ॐ आनन्दमयोऽभ्यासात् ॐ
अध्यायस्वरूपनिरूपणम्
अथ आनन्दमयाधिकरणम्
ॐ आनन्दमयोऽभ्यासात् ॐ
सुधा
॥ ॐ आनन्दमयोऽभ्यासात् ॐ ॥ अथातो ब्रह्मजिज्ञासेति यस्य ब्रह्मणो जिज्ञासा विहिता तत्स्वरूपं जन्माद्यस्य यतः शास्त्रयोनित्वादिति लक्षणप्रमाणाभ्यां स्वेतरसमस्तवस्तु-व्यावृत्ततयाऽवधारितम् । प्रमाणस्यान्यपरत्वशङ्कया लक्षणस्यातिव्याप्तिः समन्वयसूत्रेण परिहृता । ब्रह्मणश्च सकलशास्त्रप्रमाणकत्वासम्भावनाशङ्केक्षत्यधिकरणे निराकृता । न हि लक्षणप्रमाणनिरूपण व्यतिरेकेण वस्तुविचारणं नामास्ति । सम्भावना तु न वस्त्ववधारणार्था । अप्रमाणत्वात् । किन्तु यत्रासम्भावनया समीचीनयोरपि लक्षणप्रमाणयोरतथाभावशङ्कया प्रवृत्तिसङ्कोचस्तत्रैव सम्भावनोप- योगः । वस्तुतस्तु लक्षणप्रमाणाभ्यामेव वस्तुव्यवस्थेत्यतो ब्रह्मस्वरूपनिरूपणेऽवशेषाभावात्कि-मानन्दमयोऽभ्यासादित्यादिनाऽध्यायेनेत्याशङ्क्याध्यायशेषस्य कृत्यमाह एवमिति ।
अनुव्याख्यानम्
॥ ॐ आनन्दमयोऽभ्यासात् ॐ ॥
एवं शास्त्रावगम्यत्वे विभागेन समन्वयम् ॥
आनन्दमय इत्यादिनाऽध्यायेन वदत्यजः ॥
सुधा
सत्यम् । न ब्रह्मस्वरूपनिरूपणे किमप्यवशिष्टम् । तथाऽपि तत्तु समन्वयादि-त्युपक्रमादितात्पर्यलिङ्गबलात् सकलस्यापि शास्त्रस्य यो ब्रह्मणि परममुख्यया वृत्त्या प्रतिपाद्या-प्रतिपादकत्वलक्षणसमन्वयोऽभिहितस्तमेव समन्वयं विभागेन प्रपञ्चेनानन्दमय इत्यादिनाऽध्यायेन वदति सूत्रकार इति न वैयर्थ्यम् । तत्तु समन्वयादिति हि प्रतिज्ञामात्रेणोक्तम् । तद्यावदुदाहरणत्वेन वाक्यविशेषानुपादाय विमर्शपूर्वकं पूर्वोत्तरपक्षोपालम्भसाधनाभ्यां न प्रपञ्च्यते तावदनुक्तप्राय-मकार्यकारित्वात् । अन्यथा परोऽपि ह्यन्यदेव समन्वयादित्युक्त्वा कृती स्यात् । यदि हि प्रत्यय-मनुत्पाद्यैकोऽयं भूमध्यप्रदेश इति ब्रूयात् । तदा परोऽपि किं न ब्रूयात्परस्ताद्वितस्तेरिति । तस्मा-दावश्यकं समन्वयप्रपञ्चनम् । तदनेन समन्वयसूत्रेणाध्यायशेषस्य प्रपञ्च्यप्रपञ्चकभावेन सङ्गति-दर्शिता । एवं तर्हि तदानन्तर्यमेव स्यात्कुतो व्यवधानमित्यत उक्तमेवमिति । एवमीक्षत्यधिकरण-व्युत्पादितन्यायेन ब्रह्मणः शास्त्रावगम्यत्वे मुख्यया वृत्त्या सकलशास्त्रप्रतिपाद्यत्वे सम्भाविते सतीति ॥ एतदुक्तं भवति । सत्यं प्रपच्चनमनन्तरप्राप्तं तथाऽप्यवाच्यत्वाद्याशङ्कानिरासेन शास्त्रावगम्यत्व-सम्भावनासमर्थनेन व्यवधीयते । सति हि तस्मिन्नस्यावसरः । शब्दलेशसञ्चारासम्भवे वाक्य-तात्पर्यविचारस्यानवकाशत्वात् । न हि तोयाभ्यवहारासमर्थस्य मुमूर्षोः शष्कुलीभक्षणं सचेतनः सम्भावयतीति ॥ ‘स्वादिष्वसर्वनामस्थाने’ इति पदसंज्ञाऽनुशासनादत्र न यतिभङ्गश्शङ्कनीयः ।
श्री पाण्डुरङ्गीकेशवाचार्यविरचिता
शेषवाक्यार्थचन्द्रिका
सकलसुगुणपात्रं सर्वदोषैकजैत्रं
सुमतिसुगतिदात्रं सुष्ठुसज्ज्ञाननेत्रम् ।
निखिलजनिजनित्रं नित्यदुष्टैकवेत्रं
नवनवसुचरित्रं नौमि लक्ष्मीकलत्रम् ॥ १ ॥
शुभगुणगणगात्रं शुद्धविज्ञाननेत्रं श्रुति-
विततचरित्रं श्रान्ततापातपत्रम् ।
श्रमजलधिवहित्रं शान्तिमन्तःपवित्रं
श्रयत विबुधमित्रं शक्तियोगीन्द्रपौत्रम् ॥ २ ॥
विद्याख्यरत्नप्रभवाय बुद्धौ
विद्योतमानाय सुवन्दिताय ।
शुद्धाय नित्यं मुनिसेविताय
मध्वाद्भुताम्भोनिधये नमोऽस्तु ॥ ३ ॥
श्रीमव्द्याससुशास्त्रशुद्धजलधिं मध्वोक्तसत्तर्क-
दुस्तर्काख्यामरदानवाभृतमतिश्रेष्ठाहिहृद्भूभृता ।
आलोड्याखिलतत्त्वभासकमहारत्नानि चाप्नोत्सुधां
सोऽयं योगिमहेन्द्रसन्निभजयार्याख्यो भवेन्मे मुदे ॥ ४ ॥
रघूत्तमाख्यममलमलौकिककलानिधिम् ।
सेवे प्रकाशिता येन सम्यक् तत्त्वप्रकाशिका ॥ ५ ॥
परवादीभवाक्कुम्भभेदपञ्चाननोपमम् ।
विष्णुपादगुहासक्तं वेदव्यासमुनिं भजे ॥ ६ ॥
भक्तिज्ञप्तिविरक्त्यादिगुणसन्ततिसङ्गतिः ।
विद्यापतियतीन्द्रार्यो हृद्यविद्याप्रदोऽस्तु मे ॥ ७ ॥
वेदव्यासमतापगापतिवरं श्रीमज्जयप्रोक्तस-
त्सर्पावेष्टितमध्वसन्मुनिवरग्रन्थागवर्येण यः ।
संलोड्याखिलसन्नयामृतवरं तत्त्वादिसद्दीपिकां
सत्तात्पर्यसुचन्द्रिकां तरुवरं यस्तर्कसत्ताण्डवम् ॥ ८ ॥
निष्कास्याद्भुतखण्डनत्रयमुखव्याख्यानरत्नोच्चयं
दृष्ट्वा कुत्सितयुक्त्यरातिपिहितां श्रीव्यासतीर्थो बुधः ।
स्वोक्तिं रक्षितुमत्र यः प्रतिपदं सम्यग्विशेषार्पको
विद्याधीशयतीन्द्रसद्गुरुवरः किं नावतीर्णः स हि ॥ ९ ॥
यद्धस्ताम्बुजसङ्गतोऽहमभवं देव्याः कटाक्षाश्रयो
यव्द्याख्यानदिवाकरेण विदुषामन्तस्तमः संहृतम् ॥
ये प्रीता भुवि चन्दनद्रुम इव स्वीयं स्ववत्कुर्वते
तान्व्याख्यानिरतान्भजे परगुरूनानन्दभट्टारकान् ॥ १० ॥
यः श्रीनिवासमृगराट् सकलान्मदान्ध
मायाविसिन्धुरसुकुम्भगिरीन्विदार्य ।
सत्तर्कतीक्ष्णनखरैर्विरराज मध्व
सिद्धान्तचारुविपिने तमलं भजेऽहम् ॥ ११ ॥
श्रीमत्सुधाद्भुताम्भोधिविक्रिडनविचक्षणान् ।
श्रीमद्विद्याधीशतीर्थमुनीन्वन्दे गुरून्मम ॥ १२ ॥
अथ तत्कृपयैवाहं तत्सुशिक्षितमार्गतः ।
तेषामाज्ञां पुरस्कृत्य तत्प्रसादानुरञ्जितः ॥ १३ ॥
शिक्षितान्युक्तिनिचयान्स्मारं स्मारं यथामति ।
करोमि सौधगूढार्थशेषवाक्यार्थचन्द्रिकाम् ॥ १४ ॥
यद्विद्यादीशगुरोः शुश्रूशाऽन्या न रोचते तस्मात् ।
अस्त्वेषा भक्तियुता श्रीविद्याधीशापादयोः सेवा ॥ १५ ॥
॥ ॐ आनन्दमयोऽभ्यासात् ॐ ॥ ननु ‘एवं शास्त्रावगम्यत्वे विभागेन समन्वयम् इत्यध्याय-शेषकृत्यप्रतिपादकमुत्तरभाष्यमनर्थकम् । अथातो ब्रह्मजिज्ञासेति यस्य ब्रह्मणोजिज्ञासा विहिता तत्स्व-रूपस्याविचारितत्वेन तद्विचारार्थतयैवाध्यायशेषस्यार्थवत्त्वोपपत्त्या तद्वैयर्थ्यशङ्काया एवानुदयेन तत्सार्थक्यस्यावक्तव्यत्वादित्यतो वृत्तानुवादपूर्वकं स्वरूपनिरूपणेऽनवशेषोपपादनेन गतार्थताशङ्का-मुत्थाप्यतत्परिहारकत्वेन मूलं योजयितुं वृत्तं तावदनुवदति अथात इत्यादिना । विहितेति । प्रतिज्ञातेत्यर्थः । विषयादिमत्त्वोपपादनेन कर्तव्यतया प्रतिपादितेति वाऽर्थः । नन्वेतावता लक्षणप्रमाण-निरूपणेन सजातीयविजातीयसमस्तवस्तुव्यावृत्ततया लक्ष्यस्वरूपावधारणसिद्धावपि यस्य ब्रह्मणो जिज्ञासा कर्तव्येति प्रतिज्ञाता तत्स्वरूपस्याविचारितत्वात्तदर्थमध्यायशेषप्रवृत्तिः किं न स्यादित्यतो विचार्यत्वेन प्रतिज्ञातस्य ब्रह्मणो लक्षणप्रमाणाभ्यामिवान्येनापि प्रकारेण निरूपणीयत्वे ह्यधिकरण-चतुष्टयेन लक्षणप्रमाणाभ्यां तन्निरूपणसिद्धावप्युपायान्तरेण तदसिद्ध्या तदर्थमध्यायशेषस्यारम्भ-णीयत्वप्रसक्तावपि लक्षणप्रमाणनिरूपणव्यतिरेकेण वस्तुविचारणाभावान्न तदर्थतयोत्तरसूत्रारम्भ-प्राप्तिरित्याह न हीति ॥ ननु लक्षणप्रमाणनिरूपणव्यतिरेकेण कथं वस्तुविचारणाभाव सम्भावना-निरूपणेन वस्तुविचारस्य सत्त्वादित्यतः स्यादेतदेवं यदि लक्षणप्रमाणयोरिव सम्भावनाया अपि वस्त्ववधारकत्वं स्यान्न चैतदस्तीत्याह सम्भावना त्विति ॥ तत्र हेतुमाह अप्रमाणत्वादिति । उत्कटैक-कोटिकसन्देहस्यैव सम्भावनात्वादिति भावः । नन्वेवं सति सम्भावानाया वस्त्ववधारकत्वाभावाद्-ग्रन्थकाराणां तद्-व्युत्पादनमनर्थकमापद्येतेत्यभिप्रायेण शङ्कते किं त्विति ॥ वस्त्ववधारणार्थत्वाभावेऽपि प्रयोजनान्तरार्थत्वान्न तद्-व्युत्पादनानर्थक्यमित्यभिप्रेत्य समाधत्ते यत्रेति ॥ प्रवृत्तिसङ्कोचनमिति । स्वेतरसमस्तवस्तुव्यवृत्ततया लक्ष्यस्वरूपानवधारकत्वमित्यर्थः ।
