एवं शास्त्रावगम्यत्वे विभागेन समन्वयम्
पराभिमताध्यायस्वरूपपरीक्षा
एवं शास्त्रावगम्यत्वे विभागेन समन्वयम्
सुधा
मायावादी तूत्तरसूत्रसन्दर्भमाक्षिप्य समाधानमाह । द्विरूपं हि ब्रह्मावगम्यते वेदान्त-वाक्येषु । नामरूपविकारोपाधिविशिष्टं तद्विपरीतं च सर्वोपाधिविवर्जितम् । ‘यत्र हि’ ‘द्वैतमिव भवति’ ‘सर्वाणि रूपाणि विचिन्त्य धीरः’ इत्येवं सहस्त्रशोऽविद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वेदान्तवाक्यानि तत्राविद्यावस्थायां ब्रह्मण उपास्योपासकादिलक्षणः सर्वो व्यवहारः । तत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि । कानिचित्क्रममुक्त्यर्थानि कानिचित्कर्म समृद्ध्यर्थानि । एवमपेक्षितोपाधिभेदं ब्रह्मोपास्यत्वेन निरस्तसमस्तोपाधि तु ज्ञेयत्वेनोपदिश्यत इत्यस्यार्थस्य प्रदर्शनायोत्तरग्रन्थ आरभ्यत इति ।
तदिदमनुपपन्नम् । ब्रह्मणो द्वैरूप्यस्याप्रामाणिकत्वात् । सर्वाण्यपि हि वेदवाक्यान्यसङ्ख्येय-कल्याणगुणाकरं सकलदोषगन्धविधुरमेकरूपमेव ब्रह्म नारायणाख्यं प्रतिपादयन्ति । किन्तु कानिचित्सर्वज्ञत्वसर्वेश्वरत्वसर्वान्तर्यामित्वसौन्दर्यौदार्यवीर्यादिगुणविशिष्टतया । कानिचिदपहत-पाप्मत्वनिर्दुःखत्वप्राकृतभौतिकविग्रहरहितत्वादिदोषाभावविशिष्टतया । कानिचिदतिगहनता-ज्ञापनाय वाङ्मनसागोचरत्वाद्याकारेण । कानिचित्सर्वपरिहारेण तस्यैवोपादानायाद्वितीयत्वेन । कानिचित्सर्वसत्ताप्रतीतिप्रवृत्तिनिमित्तताप्रतिपत्त्यर्थं सर्वात्मकत्वेन; इत्येवमाद्यनेकप्रकारैः परमपुरुषं बोधयन्ति । ततो व्याकुलबुद्धयो गुरुसम्प्रदायविकला अश्रुतवेदव्याख्यातारः सर्वत्राप्येकरूपतामननु- सन्दधाना वेदं छिन्दन्ति । न (च)एतद्द्वैरूप्यप्रपञ्चनमुत्तरत्रोपलभ्यते । नाप्यस्याविद्याविषयस्य प्रपञ्चनं मोक्षशास्त्रेऽत्रोपयुज्यते । प्रसङ्गादुच्यत इति चेन्न । सर्वस्य प्रासङ्गिकत्वे प्रतिपाद्याभाव-प्रसङ्गात् । तदिदमाभाणकं लौकिकानां नातिवर्तते ‘सार्थादपि तस्करा बहवः’ इति ॥ एतच्च सगुणनिर्गुणभेदं निराकुर्वताऽऽचार्येण निरस्तमिति नेह पुनः प्रक्रान्तम् । तथा च भाष्यम् । नान्यथा तददृष्टेरिति ।
शेषवाक्यार्थचन्द्रिका
