०८ जजिखरूपनिरूपणम्

क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः

जजिखरूपनिरूपणम्

क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः

अनुव्याख्यानम्

क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः ॥

आकाशादिषु नान्यास्ति ह्यभिमानोऽभिमानिनः ॥

अभिमानिशरीरस्य साक्षाद्भूतस्य चोद्भवः ॥

सुधा

साक्षाज्जन्मैव किं न स्यादित्यत आह नान्येति । हिशब्दो नित्यो नित्यनामित्यादि श्रुतिप्रसिद्धिसूचकः । अभिमानो ममेदमिति बुद्धिः । जनिरिति सम्बन्धः । भूतस्येत्युपलक्षणम् ओषध्यादिभौतिकस्य चेत्यपि ग्राह्यम् । साक्षादुद्भव एव जनिरित्यन्वयः ।

शेषवाक्यार्थचन्द्रिका

दग्धानामिति । तापत्रयेणेति शेषः । उष इति धातोरिति भावः ॥ कर्मणीति । ‘अकर्तरि’ च कारके संज्ञायामि’त्यनेनेति शेषः । कर्मण्यधिकरणे चेति किरिति । कर्मण्युपपदे घुसंज्ञकेभ्यो धातुभ्योऽधिकरणे कारके किप्रत्ययो भवति । चकारोऽनुक्तसमुच्चयार्थः । जलं धीयतेऽस्मिन्निति जलधिरिति यथेति सूत्रार्थः । तथा च धाधातोर्दाधाध्वदाबिति धारूपतया घुत्वादस्मात्किप्रत्यये कस्येत्संज्ञायां कित्त्वा‘दातो लोप इटि चेत्याकारलोपे ओषधिशब्दनिष्पत्तिरिति भावः ॥ अधिकरणे शेतेरिति ॥ अधिकरणे सप्तम्यन्ते उपपदे शेते‘रन्येष्वपि दृश्यत’ इति सूत्रेण डप्रत्यये डित्वाट्टिलोपे च पुरुषशब्दनिष्पत्तिरिति भावः । अथवा । अधिकरणे सुबन्ते उषपदे शेतेरच् प्रत्यये निर्वचनत्वेन शेतेरीकारलोपे उक्तरूपनिष्पत्तिरिति भावः । केचित्तु शेतेर्धातोरधिकरणे सुबन्ते उपपदेच्प्रत्ययो भवतीत्येव सूत्रार्थः । तथा च खे शेते खशय इत्यादिवत्पुरुशय इत्येव स्यात्तत्कथं पुरुषशब्दनिष्पत्त्यर्थमेतत्सूत्रोदाहरणमित्याशङ्क्य तथा सति गिरिशय इत्येवोक्तरीत्या प्रसङ्गेन गिरिश इत्यादेरप्यनिष्पत्तिप्रसङ्गात् । न च गिरौ ‘शेतेर्ड’ इत्येतत्सूत्रीयवार्तिकादेव तदुपपत्तिरिति वाच्यम् । तत्रास्याप्युपसङ्ख्येयत्वात् । नियामकस्य शिष्टप्रयोगस्यात्रापि तुल्यत्वादित्यत्र तात्पर्यमित्याहुः ।

परिमल

तत्स्थान इति । ‘भूतं भूताभिमानीचे’त्यत्र भूतपदस्थाने भौतिकपदं भूताभिमानि-पदस्थाने भौतिकाभिमानिपदं च स्थापयित्वा योज्यमित्यर्थः । उष्टानामित्यस्यार्थो दग्धानामिति ॥ कर्मणि घञिति । ‘उषदाह’ इति धातोरिति योज्यम् । ‘पुगन्तलघूपधस्यचे’ति गुण इति भावः ॥ कर्मणीति । कर्मण्युपपदेऽधिकरणेऽर्थे घोः किप्रत्यस्य इति सूत्रार्थः । धातुशकारस्य षकारः कथमित्यत आह अधिकरणे शेतेरिति । अधिकरणे सुप्युपपदे शीङ्स्वप्न इत्यस्याच्प्रत्ययो भवतीति सूत्रेण तृतीयाध्याये द्वितीयपादे अच्प्रत्ययविधानात् । तथा चाच्प्रत्यये सप्तम्यादेरलुगादिवन्निर्वचनत्वादेव धात्वन्तलोपे पुरुष इति भवतीति भावः ।

यादुपत्यं

कर्मण्यधिकरणे चेति । कर्मण्युपपदे घुतसंज्ञकेभ्यो धातुभ्योऽधिकरणे कारके किप्रत्ययो भवतीति सूत्रार्थः । जलं धीयतेऽस्मिन्निति जलधिरित्युदाहरणम् । तथा च दाधाध्वदाबिति घुत्वादस्मादधिकरणे किप्रत्यये कित्त्वादातो लोप इटि चेत्याकारलोप ओषधीति रूपमिति भावः । ‘अधिकरणे शेतेरि’ति सूत्रम् । यद्यप्यस्य सूत्रस्याधिकरणे सुप्युपपदे शेतेर्धातोरच्प्रत्ययो भवतीति काशिकायां व्याख्यानं कृतं खशय इति चोदाहृतम् । तथा चानेन पुरिशय इत्येव स्यान्न पुरुश इति । तथाऽप्यस्याधिकरणे सुप्युपपदे शेतेर्धातोर्डप्रत्ययो भवतीत्यप्यर्थमभिप्रेत्यात्रोदाहरणमिति ज्ञातव्यम् । अत एवैतत्सूत्रव्याख्यानावसरे काशिकायां गिरौ डश्छन्दसीत्युक्तं गिरिश इति चोदाहृतम् । तत्र गिराविति वैदिकप्रयोगसिद्धाधिकरणसामान्योपलक्षणादविरोधः ॥