ननु समन्वयोक्तिमात्रेण सिद्धत्वात्समन्वयस्याप्रपञ्चनीयत्वान्न प्रपञ्चनार्थतयाऽध्यायशेषस्यार्थ-वत्त्वमित्यतो विनाप्रपञ्चनेन समन्वयोक्तिमात्रेण तदसिद्धेस्तत्प्रपञ्चनमर्थवदिति भावेनोक्तिमात्रस्या-साधकत्वं सदृष्टान्तमुपपादयति तत्त्वित्यादिना । ननु च विभागेन समन्वयम् आनन्दमय इत्यादिनाऽ-ध्यायेन वदति इत्येतावतैव समन्वयप्रपञ्चकतयाऽध्यायशेषस्यार्थवत्त्वसिद्धेरेवं शास्त्रावगम्यत्व इति भाष्यखण्डस्य वैय्यर्थ्यमित्यतः समन्वयसूत्रोक्तार्थप्रपञ्चकत्वे प्राप्तानुपपत्तिपरिहारार्थत्वान्न तदिति भावेन समन्वयप्रपञ्चकत्वेऽनुपपत्तिप्रदर्शनपूर्वकं तत्परिहारतया भाष्यं सङ्गमयति एवं तर्हीत्यादिना । कथमस्य व्यवधायकत्वमित्यतः सयुक्तिकं तदभिप्रायमाह एतदुक्तं भवतीत्यादिना । ननु सर्वत्र पदान्त एव विरतिदर्शनात्प्रकृते च ‘इत्यादिना’ इत्यस्य सुबन्ततयापदत्वेऽपीत्यदीत्यस्य तदभावेनापदत्वात्कथ-मित्यादीत्यत्र विरतिरित्यतो न सुबन्तत्वेनैव पदत्वमिति नियमः । तथा सति राजभ्यमित्यत्र राजन्नित्यस्य सुबन्तत्वाभावेनापदत्वान्नलोपाभावप्रसङ्गः । ततश्च यथाऽसुबन्तस्यापि राजन्नित्यादेर-सर्वनामस्थानसुब्विभक्तिपरत्वेन ‘स्वादिब्वसर्वनामस्थाने’ इति पदत्वान्नलोपः । तथाऽस्यापि पद-त्वाद्युक्ता तत्र विरतिरित्याशयेनाह स्वादिष्वसर्वनामस्थान इति पदसंज्ञानुशासनादिति ॥ ननु च राजभ्यामित्यादावजादिपरत्वाभावेन ‘यचि भम्’ इति भत्वाप्रसङ्गेनापवादकाभावात् ‘स्वादिषु’ इति पदसंज्ञोपपत्तेर्युज्यते नलोपः । प्रकृते तु तृतीयैकवचनस्याच्त्वेन ‘यचि भम्’ इति भत्वप्राप्तेर्भसंज्ञायाः पदसंज्ञापवादत्वान्न पदत्वमिति विरत्यनुपपत्तिस्तदवस्थैव चेत् । अत्र केचित् । ‘अयस्मयादीनि छन्दसि’ इति सूत्रे वार्तिककृता छन्दस्युभयसंज्ञान्यपीति वक्तव्यमिति पदत्वभत्वयोः समावेशाङ्गी-कारात् । छन्दस्तुल्यतया ‘उपदेशेऽजनुनासिक’ इत्यत्राच्शब्दे पदत्वप्रयुक्तजशत्त्वस्य भत्वप्रयुक्त-कुत्वाभावस्य च दर्शनादस्यापि छन्दस्तुल्यत्वादात्रापि पदत्वभत्वयोः समावेशसम्भवान्न भसज्ञायाः सर्वत्र पदसंज्ञापवादकत्वमिति । वस्तुतस्तु तृतीयैकवचनस्याच्त्वेऽपि नाभावेनहल्त्वादजादिरप-स्त्वाभावेन यचि भमिति भत्त्वाप्राप्तेरस्त्येवेहाप्यपवादकाभाव इति युक्तैव पदसंज्ञया विरातिरिति ध्येवम् । अङ्गीकृत्य चेदं समाधानमुक्तम् । वस्तुतस्तु यतिभङ्गस्य काव्यदोषत्वमेव । न शास्त्रदोषत्व-मपि । ‘य उपाधिर्लगति साध्ये सम्बन्धविशेषणे’ इति शास्त्रे पदमध्येऽपि विरतिदर्शनात् । अत एव गीताभाष्यटीकायां तस्यदोषत्वेनैव समाधनमुक्तमिति न किञ्चिदेतत् ॥
परिमल
॥ ॐ आनन्दमयोऽभ्यासात् ॐ ॥ ननु जिज्ञास्यब्रह्मस्वरूपनिर्णयाय जन्मादि-सूत्राद्युक्तलक्षणस्यतिव्याप्तिनिरासाय सर्वकारणादिवाक्यानां ब्रह्मपरत्वाय तत्रासम्भावनानिरासाय चोत्तरग्रन्थस्य प्रवृत्तेर्वाच्यत्वान्मूले कथं प्रपञ्चनपरत्वोक्तिः । नह्येतत्सर्वं प्राक्सिद्धमित्यतोऽवतारयति अथात इति ।
विहिता कर्तव्यत्वेन बोधिता इष्टसाधनत्वेनोक्तेति यावत् । वस्तुविचारणं नामास्तीत्यतन्तरं येनाध्यायशेषस्य सार्थक्यं भवेदिति शेषः । नन्वेवं तर्हि ईक्षत्यधिकरणमपि व्यर्थं स्यादित्याशङ्क्य तत्सार्थक्यमुपपदायति संभावना त्वित्यादिना । ननु लक्षणप्रमाणाभ्यां वस्त्ववधारित(रण)मित्यत्र संभावनया चेति वाच्यम् । अन्यथा तदुक्तिवैय्यर्थ्यादित्यत आह संभावना त्विति ॥ अतथाभावेति । अलक्षणादिभावेत्यर्थः । नन्वीक्षतिनये प्रमाणविषयत्वसंभावनैवोक्ता । तथाच लक्षणप्रमाणयोरित्युक्तिः कथम् । सत्यम् । ब्रह्मपदोक्तगुणपूर्णत्वलक्षणाभिप्रायेणात्र लक्षणोक्तिः । तस्य जन्मादिसूत्रे जगज्जन्मादिहेतुत्वोक्त्या संभावनोक्तेः । यद्वा प्रमाणे सम्भावनयाऽतद्विषये तद्धेतुत्वादिलक्षणेऽपि सा भवतीति परंपराभिप्रायेण तल्लक्षणोक्तिः । समन्वयसूत्रस्याध्यायादित्वमुपेत्योक्तम् अध्यायशेषस्येति । तात्पर्योक्त्या शङ्कानिरासप्रकारमाह सत्यमित्यादिना । ‘‘तथा चैवं सूत्रयोजना’’ इत्यादिना यस्समन्वय सूत्रस्य प्रागर्थ उक्तस्तमनुवदति तत्तु समन्वयादितीति ॥ प्रतिपाद्यप्रतिपादकत्वलक्षणसमन्वय इति । एतदेव हि तत्परत्वरूपः सम्बन्धः । तत्प्रमितिशेषत्वस्यैव तात्पर्यशब्दार्थत्वादिति भावः ॥ कथं प्रपञ्चनं किमर्थं चेत्यत आह तत्तुसमन्वयादिति हीति ॥ विमर्शेति । युक्त्यनुसन्दानपूर्वकमित्यर्थः ॥ अन्यदेवेति । तत्तु समन्वयादिति सूत्रकृदुक्ते सति अन्यदेव ब्रह्मभिन्नमेव वस्तु शास्त्रयोनि, समन्वयाद् उपक्रमादिभिरन्यवस्तुपरत्वरूपसम्बन्धावगमादित्युक्त्वा कृती कृतार्थः स्यादित्यर्थः ॥ प्रत्ययमिति । विश्वासम् । एकः कश्चित्पुमान् । परस्ताद्वितस्तेरिति । त्वदुक्तप्रदेशापेक्षया वितस्तिपरिमितप्रदेशा- त्परस्तात्परत्र भूमध्यप्रदेश इति ब्रूयादित्यर्थः । एवमित्यनुवादः ‘‘न्यायेन’’ इत्यंतं व्याख्या । शब्दैक-जन्यज्ञानकर्मत्वादिति न्यायेनेत्यर्थः । ‘सम्भाविते सति’ इति शेषोक्तिः । कुतो व्यवधानमिति-शङ्कानिरासप्रकारमाह सत्यमित्यादिना ॥ ननु मूलश्लोके ‘‘इत्यादिना’’ इत्येकपदत्वेन पदमध्य एव पादान्तविरामो न युक्तः, यतिभङ्गापत्तेरित्यत आह स्वादिष्विति । कप्रत्ययावधिषु परतः पूर्वं पदसंज्ञं भवतीत्युक्तत्वादिह च तृतीयाविभक्तेर्नाशब्दस्य स्वादित्वेन तत्परतः पूर्वस्य पदत्वेन पदस्यैव पादान्ते विरामप्राप्तेरितिभावः ॥ यतीति । यतिरुपरमः । ‘‘यम उपरम’’ इति धतोः । यस्मिन् स्थले उपरमः पदस्योचितस्तस्य भङ्ग इत्यर्थः । पदान्तस्यैव पादान्ते उपरमस्योचितत्वेन पदमध्ये अनुचितत्वात् । ‘‘यतिर्विच्छेदसंज्ञिका’’ इति वृत्तरत्नाकरोक्तेः । ‘‘श्लोकेषु नियतस्थानं पदच्छेदं यतिं विदुः’ इति दण्डिनोप्युक्तेः ।
यादुपत्यम्
॥ ॐ आनन्दमयोऽभ्यासात् ॐ ॥ वस्तुविचारणं नामास्तीत्यनन्तरं येनाध्याय-शेषस्य सार्थक्यं स्यादिति शेषः । नन्वेवमीक्षत्यधिकरणमपि व्यर्थं स्यादित्याशङ्क्य तत्सार्थक्यमुप-पादयति सम्भावना त्वित्यादिना ॥ विमर्शपूर्वकमिति । संशयपूर्वकमित्यर्थः । नन्वित्यादीति कथं विरतिः । अपदान्तत्वात् । श्लोकेषु पदान्न एव विरतिदर्शनादित्यत आह स्वादिष्वसर्वनामेति । स्वादिष्विति सुशब्दादेकवचनादारभ्य आकपः प्रत्यया गृह्यन्ते । स्वादिषु परतः सर्वनामस्थानवर्जितेषु पूर्वं पदसंज्ञं भवतीति सूत्रार्थः । राजभ्यां राजभिरित्याद्युदाहरणं द्रष्टव्यम् । एवं च राजभ्यामित्यादौ यथा प्रातिपदिकान्तस्यापि नस्य पदान्तत्वेन लोपः । एवमित्यादीति । प्रातिपदिकान्तस्यप्यनेन सूत्रेण पदान्ततायां तत्र विरतिर्युक्तेति भावः ॥ यतिभङ्ग इति । यतिस्थानभङ्गो यतिभङ्ग इति मध्यमपदलोपी समासः । यतिर्विरतिः ।
श्रीनिवासतीर्थीया
॥ ॐ आनन्दमयोऽभ्यासात् ॐ ॥ ननु ‘एवं शास्त्रावगम्यत्वे’ इत्यनेनाध्यायशेषस्य तदर्थत्वोपपत्तिरित्यतो वृत्तानुवादपूर्वकमध्यायशेषमाक्षिपति अथात इत्यादिना । ननु लक्षणादिनिरूपणे कृतेऽपि वस्तुविचारणमेव तदर्थ इत्यत आह न हीति । अथाऽपि संभावनैव तदर्थ इत्यत आह सम्भावना त्विति ॥ अकार्यकारित्वादिति । कार्यं गुणपूर्णतारूपं तदकारि-त्वादित्यर्थः ॥ अन्यदेवेति । ‘तत्तु समन्वया’दिति सूत्रकृदुक्ते सत्यन्यदेव ब्रह्मभिन्नमेव वस्तु, शास्त्रयोनि । समन्वयादुपक्रमादिभिरन्यवस्तुपरत्वरूपसम्बन्धावगमादित्युक्त्वा कृती कृतार्थः स्यादित्यर्थः ॥ प्रत्ययमनुत्पाद्येति । विश्वासकारणमनुक्त्वेत्यर्थः सति । हि तस्मिन्निति । अवाच्यत्व-शङ्कानिरासेन शास्त्रावागम्यत्वसंभावनासमर्थने सतीत्यर्थः॥ एतस्येति । समन्वयस्येत्यर्थः । तदेव विशदयति शब्दलेशेति । अवाच्यत्वशङ्कयेत्यर्थः । वाक्यतात्पर्यविचारस्येति । समन्वयविचारस्येत्यर्थः। तोयाभ्यवहारासामार्थ्यं शब्दलेशसञ्चारासम्भवे दृष्टान्तः, शष्कुलीभक्षणं वाक्यतात्पर्यरूपसमन्वयविचारे दृष्टान्त इत्यवधेयम् ।
वाक्यार्थरत्नमाला
श्रीशं सुपूर्णसुखपूर्वगुणैकदेहं व्यासं
श्रुतीशमथ मध्वमुनिं जयार्यम् ।
श्रीव्यासराजमपि मान्यगुरुं सुविद्या-
धीशं परं गुरुमथो गुरुराजमीडे ॥ १ ॥
गुरुराजपदे स्मृत्वा शेषवाक्यार्थचन्द्रिकाम् ।
तद्दयातो व्याकरिष्ये तत्र तत्र यथामति ॥ २ ॥
