०१ इन्द्रादिशब्दानामिन्द्रादिषु महायोगविद्वद्रूढी इत्यभ्यधिकाशङ्कया पूर्वपक्षः

ॐ अन्तस्तद्धर्मोपदेशात् ॐ

इन्द्रादिशब्दानामिन्द्रादिषु महायोगविद्वद्रूढी इत्यभ्यधिकाशङ्कया पूर्वपक्षः

अन्तःस्थत्वाधिकरणम्

अधिदैवगतशब्दसमन्वयः

॥ ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥

सुधा

॥ ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ स्यादेतत् । यद्यानन्दमयोऽभ्यासादिति वदतः सूत्रकारस्यैतावानर्थोऽभिमतो भवेत्तर्हि तत एव गतार्थत्वादन्तस्तद्धर्मोपदेशादित्याद्यधिकरणानाम-नुत्थानमेव स्यात् । पदार्थान्तरविषयौ हि रूढियोगावाश्रित्यैव तत्र पूर्वपक्षप्रवृत्तिः । यथोक्तं भाष्ये । तत्रान्ययविषयाया रूढेरविद्वद्रूढित्वेन भगवद्विषयाया विद्वद्रूढितो, योगस्य चाल्पभगवदधीनप्रवृत्ति- निमित्तसापेक्षस्य निरवधिकापरतन्त्रप्रवृत्तिनिमित्तापेक्षान्महायोगादुपपादितमेव दुर्बलत्वमिति कुतो अधिकरणान्तरस्यावकाशः । सत्यम् । तथाऽप्यभ्यधिकाशङ्कासद्भावेनाधिकरणान्तरारम्भोपपत्ति-

रित्याशयवांस्तावदधिकाशङ्काप्रवर्तनपूर्वकमन्तस्तद्धर्मोपदेशादित्यद्यधिकरणतात्पर्यं दर्शयति देवानामिति ।

अनुव्याख्यानम्

देवानां तत्र शक्तताम् ॥

आशङ्कय

सुधा

तैत्तिरीयाः पठन्ति । अन्तःप्रविष्टं कर्तारमेतमन्तश्चन्द्रमसि मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवा इति । तत्र संशयः । किमयमन्तःप्रविष्टः परमात्मोतान्य इति । अन्य इति तावत्प्राप्तम् । कुतः । इन्द्रो राजा जगतो य ईशे । त्वष्टारं रूपाणि विकुर्वन्तं विपश्चितं ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् । दिव आत्मानं सवितारं बृहस्पतिमितीन्द्रादिश्रुतेः । सप्त युञ्जन्ति रथमेक-चक्रमित्यादित्यलिङ्गाच्च । अन्नं ब्रह्मेत्यादिश्रुत्या तद्धेतुव्यपदेशादिलिङ्गेन चातीताधिकरणेन निर्णयः कृतः । न चेन्द्रादिश्रुतिरन्यत्र नेतुं शक्यते । पुरन्दरादिषु रूढत्वाद्यौगिकत्वाच्च ।

ननूक्तमत्रान्यत्र रूढेरविद्वत्सम्बन्धित्वाद्योगस्य च परमेश्वरायत्ताल्पनिमित्तत्वादमुख्यतेति । सत्यम् । तदन्नौषध्यादिपदार्थेषु स्यात् । न तु पुरन्दरादिषु । तत्रेन्द्रादिशब्दप्रवृत्तिनिमित्तस्य परमैश्वर्या- देरनवधिकस्यापरायत्तस्य विद्यमानत्वेन मुख्ययोगोपपत्तेः । अशेक्तषु खलु सामान्तादिष्वैश्वर्यादिक-मल्पं परायत्तं च भवति । देवास्त्वप्रतिहतशक्तयः कथमेवं भवेयुः । तथा च श्रुतिः । इन्द्रो वै देवानामोजिष्ठ इत्येवंजातीयका ।

