महायोगसिद्ध्यर्थं तच्छब्दनिर्वचनलब्धस्यार्थस्य निरवधिकत्वं तावदाह न चैवमिति । यद्यप्यवकाशत्व-स्याव्याकृताकाशस्वभावतया न भूते निरवधिकत्वं सम्भवति । तथाऽपि ‘अन्तरिक्षं वा सञ्चरन्ती’त्यादि श्रुत्या ‘शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगम् । भूतानं छिद्रदातृत्वमि’त्यादिस्मृत्या च प्राणि-सञ्चरणाद्यनुकूलत्वरूपाकाशत्वस्य भूताकाशे सत्त्वसिद्ध्या तन्निरवधिकत्वोक्तेर्युक्तत्वात् । अत एव तच्च भूते सुप्रसिद्धमिति प्रागुक्तमिति द्रष्टव्यम् ॥ क्वचित्कदाचिदपीति । एतच्च परमतरीत्या व्याकृत्य चिन्तयवोक्तम् । स्वमते भूताकाशस्य देशतः कालतश्च परिच्छिन्नत्वादिति द्रष्टव्यम् । एवमाकाशादि-शब्दनिर्वचनलब्धस्यार्थस्य भूते निरवधिकत्वमुपपाद्य तस्यानन्याधीनत्वमप्याह नापीति । कुतो न भगवदायत्तत्वं विवरत्वादेरैश्वर्यादिवत्तदायत्तत्वस्यैव न्याय्यत्वात् । अन्यथैश्वर्यादेरप्यन्यानधीनत्वापत्त्या पुनरिन्द्रदिशब्दावैषम्यप्रसङ्गादित्यतोऽन्यानधीनत्वे हेतुं वक्तुं तस्यैश्वर्यादिधर्मवैलक्षण्यज्ञापनायैश्वर्यस्य स्वरूपं दर्शयन्नेव तत्पराऽयत्तताप्रतिपादनपरतया पूर्वार्धं व्याचष्टे ऐश्वर्यं हीति । तर्ह्याकाशादिशब्द-प्रवृत्तिनिमित्तस्यागन्तुकज्ञानादिकरणद्वारा वा स्वरूपतो वा परमेश्वरायत्तत्वसम्भवात्कथं नापीश्वरायत्त-मिति प्रतिज्ञातमनन्याधीनत्वमित्यतोऽचेतनस्वभाव इत्यत्राचेतनाश्रितः स्वभावोऽचेतनस्वभाव इति मध्यमपदलोपिसमासमाश्रित्याचेतनाश्रितत्वस्वभावत्वरूपहेतुद्वयलाभाद्धेतुद्वयेन यथाक्रमं शङ्कितप्रकार-द्वयनिराससिद्धिरित्याशयवंस्तथाविकल्पमभिप्रेत्य तद्वाक्यतात्पर्यमाह आकाशादिशब्दप्रवृत्तिनिमित्तं त्वित्यादिना ॥ अचेतनाश्रितत्वादिति । न चाचेतनाश्रितत्वाद्विवरत्वादिकं प्रति ज्ञानादेरागन्तुक कारणस्यसम्भवेऽपि रूपादौ पाकादिरिवान्य एवात्रागन्तुको हेतुर्भविष्यतीति वाच्यम् । तादृशकारण-विशेषस्य प्रमाणैरनुपलम्भेनेन्द्रादिशब्दप्रवृत्तिनिमित्ते पालनादिरूपप्रयत्नात्मकैश्वर्ये ज्ञानादेरेव हेतुत्व-दर्शनादत्रापि ज्ञानादिरेव हेतुर्वाच्यः । स चाचेतने नास्तीत्याशयात् । स्वस्य भावः स्वभाव इति यौगिकार्थत्वे स्वभावपदस्य परमेश्वरायत्ते पालनात्मकैश्वर्ये व्यभिचारप्रसङ्गाद्रूढिमाश्रित्य व्याचष्टे अनागन्तुकत्वादिति । यद्यप्यत्र भूते आकाशदि शब्दानां मुख्यत्वसिद्धये महायोग इव विद्वद्रूढि-रप्यवश्यं व्युत्पाद्या तथाप्यधिकरणोपक्रमे रूढिज्ञापकतया लौकिकवैदिकबहुलप्रयोगस्योपन्यासेन तत एव तत्सिद्धेर्न पृथक् तदुपपदानं कृतमिति द्रष्टव्यम् ।
