मृतावेव परित्यागः कृतो ह्यन्नमयस्य च
पराभिमताधिकरणशरीरनिरूपणम्
मृतावेव परित्यागः कृतो ह्यन्नमयस्य च
सुधा
एवमन्नमयादीनां पञ्चानामपि परब्रह्मत्वप्रतिपादनपरतया सूत्राणि व्याख्याय परेषा-मपव्याख्यां प्रत्यख्यातुमुत्तरोऽयं ग्रन्थसन्दर्भ आरभ्यते । तत्र मायावादिनोऽन्नमयादयः पञ्चापि कोशा इति मन्यमाना ब्रह्मपुच्छं प्रतिष्ठेत्यक्तस्य ब्रह्मणः स्वप्राधान्येन ज्ञेयत्वप्रतिपादकान्येतानि सूत्राणीति व्याचक्षते । तथा हि । अन्नमयादयश्चत्वारस्तावदन्नादिविकाराः कोशा एव । तथा च विकारार्थे मयट्प्रवाहे सत्यानन्दमय एवाकस्मादर्धचरतीयन्यायेन कथमेव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयते । मान्त्रवर्णिकब्रह्माधिकारादिति चेत् । अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गः । अन्नमया-दीनामन्तरस्यान्यस्य श्रवणादब्रह्मत्वमानन्दमयस्य तु तदभावाद्ब्रह्मत्वमिति चेन्न । तत्रापि सत्यं ज्ञानमनन्तं ब्रह्मेति प्रकृतस्य ब्रह्मणो ब्रह्मपुच्छं प्रतिष्ठेत्यानन्दमयाश्रयतयोक्तत्वात् । तद्विजिज्ञापयिषयै-वान्नमयादयः पञ्चापि कोशाः कल्प्यन्ते ।
नन्वन्नमयादीनामिवानन्दमयस्य पुच्छत्वेनोक्तं ब्रह्म कथं स्वप्रधानं स्यात् । न । स्वप्रधानतया प्रकृतत्वात् । न चानन्दमयावयत्वेनापि ब्रह्मणि ज्ञायमाने प्रकृतत्वं न हीयते आनन्दमयस्य ब्रह्म-त्वादिति वाच्यम् । तथा सति तदेवावयव्यवयवश्चेत्यसामञ्जस्यप्रसङ्गात् । अन्यतरपरिग्रहे च पुच्छ-स्यैव ब्रह्मत्वं युक्तम् । ब्रह्मशब्दश्रवणात् । न त्वानन्दमयस्य तत्र ब्रह्मशब्दाश्रवणात् । असन्नेवेति श्लोकस्य ब्रह्मपुच्छमित्युक्तब्रह्मविषयत्वात् । न ह्यत्रानन्दमयोऽन्वाकृष्यते । किन्तु पुच्छतयोक्तं ब्रह्म स्वप्रधानतया । न चानन्दमयस्यानुभवसिद्धस्य भावाभावशङ्का युज्यते । कथं तर्हि पुच्छत्वोक्तिः । पुच्छवत्पुच्छमित्याश्रयार्थत्वात् ।
किञ्चानन्दमयस्य प्रियाद्यवयवयोगशारीरत्वाभ्यां सविशेषत्त्वाद्ब्रह्मणोऽपि सविशेषत्वप्रसङ्गः । निर्विशेषं च ब्रह्म । वाङ्मनसागोचरत्वश्रुतेः । मयटः प्राचुर्यार्थत्वेऽप्यानन्दप्रचुर इत्युक्ते दुःखाल्प-त्वमपि गम्यते । प्राचुर्यस्य लोके प्रतियोग्यल्पतासापेक्षत्वात् । न च ब्रह्मणि दुःखं सम्भवति । किञ्च प्रियादीनां प्रतिशरीरं भेदेनानन्दमयस्यापि भेदे ब्रह्मणोऽपि प्रतिशरीरं भेदः प्रसज्येत । न च तद्युक्तम् । अनन्तत्वश्रुतेः । न चैवं भार्गवी वारुणी विद्या विरुद्ध्येत । तत्र मयटोऽश्रवणेन भिन्न-विषयत्वात् । एतमानन्दमयमात्मानमिति चान्नमयादीनामिवानन्दमयस्यातिक्रमणीयतयोक्तस्या-ब्रह्मत्वात् । अन्ते मयटः श्रवणेन पूर्वमपि तदध्याहारे पूर्वमपि नानन्दमयो ब्रह्मास्तु । ब्रह्मज्ञानार्थि-नस्तु तदुपदेशो द्वारतयोपपन्नो भविष्यतीति ।