आक्षिप्येति ॥ ब्रह्म जिज्ञासितव्यमिति प्रथमसूत्रे प्रतिज्ञातं तच्च शास्त्रैकसमधिगम्यम् । शास्त्रं च सर्वज्ञे सर्वशक्तौ जगदुत्पत्तिप्रलयकारणे ब्रह्मण्येव प्रमाणं न प्रधानादाविति न्यायतो व्युत्पादितम् । न चास्ति कश्चिद्वेदान्तभागो यस्तद्विपरीतमपि बोधयेदिति गतिसामान्यादित्युक्तम् । तत्किमपरमवशिष्यते यदर्थमुत्तरसूत्रसन्दर्भावतारः स्यात्; इत्याक्षेपप्रकारो द्रष्टव्यः । उत्तरसूत्राणामगतार्थत्वं वक्तुं वेदान्तेषु भासमानार्थं सङ्क्षिपति द्विरूपं हीति । यद्यपि निरुपाधिन एव जिज्ञास्यत्वात्तत्त्वतो निरस्तसमस्तोपाधिसम्बन्धं ब्रह्मैवोपदेष्टव्यं न सोपाधिकमपि तथाऽपि न तत्तेन रूपेण प्रथममुपदेष्टुं शक्यमित्युपहितरूपेणोपदेष्टव्यमिति निरुपाधिकोपदेशशेषतया सोपाधिकस्य युज्यते तन्निरूपणं वेदान्तेष्वित्यदोषः । तत्र सोपाधिकविषयं वाक्यमुदाहरति यत्र हीति । यस्यां खल्वविद्यावस्थायामाभासभूतद्वैतं सदिव भाति तत्रेतरः सन्नितरं पश्यतीति, दृष्ट्यादिगोचर-मुपाधिमद्वस्तु वदतीत्यर्थः । सोपाधिकविषयं श्रुत्यन्तरं पठति सर्वाणीति । सर्वज्ञो हीश्वरो नामरूपादिकं विश्वं निर्माय तत्र प्रविश्याभिवादनादिकं कुर्वन्योऽवतिष्ठते तं विद्वानिहैवामृतो भवतीत्यर्थः । यद्यप्यत्र द्विरूपं हि ब्रह्म वेदान्तेष्ववगम्यत इति प्रतिज्ञाय सोपाधिकविषयक-वाक्योदाहरणवन्निरुपाधिविषयकवाक्यमप्युदाहर्तव्यमेव उदाहृतं चापव्याख्यानकर्त्रा तथाऽपि यत्र हीति वाक्योदाहरणेन यत्र त्वस्य सर्वमात्मैवाभूदिति निरुपाधिकविषयवाक्यस्याप्युदाहृतप्रायत्वात् किं तत्पृथ-गुदाहरणेनेत्याशयेन निरुपाधिकविषयकवाक्यानुदाहरणमिति ध्येयम् । यद्वा । उपलक्षणतया यत्र त्वस्य सर्वमात्मैवाभूदित्यस्य यत्र नान्यत्पश्यतीत्यादेश्चात्र ग्रहणाददोषः । स्वशब्देनानुपादानं तु परस्य निरुपाधिकविषयतयाऽभिधानमात्रं न तु निरुपाधिकविषयत्वं तस्य वास्तवं सर्वस्यापि वेदस्य सगुण-प्रतिपादकत्वादिति ज्ञापनार्थमित्यवधेयम् । यत्र यस्यां विद्यावस्थायामस्य विदुषः सर्वं कर्त्रादि आत्मातिरेकेणासदेवासीत्तत्र केन करणेन कं विषयं को वा कर्ता पश्येदित्याक्षेपादव्यवहार्यमनौपाधिकं तत्त्वमवगम्यते । यत्र यस्मिन्भूमि्न स्थितो विद्वानन्यद्द्रष्टव्यं चक्षुषा न पश्यत्यन्यच्च श्रोतव्यं श्रोत्रेण न श्रुणोति न चान्यन्मन्तव्यं ज्ञातव्यं वा मनसा वा बुद्ध्या वा मनुते जानाति वा स भूमा दृष्ट्याद्यगोचरो निरतिशयमहत्त्वसम्पन्नः परमात्मेत्युपलक्षितवाक्यद्वयार्थः । ननु ब्रह्मणो न द्वैविध्यं युगपदेकस्य तद्विरोधादित्यतः सोपाधिकत्वनिरुपाधिकत्वयोरतात्त्विकत्वतात्त्विकत्वाभ्यामेकस्मिन्नप्युपपत्तेर्न विरोध इत्याह अविद्याविद्याविषयभेदेनेति । ननु शुद्वमेव वास्तवं चेदुपास्योपासकादिभेदस्यावस्तु-त्वादुपास्तिविध्यानर्थक्यमित्याशङ्कयाह तत्रेति । ननु चोपस्तीनामपि मुक्त्यर्थत्वाद्विद्यावद्वस्तुगामितैव युक्तेत्यतो न तासां साक्षान्मोक्षार्थतेत्याह तत्रेति ॥ कानिचिदिति । प्रतीकाद्युपासनानीत्यर्थः ॥ कानिचिदिति । दहराद्युपासनानीत्यर्थः । कानिचिदिति । उद्गीथाद्युपासनानीत्यर्थः । यद्यप्येतानि विधेयत्वात्कर्मकाण्ड एव वक्तव्यानि तथाऽपि मानसत्वेन विद्यासाम्यादिहोक्तानीत्यवगन्तव्यम् । श्रुतिषु दृष्टं ब्रह्मद्वैरूप्यं शिष्ट्वानन्तरसूत्रसन्दर्भारम्भं सम्भावयति एवमिति । तस्याद्याप्यविवेकात्कुत्रो-पाधिरिष्टः कुत्र वा नेति निरूपयितुमुत्तरो ग्रन्थसन्दर्भ इत्याशयः ।
उदाहृतश्रुतीनामेव ब्रह्मद्वैविध्ये प्रामाण्यात्कथमप्रामाणिकत्वमित्यत आह सर्वाप्यपीति । तर्ह्यनुभवविरोधः सर्वत्र वाक्येषूक्तार्थाप्रतिभासादिति शङ्कते किं त्विति । परिहरति कानिचिदिति । ‘‘यः सर्वज्ञः सर्ववित्’’ ‘‘एष सर्वेश्वर’’ इत्यादीनीत्यर्थः । कानिचिदिति । एष आत्मऽपहत-पाप्मेत्यादीनीत्यर्थः। कानिचिदिति । यतो वाचो निवर्तन्त इत्यादिनीत्यर्थः । कानिचिदिति । एकमेवाद्वितीयमित्यादीनीत्यर्थः ॥ कानिचिदिति । सर्वं खल्विदं ब्रह्मेत्यादीनीत्यर्थः ॥ न चेति । नापीत्यर्थः । उत्तरत्र विशिष्टस्यैव प्रतिपादनेन द्विरूपब्रह्मप्रतिपादनाभावान् न द्विरूपब्रह्मप्रपञ्चनं तदर्थ इति भावः ॥ नापीति । अविद्याविषयस्यातात्त्विकत्वे तत्प्रतिपादकत्वे शास्त्रस्याप्रामाण्यापत्तेरित्यर्थः । न च सविशेषत्वे श्रुतेरतात्पर्यान्नाप्रामाण्यमिति वाच्यम् । तात्पर्यनिर्णायकैः सूत्रैः प्रत्यधिकरणं सविशेषे तात्पर्यनिर्णयात् । किञ्च मुमुक्षुं प्रति न तावन्मोक्षसाधनतया सविशेषनिरूपणमुपयुज्यते । त्वन्मते निर्विशेषज्ञानस्यैव मोक्षसाधनत्वात्सविशेषस्य कल्पितत्वेन भ्रमरूपतज्ज्ञानस्याविद्यानिवर्तकत्वा- योगाच्च । नापि निर्विशेषज्ञानार्थतया तन्निरूपणं रूपादियुक्तपराग्भूतसविशेषज्ञानेन तद्विपरीतनिर्विशेष-ज्ञानायोगात् । अतो न तन्निरूपणं मोक्षशास्त्र उपयुक्तमिति भावेनोक्तम् मोक्षशास्त्र इति । ननु न मोक्षसाधनतया मोक्षसाधनज्ञानसाधनतया वा सविशेषनिरूपणमुच्यते किन्तु प्रसङ्गादेवेति नोक्तदोष इति शङ्कते प्रसङ्गादिति । सार्थाद्धनिकात् । भाष्ये पराभिप्रेताध्यायशेषकृत्यानिराकरणेन प्रसक्तां न्युनतां परिहरति एतच्चेति ॥ निरस्तमिति । जन्माधिकरणेक्षत्यधिकरणयोरिति शेषः । भाष्ये एतदधिकरण एव च ब्रह्मद्वैविध्यनिरासादप्यत्र न निराकृतमित्याह तथा चेति । द्विरूपब्रह्म-प्रपञ्चनायाध्यायशेषवृत्तिरिति न युक्तं ब्रह्मद्वैविध्यप्रपञ्चनस्यादृष्टेरित्यपि भाष्यार्थो वर्णनीय इति भावः ।
