समुद्रान्तःस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम्
निरवकाशविष्णुलिङ्गैर् इन्द्रादिशब्दा विष्णुवाचका विष्णावेव विद्वद्रूढिः, महायोगश्च
समुद्रान्तःस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम्
अनुव्याख्यानम्
समुद्रान्तःस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् ॥
साधयित्वा
सुधा
स्वयं सूत्रकारोऽन्तस्तद्धर्मोपदेशादिति सूत्रेणान्तःप्रविष्टो विष्णुरेव । समुद्रेऽन्तः कवयः । यस्याण्डकोशं शुष्ममाहुः । ब्रह्मा तपसाऽन्वविनन्ददिति समुद्रान्तःस्थितत्वब्रह्माण्डवीर्यत्व- ब्रह्मतपोलभ्यत्वादिधर्मोपदेशात् । तेषां च विष्णुधर्मत्वेन श्रुतिस्मृतिसिद्धत्वात् । न चेन्द्रादिश्रुतिलिङ्ग-विरोधः । निरवकाशलिङ्गबलेन तद्बाधोपपत्तेः । न च तेषामपि निरवकाशत्वम् । इन्द्रं मित्रं वरुण-मग्निमाहुरित्यादिना तेषां भगवति विद्वद्रूढिसद्भावस्य सिद्धत्वात् । महायोगस्य च सुप्रसिद्धत्वात् । इन्द्रादिगतस्य परमैश्वर्यादेरल्पता परमेश्वराधीनता च श्रुतिपुराणादिप्रसिद्धा । शक्तेरप्यस्मदाद्य-पेक्षयाऽऽधिक्यमात्रमेव न तु निरर्गलत्वमपि । अन्यथाऽनेकेश्वरविरोधश्च । विद्वद्रूढिरपीश्वर-सन्निधाननिमित्तैव । इत्येवं समुद्रान्तःस्थितत्वाद्यैर्विष्णुधर्मैरन्तःप्रविष्टत्वस्य विष्णुनिष्ठतां तथा तच्छब्दानामिन्द्रदिशब्दानामपि विष्णुरूढताम् । उपलक्षणमेतत् । तत्र यौगिकत्वं च साधयित्वा ।
शेषवाक्यार्थचन्द्रिका
ननु समुद्रान्तःस्थितत्वाद्यैरित्युत्तरभाष्यमनर्थकमेव । न चैतत्सूत्र-तात्पर्यप्रदर्शकमित्युक्तमिति वाच्यम् । समुद्रान्तःस्थितत्वादीनां विष्णुरुद्वतां प्रति साधकतायाः सूत्रेऽनभिप्रेतत्वेन तदयोगात् । न चाभ्यधिकाशङ्कापरिहाराय रूढतासाधनमप्यभिमतमेव सूत्र इति वाच्यम् । समुद्रान्तःस्थितत्वादीनां विष्णुरूढतायाश्च साध्यसाधनभावस्यासामर्थ्यप्रतिहततया तैस्तत् साधनायोगात् । योग्यहेत्वन्तरकल्पने च समुद्रान्तःस्थितत्वाद्यैरित्यस्य वैयर्थ्यापत्तिः । विष्णवादि-शब्दानां विष्णौ रूढत्वस्य सिद्धतया साध्यत्वानुपपत्तिः । तत्साधनस्याभ्यधिकाशङ्कापरिहारकत्वा-भावाद्वैयर्थ्यं च । इन्द्रादिशब्दानां विष्णौ रूढत्वस्य साध्यत्वाभिप्राये च तथैव भाष्ये वक्तव्यतया विष्णुरूढतामित्येतावन्मात्रोक्त्यस्वारस्यम् । पुरन्दरादिषु महायोगविद्वद्रूढिभ्यां प्रवृत्तत्वेनेन्द्रादिशब्दानां विष्णौ रूढत्वमात्रसाधनस्याप्यभ्यधिकाशङ्कापरिहाराक्षमत्वेन तद्वैय्यर्थ्यं च । विद्वद्रूढिसाधन अभिप्रायेऽपि नाभ्यधिकाशङ्कापरिहारः । अन्यत्र महायोगविद्वद्रूभढिभ्यां प्रवृत्ततया विष्णुनिष्ठ-विद्वद्रूढेरन्यनिष्ठविद्वद्रूढिमहायोगबाधाक्षमत्वात्तस्मादनर्थकमेतद्भष्यमित्यतोऽत्र भाष्ये तद्धर्मैरित्यत्रान्तः-प्रविष्टत्वस्य विष्णुनिष्ठतामिति साध्याध्याहारस्य विष्णुरूढतामित्यत्र पूर्ववाक्यात्तच्छब्दानामित्यनुवृत्ते