शेषवाक्यार्थचन्द्रिका
अन्नादिविकारा इति । अन्नरसविकारो देहोऽन्नमयः । यथा हि घटा-वच्छिन्नाकाशो घटविकारस्तथा प्राणाद्युपाध्यवच्छिन्न आत्मा प्राणादिविकार इति विवेकः। प्राणोपाधि- रात्मा प्राणमयो मनोमयस्तदुपाधिरात्मा विज्ञानमयो विज्ञानोपाधिरात्मा विज्ञानविकार इति विवेकः । यद्वा । भृगुवल्युक्ताधिदैविकान्नादीन्प्रत्याध्यात्मिकान्नादिकोशानां विकारत्वाभिप्रायेणान्नादि- विकारत्वोक्तिरिति ध्येयम् ॥ तथा चेति । मयट् चेति सूत्रान्मयट्शब्दो विकारे श्रुत इति वक्तुं विकारार्थे मयडित्युक्तम् । विकारप्रकरणं प्रकटयितुं प्रवाहपदम् । प्रियाद्यवयवत्त्वस्य विकारार्थत्वे लिङ्गत्वात् प्राचुर्यार्थत्वे त्वभावान्मयटो न तदर्थतेत्याह आनन्दमय एवेति । एकस्यैव मयटोऽर्थद्वयं नेत्यत्र दृष्टान्त-माह ॥ अर्धेति । केनचित्पाशुपतेन सर्वजरत्या योषितोऽनुपभोग्यत्वात्सर्वतरुण्याश्च वृद्धे मय्यरुचि-प्रसङ्गादर्धजरत्यानयने दूतः प्रेषित इति लोकप्रवादोऽर्धजरतीशब्दनोच्यते । छप्रत्ययेन चोपमानोमय-भावरूपः सम्बन्ध उच्यते । तथा च तत्प्रवादतुल्यप्रवादानुपपत्तेरित्यर्थः । श्रुतिलिङ्गप्रकरणविरोधेन प्राचुर्यार्थत्वे मयटो दृष्टान्तोऽपि नास्तीत्याह कथमिवेति । विकारार्थत्वे च निश्चिते वाक्यस्य न ब्रह्मार्थतेत्याह ॥ ब्रह्मविषयत्वं चेति । कथंशब्दस्य प्रश्नार्थतामुपेत्य प्रकरणेन प्राचुर्यार्थत्वादिसिद्धिरिति शङ्कते मान्त्रवर्णिकेति । न प्रकरणमात्रं नियामकमतिप्रसक्तेरित्याह नेति । लिङ्गेन प्रकरणबाधात्तेषा-मब्रह्मत्वमित्याशङ्कते आनन्दमयादीनामिति ॥ अन्तरस्यान्यस्य श्रवणादिति । अन्योऽन्तर आत्मा प्राणमयोऽन्योऽन्तर आत्मा मनोमयोऽन्योऽन्तर आत्मा विज्ञानमयोऽन्योऽन्तर आत्माऽऽनन्दमय इत्युक्तेरिति भावः ॥ तदभावादिति । आनन्दमयादन्तरस्यान्यस्याश्रवणादित्यर्थः ॥ ब्रह्मत्वमिति । अन्यथा प्रकृतहानाप्रकृतस्वीकारप्रसक्तेरिति भावः । पुच्छवाक्ये आनन्दमयादप्यन्यस्य पुच्छब्रह्मणो अन्तरस्य प्रतिष्ठापदेनोक्तेरन्नमयादीनामिवानन्दमयस्माप्यब्रह्मत्वमेवेत्याह तत्रापीति । यदुक्तमानन्द-मयस्याब्रह्मत्वे प्रकृतहानमप्रकृतक्रिया चेति तत्परिहरति तद्विजिज्ञापयिषयैवेति । यद्वा । अन्येत्यानन्द-मयस्याब्रह्मत्वे तदुक्तिवैय्यर्थ्यमित्यतोऽन्नमयादिवत्पुच्छज्ञानार्था तदुक्तिरित्याह तद्विजिज्ञापयिषयैवेति ।
पुच्छश्रुतिविरोधान्न तस्य स्वप्रधानार्थतेति शङ्कते नन्विति । पुच्छशब्दस्यात्रावयवार्थत्वमेव कुत इत्यतस्तत्प्रकरणादन्यथा तद्विरोधादित्याशयेनोक्तम् ॥ अन्नमयादीनामिवेति । स्वप्रधानब्रह्माधिकाराद् ब्रह्मशब्दोक्त्यैव तत्प्रत्यभिज्ञाने पुच्छशब्दविरोधे सत्येवास्मिन्वाक्ये प्रथमचरमश्रुतशब्दयोराद्यस्यानुप-सञ्जातविरोधिनो बलीयस्त्वात्पुच्छत्वेन प्राप्तगुणत्वबाधया स्वप्रधानब्रह्मधीरित्याह नेति । किं प्रकृतं स्यादित्याशङ्कते न चेति । किं प्रकृतं ब्रह्मानन्दमयवाक्ये पुच्छवाक्ये चोच्यते किं वैकत्रेति विकल्पं मनसि निधायाद्यं दूषयति तथा सतीति । अवयवावयविभावस्य कल्पितत्वेऽप्यन्नमयादिष्वेकत्र गुणप्रधानत्वायोग इति भावः । द्वितीयं दूषयति अन्यतरपरिग्रहे चेति । अन्यतरस्मिन्वाक्ये ब्रह्मोक्तिस्वीकारे सतीत्यर्थः ।
नन्वसद् ब्रह्मेति वेद चेदस्ति ब्रह्मेति चेद्वेदेत्यानन्दमयेऽपि ब्रह्मशब्दश्रवणादुभयत्र ब्रह्मशब्दश्रवणे कतं पुच्छस्य ब्रह्मत्वमानन्दमयस्याब्रह्मत्वमुच्यत इत्यतः श्लोकस्य पुच्छविषयत्वेनानन्दमयाविषयत्वान्न तत्र ब्रह्मशब्दश्रवणामिति नानन्दमयस्य ब्रह्मत्वप्राप्तिरित्याह असन्नेवेति श्लोकस्येति । आनन्दमय-परित्यागेन कुतः श्लोकस्य पुच्छविषयत्वकल्पनम् । श्लोकोक्तभावाभाववेदनयोर्गुणदोषेक्तेः पुच्छब्रह्म-विषयत्वे सम्भवादानन्दमयब्रह्मविषयत्वे चासम्भवात्पुच्छब्रह्मविषयत्वमेव कल्पनीयमित्याह न हीति । आनन्दमयब्रह्मणोऽपि भावाभाववेदनयोर्गुणदोषोक्तेरुपपत्तेः कथमानन्दमयब्रह्मविषयत्वे तदनुपपत्ति-रित्यत आह न चानन्दस्येति ॥ अनुभवसिद्धस्येति । प्रियमोदादिविशेषत्वादानन्दमयस्य सर्वलोकानु-भवसिद्धत्वमिति भावः । पुच्छवाक्ये ब्रह्मशब्देन स्वप्रधानोक्तौ पुच्छशब्दस्य का गतिरिति पृच्छति कथं तर्हीति । प्रतिष्ठाशब्दविरोधात्पुच्छशब्दस्य तत्र मुख्यवृत्त्यसम्भवेऽपि पृथिव्यादिपुच्छेष्वाधारत्वादृष्ट्या ब्रह्मण्यपि सर्वाधारे लक्षणया पुच्छपदमुपपन्नमित्याह पुच्छवदिति ॥ प्रियाद्यवयवेति । तस्य प्रियमेव शिर इत्यादिना प्रियाद्यवयववत्त्वस्य तस्यैष एव शारीर आत्मा यः पूर्वस्येति शारीरत्वस्य च श्रवणा-दित्यर्थः । सविशेषत्वादित्यतः परमानन्दमयस्य ब्रह्मत्व इति शेषः । इष्टापत्तिं परिहरति निर्विशेषं चेति । तत्कुत इत्यत आह वाङ्मनसागोचरत्वश्रुतेरिति । यतो वाचो निवर्तन्तेऽप्राप्य मनसा सहेति वाङ्कनसागोचरत्वश्रुतेरित्यर्थः । एवं मयटो विकारार्थत्वेन प्राचुर्यार्थत्वाभावान्नानन्दमये ब्रह्मविषयत्व-माश्रयितुं युक्तमित्युक्तम् । इदानीमस्तु मयटः प्राचुर्यार्थत्वं तथाऽपि नानन्दमये ब्रह्मविषयत्वमाश्रयितुं युक्तमित्याह मयट इति ॥ प्राचुर्यस्येति । समानाधिकरणस्य प्रकृत्यर्थप्रतियोग्यल्पत्वसापेक्षत्व-नियमादित्यर्थः । ब्राह्मणप्रचुरो ग्राम इत्यादौ समानाधिकरणस्य विजातीयशूद्रादेरल्पत्वेन प्राचुर्यस्य लोके दर्शनादिति भावः । अतिमधुरे रुच्यर्थं रसान्तरानुवेधवदानन्देऽपीत्युत्कर्षार्थमीषद्दुःखानुषक्ति-रिष्टैवेत्याषङ्क्याह न चेति ।