एवमाकाशादिपदानां महायोगविद्वद्रूढिव्युत्पादनेन भूते मुख्यत्वमुपपाद्येश्वरे तदुभयाभावं मनसि निधाय योगाभावमाह न चेति । आकाशादिशब्दनिर्वचनलब्धस्यावकाशत्वस्य ब्रह्मण्यसत्त्वेन योगस्यैवा भावात्तस्य निरवधिकत्वानन्याधीनत्वाभ्यां महायोगो दूरनिरस्त इत्याशयः । यद्यप्यत्र ‘आ=समन्ता-त्काशते’ इति योगो ब्रह्मण्यपि सम्भवति । तस्य च निरवधिकत्वानन्यादीनत्वाभ्यां महायोगोऽप्युप-पादयितुं शक्यते । तथाऽपि तस्याक्लृप्ततयाऽऽकाशे रूढ्या बाधितत्वाभिप्रायेणायं ग्रन्थ इति द्रष्टव्यम् । योगो न सम्भवतीत्युपलक्षणम् । वैदिकप्रयोगबाहुल्यासिद्ध्या विद्वद्रूढिरप्यसिद्धेत्यपि द्रष्टव्यम् ॥ तस्मादिति । आकाशादिशब्दानां भूते महायोगविद्वद्रूढिभ्यां प्रवृत्तेर्भगवति च तदभावादित्यर्थः । ‘इत्याशङ्कानिवृत्यर्थम्’ इत्यस्य ‘आकाश इति नाम च’ इत्यनेनान्वयस्यायोग्यतया बाधितत्वादा-काङ्क्षितशेषं पूरयति सूत्रितमिति शेष इति । प्रवृत्तिनिमित्तस्यानन्याधीनताया मूलारूढतासिद्धये धर्मिवाचकपदस्य लक्षणया धर्मपरत्वं द्रष्टव्यमित्याह विवरादिरितीति । सूत्रोपात्ताकाशशब्दानुसारेण विवरत्वमात्रस्यैव वक्तव्यत्वाद्विवरादिरित्यादिपदमनर्थकमित्यतः सूत्रे आकाशपदमाधिभौतिकसकल-शब्दोपलक्षणमिति ज्ञापयितुमादिपदमित्याह आदिग्रहणेनेति । तथा च पृथिव्यादिशब्दप्रवृत्तिनिमित्त-सङ्ग्रहार्थमादिपदमित्यर्थः । यद्यपि ‘उपलक्षणत्वं शब्दानामानन्दमयपूर्विणामि’त्यादिना सूचितोऽयमर्थ-
स्तथापि तस्यैव स्मारणार्थमादिपदमत्र गृहीतमिति हृदयम् ॥ आक्षेप इति । प्रश्नार्थत्वायोगादिति भावः।
परिमल
‘युक्तमिन्द्रादी’त्यादिना पूर्ववैषम्येणात्र पूर्वपक्षप्रदर्शनेन पूर्वेणास्य प्रत्युदाहरण-रूपानन्तरसङ्गतिरपि सूचिता । मूले विवरपदं भावप्रधानमित्युपेत्योक्तम् अवकाशत्वं भूते निरवधिक- मिति । तत इतिपदस्य तत्रेत्यर्थमुपेत्येश्वरयोगनिरासकतयापि‘विवरादिः कथं तत’ इत्येतदर्थमाह न चाकाशशब्दस्येत्यादिना ।
यादुपत्यं