रूढिसाधकप्रमाणाविशेषस्य योग्यतया लाभस्य रूढिशब्दस्य विद्वद्रूढिपरत्वस्य विष्णुरूढतामित्यस्य विष्णौ यौगिकत्वोपलक्षणत्वस्य चाऽऽश्रयणाद्युक्तोऽनेन भाष्येणाभ्यधिकाशङ्कापरिहार इति भावेन भाष्यभिप्रेतं तद्धर्मैरन्तःप्रविष्टत्वस्य विष्णुनिष्ठत्वसाधनं तावदुपपादयति स्वयं सूत्रकार इति । अनेन स्वयमित्येतन्न केवलं रूढेर्विद्वत्सम्बन्धित्वसमर्पकत्वात्पूर्ववाक्यशेषः किन्तु साधयित्वेत्युक्तसाधन-क्रियाऽपेक्षितकर्तृसमर्पकत्वात्परिहारवाक्यशेष इति सूचितं भवति । समुद्रान्तःस्थितत्वाद्यैरित्यादि- शब्दर्थविवरणपूर्वकं तद्धर्मोपदेशादिति सौत्रहेतोरसिद्धिं परिहरति समुद्रेऽन्तः कवय इत्यादिना । अस्तु धर्मोपदेशस्तथाऽप्युपदिष्टानां तद्धर्मत्वं कुतः । समुद्रान्तःस्थितत्वादेरन्यत्रापि सम्भवादित्यतः सूत्रभाष्ययोस्तद्धर्मपदप्रयोगसूचितमर्थमाह तेषां चेति ॥ श्रुतिस्मृतीति । लोकोपलक्षणं चैतत् । अत एव चन्द्रिकायां लोके श्रुतौ स्मृतौ चेत्यादिना स्मृत्यादिसमकक्षतया लोकस्योपादानम् । तथा च श्रुतिस्मृतिलोकसिद्धत्वादित्यर्थः । श्रुत्यादिकं चैतदधिकरणभाष्योदाहृतं द्रष्टव्यम् ।
ननु कथं स्वभावदुर्बलेन लिङ्गेन स्वभावप्रबलेन्द्रादिश्रुतिबाधयाऽन्तःस्थस्य विष्णुत्वनिर्णयः । अन्यथैन्द्र्या गार्हपत्यमुपतिष्ठत इत्यादावपि लिङ्गेन श्रुतिबाधसम्भवेनेन्द्रप्रकाशनसामर्थ्यरूपलिङ्गेन मन्त्रस्येन्द्रोपस्थानाङ्गत्वप्रसक्तेरित्यभिप्रेत्य शङ्कते न चेन्द्रादिश्रुतिलिङ्गादिविरोध इति । श्रुतेर्लिङ्गा-पेक्षया स्वभावप्रबलत्वेऽपि यत्र लिङ्गं निरवकाशं श्रुतिश्च सावकाशा तत्र ‘आनर्थक्यप्रतिहतानां विपरीतं बलाबलमि’ति न्यायेन श्रुतेर्लिङ्गबाध्यत्वमेव । अन्यथा श्येनेनाभिचरन् यजेतेत्यत्र श्येनश्रुत्या वाक्यशेषोपात्तस्य श्येनसादृश्यस्य बाधापत्त्या श्येनशब्दस्य यागपरत्वाभावप्रसङ्गात्तद्वदिहापि लोके श्रुतौ स्मृतौ च विष्णुधर्मतया प्रसिद्धस्य समुद्रान्तःस्थितत्वादेरन्यगतत्वानुपपत्त्या निरवकाशत्वाद्युक्तं सावकाशेन्द्रादिश्रुतिबाधकत्वमित्याशयेन परिहरति निरवकाशेति । विषम उपन्यासः । उक्तन्यायेन सावकाशश्रुतेर्लिङ्गबाध्यत्वेऽपि न निरवकाशाया अपि । प्रत्युत निरवकाशत्वप्रयुक्तप्राबल्यस्य बलवत्त्वा-ल्लिङ्गबाधकत्वमेव । प्रकृते चेन्द्रादिश्रुतेः पुरन्दरादिषु महायोगदिद्वद्रूढिभ्यां प्रवृत्ततया तत्रैव मुख्यत्वेन निरवकाशत्वान्न लिङ्गबाध्यता किन्तु तद्बाधकत्वमेवेत्याशयेन शङ्कते न चेति । स्यादेतदेवं यदीन्द्रादि-श्रुत्यादेर्विष्णावमुख्यत्वं स्यात् । न चैतदस्ति । विद्वद्रूढिमहायोगाभ्यां प्रवृत्ततया तत्र मुख्यत्वादिति भावेनेन्द्रदिशब्दानां भगवति विद्वद्रूढि तावदुपपादयति इन्द्रं मित्रमित्यादि ।