किञ्चेति । प्रतिदेहं प्रियादीनां सातिशयत्वेनानन्दमयस्यपि सातिशयत्वाद् ब्रह्मणोऽपि प्रतिशरीरं सातिशयत्वप्रसङ्ग इत्यर्थः । इष्टापत्तिं परिहरति न चेति ॥ अनन्तत्वश्रुतेरिति । सत्यं ज्ञानमनन्तं ब्रह्मेत्यनन्तत्वश्रुतेरित्यर्थः । भृगुवल्लीसमाख्यानादन्नमयादीनां ब्रह्मत्वमित्यशङ्क्य पूर्वानुवाकेऽन्नमयादि-शब्दानां श्रवणादुत्तरानुवाके मयट्प्रत्यहीनानामन्नादिशब्दानामेव श्रवणाच्छब्दभेदे च निमित्तभेद-स्याभिधेयभेदस्य चावश्यकत्वेन भिन्नविषयत्वान्न समाख्याऽत्रस्तीत्याह न चेति । नन्वेतमानन्दमय-मात्मानमुपसङ्क्रामतीति ब्रह्मविद आनन्दमयप्राप्तिश्रवणादानन्दमयस्य चाब्रह्मत्वे तदयोगादानन्दमयस्य ब्रह्मत्वमिति चेत् । तर्ह्येतमन्नमयमात्मानमुपसङ्क्रमतीत्यन्नमयादीनामपि ब्रह्मविदः प्राप्तिश्रवणा-न्यथाऽनुपपत्त्या ब्रह्मत्वप्रसङ्गेनान्नमयादीनामब्रह्मत्वमङ्गीकृत्यानन्दमयस्यैव ब्रह्मत्वाङ्गीकारायोगात् । न चान्नमयमात्मानमुपसङ्क्रामतीत्यत्रोपसङ्क्रमशब्दस्यातिक्रमार्थत्वादन्नमयादीनामतिक्रममात्राभिधानेऽपि प्राप्तेरनभिधानान्नोक्तानुपपत्तिरिति वाच्यम् । तथा सत्यानन्दमयमात्मानमुपसङ्क्रामतीत्यत्रापि तदर्थ-त्वापत्त्या ब्रह्मविदस्तत्प्राप्तिश्रवणासिद्धेर्नानन्दमयस्यापि ब्रह्मत्वमित्याशयेनाह एतमानन्दमयमात्मान-मिति चेति । ननूत्तरानुवाकोक्तस्यानन्दस्यानन्दो ब्रह्मेति व्यजानादिति ब्रह्मशब्दश्रवणादिना ब्रह्म-त्वादन्नप्राणमनोविज्ञानान्तरं श्रुतेनानन्देनान्नमयप्राणमयमनोमयविज्ञानमयानन्तरं श्रुतस्यानन्दमयस्य स्थानप्रमाणेनाभेदादानन्दमयस्य ब्रह्मत्वमस्त्विति चेत् । तर्ह्युत्तरानुवाकोक्तान्नदीनामप्यन्नं ब्रह्मेति व्यजानादित्यादिब्रह्मश्रुत्या ब्रह्मत्वेनोत्तरानुवाकोक्तान्नप्राणमनोविज्ञानैः पूर्वानुवाकोक्तान्नमयप्राणमय- मनोमयविज्ञानमयानां स्थानप्रमाणेनाभेदादन्नमयादीनामपि ब्रह्मत्वस्य स्वीकर्तव्यतयाऽर्धजरतीया-योगात् । न चान्ते एतमन्नमयमात्मानमुपसङ्क्रम्येति मयट्प्रत्ययश्रवणेन उत्तरानुवाकोक्तान्नादीना-मन्नमयादित्वमेवेत्यब्रह्मत्वप्राप्तेर्न तत्स्थानप्रमाणेन पूर्वानुवाकोक्तानन्दमयस्यापि ब्रह्मत्वप्राप्तिरिति वाच्यम् । तर्हि तत एवोत्तरानुवाकोक्तानन्दस्याप्यानन्दमयत्वेनाब्रह्मत्वप्राप्त्या न तत्स्थानप्रामाण्येन पूर्वानुवाकोक्तानन्दमयस्यापि ब्रह्मत्वप्राप्तिरित्याशयेनाह अन्ते मयटः श्रवणेनेति । ननु ब्रह्मज्ञानार्थिन-स्तदुपदेशान्यथाऽनुपपत्त्या आनन्दमयस्य ब्रह्मत्वमेवेत्यभिप्राय इति चेत् । तर्हि तत एवान्नमयादीनामपि ब्रह्मत्वप्रसङ्गेनार्धजरतीयानुपपत्तेस्तादवस्थ्यात् । न च ब्रह्मज्ञानार्थिनो नान्नमयाद्युपदेशो अनर्थको ब्रह्मज्ञानोपायत्वेन द्वारतया तदुपपत्तेरिति वाच्यम् । तथा सत्यानन्दमयस्यापि ब्रह्मज्ञानार्थिनं प्रत्युप-देशानुपपत्तेः पुच्छब्रह्मज्ञानोपायत्वेन द्वारतया तदुपपत्तेरिति नोक्तयुक्त्याऽप्यानन्दमयस्य ब्रह्मत्व-सिद्धिरित्याशयेनाह ब्रह्मज्ञानार्थिन इति ।