टीकाकारो ग्रन्थदौ मङ्गलमाचरति । सकलेति । वाद्यान्तरोक्ताष्ट गुणत्वव्यवच्छेदाय सकलपदम् । तद्रीत्यैव दुःखादावपि गुणात्वव्यवहारात्तेषामपि प्रसक्तिवारणाय शोभनार्थकशुभशब्दोपादनम् । पिबत्यनेनेति पात्रमित्याद्यर्थकौणादिकः पात्रशब्दोऽत्र न विवक्षितः । अपित्वाश्रयत्वार्थ एव, सपात्रं बन्धमोक्षयोरित्यादाविव विवक्षितः । तथाच सार्वज्ञ्यसर्वैश्वर्यपूर्णसुखानन्तकल्याणगुणाश्रयमित्यर्थः । कतिपयदोषराहित्यस्येतरसाधारणत्वात् सर्वेति दोषविशेषणम् । दोषाणां मुख्यजैत्रं जयशीलमित्यनेन सर्वदोषादिदूरत्वमुक्तम् । जेतृशीलोपेतं जैत्रम् । छत्रशीलोपेतःछात्र इत्यत्र शीलमित्यनुवर्तमाने छत्रादिभ्योऽण् इत्यनेनास्येणो विधानात् । तद्धिता इति बहुवचनबलेन जेतॄशीलवत्यर्थेऽपि णप्रत्ययः । यद्वा ऋतोऽञिति सूत्रे ऋवर्णान्तात्प्रातिपदिकात्तस्य धर्म्यमित्यर्थे विहितोप्यञ् जेतृशब्दात्स्वार्थे जेतैव जैत्रमिति भवति । प्रज्ञ्यादित्वाभ्युपगमात् । एतद्विशेषणद्वयेन प्रथमद्वितीयाध्याययोरर्थः सङ्गृहीतः । तृतीयचतुर्थाध्यायार्थसंग्राहकं सुमतिसुगतिदात्रमिति । तत्र सुमतिदात्रमिति तृतीयार्थः । सुगतीति चतुर्थार्थः । दातृशीलोपतं दात्रमिति वा स्वार्थिकाञादिप्रत्यये दातृ यत्तदेव दात्रमिति वा सर्वधातुभ्यः करणे ष्ट्रन्प्रत्ययविधायकेनेष्ट्रानिति सूत्रेण दीयतेऽनेनेति दातृमिति करणे धातोः ष्ट्रन्प्रत्यये स्त्रीत्वस्या-विवक्षणात् ङीपोऽभावेन वा दात्रमिति साधु । एतेन लवनार्थकदाञ् धातोः करणकारकेष्ट्रन्विधायकेन दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहःकरणे इत्यनेन दानार्थकदाधातोः ष्ट्रन्नङ्गीकारानुपपत्तिरिति उमर्जीकोक्तदूषणं गर्भस्रावेणैव गतम् । भगवतः शरीराभाव इति मतनिरासाय सुष्टु सदिति विशेषणम् । नीयते ज्ञायतेऽनेनेति नेत्रम् । दाम्नीति पूर्वोदाहृतसूत्रे नीधातोः करणे ष्ट्रन् । ज्ञानस्य सत्वं च मिथ्या-ज्ञानादिसामानाधिकरणात्वाभाव उत्पत्यादिशून्यत्वं च विवक्षितम् । सुष्टुत्वं चोरुसंविदित्यत्र-त्योरुत्वमिव सर्वविषयकत्वमिति विवेकः । तन्नेत्रं यस्येति विग्रहः । यद्वा सुष्ट्वित्येतन्नेत्रविशेषणं भगवन्नेत्रस्य सज्ज्ञानात्मकत्वेनैव सुष्टुत्वं प्राकृतभौतिकवद्विनाशादिशून्यत्वमिति भावः । भगवति कर्तृभूतस्यापि करणत्वं तु सर्वविभक्तीनां भगवति प्रवृत्तेः सर्वास्तच्छब्दगा अपीत्यादिप्रमाणसिद्ध-त्वात्करणविभक्तिमत्वेन युक्तम् । अस्मदादेशाहमित्येतद्-व्यतिरिक्ताहमित्यस्येवान्तर्यामित्वं विनाऽपि स्वातन्त्र्येण भगवत्प्रतिपादकतृतीयान्तशब्दानामपि सुलभत्वात् । अन्तर्यामित्वनिर्बन्धे प्रज्ञानेत्र इत्यत्र प्रज्ञाशब्दवाच्यभगवन्नेतृक इत्यर्थे पृथगधिकरणोक्तेऽप्यन्यथाख्यातिरीत्या करणान्तरमङ्गीकार्यं स्यात् । न च तद्युक्तम् । मुक्तनियामककरणान्तराभावादिति ज्ञेयम् ।
चष्ट इत्येव तच्चक्षुरित्यानन्दमयनयभाष्यावतारमूले करणात्वानुपपत्तेरित्युक्तिरप्यङ्गीकारवादेनेति तद्-व्याख्यानावसर एव वक्ष्यामः । अनेनैवोपलक्षणया ज्ञानानन्दात्मकविग्रहवत्वमुक्तं भवति । ब्रह्म-जिज्ञासेत्यत्रत्यब्रह्मपदोक्तगुणपूर्णत्वरूपमुख्यलक्षणसङ्ग्रहानन्तरं तत्साधनकत्वेन जन्मादिसूत्रोक्तजग-ज्जन्मादिकारणत्वरूपलक्षणमपि भगवति सङ्गृह्णाति । निखिलेति । पत्युरसामञ्जस्यादित्यधिकरणीय-सर्वज्ञत्वादिकैः सर्वगुणैः पूर्णं सर्वदोषवर्जितमिति प्रधानलक्षणाविरुद्धार्थोपन्यास इत्येतन्मूलानुसारेण लक्षणपरयोजनायामुक्तं लक्षणद्वयमपि जन्मादिकारणत्वादिरूपं प्रधानमेव लक्षणमुक्तम् । उत्तरमूलेऽपि यत्र गुणपूर्णत्वं प्रधानलक्षणमित्युक्तिस्तत्र ब्रह्मशब्दार्थत्वेनैकस्यैव प्रतीतिरित्याशयेनेति न दोष इति ज्ञेयम् । स्वेतरसमस्तजगतो या जनिरुत्पत्तिस् तस्या आदिभूताया ग्रहणं स्थित्याद्युपलक्षणार्थम् । तस्या जनित्रं कारणम् । जनयति करोतीत्यर्थे जनेर्धातोर् वक्ष्यमाणरीत्या इत्रप्रत्ययः । निखिला वियदधि-करणव्युत्पादितावान्तरभेदभिन्ना या जनिस् तज्जनित्रमिति वा । शिष्टपरिपालनवद् दुर्जनशिक्षणमपि भगवता क्रियत इत्याह । नित्येति । दुष्टत्वं शापादिना जयादीनामपीत्यतो नित्येति विशेषितम् । नित्यं ये दुष्टास्तेषां शिक्षणार्थं मुख्यतः वेत्रवत् स्थितम् । मुख्यतः शिक्षकमिति यावत् । गुधृवीपचिवचिय- मिसदिक्षदिभ्यस्त्र इति सूत्रेण गत्याद्यर्थकवीधातोस्त्रप्रत्ययः । वीयतेऽनेनेति वेत्रमिति भवति । एवंभूतस्य भगवतो आश्चर्यरूपत्वमाह । नवनवेति । नवनवं ज्ञातृभिः पूर्वं प्रत्ययेनाविषयीकृतमेव कालभेदेन विषयीक्रियमाणं सु शोभनं चरित्रं चरितं यस्येति तथोक्तस्तम् । चरेर्वृत्तेर्ह्रस्वश्चेति सूत्रेण चरधातोर् णित्रन्प्रत्यये ह्रस्वपक्षे चरित्रमिति साधु । ग्रन्थारम्भे सकलवाङ्मनसदेवतया रमया युतस्यैव हरेर्वन्दन-माचरणीयमिति मूलकृता तत्र तत्र प्रतिपादनाल्लक्ष्मीपतित्वेनैव विशेष्यं निर्दिशति । लक्ष्मीकलत्रमिति । लक्ष्मीः कलत्रं यस्य स तथोक्तः । गडेरादेश्च क इत्यनेन गडेरत्रन्प्रत्यये आदेश्च कादेशे कडत्रमित्येव सूत्रे उक्तावपि डलयोरेकत्वस्मरणात्कलत्रमिति सिद्धान्तकौमुद्युक्तेर् गलधातोरत्रन्प्रत्यये गकारस्य ककारश्च भवतीति कलत्रमिति साधु । नवनवेति विशेषणस्यैतद्विशेषणसन्निधानकरणेन लक्ष्म्या अपि नवनवसुविशेषोपलंभेनोक्तरीत्या नवनवमेवेति ध्वनितम् ॥ १ ॥
शास्त्रकर्त्तुर्वेदव्यासस्य भजनरूपं मङ्गलमन्यापदेशव्याजेनाचरति । शुभगुणेति । शुभा मङ्गलरूपा गुणा ज्ञानानन्दायस्तेषां गणः समुदायः । अनन्तकल्याणगुणा इति यावत् । स एव गात्रं शरीरं यस्येति तथोक्तस्तम् । गमेराचेति सूत्रेण गन्धातोस्त्रन्प्रत्यये मकारस्यादेशे आकारे जाते सवर्णदीर्घे च गच्छतीति गात्रमिति साधुता । शुद्धविज्ञानेति विशेषणं सुष्टु सदिति पूर्वश्लोकगतविशेषणवद्य्वाख्येयम् । एवं भगवति प्रमाणप्रतिपादनाय श्रुतीति विशेषणम् । श्रुतिषु विततो विस्तृतं विस्तरेण प्राचुर्येण प्राधान्येन वा महातात्पर्येणेति यावत् प्रतिपादितम् । चरित्रं चरितं यस्य स तथोक्तः । श्रान्ततापेत्यनेन योग्यभगवद्भक्तानां संसारक्लेशानुभवानन्तरं वैराग्ये सति श्रवणादिसाधनानुष्टानवतामपरोक्षज्ञानदान-पूर्वकमशेषानिष्टरूपतापनिवर्त्तकत्वं फलोपधानरूपमुक्तम् । श्रान्तानां तापस्य निवर्त्तने आतपत्रमिवेति विग्रहस्य गम्यमानत्वान्निवर्तनपदाप्रयोगः । मतध्वान्तदिवाकरः, तिमिराशिशिरद्युतिमित्यादौ तथात्वस्य सिद्धत्वात् । ब्रह्मभावो ब्रह्मभूयमित्येतदुपपादनाय वत्यर्थस्य वृत्तावन्तर्भावान्मयूरंव्यसकादिवदिति चतुर्दशगीताभाष्यटीकायामुक्तम् । पञ्चदशे असङ्गशस्त्रपदविचारावसरेतु दध्योदनादिवद्वृत्तौ साहित्य-स्यान्तर्भावादप्रयोग इत्युक्तम् । तट्टीकायामन्येन व्यजनं भक्षेण मिश्रीकरणमित्येतत्सूत्रीयकाशिका-मञ्जर्याद्यनुसारेण गुरुचरणैर्विचारः कृतोऽस्ति सोऽप्यनुसंधेयः ।
श्रमेत्यनेन तु संसारश्रमलक्षणजलधेस्तरणे कर्तव्ये वहित्रं नौस्तद्वदित्येवं श्रमनिवर्त्तनयोग्यत्वमुच्यत इति पूर्वभेदः । पूयतेऽनेनेति पवित्रम् । कर्त्तरिच ऋषिदेवतयोरिति सूत्रेण पुवोधातोः कर्त्तरि देवतायाम् इत्रप्रत्यये पवित्रमिति भवति । अग्निः पवित्रं समा पुनातु वायुः सोमःसूर्य इन्द्रः पवित्रं ते मा पुनन्तु इति श्रुतिः । पिता माता सुहृद्बन्धुरित्यादिस्थले भगवतः सुहृत्वरूपमित्रत्वप्रसिद्धेर्विबुधानां देवानां मित्रं सुहृदित्यर्थः । अमिचिमिदिशसिभ्यः क्त इत्यनेन ञिमिदा स्नेहन इति धातोः क्त्रप्रत्यये मेद्यत इति मित्रमिति भवति । स्नेहविषय इति फलति । तत्सूत्रीयोणादिवृत्तौ मित्रमित्यस्य सुहृदित्युक्तेः । मनोरमायां मित्रं सुहृदि न द्वयोः । सूर्ये पुंसिचेत्युक्तेश्च । तथा सुहृद्दुर्हृदौ मित्रामित्रयोरित्येतत्सूत्रेण सुशब्दात्परस्य हृदयशब्दस्य हृदादेशविधानेन सुहृदिति मित्रवाचीति तच्छब्दयोरेकार्थत्वम् । सुहृन्मित्रार्युदासीनेति गीतास्थसुहृन्मित्रपदयोस्तु तद्वयस्य सहप्रयोगादर्थभेदसिध्द्यर्थं प्रमाणानुसारेण निमित्तोपकारकत्वाद्यर्थकतया तद्भाष्ये व्याख्यानं कृतमिति न दोषः ।