न चेन्द्रं मित्रमित्यादिवाक्यमिन्द्राद्यभेदपरं तत्कथमनेन विद्वद्रूढिसिद्धिरिति वाच्यम् । आहुरिति तत्तच्छब्दवाच्यत्वस्यैव स्पष्टमुक्तत्वेनाभेदपरत्वायोगात् । ‘सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणी’ति वाक्यशेषे भेदस्यैवोक्त्या तद्विरोधापाताच्चेति ध्येयम् । भगवति मुख्यत्वसिद्धये महायोगमप्याह महायोगस्येति । इन्द्रादिशब्दप्रवृत्तिनिमित्तपरमैश्वर्यादेर्विष्णावनन्याधीनत्वनिरवधिक- त्वाभ्यां मुख्यतः सम्भवात्तत्र शब्दनां महायोग इति भावः । एवमिन्द्रादिशब्दानां पुरन्दरादिषु मुख्यत्वेऽपि भगवत्यपि महायोगविद्वद्रूढिभ्यां प्रवृत्ततया मुख्यत्वान्न पुरन्दरादिषु निरवकाशत्व-मित्युक्तम् । इदानीं तु महायोगविद्वद्रूढ्योः पुरन्दरदिष्वभावेन तत्रमुख्यत्वान्नेन्द्रादिश्रुतेः पुरन्दरादिषु मुख्यत्वमिति भावेन पुरन्दरादिषु महायोगाभावं तावदुपपादयति इन्द्रादिगतस्येति । अतो न तत्र तेषां महायोग इति वाक्यशेषः । नन्वशक्तेषु सामन्तादिष्वैश्वर्यादेरल्पत्वपारतन्त्र्ययोः सत्त्वेऽपि देवानाम-प्रतिहतशक्तित्वात्कथं तत्र प्रवृत्तिनिमित्तस्याल्पत्वादिकमित्यतो देवानामप्यप्रतिहतशक्तित्वासिद्धेर्युक्तमेव सामन्तादिष्विव देवेष्वपि प्रवृत्तिनिमित्ताल्पत्वादीति भावेन परोदाहृतश्रुतेस्तर्हि का गतिरित्यतोऽ-स्मदाद्यपेक्षया देवानामधिकशक्तिमत्त्वमेव तदर्थो न तु निरर्गलितशक्तिमत्त्वमित्याह शक्तेरपीति । कुतोऽयं श्रुत्यर्थसङ्कोच इत्यतः श्रुतिपुराणबलादेवेत्याह इत्यपीति । श्रुतिपुराणप्रसिद्धमिति सम्बन्धः । न केवलं श्रुतिपुराणबलादेवर्थसङ्कोचः किन्त्वनेकेश्वरापत्तिरूपयुक्तिबलादपीत्याह अन्यथेति । न चाभेदा-भ्युपगमान्नानेकेश्वरप्रसक्तिरिति वाच्यम् । तस्यानुपदमेव दूषयिष्यमाणत्वादित्यत्र तात्पर्यात् । एवं पुरन्दरादिष्विन्द्रादिशब्दानां महायोगाभावमुपपाद्य विद्वद्रूढ्यभावमाह विद्वद्रूढिरिति । विद्वत्सम्बन्धि-बुहलप्रयोगस्येश्वरसन्निधाननिमित्ततयाऽन्यथासिद्धत्वान्न तेन तत्राखण्डशक्तिसिद्धिरिति भावः । उक्तस्याभ्यधिकाशङ्कापरिहारस्य भाष्यारूढतासिद्ध्यै मूलमुक्तरीत्याऽपेक्षिताध्याहारादिना योजयति एवमित्यादिना साधयित्वेत्यन्तेन ग्रन्थेन ।
परिमल
श्रुतिस्मृतीति । भाष्योक्तेति योज्यम् । मूलार्थमाह इत्येवमित्यादिना ।
यादुपत्यं
सुप्रसिद्धिमुपपादयति इन्द्रादिगतस्येति ॥ अन्यताऽनेकेश्वरेति । अभेदश्चानुपदमेव निराकरिष्यत इति भावः ।
श्रीनिवासतीर्थीया
मूलगतादिपदार्थमाह ब्रह्माण्डवीर्यत्वेत्यादि ॥ तेषामपीति । इन्द्रादि-श्रुतिलिङ्गानामित्यर्थः ॥ निरर्गलत्वम् अप्रतिबद्धत्वम् ॥ इत्यपीति । श्रुतिपुराणादिसिद्धामित्यर्थः । अन्यथा निरर्गलत्वाङ्गिकारे ।
वाक्यार्थरत्नमाला
‘‘ऐन्द्य्रा गार्हपत्यमुपतिष्टत’’ इत्यादि चन्द्रिकाग्रन्थस्तट्टीकानुसारेण व्याख्येयः । श्येनशब्दस्येत्यादिकं चन्द्रिकानुसारि । निरवकाशाया अपीति । बाध्यत्वमिति वचनविपरिणामेनानुवर्त्तते । तत्र तत्र मध्ये व्याख्येयमस्ति ।