परिमल
श्रोतृबुद्धिसौकर्यायाह एवमिति । तद्विजिज्ञापयिषयेति तज्ज्ञापयामीतीच्छयेत्यर्थः ॥ अन्नमयादीनामिवेति । अन्नमयादिषु पुच्छत्वेनोक्तं पृथिव्यादिकं यथा न प्रधानं तथेत्यर्थः । निषेधति नेति । आनन्दमयस्य पुच्छत्वेन कथनं नोपेयत इत्यर्थः । तत्र हेतुमाह स्वप्रधानतया प्रकृतत्वादिति । ननु ‘तदप्येषश्लोको भवति’ । ‘असन्नेव स भवती’त्युक्तश्लोकस्यान्नमयादिप्रकरणोष्विवानन्दमय-प्रकरणेप्यानन्दमय विषयत्वात्कथं तत्रत्यब्रह्मशब्दस्य पुच्छे श्रवणम् आनन्दमये त्वश्रवणमित्यतः पूर्वप्रकरणचतुष्टयोक्तश्लोकचतुष्टयस्यान्नमयादिविषयत्वेप्यत्रानन्दमयप्रकरणे कथितश्लोकस्य पुच्छ-विषयत्वमेवोपयते । अतो नोक्तहेतुद्वयमसिद्धमिति भावेनाह असन्नेवेति ॥ अत्रेति । श्लोक इत्यर्थः । श्लोकस्यानन्दमयविषयत्वे बाधकं चाह न चानन्दस्येति । आनन्दमयशब्देनोक्तानन्दस्य ‘असन्नेव स भवतीति सन्तमेनं ततो विदु’रिति तदेतच्छब्दाभ्यां परामर्शेनासच्छब्दसच्छब्दाभ्यामुक्तावभावभावौ न युक्तौ भावाभावशङ्काया एवायोगादित्यर्थः । कथं तर्हीति । स्वप्रधानत्व इत्यर्थः ॥ प्रियाद्यवयवयोग-शारीरत्वाभ्यामिति । ‘तस्य प्रियमेव शिर’ इत्यादिना प्रिया(द्य)वयवयोगः । ‘तस्यैष एव शारीर आत्मे’त्यादिनाऽऽनन्दमयस्य विज्ञानमयः शरीरमुच्यते । इदं च स विशेषब्रह्मणि सम्भवति न निर्विशेष इति भावः ॥ वाङ्मनसेति । ‘यतो वाचो निवर्तन्त’ इत्यादिश्रुतेरित्यर्थः ॥ अनन्तत्वश्रुतेरिति । ‘सत्यं ज्ञानमनन्तं ब्रह्मे’तिश्रुतानन्तत्वस्य देशकालवस्त्वपरिच्छेदरूपत्वेन भेदविरोधादिति भावः ॥ न चैवं भार्गवीति । आनन्दमयस्थानापन्नस्य ‘आनन्दो ब्रह्मेति व्यजानादि’त्युक्तस्य ब्रह्मत्वेनोपगमादि-हानन्दमयस्याब्रह्मत्वे तद्विरोध इति नेत्यर्थः । प्राप्यस्थले मयट्श्रवणमस्तीत्यत आह एतमिति ॥ अतिक्रमणीयतयेति । उपशब्दस्यातिक्रमणार्थत्वोपगमादिति भावः ॥ द्वारतयेति । अरुन्धतीज्ञानार्थं स्थूलतारोपदर्शनमिवेति भावः ।
यादुपत्यम्
आनन्दमयाश्रयतयेति । तथा चात्र पुच्छपदमाश्रयलक्षकमिति भावः ॥ नन्वन्न-मयादीनामिवेति । अन्नमयादिप्रकरणेष्वन्नमयादिपुच्छ- त्वेनोक्तानि यथा न स्वप्रधानानि तथेत्यर्थः ॥ भावाभावशङ्केति । ‘‘अस्ति ब्रह्मेति चेद्वेद । असद्ब्रह्मेति वेद चेत्’’ इति वाक्योक्तेत्यर्थः ॥ प्रियाद्य-वयवयोगशरीरत्वाभ्यामिति । ‘तस्य प्रियमेव शिरः’ इत्यादिनाऽऽनन्दमयस्य प्रियाद्यवयवयोगः कथ्यते । तथा ‘तस्यैष एव शारीर आत्मा यः पूर्वस्ये’त्यनेन तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इति विज्ञानमयशरीरत्वमुच्यते । तद् इदं च सविशेषे सम्भवति न निर्विशेष इति भावः ।
श्रीनिवासतीर्थीया