शेषवाक्यार्थचन्द्रिका

॥ ॐ अन्स्तद्धर्मोपदेशात् ॐ ॥ ननु देवानां तत्र शक्ततामित्याद्युत्तर-भाष्यमनर्थकम् । न चैतदन्तरधिकरणार्थकथनमिति वाच्यम् । तत्सूत्रगतपदाक्षरार्थानभिज्ञानेन तस्य तव्द्याख्यानत्वायोगात् । न च पदाक्षरार्थकथनवत्तात्पर्यकथनस्यापि व्याख्यानत्वात्तात्पर्यप्रदर्शकस्यो- त्तरग्रन्थस्य युक्तं तदधिकरणव्याख्यानत्वमिति वाच्यम् । तथाऽपि देवानामित्यादिभाष्यखण्ड-वैयर्थ्यानिस्तारात् । न चन पुरन्दरादिष्विन्द्रादिशब्दानां महायोगविद्वद्रढिव्युत्पादकत्वान्न तस्याप्या-नर्थक्यमिति वाच्यम् । तद्व्युत्पादनस्य प्रकृतानुपयोगित्वेनाकर्तव्यत्वात् । न च गतार्थताशङ्कापरिहारार्थं तद्व्युत्पादनमावश्यकमेवेति वाच्यम् । निर्वीजत्वेन तच्छङ्काया एवानुदयात् । सबीजत्वेऽपि वा रूढि-योगाश्रयणेन पूर्वपक्षप्रवृत्त्यभ्युपगमे तच्छङ्काप्रसरेऽपि तत्र रूढियोगाश्रयणेनैव पूर्वपक्ष इत्यत्र नियमका-भावेन पुरन्दरादिष्विन्द्रादिशब्दानां रूढियोगावनाश्रित्यापि हेत्वन्तरेण तत्र पूर्वपक्षप्रवृत्तेस्तच्छङ्काया अनुत्थानादित्यत उक्तदूषणद्वयपरिहारेण गतार्थताशङ्कामुत्थापयति स्यादेतदिति । तत्र गतार्थता-शङ्काबीजप्रदर्शनमेतावानर्थ इति । अन्यत्र रूढियोगमात्रं शब्दानां भगवति तु महायोगविद्वद्रूढी । अतो हेतोः स एव मुख्यार्थ इत्येतावानर्थ इत्यर्थः । सर्वशब्दानां भगवति महायोगविद्वद्रढ्यभिमतिरेव गतार्थताशङ्काबीजमिति भावः । स्यादयं दोषो यदि पुरन्दरादिष्विन्द्रादिशब्दानां रूढियोगाश्रयणेनैव पूर्वपक्षोऽभिमतः स्यात् । न चैतदस्ति । नियामकाभावात्तत्कथं वक्ष्यमाणरीत्या गतार्थताशङ्कावकाश इत्यतो रूढियोगाश्रयणेनैव पूर्वपक्षं भाष्यसम्मत्या द्रढयति यथोक्तं भाष्य इति । अन्तःस्थत्वा-द्यधिकरणभाष्य इत्यर्थः । तत्तदधिकरणभाष्यसङ्ग्रहार्थं भाष्य इति सामान्यमुक्तम् । अन्यत्र योग-रूढेन्द्रादिश्रुत्या पूर्वपक्षस्य स चेन्द्रो राजेत्यादिना तत्र भाष्ये प्रदर्शनादिति भावः । अस्त्वन्य-विषययोगरूढिभ्यामेवेन्द्रादिशब्दानामन्यपरत्वमित्यतो भगवद्विषयमहायोगाविद्वद्रूढिभ्यामुक्तरीत्याऽन्य- विषययोगरूढिबाधान्न तद्बलात्पुरन्दरादिप्राप्तिर्युज्यत इत्याह तत्रेति । उपपादितमानन्दमयाधिकरण इति शेषः ॥ अधिकरणान्तरारम्भेति । अन्तस्तद्धर्मोपदेशादित्याद्यधिकरणारम्भोपपत्तेरित्यर्थः ।