परिमल
अध्यायार्थोक्तिः पराभिमतार्थव्युदासायापीति भावेन यथाश्रुतपरभाष्यमनुद्य निराह मायावादी त्वित्यादिना ॥ नामरूपविकारेति । शब्दार्थलक्षणकार्योपाधिविशिष्टमित्यर्थः । ‘‘तद्विपरीतं च’’ इत्यस्य व्याख्या ‘सर्वोपाधिविवर्जितम्’ इति । आद्येर्थे मानं ‘‘यत्र हि द्वैतम्’’ इति । ‘यत्र हि द्वैतमिव भवति तत्रेतरम् इतरं पश्यति’ इत्यादि । सर्वाणीति तु निरुपाधिकब्रह्मणि ॥ अविद्या-विद्याविषयेति । अविद्यापदेन तत्कार्यभ्रम उच्यते । भ्रमविषयप्रमाविषयभेदेनेत्यर्थः । ‘द्वैतमिव’ इति वाक्ये भ्रान्तिद्योतकेवशब्दस्य सर्वाणीतिवाक्ये तमेव विद्वानितितच्छब्दस्य श्रवणादिति भावः । तथा च सत्यभूतं ब्रह्म निरुपाधिकमेवेति नाद्वैतभङ्ग इति भावः । ननु निरुपाधिकब्रह्मज्ञानादेव मुक्तिसिद्धौ अविद्याविषयब्रह्म किमर्थमपेक्ष्यत इत्यत आह तत्रेति । आदिपदेन ज्ञातृज्ञेयगुरुशिष्यादिलक्षणो ग्राह्यः ॥ क्रमेति । अर्चिरादिक्रमेत्यर्थः ॥ उपाधिभेदमिति । उपाधिकृतभेदोपेतम् । ननु यद्येकरुपं ब्रह्म तर्हि ‘यः सर्वज्ञो ऽपहतपाप्मा, निरनिष्ट’ इत्यादि वैचित्र्यं वेदवाक्येषु कथमिति पृच्छति किंत्विति । गुणदोष-विधिनिषेधपरत्वेन परिहरति कानिचिदिति ॥ प्राकृतभौतिकेति । अशरीरः प्रज्ञात्मेति, ‘अस्थूल-मनण्वि’त्यादीनीत्यर्थः ॥ वाङ्मनसेति । ‘यतो वाचो निवर्तन्त’ इत्यादीनीति भावः ॥ अद्वितीय-त्वेनेति । ‘‘एकमेवाद्वितीयमि’’त्यादीनीति भावः ॥ सर्वात्मकत्वेनेति । ‘सर्वं खल्विदं ब्रह्म’ ‘पुरुष वेदं सर्वम्’ इत्यादीनीति भावः ॥ मोक्षशास्त्र इति । निरुपाधिकज्ञानाय सोपाधिकनिरूपणमुपयुज्यत इत्युक्तमिति चेन्न । तयोर्विरोधेन सोपाधिकनिरूपणस्य तत्रोपायत्वासम्भवात् । अन्यफलार्थं तत्त-न्निरूपणे च मोक्षशास्त्रत्वव्याघातादिति भावः ॥ उपयुज्यत इति । तदुपयोगभावादिश्चन्द्रिकायां व्यक्तः। आभाणकं लौकिकगाथा । सार्थादिति । समूहादित्यर्थः । आदित्यादिवारविशेषे क्वचित्स्थलविशेषे विक्रियार्थं वणिग्भिरागन्तव्यामिति क्लृप्तसङ्केतस्थले मिलितवणिजां यः समूहः सोऽत्र सार्थपदेन गृह्मते । तस्मादपीत्यर्थः ।
यादुपत्यम्