तर्ह्यानन्दमयस्य ब्रह्मत्वसमर्थनपरतया प्रतीयमानानां सूत्राणं कोऽभिप्राय इत्यत आह ब्रह्म पुच्छं प्रतिष्ठेत्युक्तस्येति ॥ स्वप्राधान्येनेति । स्वयं प्रधानत्वेनैव । न त्वानन्दमया-वयवत्वेनेत्यर्थः । अन्तरस्यान्यस्य श्रवणरूपस्याब्रह्मत्वसाधकस्यानन्दमयेऽभावेऽप्यन्यद्बाधकं तत्र भविष्यतीत्याह तत्रापीति ॥ आनन्दमयाश्रयतयेति । आनन्दमयं प्रत्याश्रयतयेत्यर्थः । तथा चान्याश्रितस्यानन्दमयस्य परब्रह्मत्वं न सम्भवतीति भावः ॥ तदिति । आश्रयतयोक्तब्रह्मेत्यर्थः ॥ प्रकृतत्वादिति । ब्रह्मावेदाप्नोति परम् । सत्यं ज्ञानमनन्तं ब्रह्मेति वाक्येनेत्यर्थः । प्रकृतत्वं स्वप्राधान्येन प्रकृतत्वम् ॥ आनन्दमयस्येति । तथा चावयवावयविनोरभेदादवयविनो ब्रह्मत्वेऽवयवस्यापि ब्रह्मत्वं प्राप्तमिति भावः । तथा च ब्रह्मविदाप्नोति परमित्यादिना प्रकृतत्वं किमर्थमुपपादनीयमिति हृदयम् । असामञ्जस्येति । विरोधादिति भावः । ननु विरोधादेकस्य ब्रह्मत्वेऽङ्गीकार्ये आनन्दमयस्यैव तत्कस्मान्न स्यादित्यत आह अन्यतरेति । नन्वसन्नेवेति श्लोकेऽस्त्यानन्दमये ब्रह्मशब्द इत्यत आह असन्नेवेति । अत्र श्लोके ॥ तर्हिति । स्वप्रधानतया ब्रह्मणो ज्ञेयत्वे सतीत्यर्थः । पुच्छत्वेति । पुच्छत्वोक्त्याऽप्राधान्यं प्राप्तमिति भावः ॥ आश्रयेति । तथा च प्राधान्यमेवेति भावः ॥ प्रतियोगीति । स्वसमानाधिकरण-स्वनिरूपकविजातीयरूपप्रतियोगीत्यर्थः ॥ अनन्तत्वेति । वस्तुतः परिच्छेदाभावस्यानन्दशब्दार्थ-त्वात्तस्य चाभेदरूपत्वादनन्तशब्देनाभेद उक्त इत्यर्थः । अन्ते प्राप्यतयोक्तिस्थाने ॥ पूर्वमपीति । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमित्यत्र विज्ञानं ब्रह्मेति व्यजानात् । आनन्दो ब्रह्मेति व्यजानादिति पूर्व-वाक्येऽपीत्यर्थः । पूर्वमपि एतद्वाक्येऽपि ॥ नानन्दमय इति । विकारार्थमयट्प्रत्ययबलादन्नमयादिवदिति भावः । ननु तस्याब्रह्मत्वे ब्रह्मज्ञानार्थिनो भृगोस्तदुपदेशोऽसङ्गत इत्यत आह ब्रह्मेति ॥
वाक्यार्थरत्नमाला
कुतो ब्रह्मणः स्वप्राधान्येन ज्ञेयत्वप्रतिपादकानि । एकदेशमतमालंब्य तैत्तरीयकेऽन्नमय इत्यारभ्य तस्मादानन्दमयः परमात्मेति स्थितमित्यन्तभाष्योक्तरीत्या अन्नमयादि चतुर्णां ब्रह्मत्वेति । आनन्दमस्य ब्रह्मत्वमेवेत्येतदर्थपरतया कुतो न व्याख्यायते । इत्यतोऽन्नमयादीना-मिवानन्दमयस्यापि ब्रह्मत्वानुपपत्तेर्न तत्परतया सूत्रयोजना सम्भवतीति वक्तुम् आनन्दमयस्यापि ब्रह्मत्वमनुपपन्नमिति प्रतिजानीते । तथाह्यन्नमयादय इति मूलेन । सांकरभाष्यव्याख्यानरूपानन्द-गिर्यनुसारेण व्याचष्टे । अन्नरसविकार इत्यादिना । अनेनान्नरसमयत्वं मुख्यमेवेति सूचयति । प्राणाद्युपाधीत्युक्तार्थे दृष्टान्तकथनं यथाहीति । अत्राहेत्यादि पूर्वग्रन्थे स्पष्टमेतत् । विकारो हि द्विप्रकारः। कश्चिच्छुक्तिरूप्यादिः स्वरूपेणाध्यस्तः । कश्चित्तु