नन्वानन्दमयाधिकरणेन गतार्थत्वादन्तस्तद्धर्मोपदेशादित्याद्यधिकरणवैय्यर्थ्यशङ्काया एतावताऽपि न परिहारः । अभ्यधिकाशङ्काप्रदर्शनेनानन्तराधिकरणारम्भसमर्थनेऽपि तदुत्तराधिकरणारम्भासमर्थ-नादित्यतः ‘चेष्टा हि’ इत्यादिनोत्तराद्यधिकरणेष्वप्यधिकाशङ्कायाः प्रदर्शयिष्यमाणत्वान्न तद्वैयर्थ्य-मपीत्याशयेन तावदित्युक्तम् । भाष्योक्तदिशाऽन्यविषययोगरूढ्याश्रयणेनैवेह पूर्वपक्षप्रवृत्त्या गतार्थता-शङ्काप्रसङ्गाद्युक्तमधिकाशङ्कयाऽधिकरणारम्भसमर्थनं भाष्यकाराणमित्युक्तम् । तत्र कथमन्यविषय-योगरूढ्याश्रयणेनेह पूर्वपक्ष प्रवृत्तिर्येन गतार्थताशङ्काया अवकाश इत्यतस्तथा पूर्वपक्षं दर्शयितुं विपरीत-युक्त्यनुसन्धानात्मकस्य पूर्वपक्षस्य सन्दिग्धेऽर्थे न्यायः प्रवर्तत इति सन्देहसापेक्षत्वात्तस्य च धर्मिज्ञान-साध्यत्वेन विषयसंशययोरसत्त्वेऽप्रवृत्तेर्विषयसंशयौ तावद्दर्शयति तैत्तिरीया इति । अन्य इति तावत्प्राप्तमिति । यद्यप्यत्राधिकरणे इन्द्रादिषु निर्धारित एक एवान्तस्थ इति, अनिर्धारितो यः कश्चिदिति, सर्वोऽपीति च पूर्वपक्षत्रयमपि सम्भावितं चन्द्रिकोक्तरीत्योपपन्नं तथाऽपीह टीकायां न च स्वतन्त्रानवधिकैश्वर्यमनेकेषां विरुद्धमिति वाच्यम् । इन्द्रादीनां परमेश्वरात्मकत्वादित्याद्युत्तरग्रन्थानु-सारात् । अनुव्याख्याने देवानां तत्र शक्ततामित्यादिनाऽनेकेषां स्वतन्त्रानवधिकैश्वर्यसूचनेनेन्द्रादीनां परमेश्वराभेदस्यैव बोधनाच्चेन्द्रादिः सर्वोऽप्यन्तःस्थ इति तृतीयपक्ष एवाभिमतो ॥ भाष्यटीकायां तु पक्षत्रयसाधारण्येनान्य इत्येव भाष्ये उक्तत्वेन तदनुसारात्तत्पक्षप्रापकपूर्वोत्तरटीकावाक्यानुसाराच्चोक्त-पक्षत्रयमप्यभिमतम् । अत एवैतच्च पक्षत्रयमित्यादिना टीकाऽभिप्रेतमित्यन्तेन ग्रन्थेन चन्द्रिकायां टीकाद्वयस्येत्थमेव तात्पर्यमुपवर्णितम् । तत्राभेदपक्षस्य टीकाद्वयाभिमतत्वस्याद्यपक्षद्वयस्य टीकाभि-प्रेतत्वस्य प्रतिपादनेनोक्तप्रकारस्यैव समर्पणादिति ध्येयम् । इन्द्रादिश्रुतिलिङ्गसद्भावेऽपि कुतोऽन्तः-स्थत्वमिन्द्रादेरित्यतः पूर्वाधिकरणन्यायसाम्यादित्याह अन्नं ब्रह्मेत्यादिश्रुत्येति । इन्द्रादिश्रुतिलिङ्गयो-रिन्द्रादेरन्तःस्थत्वनिर्णयासाधकत्वे ब्रह्मश्रुतिलिङ्गयोरपि न ब्रह्मत्वसाधकता स्यादिति भावः । नन्विन्द्रादिश्रुतिलिङ्गयोर्ब्रह्मश्रुतिलिङ्गयोश्च श्रुतिलिङ्गत्वाविशेषेऽपि युज्यते साधकत्वासाधकत्वव्यवस्था । इन्द्रादिश्रुतिलिङ्गयोः सावकाशत्वाद् ब्रह्मश्रुतिलिङ्गयोश्चोक्तरीत्या निरवकाशत्वात्कथमुक्तातिप्रसङ्ग इत्यत इन्द्रदिश्रुतेरपि निरवकाशत्वाविशेषात्साधकत्वमेवेत्याह न चेति ।