देवकार्यार्थमवतारादिकरणात् प्राधान्यविवक्षया देववाचिविबुधपदप्रयोगः । यद्वा विबुधपदेन विशिष्टबोधवन्तो देवर्षिमुखा अधिकारिणो ग्राह्याः । एवंविशेषणकं शक्तियोङ्गीद्रपौत्रम् । शक्तिनामको यो योगीन्द्रः पराशरपिता तत्पौत्रमित्यर्थः । पौराणिकप्रसिध्यनुसारेण पराशरस्वरूपमपि व्यञ्जयितु-मेतत् । शान्तिमन्त उपलक्षणत्वात् शान्त्यादिगुणोपेता जनाः श्रयत संभजतेति सम्बन्धः । पूर्वश्लोके पूर्वोत्तरार्धगतदलचतुष्कयोर् आद्याक्षरे सकारत्वनकारत्वाभ्यां भेदेऽपीह श्लोके पूर्वोत्तरार्धगतदलाष्टकेऽपि शकार एवाद्याक्षरम् । त्रकारस्यान्त्यतया प्रासस्तु प्रत्येकं दलाष्टके श्लोकद्वयेऽपीति ज्ञेयम् ॥
विद्याख्येति ॥ २ ॥
यद्ध्येयमध्वस्याद्भूतांभोनिधित्वमुक्तं तदुपपादयितुं सुबृंहिताय शुद्धायेत्यादिकं प्रसिद्धाम्बुधिव्यावृत्तं विशेषणमुक्तम् । भुवि विद्योतमानः प्रसिद्धोऽम्भोनिधिर् अयं क्व विद्योतमान इत्यत उक्तं बुद्धाविति ॥३॥
श्रीमद्य्वासेति चतुर्थपद्ये प्रसिद्धजलधितोऽतिशयप्रतिपादनाय शुद्धत्वकीर्त्तनम् । मन्दराचलस्थाने हृदयमित्युक्तं हृदिति । वासुकिसर्पस्थने मतिपदेन ज्ञानमुक्तम् । मतिलक्षणः श्रेष्ठाहिरिति योज्यम् ।अहियुक्तं यद्धदिति गम्यमानत्वादप्रयोगः । अहिधारकदेवासुरस्थानीयं वक्तुं मध्वोक्तेत्यादि मतिश्रेष्टाहिविशेषणम् । मध्वोक्ताः सत्तर्काश्च वाद्यन्तरोक्ता दुस्तर्काश्च मध्वोक्तसत्तर्कदुस्तर्काः । अमराश्च दानवाश्च अमरदानवा मध्वोक्तसत्तर्कदुस्तर्का एवामरदानवाः सत्तर्कदुस्तर्काख्यामरदानवास् तैरासम्यक् भृतो धृत इत्यर्थः । अत्र मतेराभृतत्वमुत्पाद्यत्वमेव । पूर्वोत्तरपक्षनिराकरण समर्थनोप-योगितया दुस्तर्क अज्ञानस्याप्यालोडने कारणत्वात् । प्रसिद्धरत्नवैषम्यं वक्तुमखिलेत्यादि । महारत्नानि सुधातिरिक्तग्रन्थान्, सुधां चेति सम्बन्धः । योगीचासौ महेन्द्रसन्निभश्चेति विग्रहः । महेन्द्रसन्निभ-त्वोक्तया वेदेषु श्रेष्टतया महेन्द्रे मथनयत्नाधिक्यमिति सूचयति । तथा जयमुनेरिन्द्रावतारत्वप्रसिद्धि-रप्यनुकूलिता । अत एव श्रीमुष्णमाहत्म्ये इन्द्रकर्तृकभगवत्स्तोत्रावसरेविश्वस्योदयमातनोषि तदनु त्राणं विधत्से पुनः सौख्याप्तीतरहनिसाधनमलं वक्षि श्रुतिरित्यादिरूपेण पठितमेव पद्यं तत्वनिर्णयटीकायां विश्वस्योदयमातनोतीत्यादिरूपेण पठितमिति बहवः ॥ ४ ॥
रघूत्तमेति पञ्चके प्रसिद्धचन्द्रवैलक्षण्यप्रतिपादनायामलमित्यादिकम् । तत्वप्रकाशिकासूत्रभाष्य-व्याख्यानरूपा ॥ ५ ॥
परवादीति षष्टे परवादिलक्षणगजानां वागेव कुंभपदोक्तगण्डस्थानीयातद्भेदकारण इति गम्यमान-त्वादप्रयोगः ॥ ६ ॥
भक्तीति सप्तमे गुणसन्ततेर्बहुगुणानां सङ्गतिर्यस्मिन्नित्यर्थः ॥ ७ ॥
हृद्य्वामनोहरश्रीमद्य्वासराजमभिष्टुवन्नेव श्रीविद्याधीशमपि तदवतारत्वेनाभिष्टौति । वेदव्यास-मतेति । मतलक्षणो यो आपगपतिवरः सरित्पतिश्रेष्टस्तम् । प्रसिद्धतत्पतिवैलक्षण्यं वक्तुं परपदम् । एवं सदादिपदानि ॥ श्रीमतो जयतीर्थस्य प्रोक्तं प्रोक्तिस्तल्लक्षणो यः सत्सर्पस्तेनावेष्टितो यो मध्वसन्मुनिवर निर्मितग्रन्थलक्षणोऽगवर्यः पर्वतश्रेष्टस्तेनेति योज्यम् । सन्नयामृतवरमित्यनेन न्यायामृतं निर्दिष्टम् । तत्वादीत्यादिपदेन न्यायानां ग्रहणम् । दीपिकातत्वप्रकाशिकेति यावत् । तस्या यत्सत्तात्पर्यं तस्य सुचन्द्रिकामिति विग्रहः । तरुवरं तर्कताण्डवमिति सम्बन्धः । अत्र यो इति द्विवारोक्तया यः श्रीव्यासतीर्थो बुधः सन्नयामृतवरं निष्कासितवान् यश्चन्द्रिकां या निष्कासितवानित्येवं प्रत्येकयोजनां सूचयति । खण्डनत्रयमुखेत्यत्र मुखपदेन तत्वविवेकपरिग्रहः । व्याख्यानपदमावर्तनीयम् ॥ खण्डनत्रयादिव्याख्यानानां यानि व्याख्यानानि तल्लक्षणं रत्नोच्चयमिति योजना ॥ उपलक्षणया तत्कृत-भेदोज्जीवनादिग्रन्थान्तरमपि ग्राह्यम् । तदनन्तरं च व्यासतीर्थः प्राङि्नर्दिष्टां स्वोक्तिं कुत्सितयुक्तयराति पिहितां दृष्ट्वा तां रक्षितुं विद्याधीशयतीन्द्रसद्गुरुवरस् तेन रूपेणावतीर्णो न किं ? अवतीर्ण एव । हीत्यस्यार्थस्य प्रसिद्धत्वमाह । अवतारकृत्यं वक्तुं विशेषणं प्रतिपदमिति । यः विद्याधीशगुरुवरः प्रतिपदं प्रवचनादिकाले सम्यग्विशेषार्पकस्तद्विद्याधीशरूपेणेति योज्यम् ॥ ८-९ ॥
स्वपितृत्वाद्युपेतानन्दाचार्यभजनरूपं मङ्गलमाचरति । यद्धस्तेति ॥ अत्र यद्धस्तांबुजेन संगतः संगृहीत इति विशेषणेनेदं सूचितम् । पूर्वं किल श्रीतिमभट्टोपाध्यायानां च पुत्रभूतस्य स्वस्य परिपालनविधिना आनन्दाचार्यैः स्वस्य सङ्ग्रहः कृतस्तत आरभ्यानन्दाचार्यपुत्रत्वमेव स्वस्येति । अत्रेयं कथा । आनदाचार्यतिमणभट्टयोरिष्टालापकाले तव चत्वारः पुत्रा मम तु द्वावेवेति वैषम्यं मास्त्वित्यानन्दाचार्यैः स्वीकृतस्तत आरभ्यानन्दाचार्यपुत्रत्वमेव स्वस्येति ।
अत्रेयं कथा । आनन्दाचार्याश् चतुर्ष्वेको ग्राह्य इति तिमणाभट्टैरुक्ते सति पश्चात्परिपालनविधिना तैः सङ्ग्रहं कृत्वा अक्षराभ्यासादिसंपत्यनन्तरं विष्णुस्तुत्यर्थपाठादिकथनारम्भः कृतः । सहायेन गोदावरीस्नानार्थं प्रत्यहं नयनादिकं च कृतम् । तदा प्रबुद्धान् श्रीनिवासाचार्यनरसिंहाचार्यान्प्रति भवदपेक्षयैतं प्रौढं करिष्यामीति कथनादि च । स्वाशक्तिसमये नरसिंहाचार्यत्वावस्थापन्नस्वामिहस्ते एतेषां प्रदानं कृतम् । तदारभ्य स्वामिभिरेव संपूर्णं शास्त्राभ्यासादि कारितमित्यादिका ज्ञेया ॥ अत एव परगुरूनिति स्वामिद्वारकं गुरुत्वमुक्तम् । देव्याः सरस्वतीदेव्याःश्रीदेव्याश्च । नन्दनद्रुमो यथा स्वसंलग्नवृक्षविशेषं स्वसम्बन्धनिमित्तेन सुगन्धादियुक्तं करोति । एवमेव स्वीयं स्वसंगतं जनं स्ववद्य्वाख्यानादिनिपुणं कुर्वत इति योज्यम् ॥ १० ॥
स्वज्येष्टभ्रातृश्रीनिवासाचार्यभजनरूपं मङ्गलमाचरति । य इति । मायाविलक्षणा ये सिंधुरा गजास्तेषां सुकुंभगिरीनिति योज्यम् । मातंगमाद्ट्घटाकुंभोच्चाद्रीत्यादाविव गिरित्वस्याप्युक्तिः । अत एव नखरैरित्यत्र वज्रकल्पैरित्यभिप्रैति । तीक्ष्णपदेनैव वा वज्रकल्पत्वं विवक्षितमिति ज्ञेयम् ॥ ११ ॥
गुरुन्ममेत्येतद्वैराग्यभाग्यो ममेत्येतद्वदुपपादनीयम् ॥ १२ ॥
स्वस्य ग्रन्थकरणे बलं वदन्नेव स्वामिकृतग्रन्थस्य शेषपूरणम् । तदाज्ञाभावे दोषतया संभावितमपि तत्सत्वेन दोष इति च सूचयन् चिकीर्षितं प्रतिजानीते । अथेत्यादिना कुलकेन । तेषामाज्ञामिति । अत्रायमाज्ञादानप्रकारः । यदा स्वामिनो गङ्गायात्रोद्देशेन धर्मपुरीं प्राप्तास्तदावस्थले यदुपत्याचार्य-प्रमुखविद्वत्समाजे सति स्वग्रन्थशेषकरणायैतेषां नियोगः क्रियते । एते मदीयग्रन्थशेषनिर्वाहं करिष्यन्तीत्यादिकं प्रसक्तानुप्रसक्तयोक्तवन्तः । यदा प्रयाणोन्मुखास्तदा सर्वजनसमाजे सति यद्यस्माभिर्गङ्गायात्रादिकर्त्तव्यनिष्पत्यनन्तरमागम्यते तर्हि वयमेवैतद्ग्रन्थशेषपूरणं करिष्यामः । यदि च रघुपतिसङ्कल्पानुसारेण मदागमनं न भवति तर्हि मत्संप्रदायाभिज्ञस्त्वमसि शिक्षितप्रकारेण त्वमेवै-तच्छेषपूरणं कुर्वित्युपदिश्य श्रीवेदनिधितीर्थश्रीपादादिसमक्षं स्वकीयं पुस्तकं लेखणिकां चैतेभ्यो दत्वा लौकिकविषये किंचिदुपदिश्य तुभ्यं किमपि मया न दत्तम् इदानीं यद्याच्यते तद्रव्यं भूम्यादि दास्या-मित्युक्तवन्तस्तदा गुरवोऽन्यदविगणय्य स्वामिन एव ममापेक्षिता नातोऽन्यदपेक्षितमित्युक्तवंतस्तदा स्वामिभिः स्वकण्ठस्थितश्रीतुलसीमालिका दत्वा एतानालिङ्ग्य नेत्रांबुना अभिषेकः कृतस्तदेतदृष्ट्वा यदुत्पत्याचार्या भवतामद्यैव भागीरथीस्नानं जातमित्युक्तवन्तः । तदनन्तरं गुरवो मध्ये मध्ये कठिण-वाक्यभागमेव पुरस्कृत्य तत्र तत्र व्याख्यानार्थं प्रवृत्ताः । कालविशेषे स्वामिनां वैकुण्ठयात्रा जातेति श्रवणानन्तरं चित्ताकुलमनस्काः सन्तो यत्काले स्वामिस्थला जनाः समागतास्तदा तद्वारा ग्रन्थकरणविषये स्वाम्याज्ञां ज्ञात्वा स्वप्नतश्चावगम्य तद्ग्रन्थशेषपूरणे प्रवृत्ता इति । अत एव मध्ये निमित्तविशेषेण गुर्जारीव्यासाचार्यद्वारा यदुपत्याचार्यैः स्वाम्याज्ञानुसारेण ग्रन्थशेषपूरणं कार्यमित्यादिकं श्रावितम् ॥ १३ ॥