प्रतिबिम्बघटाकाशादि विपाधितो विभक्तस्तत्र प्राणाद्युपाधिविभक्त आत्मा तद्विकारीति कल्पतरुक्तरीत्या विवेको व्याख्येयः । प्राणाद्युपाधीत्युक्तं विशदयति । प्राणोपाधिरात्मेति । प्राणमय इत्यनन्तरं प्राणाविकार इति तदुपाधिरात्मेत्यनन्तरं मनोविकार इति शेषमभिप्रेत्यैवान्ते विज्ञानविकार इत्यप्युक्तं प्राण उपाधिर्यस्येत्यादि विग्रहः । प्राणा-द्युपाध्यवच्छिन्नो ह्यात्मा भवति प्राणादि विकार इति । भामत्यनुसारेण विकारत्वोक्तिमुपपाद्य अन्नमयं शरीरमनात्मामत्यन्त मूढानामात्मत्वेन प्रसिद्धिमनूद्य मूषानिषक्तद्रुततार्म्रादि प्रतिपावत् ततोन्तरं ततोन्तरमित्येवं पूर्वेण पूर्वेणसमानमुत्तरमनात्मानमात्मेति याह यन् इत्यादि भाष्यानुसारेण व्याचष्टे । यद्वा भृगुवल्युक्तेति । आत्मन आकाश इत्यादिभ्यः प्रकृतिविकारोपदेशकेभ्यः पूर्ववाक्येभ्यो विकारार्थस्य बुद्धिसन्निहितत्वाद् भृगवल्युक्ताधिदैविकान्नादि यथासङ्ख्याम्नानेनाध्यात्मिकेषु तद्विकार-त्वोक्तिः प्रतीयत इति भावः । प्राचुर्यार्थत्वे तु हेत्वभावादिति पाठः । इतःपरमानन्दगिर्यनुसारेण प्रायो भाष्यव्याख्यानम् । स्मृतिपादस्थविरोधत्वे न पक्षं स्यादित्येतदधिकरणीये
ते नासौ यदि वानैकक्वचिदस्ति प्रमाणता ।
सर्वत्राग्रहतावाक्यान्नत्वर्धजरतीयता ॥
इत्येतद्वार्त्तिकव्याख्यानरूपराणकोक्तरीत्यान्यायार्थमाह । केनचित्पाशुपतेनेति । प्रवादतुल्य-प्रवादेनेत्यर्थ इति पाठः । गुरुर्गुरूणां प्रभवरत्येतद्भाष्यमूलं गतार्घजरतीयानुपपत्तेरित्येतद्-व्याख्यान-स्थन्यायशरीरं लेख्यमित्याज्ञत्पेन शिष्येणानुपपत्तेरित्यधिकांशस्यापि लिखनात् । अत्र च प्रवादरूप-न्यायेनेत्यस्या श्रीयत इत्यनेनान्वयात् । इदं चार्धजरतीयेति मूलपाठपक्षे । यदिचार्धचरतीयेति पाठस्तदा-ग्रहैकत्वाधिकरणस्थश्रुतशब्दाभिधेयानां नार्थानां युगपत्तथाग्रहणाग्रहणं युक्तमर्धकुक्कुटिपाकवदित्ये-तद्वार्त्तिकव्याख्यानरूपराणके सदसत्वात् श्रुताश्रुतत्वकल्पनैकस्य विरोधान्न समीचीनेत्युक्ते श्रुतस्यापि-शब्दस्य कश्चिदर्थो विधिना गृहीष्यते कश्चिन्नेत्युक्तम् । तथा शब्दातिदिष्टं विरोधं द्रढयितुमर्धकुक्कुद्धाः पच्यतामर्धं प्रसवाय ध्रीयतामिति लोकप्रवादाय्या यतं पाशुपतवाक्यं नैकस्य वस्तुनोऽर्धचरतीयम् । कथमनेन कुक्कुट्या वा अर्धपाकः प्रसवायार्धधारणमिति वार्तिकालोचनया दृष्टान्तितं गम्यत इत्यर्ध-चरतीयमुपपादितम् । तत्प्रकारेण चरतीयेति पाठो व्याख्येयः । तथाचार्धचरतीशब्देनार्धपाकादिलोक-प्रवादस्य छप्रत्ययेन चोपमानोपमेयभावरूपसम्बन्धस्य प्रतिपादनादुक्तप्रवादतुल्यप्रवादेनेत्यर्थलाभ इत्यप्युपलक्षणयाज्ञेयम् । अनिर्वचनीयासिद्धेरेवानुमानस्याप्यसिद्धिरित्येतत्तत्वोद्योतटीकास्थार्धचरतीयानु-पपत्तेरित्ये तद्वाक्यव्याख्यावसरे टीकाकृतान्यायद्वयस्यापि पक्षभेदमाश्रित्योपपादनादिति ज्ञेयम् ।