पदमज्ञातसन्दिग्धं प्रसिद्धैरपृथक् श्रुतिः ।

निर्णीयते निरूढं तु न स्वार्थादपनीयते ॥ इत्युक्तेरिति’ भावः ।

नन्वेवमन्यविषयरूढ्याश्रयणेनैवेन्द्रादित्वसिद्धेः किमधिकाशङ्काप्रदर्शनं भाष्य इत्यतो गतार्थता शङ्कामुत्थापयति ननूक्तमत्रेति । अल्पप्रवृत्तिनिमित्तत्वात्तत्सापेक्षत्वादित्यर्थः । अमुख्यतेत्यतः परं भगवति रूढेर्विद्वत्सम्बन्धित्वाद्योगस्य च निरवधिकापरतन्त्रप्रवृत्तिनिमित्तापेक्षत्वान्मुख्यतेति शेषः । ततश्चान्यरूढेर्भगवद्रूढितो योगमात्रस्य महायोगाद्दुर्बलत्वादिन्द्रादिशब्दानामपि महायोगविद्वद्रूढिभ्यां विष्णुपरत्वान्नेन्द्रादिश्रुत्यादिनाऽन्यस्य प्राप्तिरिति व्यर्थमिदमधिकरणमिति भावः । तत्परिहारकतया भाष्योक्तामधिकाशङ्कां दर्शयति सत्यमित्यादिना ॥ अन्नौषध्यादिपदार्थेष्विति । अन्नौषध्यादि-पदानामिति शेषः । अन्नौषध्यादिपदार्थेष्वित्यात्रैव तत्पदानामर्थेष्विति वा योजना द्रष्टव्या । न पुरन्दरादिषु इत्यतः परमिन्द्रियादिशब्दानामिति शेषः । तदित्यनुवर्तते ।

