अभिदां तैश्च पुनरेव न्यवारयत्
पराभिमताधिकरणशरीरपरामर्शः
अभिदां तैश्च पुनरेव न्यवारयत्
सुधा
केचिदेतत्सूत्रद्वय‘मथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते य एषोऽन्तरक्षिणि पुरुषो दृश्यत’ इति छान्दोग्योक्ताक्ष्यादित्यान्तस्थपुरुषस्येश्वरत्वसमर्थनपरत्वेन व्याचक्षते । तद्वा निराकर्तुमेवेत्युक्तम् । तथात्वे ह्यन्तर उपपत्तेरित्यस्यानारम्भप्रसङ्गः । य एषोऽन्तरक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचेत्येतद्वाक्यमधिकृत्य तत्प्रवृत्तमिति चेन्न । वाक्यभेदेनाधिकरणभेदे शास्त्रा-पर्यवसानप्रसङ्गात् । सन्ति च तत्राप्यमृतत्वादयो ब्रह्मधर्माः ।
नन्वधिकाशङ्कया तदारम्भो भविष्यति । तथाहि । एष दृश्यत इति तावत्प्रत्यक्षेऽर्थे प्रयुज्यते । ब्रह्म तु परोक्षं न तथा निर्देशविषयो भवितुमर्हति । युज्यते चैतत्प्रतिबिम्बे । प्रथमावगतात् प्रत्यक्षाभिधानाच्छायापुरुषेऽधिगते तदुपरक्तायां बुद्धौ प्रतीयमाना अमृतत्वादयः स्तुत्या कथञ्चिद् व्याख्येया इति । तदिदं पुनरुक्तिभयसम्भ्रान्तेन भाषितम् । यतो अत्रापि य एषोऽन्तरक्षिणि पुरुषो दृश्यत इति प्रत्यक्षाभिधानमस्ति । तदत्र यथा परमात्मनि सावकाशितं तथा तदपि भविष्यतीति का तत्राप्यधिकाशङ्का । तर्ह्यत्र परोदाहृतमेवास्तु विषयवाक्यम् । तत्रान्तःप्रविष्टमित्याद्यन्यद्भविष्यतीति चेन्न । स्थानादिभेदव्यपदेशादिना तत्र तस्यैवोदाहरणत्वप्रतिभासनात् ।
तस्माद्वाक्यज्ञानदरिद्राणां व्याख्यानमुपेक्षणीयमिति ॥ १-१-७ ॥
शेषवाक्यार्थचन्द्रिका
केचिदिति । मायावादिन इत्यर्थः ॥ व्याचक्षत इति । अयमत्र व्याख्यानप्रकारः । य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते एषोऽन्तरक्षिणि पुरुषो दृश्यत इत्यक्ष्यादित्ययोरन्तस्थः प्रतीयते । स तु विद्याकर्मातिशयलब्धैश्वर्यः कश्चित्संसारी न तु परमात्मा । हिरण्यश्मश्रुरित्यादौ रूपश्रवणात् । परमात्मनश्चारूपत्वेन श्रुतत्वादिति प्राप्ते परमात्मैव । आदित्यवाक्ये सर्वेभ्यः पाप्मभ्य उदित इति श्रुतस्य सर्वपापराहित्यस्याक्षिवाक्ये सैवर्क्तत्सामेत्यादौ श्रुतस्य सार्वात्म्यस्य च संसारिण्यसम्भवाद्रूपादिकं तु निरूपेऽपि सविशेषब्रह्मणि साधकानुग्रहार्थमैच्छिक-मायामयमन्ति । यद्वा । सर्वस्य कार्यजातस्य ब्रह्मोपादानकत्वादुपादेयस्य चोपादानादनन्यत्वात्कार्य-शरीरगतरूपादिभिर्ब्रह्म व्यपदिश्यत इति ॥ एवेत्युक्तमिति । तथा चेत्यर्थ इत्यध्याहारेण न्यवारयदित्ये-वार्थ इति योजनेति भावः ॥ अनारम्भप्रसङ्ग इति । अक्षिस्थस्य ब्रह्मताया अत्रैव सिद्धत्वादिति भावः। ननूद्गीथोपासनस्थमक्षिवाक्यमधिकृत्य प्रवृत्तेनानेन कथमुपकोसलविद्यास्थमक्षिवाक्यमधिकृत्य प्रवृत्तान्त-राधिकरणस्य गतार्थतेत्याशङ्कते य एषोऽन्तरक्षिणीति ॥ अपर्यवसानप्रसङ्गादिति । वाक्या-नामानन्त्यादिति । ननूदीथोपासनस्थाक्षिवाक्य इवोपकोसलविद्यास्थाक्षिवाक्येऽपि निरवकाशब्रह्मधर्माणा मश्रवणेन तद्धर्मोपदेशादित्यन्तरधिकरणन्यायाविषयत्वान्न तद्वाक्योक्तस्यानेन ब्रह्मत्वसिद्धिरिति तत्सिद्धये युक्त एव तदधिकरणारम्भ इत्यत आह सन्ति चेति । ब्रह्मधर्मा इत्युपलक्षणम् । ब्रह्मशब्दश्च तत्राधिक इत्यपि द्रष्टव्यम् ।
भामत्युक्तमधिकाशङ्कयाऽधिकरणारम्भमनुवदति नन्विति । नन्वेष दृश्यत इत्यपरोक्षाभिधाना-च्छायापुरुषाधिगत्या बुद्धेस्तदुपरागेण यथाकथाञ्चिव्द्याख्येयत्वं यथा ब्रह्मधर्माणामुच्यते तथाऽमृतत्वादि ब्रह्मधर्माभिधानाद्ब्रह्माधिगत्या बुद्धिस्तदुपरक्तत्वादेष दृश्यत इत्यपरोक्षाभिधानस्यैवान्यथाव्याख्यानं किं न स्यान्नियामकाभवादित्यत उक्तं प्रथमावगतादिति । उपक्रमप्राबल्यादपरोक्षभिधानानुसारेण ब्रह्मधर्मा एवान्यथाव्याख्येया अन्यथोपक्रमाधिकरणविरोधः स्यादिति भावः । स्तुत्या कथञ्चिद्योज्या इति । छायपुरुषस्यामृतत्वं कतिपयक्षणावस्थानात्, अभयत्वमचेतनत्वात् पुरुषत्वं पुरुषाकारत्वात्, आत्मत्वं कनीनिकाया आपनाद्, ब्रह्मरूपत्वमुक्तरूपामृतत्वादियोगादिति कथञ्चिव्द्याख्येया इत्यर्थः ॥ तदत्रेति । एष दृश्यत इति प्रसिद्धतदभिधानस्य ब्रह्मणि सावकाशत्वावर्णने तस्यैव बाधकत्वेनोक्तरूपाक्षि-वाक्यस्थस्य ब्रह्मत्वरूपैतदधिकरणसिद्धान्तासिद्धिप्रसङ्गादवश्यं तस्य ब्रह्मणि सावकाशत्वं वाच्यम् । तथा चैतदधिकरणोक्तरीत्योपकोसलविद्यास्थस्यापि प्रत्यक्षाभिधानस्य सावकाशत्वान्न छायापुरुषाधि-गतिसाधनत्वमिति भावः ॥ यथा सावकाशितमिति । ऐच्छिकमायामयरूपवत्त्वाद् ब्रह्मणोऽपि प्रत्यक्षत्वमिति सावकाशितमित्यर्थः । तथा च परेषां भाष्यम् । यस्मात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थं ‘मायाह्येषा मया सृष्टा यन्मां पश्यसि नारदे’ति स्मरणादिति ।
नन्वत्राधिकरणे परोदाहृतविषयवाक्यानाश्रयणेन विषयवाक्यान्तराश्रयणे भाष्यकाराणां न तावत् परोदाहृतस्य विषयत्वासम्भवो हेतुः । स्वकीयविषयवाक्य इव परोदाहृतेऽपि तत्र समवेतव्यस्यान्तः-स्थत्वस्य हेतूकृतस्य तद्धर्मोपदेशस्य च स्पष्टत्वेन तस्याप्येतदधिकरणविषयत्वायोगत्वात् । अन्यथा तदभावादेव विषयवाक्यत्वाभावव्युत्पादनसम्भवेनाधिकरणान्तरानारम्भपर्यन्तधावनानर्थक्यात् । नापि तथात्वेऽधिकरणान्तरानारम्भप्रसङ्गो हेतुः । उक्तरूपविद्याद्वयस्थविषयवाक्यभेदेनाधिकरणरचनाया एकेनैव समानन्यायतया वाक्यद्वयस्यापि ब्रह्मपरत्वनिर्णयादधिकरणान्तरानाम्भप्रसक्तावप्यक्षिवाक्य-द्वयस्याप्येतदधिकरणनिर्णेयत्वमङ्गीकृत्य वाक्यान्तरनिर्णयार्थमधिकरणान्तरप्रवृत्त्यङ्गीकारे तदसम्भवात् । यदि चोत्तरत्र वाक्यान्तराश्रयणेऽपि समानन्यायतया तस्यापि