एवं श्रुतिलिङ्गप्रकरणविरोधेनेत्यनन्तरं प्राचुर्यार्थत्वं निरस्य तदर्थत्वे मयट इति पाठः । श्रुतिर्मयटः । लिङ्गप्रियादियोगवत्वम् । प्रकरणं विकारस्य । त्रयस्यापि प्रागुपपादनात् । कथंशब्दस्येति । कथमिवेति पूर्ववाक्ये दृष्टान्ताभावपरतया कथंशब्दो व्याख्यातः । इदानीं तु प्रश्नार्थत्वमङ्गीकृत्येवेत्यस्य कथं पुनरित्यादाविवालंकारार्थत्वमङ्गीकृत्य साधकप्रश्नपर्यवसानमिति योजनान्तरमप्यभिप्रेतम् । अत एव प्रश्नानुसारेण साधकमाशङ्कत इत्यर्थः । इत्याह नेतीति । इदं च इति चेदित्यनन्तरं नेत्यस्य प्रसङ्गपदे च प्रसङ्गादिति पञ्चम्यंततया च पाठपक्षे । नशब्देनसरहिते पञ्चम्यंततया विना प्रसङ्ग इति । प्रथमांततया च पाठे तु अन्नमयादीनामितीत्येव प्रतीकमुपादेयम् । नेत्यस्याध्याहारः प्रसङ्गादिति विभक्तिव्यत्यासश्च व्याख्येय इति भावेनायं टीकाग्रन्थ इत्यप्याहुः । लिङ्गेनेति । तस्य प्रकरणाद्बलवत्वादिति भावः । अन्नमयादिवत्पुच्छेति । अनेनान्नयादय इत्यत्र बुध्या विवेकेन पूर्वचतुर्णां तत्वेनोपादानमिति सूचयति । तस्य स्वप्रधानेति । स्वप्रधानश्चासावर्थश्च स्वप्रधानार्थस्तस्य भावस्तत्ताब्रह्मणः प्रकृतत्वे तच्छब्दस्यापि प्रकृतत्वाद्ब्रह्मशब्दस्य परामर्श इत्यप्याहुः । अन्नमयादीनमिवेतीति । अनेनान्नमयादीनामित्यनन्तरं पुच्छमित्यध्याहार्यम् । तथा पुच्छमिवेति संपद्यत इति दृष्टान्तदार्ष्टान्तिकानुगुणतेति बोध्यम् । तथैतत्प्रत्यभिज्ञान इति । स्वप्रधानत्वेन ब्रह्म प्रत्यभिज्ञाने सतीत्यर्थः । प्रथमचरमेति । ब्रह्मशब्दः प्रथमश्रुतः पुच्छशब्दश्चरमश्रुतस्तयोर्मध्ये ब्रह्मशब्दस्यासंजातविरोधित्वेन बलीयस्त्वादियः पुच्छत्वेन प्राप्तं यद्गुणत्वं तद्बाध इति योजना । न हीत्येतद्-व्यावर्त्याशङ्कादर्शयन्परिहाराभिप्रायं च दर्शयति । आनन्दमयपरित्यागेनेत्यादिना । तत्र कल्पनमित्यन्तेन शङ्काप्रदर्शनम् । श्लोकोक्तेत्यादिः कल्पनीय-मित्यन्तः परिहारः । भावाभाववेदनयोरिति । सत्वासत्ववेदनयोरित्यर्थः । पुच्छब्रह्मेत्यत्र पुच्छत्वेनोक्तं यद्ब्रह्मेति योज्यम् । सान्तरेति । रुच्युत्पादकलवणादियुक्तपदार्थान्तरेत्यर्थः । शब्दभेदे चेति । वक्ष्यमाण मूलानुसारेण शब्दान्तरन्यायेनेत्यर्थः । अङ्गीकारयोगादिति । अङ्गीकारायोगप्रसङ्ग इत्यर्थः । अङ्गीकारा योग इत्येव पाठस्तु स्वरस एव । स्थानप्रमाणेनेति । अत्र मीमांसकाभिमतं यथासङ्ख्याम्नानरूपं पाठसादेश्यलक्षणं स्थानमेवाभिमतम् । ननु सिद्धान्त्यभिमतनित्यानन्दमयनयचन्द्रिकाटीकायामुक्तम् । तदनुसारेणात्रापि मीमांसकाभिमतमेवपाठसादेश्यलक्षणं स्थानप्रमाणमभिमतम् । नत्वनेकप्रकरण-समुदायरूपं स्थानम् । येन तस्यात्राप्रसङ्गः शङ्क्येतेति ज्ञेयम् ।