कुतो नेत्यतो महायोगस्य विद्वद्रूढेश्च तत्र सत्त्वादिति भावेन महायोगं तावदाह तत्रेति । ननु च खण्डाधिपतिष्वैश्वर्यादेरल्पतायाः परायत्ततायाश्च दृष्टत्वेनेन्द्रादिष्वप्यैश्वर्यादेरल्पतायाः पारतन्त्र्यस्य च सिद्धेः कथमिन्द्रादिशब्दप्रवृत्तिनिमित्तपरमैश्वर्यादेर्निरवधिकत्वापरायत्तत्वे इति कथं तत्र मुख्ययोगो अभिधीयत इत्यतस्तत्र प्रवृत्तिनिमित्तस्य परायत्तत्वाद्यनुमानस्य सोपाधिकत्वेनाभासत्वान्न तेन तत्सिद्धि रित्याशयेन यत्र प्रवृत्तिनिमित्तमल्पं परायत्तं च तत्राशक्तत्वमित्यशक्तत्वोपाधेः साध्यव्यापकत्व-मुपपदयति अशक्तेष्विति । न च खण्डाधीशत्वमेव तेषेमसिद्धमिति वाच्यम् । ‘खण्डाधीशाः सार्वभौमस्य यद्वद्ब्रह्मेशाद्याः’ इत्याद्यागमादेव तत्सिद्धेः । प्रकृतोपाधेः साधनाव्यापकत्वं सूचयन्नेव व्यापकव्यावृत्त्या तव्द्याप्यव्यावृत्तिसिद्धिं तत्फलं चाह देवास्त्विति । खण्डाधिपतिष्वपि तेष्वशक्तत्वा-भावात्साधनाव्यापकत्वमिति भावः । कथमेवं भवेयुः पराधीना अल्पप्रवृत्तिनिमित्तवन्तो भवेयुरित्यर्थः । तत्प्रयोजकस्याशक्तत्वस्याभावादत एव देवास्त्वप्रतिहतशक्तय इत्युक्तमिति भावः । ननु च खण्डाधि-पतित्वेनैवोक्तोपाधेरपि पक्षे साधनान्न साधनाव्यापकत्वं नापि तव्द्यावृत्त्या साध्यव्यावृत्तिसाधनो-पपत्तिरित्यतः पक्षे उक्तोपाधिसाधनस्य श्रुतिबाधितत्वान्नोक्तदोषद्वयमपीत्यशयेनाह तथा च श्रुतिरिति । नन्विन्द्रो वा इत्याद्युदाहृतश्रुत्येन्द्रस्य अप्रतिहतशक्तित्वसिद्धावपि त्वष्टृप्रजापत्यादीनां तदसिद्धेः कुतस्तेषामपराधीनानल्पप्रवृत्तिनिमित्तवत्त्वसिद्धिर् येन तत्र तच्छब्दादीनां महायोगः सिद्ध्येदित्यत आह एवंजातीयकेति । त्वष्ट्रादिष्वप्यप्रतिहतशक्तिबोधका श्रुतिर्द्रष्टव्येत्यर्थः ।

परिमल

ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ यथोक्तं भाष्य इति । ‘इन्द्रो राजेत्यादिभिरन्यः प्रतीयत’ इति ‘स च प्राणः प्रसिद्धेर्वायुरित्यापततीत्याद्युक्तेरि’ति भावः । इन्द्रत्वष्ट्रग्निसवितृबृहस्पति-प्रापकश्रुतीः क्रमेणाह इन्द्रो राजेत्यादिना । ब्रह्मेति प्रथमान्तं चतुर्मुखवाचि ‘तपसान्वविन्ददि’ति-वाक्यशेषस्थक्रिययान्वेति । सप्ताश्वत्वैकचक्ररथलिङ्गे आह सप्तेति ॥ इत्यादिश्रुत्येति । अन्नमयादि-प्रत्यायकान्नादिसमानाधिकरणब्रह्मश्रुत्येत्यर्थः । एतेन पूर्वसिद्धान्तन्यायेन पूर्वपक्षप्रवृत्तेः पूर्वेणा-स्याऽऽपवादिकी सङ्गतिरपि सूचिता । ननु तत्र श्रुतिलिङ्गान्येकं ब्रह्मैव निर्णाययन्ति । अत्र तु श्रुतिलिङ्गानि नानाकोटिप्रापकाणीति कथं निर्णयं कुर्युरिति चेन्न । ब्रह्मान्यत्वेन निर्णयकरणसम्भवात् । अत एव प्रागुतान्य इति संशयकोटिरुक्ता । तेषामेकत्वस्य वक्ष्यमाणत्वाच्चेति ध्येयम् ॥ तदन्नौष-ध्यादिपदार्थेषु स्यादिति । एतच्च सर्वभूतभौतिकाचेतनस्वभावस्येशाधीनत्वादिव्युत्पादनं वक्ष्यमाणा-काशनये व्युत्पत्स्यमानं हृदि कृत्वोक्तम् । न पूर्वनये सिद्धं कृत्वा । पूर्वत्राचेतनस्येशाधीनत्वा-साधनादुत्तराधिकरणपूर्वपक्षानुवादप्रसङ्गाच्च । तथैवाकाशनयचन्द्रिकोक्तेरिति ज्ञेयम् ।

