२४ अधिकरणार्थोपसंहारः

अतो नारायणो देवो निश्शेषगुणवाचकैः

अधिकरणार्थोपसंहारः

अतो नारायणो देवो निश्शेषगुणवाचकैः

सुधा

ननु सूत्रव्याख्यामुपक्रम्य परापव्याख्यानिराकरणमसङ्गतमिति चेन्न । स्वव्याख्यान-दार्ढ्यार्थत्वादिति भावेनाधिकरणार्थमुपसंहरति अत इति ।

अनुव्याख्यानम्

अतो नारायणो देवो निश्शेषगुणवाचकैः ॥

गुणिसामान्यवचनैरपि मुख्यतयोदितः ॥

अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः ॥

अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः ॥

गुणिसामान्यवाचिनां गुणवाचिनां च शब्दानां समन्वयाय प्रवृत्तेऽप्यधिकरणेऽधिकरणसिद्धान्त न्यायेन सिद्धमप्यर्थान्तरमुपसंहरति अध्यात्मगैश्चेति । अत एव नाधिकरणोपक्रमविरोध इति ।

शेषवाक्यार्थचन्द्रिका

ननु

अतो नारायणो देवो निश्शेषगुणवाचकैः ।

गुणिसामान्यवचनैरपि मुख्यतयोदितः ॥

इत्येतावतैवैतदधिकरणार्थोपसंहारसिद्धेस्तस्याधिकरणार्थोपसंहारत्वानुपपत्तेश्चाध्यात्मगैश्चे-त्याद्युत्तरवाक्यवैय्यर्थ्यमित्यत आनुषङ्गिकैतदधिकरणार्थोपसंहाररूपत्वान्न तस्य वैय्यर्थ्यमित्याशयेनोत्तर-वाक्यतात्पर्यमाह गुणिसामान्येति । ननु वाक्यस्यानुषङ्गिकार्थोपसंहारकत्वकल्पनमनर्थक’मतो नारायणो देवः’ इत्यादि पूर्ववाक्यस्येवास्याप्येतदधिकरणार्थोपसंहारत्वस्यैव सम्भवादित्यत आह अत एवेति । अध्यात्मगैरित्यादेरानुषङ्गिकैतदधिकरणार्थोपसंहारत्वादेवेत्यर्थः ॥ नाधिकरणोपक्रमविरोध इति । ‘गुणिसामान्यवाचिनां गुणवाचिनां च प्रथममाह देवः समन्वयमि’त्येतदधिकरणोपक्रमविरोधो नेत्यर्थः । तदुपक्रमानुसारेण गुणिसामान्यवाचिगुणवाचिशब्दसमन्वयस्यैवाधिकरणार्थत्वस्थित्याऽ- तादृग्रूपाध्यात्मगादिशब्दसमन्वयस्याधिकरणार्थत्वाभावास्यैव सिध्द्याऽवयात्मगौरित्यस्यैतदधि-करणार्थोपसंहारताया उक्तोपक्रमविरुद्धत्वेन कल्पयितुमशक्यत्वादुक्तरीत्या प्रकारान्तराश्रयणमेव युक्तमिति भावः ।

परिमल

अधिकरणसिद्धान्तन्यायेनेति । सिद्धान्तो हि स्वतन्त्रप्रतितन्त्राधिकरणा-भ्युपगमभेदेन चतुर्था । तत्र कस्यचिदर्थस्य सिद्धावनुषङ्गतः सिद्धोर्थोऽधिकरणसिद्धान्तः । यथा कर्तृसिद्धौ सार्वज्ञसिद्धिस् तेन न्यायेनेत्यर्थः । नन्वधिकरणोपक्रमे ‘गुणिसमामान्यवाचिनां गुणवाचिनां च प्रथममाह देवस्समन्वयं’ इत्यत्रैतदधिकरणसमन्वेतव्यशब्दविभाजकोपाधेरुक्तत्वादाध्यात्मिकादि- शब्दानां तदनाक्रान्तानामत्र समन्वये उपक्रमविरोध इत्यतो वक्ति अत एवेति । आध्यात्मिकादिशब्द समन्वयस्यानुषङ्गिकत्वादेव न गुणिसामान्यवाचिनामित्युपक्रमविरोध इत्यर्थः ॥

यादुपत्यं

नन्वधिकरणोपक्रमे ‘गुणिसामान्यवाचिनां गुणवाचिनां च प्रथममाह देवः समन्वयमि’त्यत्रैतदधिकरणसमन्वेतव्यशब्दविभाजकोपाधेरुक्तत्वादध्यात्मगादिशब्दानां च तदनाक्रान्ता नामत्र समन्वये तद्विरोध इत्यत आह अत एव नाधिकरणेति । अध्यात्मगादिशब्दसमन्वय-स्याधिकरणसिद्धन्तन्यायेन सिद्धत्वस्यात्रोक्तत्वादेवेत्यर्थः । तथा चोक्तोपाधिः साक्षादधिकरणार्थ-विवक्षयाऽध्यात्मादिवाचिशब्दसमन्वयस्तु आनुषङ्गिक एव प्रदर्शितोऽतो न विरोध इति भावः ।

वाक्यार्थरत्नमाला

तदधिकरणार्थेत्यत्र तच्छब्दोनोत्तरोक्ताध्यात्मगैश्चेत्यस्य परामर्शः ।