श्रीनिवासतीर्थीया

कर्मणि घञिति । उष् प्लुष् दाहेऽस्मात्कर्मणि घञि घकारञकारयो जर्लोपेनाकारमात्रे उर्वरिते सति सार्वधातुकार्धधातुकयोरिति उकारस्योकाररूपे गुणे ओष् अ ओषेति रूपम् ॥ तदर्थ उक्त उष्टा इति ॥ कर्मणीति । दाधाध्वदाप् । दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युरिति धातुरूपस्यास्य धातोर्घुसंज्ञायामोत्रेषा धीयन्तेऽत्यधिकरणे कर्मण्यधिकरणे च कर्मण्युपपदे घुसंज्ञाकेभ्योऽधिकरणे किप्रत्यये ककारलोप कित्त्वाद्धात्वाकारलोपे ओष ध् इ ओषधीति रूपम् । पुरुषपदेन भौतिकस्याभिमानिदेहस्यैव विवक्षितत्वेन तदतिरिक्तस्य भौरिकस्याभिमानिदेहस्यैवाभावा-त्त्रिविधत्वं ज्ञेयम् । सप्तम्याः पुरीत्यस्याः ॥ इकारस्येति । ङीति सप्तमीविभक्ते रूपस्य इकारस्य उकार इत्यर्थः ॥ धात्विति । शीङ् स्वप्न इति धातुशकारस्येत्यर्थः ॥ अधिकरणे शेतेरिति । अधिकरणे सुप्युपपदे शेधातोर्डप्रत्ययः स्यादिति सूत्रार्थः । तथा च पुरिशी इति स्थिते इकारस्योकारे धातुशकारस्य षकारे पुरुषी इति जाते डप्रत्यये टिभूतस्य ईकारस्य लोपे प्रत्ययाकारे मिलिते सति पुरुष् अ पुरुषेति रूपम् । अत्र काशिकायामधिकरणे शेतेरित्यत्र गिरौ डश्छन्दसीत्युक्त्वा गिरिश इत्युदाहृतत्वाद्गिरा-वित्यस्य चाधिकरणसामान्यमात्रोपलक्षकतयोक्तरीत्या डप्रत्यय एव व्याख्येयो न त्वच्प्रत्ययः । तथात्वे पुरिशी अस्मादच्प्रत्यये ईकारस्य एकारूपे गुणे पुरिशे इति जाते एचोयवायाव इति अचिपरे एकारस्यायादेशे पुणिशय् अ पुरिशय इति स्यात् । खे शेते इति स्वशय इतिवन् न तु पुरुष इति रूप-मिति द्रष्टव्यम् । नित्योनित्यानामिति । अत्र निर्धारणबलात्स्वरूपेण नित्यानां जीवानां सकाशा-दप्यतिशयेन यन्नित्यत्वं कथ्यते तच्छरीरस्यापि नित्यत्वं विना नोपपद्यत इति शरीरस्यापि नित्यत्व-मस्माद्वाक्यात्सिध्यतीति भावः ।

वाक्यार्थरत्नमाला

शेष इति । ततश्च कर्मणि द्यत्रि अजंत्वाद्यभावेनष्ट प्रवृत्तौ पुगंतस्येति गुणे ओषा इति बोधादिपदवद्रूपमिति भावः । उपसर्गे द्योःकिरिति पूर्वसूत्राद्घोरिति वर्तत इत्याशयेन व्याचष्टे । कर्मणीति । अधिकरण इत्यस्यैव भावकरणादिव्यावर्तकतया च शब्दस्यानपेक्षितत्वमित्यत आह । चकार इति । अत्र चकारः प्रत्ययानुकर्षणार्थ इति पाठः । तथैव काशिकादावुक्तैः । अनुक्तपदगर्भोक्तपाठेऽपि अत्र सूत्रे अनुक्तो यः पूर्वसूत्रोक्तः प्रत्यय इति व्याख्येयम् । अनुक्तप्रत्ययसमुच्चयार्थ इति पाठस्तु लेखकदोषायतेः क्वाचित्कः । प्रत्ययमेलनमात्रं समुच्चयपदार्थ इति तथापाठोऽपि सम्भवतीत्यप्याहुः । अन्येष्वपि दृश्यत इति सूत्रेणेति । अन्येष्वप्युपपदेषु कारकेषु जनेर्धातोर्डप्रत्ययविधायकेऽप्यस्मिन्सूत्रे विद्यमानस्यापिशब्दस्य सर्वोपाधिव्यभिचारार्थत्वेन धात्वन्तर कारकान्तराच्चऽप्रत्ययो भवतीति काशिकायां व्याख्यानात्परितः खाता परिखेत्युदाहरणाच्चापिशब्दबलात्ड प्रत्यय इत्यर्थः । अत्र पक्षे हरतेरनुद्य-मनेजित्यतो । जिति वर्तमाने अधिकरणे सुबन्ते उपपदे अच्प्रत्यय विधायकस्तत्रोदाहरणपरतया प्रतीतस्याधिकरणे शेतेरिति मूलस्य डप्रत्ययोऽभिधानपरत्वाश्रयणेन प्रतीतत्यागकल्पना भवतीत्य-परितोषात्प्रतीतानुसारेणार्थमाह । अथवेति । अच्प्रत्ययाश्रयणे खेशेतरवशय इतिवत्पुरुष इति पपत्ति-रित्यत उक्तम् । निर्वचनत्वेनेति । पृषोदारादित्वादिति भावः । पुरुषशब्दव्युत्पादनमधिकं गीताभाष्य-टीकातद्-व्याख्यानप्रपञ्चानुसारेण योज्यम् ।