यादुपत्यम्

॥ ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ यथोक्तं भाष्य इति । स चेन्द्रो राजा सप्त युञ्जन्तीत्यादिभिरन्यः प्रतीयत इति तत्रोक्तेरिति भावः ॥ अन्य इति ॥ तावत्प्राप्तमिति । अत्र यद्यपीन्द्रादिषु निर्धारित एक एवेति न पूर्वपक्षः । अनेकप्रापकसद्भावे निर्धारणायोगात् । तथाऽप्यनिर्धारितो यः कश्चिदिति वा सर्वेऽपीति वा पूर्वपक्षः । अत एवात्रान्य इत्येकवचनम् । उत्तरत्र चान्येषामित्यादिबहुवचनं श्लिष्टमिति ज्ञातव्यम् । न चाद्ये निर्धारणाभावे पूर्वपक्षस्य सन्देहादविशिष्टता । द्वितीये चान्यः प्रविष्टः शास्ता जनानामिति श्रवणेनानेकेश्वरापात इति वाच्यम् । अन्तस्थः परमात्माऽन्यो वेति सन्देहेऽन्य एवेकत्येकावधारणेन प्रवृत्तस्य पूर्वपक्षस्य सन्देहाद्विशिष्टत्वात् । सोऽन्य इन्द्र एवेत्यावधारणं तु नास्ति । इन्द्रादिप्रापकानां बलाबलानिश्चयात् । द्वितीयपक्षोक्तदूषणं तु न च स्वतन्त्रानवधिकैश्वर्यादिकमन्येषां विरुद्धमित्याशङ्कयेन्द्रादीनां परमेश्वरात्मकत्वादित्यादिना पूर्वपक्षी स्वयमेव परिहरिष्यतीति नात्र काचिदनुपपत्तिः । चन्द्रिकायां तु । इन्द्रादिषु निर्धारित एक एवेत्यपि पूर्वपक्ष एतत्सुधायामभिप्रेततया वर्णितः । ‘एतच्च पूर्वपक्षत्रयं सुधायामभिप्रेतमि’त्युक्तत्वात् । अनन्तराधिकरणसङ्गतिं सूचयितुमाह अन्नं ब्रह्मेत्यादीति । तथा चातीताधिकरणसिद्धान्तन्यायेनै-तदधिकरणपूर्वपक्षोत्थानादनन्तरताऽस्येति भावस् तदन्नौषध्यादीति । अनेन पूर्वाधिकरणवैषम्येन पूर्वपक्षोत्थानादप्यनन्तरसङ्गतिः सूचितेति ज्ञातव्यम् । त्वष्टृब्रह्मप्रजापत्यादिष्वपीदृशी श्रुतिरुन्नेयेत्याशये-नाह एवंजातीयकेति ।