स्मारंस्मारम् । स्मृत्वा स्मृत्वा । स्मृ आध्यान इत्यस्मात्पौनःपुन्यरूपाभीक्ष्ण्ये विशिष्टार्थे वर्त्तमानादाभीक्ष्ण्ये चेति सूत्रे णमुल् प्रत्यये णादिलोपेनाम् इत्युर्वरिते णिति परतो ऽचोञ्णितीत्यनेना-जन्ताङ्गस्य ऋकारस्य आकाररूपवृद्धौ रपरत्वे कृन्मेजन्त इत्यव्ययत्वे स्मारमिति सिद्धाव्ययस्य नित्यवीप्सयोरित्यनेन नित्यशब्दोक्ताभीक्ष्ण्ये द्विर्वचनविधानाद् द्वित्वेच सति स्मारं स्मारमिति साध्विति ज्ञेयम् ॥ सौधेति । सुधासम्बन्धिनः सौधास् तेचते गूढा अर्था वाक्यार्थश्च सौधगूढार्थाः स्वामिचरणै-र्निरूपितास् तेषां शेषभूता ये वाक्यार्थास्तेषां चन्द्रिकामिति योज्यम् ॥ १४ ॥
तदेतद्ग्रन्थकरणं न ग्रन्थकर्त्तृत्वाभिमानेनापितु स्वामिश्रीचरणसेवात्वबुध्यैवेति व्यञ्जयन् लोकान्तरं गतानां सेवान्तरं च स्वस्याप्रियमिति तदकृत्वा शेषपूरणरुपैव तत्पादसेवा क्रियत इत्याह । यद्विद्याधीशेति । शुश्रूषाशब्दः सेवापर्यायः । वक्ष्यति च सेवेति । विद्याधीशगुरोः शुश्रूषा अन्या तदुद्देश्यकव्रतानुष्टानादिरूपा न रोचते । गुरोरित्येतद्विपरिणामेन गुरव इति वर्त्तते । गुरुभिः स्वप्रकृतग्रन्थविशेषपूरणस्यैव कर्त्तव्यतयोक्तत्वेन तत्करणस्यैव सेवान्तरापेक्षया प्रीतिकरत्वादिति भावः । यद्वोक्तरीत्या गुर्वाज्ञानुसारेण प्रवृत्तिरेवोचितेति मन्यमाना अयमूह्य इत्यभ्यर्हितत्वात्संबध्यतेते । नारायणोऽगण्यगुणेत्युपाधिखण्डनपद्यव्याख्याने प्रीयतामस्माकमिति शेषो ऽभ्यर्हितत्वेन सिद्धत्वान्नेद-मुक्तमित्युक्तेः । एतेन शुश्रूषा गुरोर्न रोचत इति सम्बन्धमाश्रित्य रुच्यर्थानां प्रीयमाण इत्यनेन प्रीयमाणाख्यसंप्रदानत्वोक्तेरत्र चतुर्थी स्यादिति कस्यचिच्चोद्यं निरस्तम् । श्रुश्रुषायाः कर्मत्वेनानिर्दिष्टस्य गुरोरित्यस्य रुचिसंप्रदानत्वेनोक्तिकल्पनस्याज्ञानमूलकत्वात् । तथासति शुश्रूषाकर्मानुक्तिपरिहाराया-न्यस्य कर्मणो वक्तव्यत्वप्रसङ्गः । तदपि दूषणात्वेनोद्भावयिष्यामीति मन्यमानस्तु न लौकिको नापि परीक्षकः । गुरोःश्रुश्रूषेति स्पष्टदृष्टसंबन्धं विहाय रोचत इत्यत्र सम्बन्धं च परिकल्प्य श्रुश्रूषेत्यत्र प्रतिबन्ध्यनुक्तिः । रोचत इत्येतद्योगे च चतुर्थी च स्यादित्यादि शङ्काया भ्रान्तिमात्रमूलकत्वात् । यतो विद्याधीशगुरोः श्रुश्रूषा ग्रन्थकरणान्या मह्यं न रोचते तस्मादियमेव मत्प्रीतिहेतुभूता सेवाऽस्त्त्विति योजनायां पूर्वार्धस्योत्तरार्धे हेतुत्वेनान्वयोपपत्तेरन्वयाभाव इति दोषोक्तिरप्यज्ञानमूला ॥ यद्यप्यार्याया-स्तृतीयपादस्य द्वादशमात्रकत्वेनेह च भक्तियुक्तेति त्रयोदशमात्राकत्वादार्यालक्षणाभावेनास्या आर्याया अलक्षणिकत्वमिति काव्यपाठचोद्यं तदपि न । अप्राप्तकालेत्ववयवविपर्यासादि निग्रहस्थानमेव न भवति । अर्थाविरोधाच्छन्दोभङ्गावदिति प्रमाणलक्षणोक्तं टीकोक्तेः ।
नचात्र यतिभङ्गः शङ्कनीयस्तस्य काव्यदोषत्वात् । शास्त्रेत्वित्यादिना गीताभाष्यटीकाया-मुक्तेश्चेहार्यालक्षणैकदेशस्याभावेऽपि न दोषः । अपिच सर्वेषां छन्दसामवान्तरानेकविभागवत्वं सर्वसिद्धं भवताऽपि स्वीकार्यमिति तत्तदवान्तरभेदाभ्युपगमेन विषमवृत्तादेरुपपादनवदिहात्यधिकावान्तर-भेदभिन्नार्थायाः स्वरूपतोऽवान्तरभेदतश्च विवेक्तुमशक्यतया तावद्भेदानज्ञात्वा सामान्यलक्षणासम्भव-व्युत्पादनमयुक्तम् । अत एव पूर्वन्तःस्वरितेपुंसोरित्येतन्मूलोक्तरीत्यैव समाधास्यति मूलकारः । उत्पत्तिस्थितिभङ्गं विश्वं यस्मादित्यादौ चतुर्थपादस्य पञ्चदशाक्षरत्वेपि सत्यं ज्ञानमनन्तं गर्गःशूर-सुतोक्तयावन्दे,ध्यायेत्तं परमानन्दमित्यादौ चतुर्थस्याधिकमात्राकत्वदर्शनाच्च । तत्रावान्तरभेदकल्पने प्रकृतेऽपि समानम् । पादान्तस्थं विकल्पनेत्यनेनोत्सर्गतो गुरुताविकल्पाल्लघोर्गुरुतावद्गुरोरपि लघुतेति मते दोषाभावश्च । युतेति पाठस्तु बहुपुस्तकेष्वभावान्न परं प्रतिसाधकतयोच्यते । अधिकम् उमर्जीक-बौद्धधिक्कारेऽस्मत्कृते ज्ञेयम् । यदप्युत्तमस्वरूपस्य पादपदेन ग्रहणविवक्षायामपि पादस्येत्येव वक्तव्यतया द्विवचनायोग इति तदपि न । अमरपामरसाधारएयेन स्वामिनां पादौ प्रतिज्ञापना क्रियते । पादावेवास्माकं गतिः । स्वामिपादयोर्बलादेवाहं सर्वकार्याणि साधयिष्ये इत्यादिव्यवहाराणां सत्वेन श्रीपादस्वामिभ्यो विज्ञापनापत्रलेखावसरे पादयुगले प्रतीत्यादि लेखानां सहस्रशः सत्त्वेनोक्तशङ्कया अपरामर्शमूलकत्वादित्यलं क्षुद्रनिरासायासेन । एषा बुद्धिस्थेनेकमङ्गलानि ॥
ओम् आनन्दमयोऽभ्यासात् ॥
अध्यायशेषेति । एतच्चाध्यायशेषस्येति मूलस्थपदव्युत्पादनावसरेऽस्मद्वक्ष्यमाणरीत्या व्युत्पाद्यम् । नन्वानन्दमय इत्याद्युत्तरशास्त्रवैय्यर्थ्यशङ्कायां तत्परिहारायोक्तभाष्यं सार्थकमित्याशङ्कापरिहारायाह । अथातो ब्रह्मेति । वृत्तानुवादेति । तदभावे वृत्तस्य बुद्धिस्थत्वाभावेन तत्र गतार्थताशङ्काया बुध्यनारोह-प्रसङ्गादिति भावः । प्रतिज्ञातेत्यर्थ इति । सूत्रे कर्त्तव्येति पदाध्याहारात्तस्य प्रत्ययस्य विध्यर्थत्वा-त्कर्त्तव्यत्वेन जिज्ञासाविधिरूपं सूत्रमिति सूत्रे जिज्ञासाप्रतिज्ञासिद्धेति भावः । तद्विजिज्ञासस्वेति श्रुत्यैव जिज्ञासा विधीयते सूत्रेणतु तदितिकर्त्तव्यतारूपेण न्यायमात्रमुच्यते इति न सूत्रस्य जिज्ञासाप्रतिज्ञा-रूपत्वमित्यपरितोषादाह । विषयादिमत्वोपपादनेनेति । तदर्थमिति । तत्स्वरूपविचारार्थमिति बुध्या विवेकेन परामर्शः । निरूपणीयत्वे ह्यधिकरणेति । अत्र निरूपणीयत्वेहीत्यनन्तरं सतीति शेषः । निरूपणीयत्व इति सतिसप्तमी वा । तथाच निरूपणीयत्वे सति हीति लभ्यते । एवं चानेनापि प्रकारणेन निरूपणीयत्वे आरंभणीयत्वप्रसक्तिः सुप्रसिद्धेति सूचनायेति बोध्यम् । प्रसक्तावपीति । यद्यपि प्रसक्तिरस्ति तथापीति योज्यम् । अभावादित्यनन्तरमन्येन प्रकारेणानिरूपणीयत्वासिद्धेर्न तदर्थतयेति योज्यम् । नन्वेवं सतीति । सम्भावनाया अप्रमाणत्वे सतीत्यर्थः । ग्रन्थकाराणामिति । समतीतक्षराक्षरमित्यादौ स्वग्रन्थकारस्य परग्रन्थकारणं च तत्र तत्रेत्यर्थः । समन्वयस्य सिद्धत्वादिति सम्बन्धः । मध्यदीपिकान्यायेन समन्वयस्येत्यस्य प्रयोगात् । मूले ब्रह्मस्वरूपनिरूप इति ।
ननु चतुरध्यायात्मकशास्त्रेणैव ब्रह्मस्वरूपनिरूपणं संपूर्णं भवति । सर्वशास्त्रस्य ब्रह्मविचार-परत्वात् । नतु पञ्चाधिकरणीमात्रेण समाप्तिरिति चेन्मैवम् । सर्वस्य ब्रह्मविचारपरत्वेपि न ब्रह्मस्वरूप-विचारपरत्वम् । किं तु प्रथमाध्याय एव ब्रह्मस्वरूपविचारकः । द्वियतीस्तु बाधकपरिहाररूपतया ब्रह्मविचारपरः । तृतीयचतुर्थौ तु ब्रह्मज्ञानसाधनफलविचारपरतया ब्रह्मविचारपरौ । न तु ब्रह्मस्वरूप-विचारपरौ । स्वरूपविचारो नाम लक्षणप्रमाणाभ्यामित्यत्रत्यमूलोक्तरीत्या स्वरूपजिज्ञासा च लक्षणप्रमाणाभ्यां भवतीति जन्माधिकरणीयमूलोक्तरीत्या च लक्षणप्रमाणाभ्यां ब्रह्मणः सजातीय-विजातीयस्वेतरसमस्तवस्तुव्यावृत्तयाऽवधारणफलको विचारः । स्वरूपसाधनफलजिज्ञासामन्तरेणेति जन्माधिकरणे साधनफलयोः स्वरूपाद्बहिर्भावस्योक्ततया स्वरूपविचारस्योक्तरूपस्यैव वाच्यत्वात् । अत एव वक्ष्यति प्रथमाध्यायांते । एवमस्मिन्नध्याये परब्रह्मणि नारायणे प्रतिपादितस्य सकलश्रुति-समन्वयस्य फलं जन्मादिसूत्रोक्तस्वलक्षणसिद्धिमुपसंहरतीति । एवं द्वितीयाद्यद्वितीयपादयोरपि सकलजगज्जन्मादिनिमित्तकारण इत्यादिना जगज्जन्मादिनिमित्तकारणत्वाद्यनेकलक्षणप्रमाणनिरूपणेनेव ब्रह्मस्वरूपनिरूपणं प्रथमाध्यायसिद्धमिति प्रतिपादनं कृतम् । एवमुपासनापादेऽपि पञ्चाधिकरण्या वक्तव्यस्योक्तत्वात्किमध्यायशेषेणेत्यतःप्रपञ्चनरूपां संगतिमाहेति ।