युक्तमिन्द्रादिशब्दानामिति । अनेन पूर्वाधिकरणवैषम्येन पूर्वपक्षोत्थानादनन्तर-सङ्गतिः सूचितेति ज्ञातव्यम् ॥ अचेतनाश्रितत्वादिति । अनेन मूलेऽचेतनाश्रितः स्वभावोऽचेतन-स्वभाव इति मध्यमपदलोपी समास इति सूचितम् । तेनाचेतनाश्रितत्वात्स्वभावत्वादिति हेतुद्वयलाभ इति ज्ञातव्यम् । न चाचेतनाश्रिते ज्ञानादेरागन्तुकस्य कारणस्यासम्भवेऽपि रूपादौ पाकादिरिवान्य एवात्रागन्तुको हेतुर्भविष्यतीति वाच्यम् । तादृशस्य कारणस्य प्रमाणैरनुपलम्भेनेन्द्रादिशब्दप्रवृत्तिनिमित्ते पालनादिरूपैश्वर्ये ज्ञानादेरेव हेतुत्वदर्शनादत्रापि ज्ञानादिरेव हेतुर्वाच्यः । स चाचेतने नास्तीत्याशयात् । स्वस्य भावः स्वभाव इति यौगिकार्थस्येश्वराधीने पालनादौ व्यभिचारित्वात् । रूढिमाश्रित्य व्याचष्टे अनागन्तुकत्वादिति । एवमाकाशशब्दस्य भूते मुख्यतामुपपाद्येश्वरेऽमुख्यत्वमाह न चाकाशशब्द-स्येति । रूढिस्तु विपरीतैवेति भावः । उपलक्षणमितीति । तथा च वाय्वादिशब्दप्रवृत्ति-निमित्तानामादिशब्देन ग्रहणमिति भावः ।
श्रीनिवासतीर्थीया
कारणद्वारेति । ज्ञानादिरूपकारणद्वारेत्यर्थः । मनाक् कदाऽपि अवकाशत्वेति विवरत्वेत्यर्थः ।
वाक्यार्थरत्नमाला
श्रुतिपुराणादीति । पूर्वाधिकरणे तथोक्तत्वादिति भावः । एवमुत्तरत्रापि ध्येयम् । स्वतन्त्र्येत्यादिनेति सम्बन्धियुक्तः पाठः । उपलक्षणं चैतदिति । महायोगोपपादनं विद्वद्रूढ्यु पपादनस्योपलक्षणमित्यर्थः । विद्वद्रूढिरपि सिद्धेतीति । विद्वद्रूढेरपि सिद्धेत्यर्थः । तथैव पाठस्तु स्वरस एव । ततश्च महायोगाद्विद्वद्रूढेश्च तस्य मुख्यत्वमिति योजितं भवति । चन्द्रिकानुसारेणाह । यद्यप्यवकाशत्वस्येत्यादिनायुक्तत्वादित्यन्तेन । उक्तार्थमूलेन संवादयति । अत एवेति । आकाशादि-शब्दप्रवृत्तिनिमित्तमवकाशत्वमिति मूले अवकाशत्वादिकमिति व्याख्येयम् । आकाशादीत्युत्तरवाक्ये विवरत्वादिकमिति वक्ष्यमाणत्वात् । एवं यद्यप्यवकाशत्वं निर्वचन लभ्यस्यावकाशत्वस्येत्यादि-टीकायामप्युपलक्षणा बोध्या । कृत्वाचिन्तयेति । चिन्तां कृत्वेति विगृह्याव्ययम् । विभक्तीति समासेऽव्ययस्य प्रथमानिर्दिष्टत्वेन पूर्वनिपाते कृत्वाचिन्तेति भवति । ततश्च शब्दस्वभावादनव्ययत्वमिति तत्र तत्र वैयाकरणोक्तेः । कृत्वचिन्तयेत्येतदङ्गीकृत्येत्यर्थकं सिध्यति । शोध्यमेतदस्ति ॥ कुतः पररीत्याद्याश्रयणं कल्पनीयमित्यत आह । स्वमत इति । देशतः कालत इत्येताभ्यां क्वचित्कदाचिदभावौ क्रमेणोपपादितौ । तत्रेन्द्रादिशब्दप्रवृत्तिनिमित्त इत्यादिचन्द्रिकाशयं वदन्नेवाह । नचाचेतनाश्रित-त्वादित्यादि । प्रश्नार्थत्वेति । उत्तराभावादिति भावः ।