ब्रह्मपरत्वसिद्धेरधिकरणान्तरवैयर्थ्यमेवेति मन्यसे तर्ह्यन्तःप्रविष्टवाक्यस्यात्र विषयवाक्यत्वाश्रयणेऽप्येतत्समानन्यायतयाऽक्षिवाक्यस्यापि ब्रह्म-परत्वसिद्ध्योत्तराधिकरणानारभ्यस्तुल्यः । अन्तःप्रविष्टवाक्यस्य ब्रह्मपरत्वन्यायेनाक्षिवाक्यस्य ब्रह्म-परत्वेऽप्यधिकाशङ्कया तदधिकरणारम्भ इति यदि तर्ह्यक्षिवाक्यस्य ब्रह्मपरत्वन्यायेनान्तःप्रविष्टवाक्यस्य ब्रह्मपरत्वेऽप्यधिकाशङ्कयाऽधिकरणान्तरारम्भ इति तुल्यमेव । न चोक्तरीत्या स्वपरोदाहृतवाक्ययोर-विशेषेऽप्यत्रस्वोदाहृतमेव विषयवाक्यं न तु परोदाहृतमक्षिवाक्यं तत्तु तत्रैव न तु तत्रान्तःप्रविष्ट वाक्यमित्यत्र विशेषनियामकमस्तीत्याशयवानाशङ्कते तर्हीति । समानन्यायतया तद्धर्मोपदेशादित्यनेनैव वाक्यद्वयस्य ब्रह्मपरत्वसिध्द्या तद्वाक्यमधिकृत्याधिकरणद्वयप्रवृत्तावुत्तरस्यानारम्भप्रसङ्गो यदीत्यर्थः ॥ अत्रेति । अन्तरित्यत्रेत्यर्थः ॥ परोदाहृतमेवेति । उद्गीथोपासनस्थमक्षिवाक्यमित्यर्थः ॥ अस्त्विति । तथा च विषयवाक्यन्तराश्रयणमनर्थकमिति शेषः । तत्रान्तःप्रविष्टवाक्यं न विषयवाक्यं किन्त्वक्षिवाक्य-मात्रमेवेत्यत्र विशेषहेत्वभावादिति भावः । अस्त्युक्तव्यवस्थायां नियामकमिति समाधत्ते स्थानादीति । आदिपदेन सुखविशिष्टाभिदानादेः परामर्शः ॥ तत्रेति । अन्तराधिकरण इत्यर्थः ॥ तस्यैवेति । परोदाहृताक्षिवाक्यस्यैवेत्यर्थः । अन्तःप्रविष्टवाक्ये स्थानादिव्यपदेशाभावन्न तत्र तस्य विषयवाक्यत्वं किन्त्वक्षिवाक्यस्यैवेति निर्णयादत्रापि तस्य विषयवाक्यतायामन्यतस्य वैयर्थ्यप्रसङ्गाद्युक्तं परोदाहृत-विषयवाक्यपरित्यागेन विषयवाक्यान्तराश्रयणमत्र भाष्यकाराणामित्याशयः ॥ १-१-७ ॥
परिमल
केचिदिति । मायावादिनो रामानुजीयाश्चेत्यर्थः । प्रथमाध्ययगतवाक्यविचारोऽत्र चतुर्थाध्यायगतवाक्यविचारस्तत्रातो न पौनरुक्त्यमिति शङ्कते य एष इति । ननु तत्र ब्रह्मधर्माश्रवणा-न्नानेन गतार्थं तदित्यत आह तत्रापीति । य एष इति वाक्येऽपीत्यर्थः । विवृतमेतत्पौनरुक्त्य-मधिकाशङ्कानिरासश्चान्तरनयचन्द्रिकायाम् ॥ १-१-७ ॥
यादुपत्यम्
एवेत्युक्तमिति । तथा चेत्यर्थ इत्यध्याहारेण न्यवारयदित्येवार्थ इति योजनेति भावः ॥ एतद्वाक्यमधिकृत्येति । अष्टमाध्यायस्थमेतद्वाक्यमित्यर्थः ॥ स्तुत्या कथञ्चिदिति । अमृतत्वं कतिपयक्षणावस्थानात् । अभयत्वमचेतनत्वात् । पुरुषत्वं पुरुषाकारत्वात् । आत्मत्वं कनीनिकाया आपनात् । ब्रह्मरूपत्वमुक्तरूपामृतत्वादियोगादिति कथञ्चिव्द्याख्येया इत्यर्थः ॥ सावकाशितमिति । मायया परानुग्रहाय कायनिर्माणेन परमात्मनोऽपि रूपवत्वात्प्रत्यक्षाभिधानं तस्मिन्नुपपन्नम् । मायाह्येषा परामृष्टा यन्मां पश्यसि नारदेति स्मरणात् । इति सावकाशितमित्यर्थः ॥ १-१-७ ॥
श्रीनिवासतीर्थीया