अतो निखिलवेदानां सिद्ध एव समन्वयः ।
इति सुज्ञापितार्थोऽपि पृथक्चाह समन्वयम् ॥
इति वाक्यावतारः कृतो ऽध्यायशेषेणेति शेष इति चोक्तम् । समन्वयाविरोधाभ्यां संजाते वस्तु-निर्णय इत्येतद्-व्याख्यावसरेऽपि यद्यपि ब्रह्मविचारः कर्त्तव्य इत्युक्तम् । कृतश्चासौ । तथापि साधनफल-विचारसहितस्य ब्रह्मविचारस्य कर्त्तव्यतयोक्तत्वादित्यादिना स्वरूपनिरूपणस्य साधनाद्यध्याया-विषयत्वस्यैवोक्तिः । अन्यदपि तत्र तत्र तत्वप्रकाशिकायां चोक्तमवधेयम् । ततश्च ब्रह्मस्वरूपनिरूपणं नाम ब्रह्मलक्षणाभिधानपूर्वकं तेन स्वेतरसमस्तवस्तुव्यावृत्ततया ब्रह्मस्वरूपविचारणेपि लक्षणविशिष्टे प्रमाणाकांक्षायां प्रमामणभिधाय तस्य प्रमाणस्य समर्थनेन तत्प्रमाणप्रमितलक्षणविशिष्टत्वेन तन्निर्धारण मेव । नान्यत् । तच्च पञ्चाधिकरण्यां जातमिति स्वरूपनिरूपणेऽशेषाभावोक्तिर्युक्तिमती ॥ एवमेव तत्वप्रकाशिकायाम् अन्यत्र वा यत्रस्वरूपनिरूपणेऽवशेषाभावप्रतिपादनं तत्रापि तदुपपादनमवधेयम् ।
मूले अध्यायेनेति । तच्छेषेणेत्यर्थः । अत एवाह । अध्यायशेषस्येति । नन्वध्यायस्यानारब्धत्वा-त्कथमध्यायम्यशेषत्वमानन्दमयोभ्यासादित्यादेरुच्यत इति चेदत्र ब्रूमः । केन प्रमाणेन भवताऽवधृत-मध्यायोऽनारब्ध इति । शास्त्रस्यान्यपरत्वशङ्कावारणाय समन्वयसूत्रे तद्रूपप्रमाणस्याभिधानेन समन्वय-रूपाध्यायार्थप्रतिपादकतया समन्वयाधिकरणमारभ्यैवाध्यायस्यारम्भात् । अत एव समन्वयासम्भव-शङ्कापरिहारायेक्षत्यधिकरणं प्रवृत्तम् । कथमन्यथा समन्वयप्रपञ्चकतया आनन्दमय इत्याद्यध्यायस्य सार्थक्यप्रतिपादनं युक्तं स्यात् । प्रपञ्च्यप्रपञ्चकभावसंगतिश्च कथं वक्तव्या स्यात् । साच समन्वयं प्रकटयतीति भाष्ये अनुव्याख्यानेच विभागेन समन्वयसूत्रानन्तर्यप्रसङ्गमाशंक्य एवं शास्त्रावगम्यत्व इत्यनेनेक्षत्यधिकरणव्यवधानमुपपादितमिति वक्ष्यते युक्तमानन्दमय इत्यादेरध्यायशेषत्वम् । न च समन्वयप्रतिज्ञामात्रस्य समन्वयसूत्रेत्वेऽपि तत्र साधकानुपन्यासान्न समन्वयप्रतिपादकत्वम् इति वाच्यम् । तथा सति प्रतिज्ञाबाधकोद्धारयोः पूर्वत्र सत्वेऽप्यानन्दमय इत्यादावभावेन समन्वयप्रतिपादना संपूर्तिः स्यात् । अधिकमनुपदमेव वक्ष्यामः । अध्यायश्चासौ शेषश्चाध्ययशेष इति विग्रहाश्रयणेऽध्यायं प्रति शेषत्वाप्राप्त्या अध्यायशेषपदेनानन्दमय इत्यादेरध्यायत्वमेवोक्तं भवतीति नानुपपत्तिरिति केचित्तन्न । अध्यायं प्रति शेषत्वे सम्भवति सति तत्परित्यागे कारणाभावात् । अध्यायस्य स्वतन्त्रतया पञ्चाधिकरणीशेषत्वायोगश्च ।
अस्मत्पक्षेतु समन्वयप्रपञ्चकतया न स्वतन्त्रत्वम् । तथाप्यल्पस्य बहुशेषत्वसम्भवेऽपि बहोरल्प-शेषत्वं कथमिति चेन्न । शेषशब्दो ह्युर्वरितपरः । तथाच बहूर्वरितं यत्र तत्राप्यल्पमुर्वरितं यत्र तत्रेवशेषपदप्रयोगात्प्रकृते बहोरपि शेषत्वमुपपद्यत एव । लोके प्रधानपुरुषोपभोगनिर्मितान्नराश्यादौ प्रधानेन केवलं तद्वयादिमात्रस्वीकारेऽपि संपूर्णान्नादेस्तच्छेषत्वमिति सिद्धेश्च । यज्ञश्राद्धशेषे बहावपि हविःशेषान् शिष्टमन्नमित्यादेश्च प्रयोगस्य दृष्टतया बहावपि शेषशब्दोपपत्तेः । शेषशब्दस्योपभुक्तार्थतया तत्र व्याख्यानेतु प्रकृतेऽपि समन्वयस्य प्रतिपादनेनोपभोगसिद्धिरित्यादि स्पष्टमेव । शतस्थदेवतासु त्रयोदशानां परिग्रहेऽपि तदतिरिक्तसप्ताशीतिदेवेषूक्ता दोषा इति व्यवहारश्च । उक्ताः शेषभूता येषामिति बहुव्रीहि पक्षे उक्तयेभ्योऽन्ये इत्यादि तत्तदुक्तिभिः प्रथमप्राप्तानामवशेषिताप्राप्तेः पूर्वस्य शेषतायास्तद्विरोधेनायोगः । अध्यायशेषस्येत्यनेन प्रथमाध्यायस्येव संपूर्णशास्त्रस्य ग्रहणमिति व्याख्यानन्तु एवं शास्त्रेत्यस्य शास्त्ररूपशेषकृत्यकथनत्वाभावात् शास्त्राभिप्राये किमध्यायेनेति पूर्वोक्तयनु-पपत्तेः समन्वयसूत्रेणाध्यायशेषस्य प्रपञ्च्यप्रपञ्चकभावसङ्गतिप्रदर्शकतया एतदनुव्याख्यानस्यातो निखिलवेदानामिति तृतीयाध्यायीयानुव्याख्यानस्य च प्रवृत्तिवर्णनायोगप्रसङ्गात्समस्तेनाध्यायेनेति बललब्धाध्यायं प्रति शेषत्वेन प्रथमाध्यायस्यैवानुवाद इति स्पष्टप्रतीतेश्च न युक्तमिति तथाव्याख्यानं न कर्त्तुं शक्यम् । एवं तत्वप्रकाशिकायामपि शेषो मुख्य एव व्याख्येयः ॥
ननु कथं तत्र मुख्यार्थव्याख्यानम् । प्रथमसूत्रीयतद्ग्रन्थे प्रथमपञ्चाधिकरणानामध्यायपादपीठतया तदुभयसङ्गतिर्नास्तीति प्रतिपादनेन पञ्चाधिकरण्या अध्यायपीठतया अध्यायान्तर्भावभावसिध्या आनन्दमय इत्यादेरेवाध्यायत्वप्राप्त्या तच्छेषत्वस्य तत्रोक्तयलाभादिति चेन्न । चतुरध्यायात्मकं हि शास्त्रमिदम् । तत्र यदीयं पञ्चाधिकरणी नाद्याध्यायान्तर्गता तर्हि पञ्चमोऽयमध्यायः स्यात् । शास्त्रीयचतुराध्यायानन्तर्भावे शास्त्रान्तरत्वापत्तेश्च । ततो यथा प्रथमसूत्रस्य शास्त्रारम्भसमर्थनार्थस्यापि शास्त्रान्तर्भाव इष्यते । अत एवं तत्सूत्रस्य शास्त्रान्तर्गततया स्वविषयत्वमाश्रित्य स्वारम्भोऽपि तेनैव सिद्ध इति समाधानमाकरे एवं प्रथमाध्यायपादपीठभूतानामपि तदुभयान्तर्गतत्वमविरुद्धम् । पीठत्वोक्तिस्तु आनन्दमय इत्यादेरिव वाक्यविशेषोपादानेन समन्वयप्रतिपादकत्वाभावाभिप्राया । अन्ततः नान्दीश्लोकचिकीर्षितप्रतिज्ञानस्वाहङ्कारखण्डनादिश्लोकानां चाध्यायाद्यर्थसंस्पर्शमात्रशून्यत्वेऽपि तदुभयान्तर्भावोऽवश्यं वाच्यः ॥ अध्यायचातुर्विध्यसंरक्षणस्यावश्यकत्वात् । अत एव नान्दीश्लोक-व्याख्यावसरे शिष्यसमाधानाय वक्ष्यमाणार्थप्रतिपादकत्वमस्यास्तीति योजनान्तरमपि वर्णितम् । तथाच शास्त्रान्तर्भूतस्यारम्भोऽप्याद्येनैव सूत्रेणेति वदता अथात इत्यादिशास्त्रव्याख्यानत्वमाद्यश्लोकस्य वर्णयता च प्रथमसूत्रमारभ्यैव शास्त्रमारब्धमिति सिद्धत्वात्तदध्यायस्य तत्पादस्य चारम्भसिद्धेस्तदन्तर्गत-पञ्चाधिकरण्या अध्यायारम्भात्तदुत्तर शेषवैय्यर्थ्यमित्युक्तिर्यूज्यत एव ।
आग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारिप्समान इत्येतच्छतिवाक्येन दर्शपूर्णमासा-वारिप्समानेनारम्भणीयेष्टिः कर्त्तव्येति विधानानुसारेण दर्शपूर्णमासशब्दोक्ताग्नेयादियागषट्कात्पूर्व-भावितयारम्भणीयेष्टिप्राप्तावप्यङ्गस्याव्यवधायकतया साङ्गदर्शपूर्णमासात्पूर्वभावित्वमतिपर्यवसानमाश्रित्य दर्शपूर्णमासांगान्वाधानादिप्रधानहोमपर्यन्तं कर्त्तव्यविशेषस्य तदुत्तरकर्त्तव्यविशेषस्य च दर्शपूर्णमास-संज्ञया व्यवहारवदेतच्छास्त्रोऽपि प्रासङ्गिकदेवताद्यधिकरणस्याध्यायान्तर्भाववत् स्मृतिविरोधपरिहारस्य द्वितीयप्रथमपादान्तर्भावकपञ्चाधिकरणया अपि तदुभयान्तर्भावोपपत्तेश्च । न चानन्दमयादिसूत्राणामिव समन्वयसूत्रस्य समन्वयप्रतिपादकत्वाभावान्नाध्यायार्थप्रतिपादकत्वमिति वाच्यम् । तथासति समन्वय-सूत्रं यथा सर्वशब्दपुरस्कारेण समन्वयप्रतिपादकं तथा तत्प्रतिपादकत्वस्यानन्दमयादिनयेषु प्रत्येकभावेन तेषां न समन्वयप्रतिपादकत्वमिति वैपरीत्यापातात् । तस्मात्संक्षेपेण विस्तारेण वा समन्वय-प्रतिपादकत्वमात्रं विवक्षित्वा तेन निमित्तेनाध्यायान्तर्भावे वाच्ये समन्वयसूत्रस्यापि तथात्वाद्युक्तः समन्वयाध्यायान्तर्भावः । अत एव चन्द्रिकायामध्यायसङ्गत्यङ्गीकारेणाध्यायपादसङ्गतिरिति तत्व-प्रकाशिकायाः सङ्गतिद्वयाभावार्थतया व्याख्यानं कृतम् ।