आक्षिप्येति । ब्रह्म जिज्ञासितव्यमिति प्रतिज्ञातम् । तच्च शास्त्रैकसमधिगम्यम् । शास्त्रं च सर्वज्ञे सर्वशक्तौ जगदुत्पत्तिस्थितिप्रलयकारणे ब्रह्मण्येव प्रमाणं न प्रधानादाविति न्यायतो व्युत्पादितम् । न चास्ति कश्चिद्वेदान्तभागो यस्तद्विपरीतमपि बोधयेदिति च गतिसामान्यादित्युक्तम् । तत्किमपरमवशिष्यते । यदर्थमुत्तरसूत्रसन्दर्भस्यावतारः स्याद् इत्याक्षिप्येत्यर्थः ॥ द्विरूपं हीति । यद्यपि तत्त्वतो निरस्तसमस्तोपाधिरूपं ब्रह्मैव जिज्ञास्यामिति तदेव वक्तव्यं नान्यत् । तथाऽपि न तेन रूपेण प्रथममुद्देष्टुं शक्यमित्युपहितेन रूपेणोपदेष्टव्यमित्युपाधिरपि क्वचिदुच्यत इति भावः । नन्वेवं ब्रह्मणो द्विरूपत्वे एकमेवेत्यादिश्रुतिविरोध इत्यत आह अविद्याविद्याविषयभेदेनेति । अत्राविद्यापदेन विद्याविरुद्धं मिथ्याज्ञानं विवक्षितम् । विद्यापदेन च तत्त्वज्ञानम् । तथाच तत्त्वज्ञानविषयीभूतं निरुपाधिकं रूपमेकमेव पारमार्थिकम् । सोपाधिकं तु कल्पितं भ्रमेऽवभासतेऽतो न विरोध इति भावः । नन्वेवमुपाधिभेदं ब्रह्मोपास्यत्वेनेत्यादिवक्ष्यमाणमयुक्तम् । तत्त्वतश्चैतन्यस्यैकत्त्वे उपास्योपासकभावस्य ज्ञातृज्ञेयभावस्य चायोगादित्यत आह ॥ तत्राविद्याऽवस्थायामिति । आदिपदेन ज्ञातृज्ञेयलक्षणादि-र्ग्राह्या । ननु सोपाधिकोपास्तीनामपि यदि मोक्षफलकत्वं तदा किं निरुपाधिकज्ञानेनेत्याशङ्कानिरासाय सोपाधिकोपास्तीनां फलान्तराण्याह तत्र कानिचिदित्यादिना । अभ्युदयार्थानि प्रतीकोपासानानि । क्रममुक्त्यर्थानि दहरादीनि । कर्मसमृद्ध्यर्थानि उद्गीथादीनि । एवमपेक्षितमुक्त्वा, ननु निरुपाधिकं ब्रह्मस्वरूपं प्रथमतो न ज्ञातुं शक्यं चेत्तर्हि तज्ज्ञापनाय केनचिदेकेनोपाधिना विशिष्टं ब्रह्मोपदेष्टव्यं नानोपाधिविशिष्टं ब्रह्म वेदान्तेषु किमर्थमुच्यते, किञ्च निरुपाधिकवत्सोपधिकस्यापि ज्ञेयत्वे सत्यत्वमेव स्यादित्याशङ्काद्वयं परिहरन्निदानीमुक्ताक्षेपे समाधानमाह एवमपेक्षितोपाधिभेदमित्यादिना । अपेक्षित फलसाधनीभूतनानागुणविशिष्टमित्यर्थः । ततश्च सत्यं निरुपाधिकब्रह्मज्ञापनाय केनचिदेकेनोपाधिना विशिष्टं ब्रह्मोपदेष्टव्यमिति । तथाऽप्यधिकारिणोऽविद्यावस्थायामन्यफलापेक्षाया अपि सत्त्वात् । तत्तत्फलसाधनीभूतगुणलक्षणोपाधिविशिष्टेपास्तयोऽनेकरूपा अपि कथ्यन्ते । तं यता यथोपासते तदेव भवतीति श्रुतेरित्यद्याशङ्कापरिहारः । न निरुपाधिकमपि ज्ञायतयोपदिश्यते । येन तस्य सत्यताप्रसङ्गः । किन्तूपास्यतयैव । उपासना चाऽविद्यमानेऽपि भवतीति नोक्तदोष इति द्वितीयशङ्कापरिहारश्चात्रोक्त इति ज्ञातव्यम् ॥ मोक्षशास्त्र इति । निरुपाधिकज्ञानाय सोपधिकनिरूपणमुपयुज्यत इत्युक्तमिति चेन्न । तयोर्विरोधेन सोपाधिकनिरूपणस्य तत्रोपायत्वासम्भवात् । अन्यफलार्थं तत्तन्निरूपणे च मोक्षशस्त्रत्व-व्यागातादिति भावः ॥ सार्थादपीति । वणिजोऽपीत्यर्थः ॥