छन्दोग्योक्तेति । छान्दोग्ये चतुर्थप्रपाठकोक्तेत्यर्थः । एवमपि य एषोऽन्त-रक्षिणीत्यष्टमाध्यायस्थवाक्यार्थस्याप्यत्रैव निर्णयसम्भवेनान्तर उपपत्तेरित्यस्यानारम्भ एव । नन्वष्ट-माध्यायस्थावाक्ये तद्धर्मोपदेशाभावात्कथमनेनाधिकरणेन तन्निर्णय इति चेत्तत्राह सन्ति चेति । इति होवाचेत्यनन्तरमेतदमृतमभयमेतद्ब्रह्मेत्युत्तरत्र । तत्र तस्मिन्नष्टमाध्यायस्थेऽपि वाक्ये । ब्रह्मधर्माः सन्तीत्यर्थः । तथा चान्तरधिकरणेनैव गतार्थत्वादन्तराधिकरणस्य वैयर्थ्यमिति भावः । तदारम्भोऽन्तर-धिकरणारम्भः । अन्तरधिकरणविषयभूते य एषोऽनतरक्षिणीति चतुर्थप्रपाठकस्थवाक्येऽधिकाशङ्कामेव दर्शयति तथा हीति । तथानिर्देशः प्रत्यक्षनिर्देशः । एतत् प्रत्यक्षनिर्देशविषयत्वम् । प्रतिबिम्बे छायापुरुषे प्रत्यक्षनिर्देशसम्भवेऽपि वाक्यशेषोक्तामृतत्वादिधर्माः कथं युज्यन्त इत्यत आह प्रथमेति । एतदमृत-मित्यादिवाक्यापेक्षया प्रथमेत्यर्थः । उपरक्तायां सत्याम् । पश्चाद्वाक्यशेषे प्रतीयमानाः । ततश्चोपक्र-मस्यासञ्जातविरोधित्वेन प्रबलत्वात्तद्विरोधेनोपसंहारस्था धर्माश् छायापुरुषस्तुतिपरतया व्याख्येया इत्यर्थः । तदिदमधिकाशङ्काप्रदर्शनम् अत्रापीति । चतुर्थप्रपाठकस्थवाक्य इवात्राप्यन्तरधिकरण-विषयीभूतेऽष्टमप्रपाठकस्थेऽपि वाक्ये । तत् प्रत्यक्षाभिधानम् । अत्र अन्तराधिकरणे ॥ तदपीति । चतुर्थ प्रपाठकवाक्यस्थं प्रत्यक्षाभिधानमपि परमात्मनि सावकाशं भविष्यतीत्यर्थः । तत्र अन्तरधिकरण निर्णीतचतुर्थप्रपाठकवाक्ये ॥ तर्हीति । अधिकाशङ्कयाऽन्तरधिकरणस्याप्रवृत्तौ । अत्र अन्तरधिकरणे परोदाहृतं चतुर्थप्रपाठकस्थं य एषोऽन्तरक्षिणीति वाक्यद्वयम् ॥ तत्रेति । अन्तरधिकरण इत्यर्थः । तथा चात्राधिकरणे भवद्भिरुदह्रियमाणमन्तः प्रविष्टमिति वाक्यमन्तरधिकरणे विचार्यं भविष्यतीत्यर्थः । तत्र अन्तरधिकरणे । तस्यैव अन्तरधिकरणे परोदाहृतस्य एष इति वाक्यस्यैवेत्यर्थः ॥ १-१-७ ॥
वाक्यार्थरत्नमाला
अथ एषोन्तरादित्य इत्यादिपरभाष्यमनुसृत्योपयुक्तं सूत्रव्याख्यानमनुवदति । अयमत्रेत्यादिना । इत्यर्थ इत्यध्याहारेणेति पदस्यार्थ इत्येतत्पदस्य च विप्रकर्षेणाध्याहारेणेत्यर्थः । तथैव योजयति । इत्येवार्थ इतीति । अनेन अध्याहृतेतिशब्दानन्तरमनुव्याख्यानगतैवशब्दस्तदनन्तर-मध्याहृतोऽर्थशब्द इत्येवमित्यर्थपदयोः संपुटाकारेणाध्याहार इति योजितं भवति । इत्येवार्थ इति योजना अभिप्राये त्वर्थान्तरं न सम्भवतीति लभ्यत इति भावः । भामत्युक्तमिति । अन्तराधिकरण इति शेषः । तत्रैव प्रागुपस्थित पूर्वेण पौनरुक्तयशङ्कोदयेन तत्परिहारस्य तेन कृतत्वादिति ज्ञेयम् ॥ कनीनिका अक्षितारकमिति कल्पतरुः । वाक्यान्तरनिर्णयार्थमित्यर्थवाक्यान्तपदेनान्तःप्रविष्टमित्यादिवाक्यं गृह्यते ॥
॥ इति अन्तःस्थत्वाधिकरणम् ॥