एतेन समन्वयेक्षत्योः समन्वयप्रतिज्ञाबाधकोद्धारमात्रसिद्धावपि साधु युक्तयनुपन्यासान्न समन्वय-प्रतिपादकत्वमित्यपि निरस्तम् । तथासति प्रतिज्ञाबाधकोद्धारौ विना युक्तयुपन्यासादिना समन्वय-प्रतिपादनमात्रस्यासंपूर्णतया समन्वयाध्यायत्वाभिमतस्यापि तदध्यायत्वाभावापातात् । समन्वयसूत्रस्य पीठत्वोक्तिप्रायपाठोपि समन्वयप्रतिज्ञाया अभावे तदुपपादनस्यानवसरग्रस्ततया पीठसादृश्यमात्रेणो-पपन्न इति न तद्विरोधोऽपि । तदेवमध्यायार्थसमन्वयनिरूपणस्य समन्वयसूत्र एवारम्भश्चन्द्रिकोक्त-रीत्यैव जिज्ञासाद्यधिकरणस्यापि समन्वयाकाङ्क्षोत्थापकत्वादिना समन्वयान्तर्भावस्याश्रयणीयत्वे जिज्ञासाधिकरणमारभ्यैव समन्वयनिरूपणारंभाद्वा युक्तमध्यायशेषत्वमानन्दमय इत्यारभ्य एतेन सर्वे व्याख्याता इत्यन्तस्येति युक्ता तच्छेषत्वोक्तिः स्थलद्वयेऽपि । अन्यथा पञ्चानां त्रयाणां वा पूर्वाधिकरणा नामध्यायान्तरत्वापत्तिः । प्रासङ्गिकत्वेऽप्यन्तर्भावस्तु कर्त्तव्य एवेत्यलम् ॥
एवमत्र कृतं चर्चं परिगृह्णन्तु सज्जनाः ।
मात्सर्यं सम्यगुत्सार्य सुखं प्राप्स्यंतु संसदि ॥
उपक्रमादितात्पर्यलिङ्गबलादिति मूलम् ॥ सर्वे वेदाः सर्वे घोषा इत्यैतरेयभाष्ये समुद्रमेघादिश्वादि मार्जारमूषकादितृणादिशब्दवाच्यत्वोक्तावपि समकर्षाधिकरणे लौकिकशब्दानां वैदिकशब्दानां च भगवत्परत्वे बाधकोद्धारस्य कृतत्वेऽपि कल्पनोपदेशाच्चेति गुणसूत्रतत्वप्रकाशिकायां स्तंभादिशब्दानां हरौ विद्वद्रूढिसद्भावेपि सार्वजनीनताभावेनामहत्वात्तद्भेद इत्युक्तावपि गर्गरादिशब्दानां शक्तिमात्रं हरौ । न तात्पर्यमित्यादेः कर्मनिर्णयटीकायामुक्तेरुपक्रमादिलिङ्गकतात्पर्याभावेन नोक्तसर्वशब्देषु समन्वय-विषयत्वमिति ज्ञापनायोपक्रमादीति विशेषणमिति ज्ञेयम् । अत्र श्रुत्यादीनामप्युपलक्षणया सङ्ग्रहो अभिप्रेतः । समन्वयाधिकरणमूले उपक्रमादीनां चेत्याद्युक्तेः । श्रुत्यादिषट्कं च ग्राह्यमिति तत्व-प्रकाशिकोक्तेश्च । उपक्रमादिलिङ्गेभ्य इत्येतदनुव्याख्यानमूलटीकायां तात्पर्यज्ञापकत्वेन वाक्यार्थ-ज्ञानोपयुक्तत्वेन च सजातीयानामुपसंहारादीनां श्रुत्यादीनां चेति व्यवहारात् । शक्तितात्पर्यावधारण-लक्षणः समन्वय इति चन्द्रिकोक्तेश्च । जिज्ञास्योऽयं विधीयत इत्येतन्मूले उक्तावधारणस्याविचार-प्रयोजनत्वोक्तेश्च । अधिकं समन्वयाधिकरण उक्तं ज्ञेयम् । अत एवात्र प्रतिपाद्यप्रतिपादकत्वलक्षणः समन्वय इत्यस्य शक्तितात्पर्यावधारणपर्यन्तत्वेन व्याख्यानं कार्यमिति ज्ञेयम् । अर्थवत्वसिद्धेरिति । अर्थवत्वोक्तिसिद्धेरित्यर्थः । भाष्यमिति । तत्खण्डमित्यर्थः । सर्वत्रपदान्त एवेति । पादान्ते पदान्त एवेत्यर्थः ।
अधिभूतरसादीनां ज्ञेयाः संज्ञारक्तलोकतः ।
ज्ञेयः पादश्चतुर्थांशो यतिर्विछेदसंज्ञिता ॥
इति वृत्तरत्नाकरे समुद्रादीनां यावती सङ्ख्या चतुःपञ्चादिरूपा तावत्संख्याकाक्षराणां चतुःपञ्चषट् सत्पाष्टौनवदशैकादशद्वादशत्रयोदशचतुर्दशानां समुद्रभूतरसमुनिवसुरंध्रदिक्रुद्रादित्यविश्वेदेवभुवनादि- संज्ञाविधानात्समुद्रादिसंज्ञकचतुरादिषु यत्रानुष्टुबाधिछन्दोनिमित्तेन विरतिप्रसक्तिस्तत्र समुद्रादिपदान्ते चेति छन्दोग्रन्थात्समुद्रादौ पदान्त एव विरतिरिति प्राप्तम् । तथा यतिः सर्वत्र पदान्ते श्लोकार्धे तु विशेष इति वृद्धवाक्यानुसारेण प्राप्तायाः पदान्ते विरतेरपि यतिभङ्गो नाम धातुभागेत्यादिकविकल्पताद्यनुसारेण नामादौ मध्य एव दूषणत्वस्थित्या पदान्त एव कर्त्तव्यत्वं सिध्यति । उक्तं च श्लोकेषु नियतस्थानपदछेदं यतिं विदुरिति । क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेदित्यपवादेन समुद्रादिपदोक्त चतुरक्षरादिषु पदमध्येऽपि विरामसिद्धेस्तत्र पदमध्येऽपि विरामोपपत्तावपि पदान्ते पदमध्ये विरामप्रापकभूतापवादा-भावेन तत्र पदान्त एव विराम इत्यस्य सिद्धत्वाच्च उदाहृतं च पदान्ते पदमध्येविरामविषये । प्रणमत भवबन्धक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानन्दहेतुमित्यादि । अतोऽत्र पदांते पदान्त एव विरति-दर्शनादित्येवार्थोऽभिप्रेतः ।
प्रकृते पदान्तस्यैव सत्वेन तत्सिद्धवत्कारेण पदान्त एवेत्याक्षेप्यमात्रांशोक्तिरिति स्पष्टं प्रतीतेः । अधिकं छन्दोग्रन्थानुसारेणोपपादनम् । न चात्र यतिभङ्गः शङ्कनीय इत्येतप्रमेयदीपिकावाक्य-व्याख्यावसरेऽस्माभिः कृतं तत एव प्रतिपत्तव्यम् । इत्यादिनेत्यस्येति । अनेन सुप्तिङन्तमिति लक्षणानुसारेण पदत्वं स्वीकृत्य तदन्ते विरामो वाच्यः सचेत्यादिनेत्यत्र यद्यप्यस्ति तथापीत्यादीत्यत्र नास्तीति प्रतिपादयता सुबन्तत्वप्रयुक्तपदत्वोदाहरणान्तरगवेषणायासो न कार्यः प्रकृत एव तदुदाहरण-सत्वादिति सूचितं भवति । नलोपाभावेति । नलोपप्रातिपदिकान्तस्येत्यत्र पदान्तस्येत्यस्यानुवृत्तेरिति भावः । सर्वनामेति तत्सूत्रप्राप्तिवर्णनम् । तत्परत्वे पूर्वस्य पदसंज्ञाविधायकत्वात्तस्येति भावः । अस्यापि पदत्वादिति । तृतीयैकवचनस्य सर्वनामस्थानत्वाभावेन तादृशसुप्विभक्तिपरतया पदत्वादित्यर्थः । अपवादकेति । भसंज्ञायाः पदसंज्ञापवादपकत्वादित्युत्तरवाक्ये प्रतिपादनादि-हापवादकेत्येवोक्तम् । अच्त्वेनेति । ततश्चाजादिस्वादिपरत्वमिति भावः ।
ननु ‘‘ना’’ इत्येतदेकमेवाक्षरं तत्कथमजादावित्यनेकाक्षरसाध्यं कार्यमत्र यस्मात्पूर्वाक्षरस्याल्पत्वे सति उत्तरस्य सत्वं तदादिरित्युच्यते । यस्माच्च पूर्वमक्षरान्तरसत्वेऽप्युत्तरस्याभावस्तदन्त इत्युच्यते इति निर्णयादिति चेन्न । आद्यन्तवदेकस्मिन्नित्यनेन सूत्रेणैकस्मिन् क्रियमाणकार्यस्यापि यथाऽऽद्यन्ततया क्लृप्तस्थले पूर्वोत्तराक्षरसद्भावेनाद्यन्ताश्रितकार्यं भवति तथा भवनप्रतिपादनेन प्रकृते तृतीयैकवचन-स्यैवाजादावित्येतन्निर्देशविषयत्वोपपत्तेर् एवमेवंजातीयके ज्ञेयम् । तथाचाजादिपरत्वेनेति फलति । उक्तोपपादनप्रकारं द्योतयितुमेवाजादित्वेनेत्यनुक्त्वा अनेनेत्येवोक्तम् । केचिदित्यनन्तरमाहुरिति शेषः । तद्युक्तपाठस्तु स्वरस एव इतीत्युत्तरेणान्वयः । सूत्रे वार्तिकेति । सूत्रीयवार्त्तिककृतेत्यर्थः । वृद्धिरादै-जित्येतत्सूत्रभाष्येतु उभयसंज्ञान्यपि छन्दसि दृश्यन्त इति व्यवहृतम् । उभे संज्ञे निमित्तत्वेन एषामिति बहुव्रीहिः । कार्याणि चान्यपदार्थ इत्यादिविवृणोक्तरीत्या कार्यपरत्वशब्दपरत्वाभ्यां संज्ञानीत्ये-तद्-व्याख्येयम् । आकडारादेकासंज्ञेति नियमेन पदसंज्ञापवादेन प्राप्तभसंज्ञामात्रमाश्रित्य दुहःदुहेत्यादौ घत्वजश्त्वादेरभाव इत्यादेराकारसिद्धतया विवक्षितस्थलेऽपि भसंज्ञामात्रप्राप्त्या कथं संज्ञाद्वय समावेशाङ्गीकार इति तु न शङ्कनीयम् । षष्टीयुक्तश् छन्दसि वेति सूत्रे वेति योगविभागेनाकडारादिति नियमस्यापि वारणाच्छन्दस्येकत्र संज्ञाद्वयसमावेशोपपत्तेरिति विवरणोक्तेरिति च ज्ञेयम् । वृद्धिरिति सूत्रस्थभाष्ये हि कुत्वं कस्मान्न भवति चोःकुःपदस्येति भत्वादित्यादि प्रतिपादनानुसारेणेदं केचिन्मतम् । तत्र यदि भसंज्ञा वृद्धिरादैजदेङ्गुण इति जश्त्वमपि न प्राप्नोतीत्याशङ्क्य उभयसंज्ञान्य-पीत्याद्युक्त्वा तद्यथा ससुष्टुभासऋक्वतागणेन । पदत्वात् कुत्वं भत्वाभावे जश्त्वं न भवति इत्येवं सन्धिपक्षे प्राप्तप्रयोगोपपादनेऽपि तदनुसारेणोपदेशेऽजनुनासिक इदित्यत्र टीकाकारैः समाहितत्वात् । सिद्धसौत्रप्रयोग एवोदाहरणातयोपात्त इत्यदोषः । तथाच वृद्धिरादैच् इत्यत्रायस्मयादीनि छन्दसीत्यनेन भसंज्ञायां पदसंज्ञाश्रितं चोः कुरिति कुत्वं न भवति । उपदेशेऽजनुनाशिक इति सूत्रेतु पदसंज्ञाश्रयणेन जश्त्वे अचश्चकारस्य जकारेपि जकारस्य कुत्वे न ककारोपि पदत्वात्प्राप्नोतीत्यतो भसंज्ञाप्याश्रिता । ततश्च भत्वात्कुत्वाभावे जकारस्यैव श्रवणं भवति । एवं संज्ञाद्वयसमावेशदर्शनात्प्रकृतेऽपि तत्समावेशेऽजादिसुब्विभक्तिपरत्वेन भसंज्ञायामपि पदत्वेन पदान्तत्वसंभवात्पदमध्ये विरामो नायातीत्याशयः ।