श्रीनिवासतीर्थीया
सर्वेष्वपि वेदवाक्येष्वेकमसङ्ख्येयगुणगणाकरत्वादिनैकैकस्मिन्वाक्ये प्रतिपाद्यत इत्याशयेन शङ्कते किं त्विति । नेत्याह कानिचिदिति ।
वाक्यार्थरत्नमाला
जन्माद्यस्य यत इत्यारभ्य श्रुतत्वाच्चेत्येवमन्तैःसूत्रैरित्यारभ्यातः परस्य ग्रन्थस्य किमुत्थानमित्यन्तभाष्याभिप्रायकथनरूपब्रह्मजिज्ञासितव्यमिति प्रतिज्ञातमित्यादिभामती-ग्रन्थानुसारेणाक्षेपप्रकारमुपदर्शयति । ब्रह्मजिज्ञासितव्यमिति हीत्यादिना । वेदान्तानां ब्रह्मपरत्वे सिद्धेऽपि प्रमाणान्तरैरविरोधार्थमुत्तरस्तु प्रारंभ इत्याशङ्क्य तेषां ब्रह्मण्यप्रवेशमाह । तच्च शास्त्रैकेति । भामतिस्थयद्यपि तत्वतो निरस्तेति वाक्यव्याख्यानरूपकल्पतरौ निरूपाधिन एव जिज्ञास्यत्वादिति तन्मूलकाराभिप्रेतो हेतुरभिहितस्तदनुसारेणाह । यद्यपीत्यादिना । इतःपरं भाष्यानंदगिरिभामतिकल्प- तरुपरिमलपरकीयोपनिषद्भाष्यानुसारेणवैदिकाः शब्दा इत्येतन्मूलटीकापर्यन्तं टीका व्याकर्त्तव्यास्ति । अन्यद्रष्टव्यं चक्षुषेति मूलपाठः ॥ न्यायामृतानुसारेणाह । न च सविशेषत्व इत्यादि । सार्थादित्यस्य समूहादित्यर्थप्रतीतिनिरासाय व्याचष्टे । सार्थाद्धनिकादिति । अत एवापरस्पराः क्रियासातत्य इति सूत्रे अपरस्पराः सार्था गच्छंति । सततमविछेदेन गच्छन्तीत्यर्थ इति प्रकाशिकासिद्धान्तकौमुद्योर्योजना-करणान्न तद्विसंवादः । अपरे परेच सततं गच्छंतीत्यर्थे हि तेन सूत्रेण सुटू निपात्यते । तेषामपरस्पराणां सार्थत्वस्य द्वेधादिसम्भवेनादोषात् । अस्तु वाऽन्यत्र यथा तथा प्रकृतेतु सार्थशब्दो न समुदायार्थः । समुदायात्तस्करा बहव इत्यस्यासङ्गतत्वात् । तस्करप्रतियोगित्वेन धनिकस्यैव शीघ्रोपस्थितिकतया वृथाऽर्थान्तर स्वीकारोयोगाच्चेति ज्ञेयम् । तेन सार्थानां चोरादिभयेन मिलितानामेव गमनप्रतिपादनात् सार्थशब्दो धनिकपरोऽवगम्यते । यद्यपि मञ्जर्यां सार्थभूता इति व्याख्यानात्समुदाया अपरस्पराः सार्था गछन्तीत्यस्य निर्धार्यमाणशब्दाभावादिति । अन्यत्र प्रसिद्धानां येभ्यः पृथक्वरणरूपां निर्धारणं सप्तम्या अर्थस्तेषां निर्धार्यमाणानां शब्दानां तत्रेति वाक्यात्प्रागुक्तयभावेन तत्रेत्यत्रत्यप्रकृत्या परामर्शायोगादित्यर्थः ।