वाक्यार्थरत्नमाला

ओम् अन्तस्तद्धर्मोपदेशाद् ओम् ॥ कथनमितीति । कथनमतो नानर्थकमिति शेषः ॥ कथनार्थत्वान्नानर्थकमिति यावत् । तत्सूत्रगतेति । तत्रेति शेषः । तस्योत्तरभाष्य इत्यर्थः ॥ शङ्काप्रसरैरपीति पाठः । मुलकोशानुसाराद्युक्तत्वाच्च । परिहारेऽपीति तु लेखक ॥ उक्तदूषणद्वयेति । सूत्रगतपदाद्यक्षराद्यर्थत्वाभावः । देवानामित्येतद्भाष्यखण्डवैय्यर्थ्यं चेति दूषणद्वयेत्यर्थः । आनन्द-मयाधिकरण इति शेष इति । पूर्वाधिकरण इत्येववक्तव्ये तत्स्यष्टीकरणार्थमान्देत्याद्युक्तम् । अप्रवृत्तेरिति । पूर्वपक्षस्येति वर्तते । उतान्य इति अन्यतीति च मूलेऽन्य इति बहुवचनान्तटीकायान्तु तत्तात्पर्यतया सर्वोऽपीति व्यवहृतम् । तत्वप्रकाशिकाचन्द्रिकयोरक्त अन्यः प्रतीयत इति भाष्यानुसारे-णेन्द्रियादिः स्यादिति इन्द्राद्यन्यतम इति चैकवचनं व्यवहृतमिति ज्ञेयम् । टीकाभिप्रेतत्वस्येत्यत्र टीकापदं तत्वप्रकाशिकामात्रपरम् । पदमज्ञातसन्दिग्धमिति । एतच्चप्रथमचतुर्थपादेऽपि वा नामधेयं स्यादित्युद्भिदधिकरणे वार्त्तिकम् । किमर्थमधिकाशङ्काप्रदर्शनं भाष्य इति पाठः । किमधिकेति लेखकम् ॥ बहुव्रीहिसमासमभिप्रेत्य तत्र यस्येत्युक्तसम्बन्धं दर्शयन् व्याचष्टे । तत्सापेक्षत्वादित्यर्थ इति । पदानामर्थेष्विति विग्रहाश्रयणेऽपि पदानामित्यस्यार्थपदेनैव सम्बन्धं प्राप्त्या पदानाममुख्यत्वमित्यर्थ-लाभायोग इत्यत उक्तं योजनेति । बुध्या विवेकेनार्थेषु पदानाममुख्यत्वमिति योजनेत्यर्थः । खण्डाधि-पतिष्विति । एतत्सामन्तादिष्विति वक्ष्यमाणमूललब्धार्थकथनम् । निरवधिकत्वापरायत्तत्व इतीत्यत्रेतिशब्दस्येत्यत इत्यर्थकत्वात्ततश्चेति लभ्यते । तथा च कथं निरवधिकत्वापरायतत्वे । ततश्च कथं तत्रेति विन्यासप्राप्तिरिति ज्ञेयम् । अनेनेन्द्रादयो ऽल्पपराधीनैश्वर्यादिमन्तः खण्डाधीशत्वादित्यनुमान-मुक्तं भवति । अत एवाह परायत्तत्वाद्यनुमानस्येत्यादि । यत्र प्रवृत्तीति । यत्राल्पपराधीन-प्रवृत्तिनिमित्तवत्वमित्यर्थः । वक्ष्यति च पराधीनाल्पप्रवृत्तिनिमित्तवन्त इति । इत्येव साध्यव्यापकत्व-मिति सम्बन्धः । खण्डाधीशत्वरूपहेत्वसिद्धेरेव दूषणत्वसम्भवे किमित्युपाधिपर्यन्तगमनमित्याशयेना-शङ्कते । न च खण्डेति । तत्सिद्धेरिति । ततश्च नासिद्धिचोदनं युक्तमिति भावः । तद्-व्याप्येति । अशक्तत्वव्याप्याल्पपरतन्त्रैश्वर्यादिमत्वस्य या व्यावृत्तिस्तत्सिद्धिरूपं व्यापकव्यावृत्तेः । फलं चाहेत्यर्थः। सूचनसमुच्चायाय चशब्दः । साधनाव्यापकत्वसूचनप्रकारं दर्शयति । खण्डेति । अत एवेति । एतादशयेनैवेत्यर्थः । इत्यत आह । एवं जातीयकेतीति अत्रैवं जातीयकेत्याहेति सम्बन्धः । इत्युक्तवानित्यर्थः । इत्यत उक्तम् एवं जातीयकेतीति पाठस्तु स्वरस एव ।