ननु कथमत्र संज्ञाद्वयम् । नचोक्तसूत्रीयं छन्दस्युभयसंज्ञान्यपीति वार्त्तिकेनेति वाच्यम् । यावता तत्र छन्दांसीत्युच्यते नचेदं छन्दः । नच तर्ह्युपदेशेऽजित्यत्रापि छन्दस्त्वाभावः समान इति वाच्यम् । यत एवं भसंज्ञाविषये आशंक्यैव छन्दोवत्सूत्राणि भवन्तीति भाष्यकारेणोक्तम् । तेन तत्र छन्दस्तुल्य-त्वाश्रयणेन कार्योपपत्तावपि नेह तथा सम्भवः । अनुव्याख्यानस्यासूत्रत्वात् । तथाचास्यापि छन्दस्तुल्य त्वादित्ययुक्तमिति चेन्मैवम् । भाष्यकारेण हीयमिष्टिः कृता सूत्रप्रयोगसंरक्षणाय । तथाच सूत्रे भाष्य-कारीयातिदेशसामर्थ्यात् सूत्रेषु छान्दसकार्यप्रवृत्तिरिति विवरणोक्तप्रकारेण भसंज्ञायाः प्राप्तिः । इहतु परमवैदिकत्वख्यापनाय विष्णवीत्यादिप्रयुंजानस्य वचनेषु छान्दसत्वमभ्युपगम्य प्रवृत्तेः । सिद्धत्वादत्र छान्दसत्वादेर् वोभयसंज्ञाप्राप्तिरिति न दोषः । एतेनैव प्रागुक्तं सूत्रेषु छन्दस्तुल्यत्वं च व्याख्यातमिति ज्ञेयम् ।
सर्वत्रेति । दुहःदुहेत्यादौतु बाधकत्वमङ्गीक्रियत एवेत्याशायः । अधिकं प्रदीपविवरणादौ ज्ञेयम् । एवं भाष्योक्तप्रकारानुसारेणात्रसमाधाने छन्दस्तुल्यत्वमाश्रयणीयमित्यस्वरसं सूचयन् पक्षान्तरमाह । वस्तुतस्त्विति । अत एव नानुमानमतच्छब्दादित्येतद्गुणसूत्रव्याख्यावसरे उक्तरीत्या स्वरसष्टीकाया-मुक्तः । एवं सद्भावं यापयेदित्युत्तरभाष्यस्य सत्ततेर्यातनाच्चैवेति चतुर्थपादीयभाष्यस्य च व्याख्यान-रूपमूले तट्टीकायां चोपयुक्तं प्रमेयमवधेयम् ॥ नाभावेन हल्त्वादिति । दृष्टंचैतत् । पञ्चम इत्यत्र पञ्चन्शब्दात्तस्य पूरणे डट् इति सूत्रेण पूरणार्थे डट्प्रत्यये तस्मिन् परतःप्राप्तष्टेरित्यनेन यष्टिलोप-स्ततोऽप्यन्तरङ्गतया नान्तादसंख्यादेर्मडिति मडागमेऽकारडकारयोरुपदेश इत्यादिनेत्वे तस्य लोपे-र्चोवरितमकारेण व्यवधाने सत्यजादिपरत्वात्पूर्वमट् पश्चाद्भत्वाभावाट् टिलोपो नेति । उक्तं च तत्व-बोधिन्यां टेरिति सूत्रे । पञ्चमो ऽत्र डटो मडागमे भत्वाभावाट्टिलोपो न भवति । किन्तु पदत्वान्नलोप एवेति । तथा पञ्चन् आमिति स्थितेऽलोपनिमित्तभूतभसंज्ञाप्राप्तौ षट्चतुर्भ्यश्चेत्यनेन नुटि नामोनिष्पत्या हलादित्वेन तदप्राप्तिरिति तत्प्रयुक्ताल्लोपस्याप्यप्रात्पौनोपधाया इत्यनेन पञ्चन्निति नान्तस्योपधाया दीर्घे सति नलोपे च पदत्वाज्जाते पञ्चानामिति भवति । अत एव गौणत्वे नुट्निषेधात् प्रिया पञ्च येषामिति बहुव्रीहौ प्रियपञ्चन् आम् इति स्थिते भत्वादल्लोपे नकारस्य चुत्वेन ञकारे पमित्यनुस्वा…रेच का…पयपि परतः परसवर्णे ञकारे सति ञद्वयमध्यतया चकारः प्रिययच्चामित्युच्चार्यमाणो भवति । एवं षण्णामित्यादौ न पदान्ताट्टोरनामिति पदान्तत्वप्रयुक्तष्टुत्वाभावे प्राप्ते तत्सूत्रीयानाम्नवतिनगरीणामिति वार्त्तिके प्रतिप्रसवात् ष्टुत्वमिति तावत्सिद्धम् । तत्र नामि परतो हलादित्वेन भसंज्ञाभावः पदसंज्ञा-चेत्यवश्यं स्वीकार्यम् । उक्तं च मनोरमादौ तत्र तत्रेति ज्ञेयम् । अपवादकाभाव इतीति । इत्यतो हेतोः पदसंज्ञोपपत्तेस्तया विरतिर्युक्तैवेति योजना ।
अत्रत्ययतिभङ्गपरिहारस्य गीताभाष्यटीकास्थपरिहारस्य च परस्परं विरोध इत्याशङ्कानिरासायै-तत्समाधानस्याङ्गीकारवादेन प्रवृत्तेर्वस्तुगतिमवलंब्य प्रवृत्तस्थलान्तरस्थपरिहारेण न विरोध इत्याह । अङ्गीकृत्यचेदमिति । स्वादिष्वित्यनेन पदसंज्ञायां यतिभङ्गो नहीदं समाधानं यतिभङ्गस्य शास्त्रेपि दोषत्वमङ्गीकृत्योक्तमित्यर्थः । काव्यदोषत्वमेवेति । तददोषौ शब्दार्थावनलंकृतीत्यादि काव्यसूत्रे काव्यलक्षणकथनपरेऽदोषपदेन छन्दोभङ्गयतिभङ्गादिराहित्यस्य काव्यलक्षणत्वेन प्रतिपादनाद् यति-र्जिह्वोष्ठविश्रामस्थानं कविभिरित्यादिना निरूपितानां यतितद्भंगादीनां काव्यदोषताया एव प्राप्तेरित्यर्थः । अत एव काव्यकण्ठाभरणनामग्रन्थे श्लोकत्वमात्रादेर्भारतादिसाधारणत्वादिना न काव्यलक्षणत्व-मित्याद्युक्तमिति भावः । छन्दोभङ्गवदिति शेषः । अत एव प्रमाणलक्षणत्वादिना न काव्यलक्षण-टीकायामवयवविपर्यासः प्राप्तकालतेत्यादि निरूप्याप्राप्तकाले त्ववयवविपर्यासादिनिग्रहस्थानमेव न भवति अर्थाविरोधाच् छन्दोभङ्गवदित्युक्तमिति ज्ञेयम् ।
शास्त्रेऽपि तद्दोषत्वाङ्गीकारे शास्त्रस्थाभियुक्तप्रयोगश्छिद्येतेति बाधकमाह । शास्त्रेत्विति । तद्विशेषणयुक्तैतदभावाभूस्तु केवल इति तद्वाक्योत्तरार्धः । तर्कताण्डवेतु यतिभङ्गरूपदोषभयेन पूर्वार्धे य उपाधिर्लालगीति साध्ये वै यद्विशेषण इति तट्टीकाकृत्कल्पितं यत्पाठान्तरं तदेवोदाहृतमित्यदोषः । तत्र केचित्वित्यादिनैतच्छ्लोकार्थानुसारिमतानुवादं कृत्वा तत्रोपष्टंभकतयोदाहरणात् तदवसरे च स्पष्टार्थक-वाक्यस्यैवोपादानमिति च ज्ञेयम् । सम्बन्धे विशेषणे साध्ये य उपाधिर्लगति तद्-व्यापको भवतीति पूर्वार्धयोजना, सम्बन्धो विशेषणस्य यस्मिन्निति व्यधिकरणो बहुव्रीहिः । सम्बन्धो विशेषणो यस्मिन्निति समानाधिकरणो वा बहुव्रीहिः । सम्बन्धश्च धर्मान्तरस्येति सिद्धत्वात् । उभयत्रापि विशेषणसंबन्धोक्तया इतरधर्मावछिन्नतोक्ता । यत्तदोर्नित्यसम्बन्धाद्यदिति लब्धे यदवछिन्ने इति पर्यवसितम् । तद्विशेषणयुक्तः साध्यावच्छेदकतयोपात्तेन तेन विशेषणयुक्तो य एतस्योपाधेरभावस्तस्य विशिष्टस्य भूरभावः भावार्थको भूशब्दः क्विबन्तः । नञाच तदन्वितेनाभावः प्रतिपादनात्सोऽभावः केवले शुद्धे साध्य इति वर्तते ॥ उपाधिर्भवतीत्युत्तरार्धस्यार्थः । अनेनावच्छिन्नसाध्यव्यापकत्वाभि-धानम् । यथान्वयतिरेकव्याप्त्यादिनाऽन्वयव्याप्त्यादेराक्षेपाभिप्रायेण व्यतिरेकव्याप्त्यभिधानं शास्त्र इति ज्ञापितं भवति । यथा वायुः स्पार्शनो ऽनुद्भूतरूपानधिकरणत्वे सत्युपलभ्यमानस्पर्शाधिकरण-त्वादित्यत्र स्पार्शनत्वरूपसाध्यस्य द्रव्यत्वरूपे विशेषणे कृते सति चाक्षुषत्वमुपाधिर्लगति तद्द्रव्यत्वाख्य विशेषणयुक्तो यश्चाक्षुषत्वरूपोपाध्यभावस् तदभावरूप उपाधिः केवले स्पार्शनत्वे उपधिर्भवति । अयं हि विशिष्टाभावरूप उपाधिः स्पार्शनत्वरूपसाध्यवति स्पर्शे चाक्षुषत्वाभावरूपविशेष्यसत्वेन तदभाव-प्रयुक्तो न सम्भवतीति द्रव्यत्वरूपविशेषणस्याभावेन घटादौ तु द्रव्यत्ववति तदभावप्रयुक्तो न सम्भवतीति चाक्षुषत्ववत्वेन तदभावाभावविशेष्याभावेनानुगत इति भवति शुद्धसाध्यव्यापकः । उक्त-साधनवति वायौ द्रव्यत्वचाक्षुषत्वाभावरूपविशेष्यविशेषणयोर्द्वयोरपि सत्वेन तदुभयोरप्यभावायोगा-त्तत्प्रयुक्तविशिष्टाभावासंभवात्साधनाव्यापकश्चेति शुद्धसाध्यव्यापकोपाधित्वं तस्य युक्तम् । अत्राधिकं वक्तव्यप्रमेयं साध्यव्यापकवैलोम्यमव्याप्तिरित्येतन्नविलक्षणत्वाधिकरणीयानुव्याख्यानमूलस्थक्वचित् साध्यावच्छेदकावछिन्नस्योपाध्यभावस्य हेतुत्वादित्येतद्वाक्यव्याख्यानटीकायां तत्प्रपञ्चे चास्मदीये द्रष्टव्यम् । पदमध्येपि । पदान्ते पदमध्येऽपीत्यर्थः । काव्यदोषत्वमेवेत्यादिकं समाधानं न युक्ति प्राप्त-मित्येव । अपि तु ग्रन्थकृताऽपि तथान्यत्रोक्तमस्तीत्याह । अत एवेति । अदोषत्वेनैव । तदाश्रयणेनैव न किंचिदेतत् । यदेतद्यतिभङ्गाख्यं तत्किञ्चित्फल्गु अर्थाविरोधात् । तथाविधमपि प्रकृते नास्तीति योजना । यद्यप्यभेदेपि विशेषणेनैवान्य इत्युदित इत्यादौ स्वरसंधौ सवर्णदीर्घस्य पूर्वान्तत्वसाधकपूर्वन्तवत्स्वरः संधौ क्वचिदेव परादिवदित्यनेनाधर्मनर्मचतुरस्यात्मा स्याद्दुःखभाजनमित्यत्रेव नेत्याकारस्य परादि-वद्भावेन व्यञ्जनस्यापि तत्प्रात्पेर्न यतिभङ्ग इति समाधातुं शक्यं तथापि प्रकारान्तरेणापि समाधान-प्रकारोऽस्तीति वक्तुमेवं मूले समाहितमिति ज्ञेयम् ।