अवाच्यमिति लोकोऽपि वक्त्याश्चर्यतमं भुवि
अधिकरणोपसंहारः
अवाच्यमिति लोकोऽपि वक्त्याश्चर्यतमं भुवि
सुधा
तदेवं ब्रह्मणो वाच्यत्वाद्गतिसामान्याच्च युक्तं समन्वयसूत्रमिति सिद्धम् ॥
इति सुधायामधिकरणपञ्चकं समाप्तम् ॥ १-१-५ ॥
परिमल
पूर्वसूत्रसंशब्दार्थद्वयाक्षेपसमाध्यर्थमिदमित्युक्तमेतदधिकरणोपक्रमे । तत्समाधिप्रकारं व्यञ्जयन्नुपसंहरति तदेवमिति । गतीति । सर्वशास्त्रोत्पाद्यज्ञानस्यैकरूपत्वादित्यर्थः । एतच्च तृतीयतृतीये विवरिष्याम इति भावः ।
इति जन्माधिकरणाद् अधिकरणचतुष्टयम्
वाक्यार्थरत्नमाला
अवाच्यमित्युत्तरवाक्य इत्यादि । व्याख्येयमस्ति । सिद्धान्तसंमत्येति । न्यायविवरणे तथा प्रतिपादनात्तत्संमत्येत्यर्थः । वृत्तिविचारस्यानन्दमयाधिकरणे करिष्यमाणत्वाद्बहूप-पादनापेक्षत्वाच्च तत्रैवैतदुपपादनमवगन्तव्यम् । तथा तत्राधिकव्युत्पादनादिकं च तद्व्याख्यावसरे स्पष्टीभविष्यतीति नेह तद्विवरणादिकमित्याशयेनाह यथा चैतदिति ।
एवं पञ्चाधिकरणीं व्याख्यायान्ते स्वगुरोर्मेघश्लेषेणाश्रयणं प्रार्थयते मध्वेति । तं प्रसिद्धं वेदव्यासतीर्थमित्यप्यर्थः । अनदा नाम ते लोका इत्यत्र त इत्यस्य प्रसिद्ध्यर्थतया पूर्वमूले व्याख्यान-दर्शनात् । एवमन्यत्रापि । स्वकृतग्रन्थनिर्माणफलं गुरावर्पयति मयेति । इत्यशेषमतिमङ्गलम् ॥
एवं क्वचित्क्वचित्पाठशोधव्याख्यासु सेविता ।
वाक्यार्थचन्द्रिका भूयान्मद्धृत्तापविनाशिनी ॥
आनन्दाब्धिप्रजातत्रिदशतरुगुरुश्रीनिवासानुजश्री-
विद्याधीशाख्यरत्नाद्भुतविदमृतगोः केशवाचार्यवर्यात् ।
रुग्मिण्याय्यां प्रजातस्य विबुधनरसिंहस्य गुर्वीयसौध
व्याख्यापाठादिशोधात्मकविवृतिकृतावीक्षणस्थोनयोगात् ॥
इति श्रीमत्सकलविद्वद्वृन्दशिखामणि श्रीपाण्डुरङ्गिकेशवाचार्यवरगुरुनामक
श्रीविद्याधीशतीर्थश्रीमच्चरणविरचितश्रीमन्न्यायसुधापञ्चाधिकरणीविषमपदवाक्यार्थविवरणरूप
वाक्यार्थचन्द्रिकाया व्याख्यापाठादिशोधात्मकविवृतौ
श्रीगुरुराजवरश्रीविद्याधीशशिष्य पाण्डुरङ्गिकेशवाचार्यसुत
पाण्डुरङ्गिनरसिंहसूरिविरचितायां वाक्यार्थरत्नमालाभिधायाम्
ईक्षत्यधिकरणं समाप्तम् ॥
श्रीमन्मद्गुरुराजवरगुरुश्रीमद्विद्याधीशतीर्थश्रीमच्चरणप्रीतिरस्तु ॥