नह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ
पराभिमताधिकरणशरीरपरामर्शः
नह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ
सुधा
तथा हि । अशब्दं हि तदिति हेतूकृतमशब्दत्वं नाम शब्दागोचरत्वं वा शब्दावाच्यत्वं वा अवैदिकत्वं वा कारणतयाऽवैदिकत्वं वा । सर्वत्राप्यसिद्धिरित्याह नहीति ।
अनुव्याख्यानम्
नह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ ॥
सुधा
असौ साङ्ख्यः । स्वसिद्धेन हेतुनेदं निराकरणमिति चेन्न । यतोऽसौ सूत्राकारोऽ-शब्दत्वं प्रधानेनाङ्गीकरोति । उपपादयिष्यते चैतत् । किञ्चाद्यपक्षे प्रधानस्यासत्त्वमभिप्रेतमुत प्रमाणान्तरवेद्य त्वम् । आद्ये तदुपपादनायेक्षतेरुपन्यासोऽनुपपन्नः । अत एव नोत्तरः । द्वितीयो ब्रह्मण्यनैकान्तिकः । तृतीयचतुर्थयोः साध्याविशिष्टत्वम् । किं चेक्षणेनैव नेति प्रतिज्ञातार्थ-सिद्धावशब्दं हि तदिति मध्ये हेत्वन्तरकल्पनं व्यर्थम् । ईक्षितृत्वं चेक्षणगुणयोगित्वम् । तद्ब्रह्मण्यपि गौणमेव निर्गुणत्ववादिनाङ्गीकरणीयम् । तथाच गौणश्चेदिति व्यर्थम् । किंचेक्षतेर्गौणत्वकल्पनस्य बाधकाभावमनुक्तवाऽऽत्मशब्दादित्यसंगतम् । परेण प्रायपाठो बाधक उपन्यस्तस्तदविरोधाय वैषम्य-मुच्यत इति चेन्न । तेजोऽबन्नानामपि देवतात्वेन प्रायपाठविरोधात् । तन्निष्ठस्य मोक्षोपदेशादित्यत्र किं प्रधानैक्योपदेशानुपपत्तिर्वा विवक्षिता । तज्ज्ञस्य मोक्षानुपपत्तिर्वा । आद्ये ब्रह्मपक्षेऽपि समानो दोषः । न हि जीवस्यापि ब्रह्मैक्योपदेशो युक्त इत्युक्तमधस्तात् । द्वितीयस्त्वनुपपन्न एव । आत्मानात्मविवेकार्थमनात्मज्ञानस्यावश्यकत्वात् । आत्मशब्दस्य गौणत्वे चोदिते बाधकाभाव एव वक्तव्यः । हेयत्वावचनादित्यस्य परिचोदनैवानुपपन्ना । न हि सांख्योऽद्वैतज्ञानार्थं प्रधानोपदेशं मन्यते ।
हेयत्वावचनं चानैकान्तिकम् ।
अन्नमयप्राणमयादीनामब्रह्मत्वेऽपि हेयत्वावचनाच्च । उत्तरोत्तरब्रह्मत्ववचनं तत्र ज्ञापकमिति चेन् न । अत्रापि तथाविधज्ञापकसौलभ्यात् । प्रतिज्ञाविरोधस्तु ब्रह्मवाद एव न प्रधानवादे प्रधानस्य सर्वात्मकत्वाभ्युपगमात् ।
भोक्तृवर्गस्य न प्रधानात्मकत्वमस्तीति चेत् । सत्यम् । ब्रह्मणस्तु न किञ्चित् । एतेन स्वाप्ययोऽपि निरस्त एकीभावस्य ब्रह्मपक्षेऽप्यभावात् परिष्वङ्गमात्रस्य प्रधानेऽपि सम्भवात् । ब्रह्मविषयं गतिसामान्यं परस्यासिद्धमेव । ईक्षणादिना तज्ज्ञापने प्रथमसूत्रेण गतार्थता । अत एव श्रुतत्वादित्यसिद्धम् । गतार्थं च गतिसामान्येनेत्येषा दिक् ।
वाक्यार्थचन्द्रिका
अशब्दत्वस्वरूपाज्ञाने मूलोत्कासिद्धेर्दुर्ज्ञानत्वात्कारणवाक्ये प्रधान-प्रतिपादकशब्दाभावस्य पराभिगतत्वेऽपि दूषणभिया पक्षान्तरकक्षीकारस्यापि संभवेन तदभिप्रायस्य निश्चेतुमशक्यतया सामान्यशब्दत्वाच्चाशब्दत्वविकल्पपूर्वं तत्परिहारसमर्पकतया मूलं योजयति तथा हीत्यादिना । शब्दशब्दः सामान्यपरो वेदरूपविशेषपरो वा । आद्येऽपि प्रतिपादकत्वेन न विद्यते शब्दो यस्येति वा, वाचकत्वेन न विद्यते शब्दोऽस्येति वा; द्वितीयेऽपि सर्वथा वेदासिद्धत्वं वा कारणतया तदसिद्धत्वं वेति कल्पान्मनसि निधाय विकल्पयति अशब्दं हीति । समासोपसर्जनतया प्रकृतस्यापि साङ्ख्यस्य बुध्द्या विवेकेन परामर्श इत्याह असाविति ॥ स्वसिद्धेनेति । परं प्रति त्वशब्दत्वं साधयिष्यामीति भावेनैवेक्षतेरुपन्यास इति भावः ॥ यतोऽसाविति । अत्र च सन्निहितपरामर्श उक्तानु-पपत्त्यभावश्चेति भावः । ननु सूत्रकारेणैव ‘महतः परमव्यक्तम्’ ‘अजामेकाम्’ इत्यादिषु प्रधानपरत्व-माशंक्य तेषां तत्परत्वाभावस्य ‘आनुमानिकम्’ इत्यधिकरणेषु व्युत्पादितत्वेन चतुर्थपादे तदशब्दत्व-प्रतिपादनात्कथमेतदित्यतस्तदपव्याख्यानस्य ‘न शब्दवाच्यतैवात्र’ इत्यादितदधिकरणानुव्याख्याने निरस्यतया नानुपपत्तिरित्याशयेनाह उपपादयिष्यते चैतदिति । नन्वयं तत्सूत्रव्याख्याकलह इत्यतोऽ-नुपपन्नस्याशब्दत्वस्य न सूत्रकाराङ्गीकारार्हतेत्याशयेन तदनुपपत्तिं दर्शयति किञ्चेति ।
यद्वा । चतुर्विधेऽप्याद्यस्य तदसाधकहेतूपन्यासेन सूत्रकारानभिमतत्वाद् द्वितीयादेश्च स्पष्ट-दूषणतया न सूत्रकाराङ्गीकारार्हतेत्याह किञ्चेति । शब्दागोचरत्वं निरुपाख्यत्वमित्याशयेनाद्यः । शब्द-शब्दस्य प्रमाणविशेषार्थकत्वादेकविशेषनिषेधे तदितरविशेषाभ्यनुज्ञानमित्याशयेन द्वितीयः कल्पः ॥ आद्य इति । ईक्षितृत्वरूपचेतनधर्मस्य यत्र कारणवाक्ये श्रवणं तत्कारणवाक्यस्य तेनाचेतन-प्रधानपरत्वाभावसिद्धावपि यत्र तदश्रवणं तत्कारणवाक्येन वा वाक्यान्तरेण वा प्रमाणान्तरेण वा प्रधानसिद्धेरीक्षितृत्वेनासिध्द्याऽसत्त्वरूपसाध्यासाधकत्वात्तदुपन्यासोऽनुपपन्न इति प्रमाणाभावरूप-तद्धेतूपन्यास एव कर्तव्य इति भावः ॥ अत एवेति । प्रमाणान्तरवेद्यत्वरूपसाध्यसाधनाय तद्धेतोरेवोप-न्यसनीयतयोक्तरीत्येक्षितृत्वस्यस्वश्रवणोपेतकारणवाक्यस्य प्रधानपरत्वाभावसाधकत्वेऽपि तदनुपेत-कारणवाक्येन वाऽकारणवाक्येन वा प्रतिपाद्यत्वासाधकत्वेन शब्दतिरिक्तप्रमाणवेद्यत्वासाधकत्वा-देवेत्यर्थः ॥ तृतीयचतुर्थयोरिति । वेदासिद्धत्वरूपतृतीयस्य, कारणत्वेन वेदान्तावेद्यत्वरूपसाध्यापेक्षया सामान्यत्वेऽपि तस्य साध्यवत्सन्दिग्धत्वेन, चतुर्थस्य तु साध्यानतिभिन्नत्वेनाहेतुत्वमिति भावः । अत्राद्यद्वयनिराकरणं न ह्यङ्गीकरोतीत्यनेन तृतीयचतुर्थनिराकरणं तूभयविधमशब्दत्वं न ह्यङ्गीकरोति साङ्ख्यः किन्तु साध्यवत्सन्दिग्धं वा साध्यानतिभिन्नं वेति तात्पर्यकेणानेनैव वाक्येन सूचितमिति द्रष्टव्यम् । ननु साङ्खयेनासिद्धावुद्भावितायां तत्साधकतया सूत्रे ईक्षत्युक्तेः कथमसिध्द्युद्भावन-मित्यतस्तर्हीक्षितृत्वेनैव प्रतिज्ञातार्थसाधनसंभवेऽपि परस्पराश्रयणमचातुर्यावेदकमेवेत्याह किञ्चेति । कल्पनमित्यनेनास्मदुक्तरीत्या सांख्यप्रतियोगिसमर्पणयोग्यस्य नञोऽन्वयसंभवे प्रतियोग्यध्याहारेण हेतुविभक्तिशून्यस्य हेतुत्वेन कल्पनमप्रामाणिकमिति सूचयति । इदमपि दूषणमशब्दत्वस्यासिद्धिबोध कैतद्वाक्यसूचितमेवेति द्रष्टव्यम् । एतानि सूत्राणि साङ्ख्यमतनिरासाय नाचीक्लृपदिति प्रतिज्ञायैकस्मिन् सूत्रेऽनुपपत्तिं प्रदर्शयता भाष्यकारेणोपलक्षणतया सूत्रान्तरानुपपत्तेरप्यभिप्रेततया तां दर्शयति ईक्षितृत्वं चेति । गौणश्चेदितिसूत्रमीक्षितृत्वस्य गौणत्वनिरासेन मुख्यत्वप्रतिपादनाय प्रवृत्तं तत्तदा सार्थकं यदि सिद्धान्ते तस्य मुख्यत्वं स्यात् । न चैवमतो व्यर्थं तदिति भावः । नन्वीक्षितृत्वस्यावास्तवत्वेऽप्युपाध्य-वच्छिन्ने ब्रह्मणि तन्मुख्यमेव । नैतावताऽचेतने प्रधाने तद्युक्तम् । चैतन्यसामानाधिकरण्येनैव तत्प्रतीत्याऽचेतनेऽवास्तवस्यापि तस्याभावात्तत्र गौणमिति कथं सूत्रवैयर्थ्यमिति चेन्न । तदवास्तवताया अद्याप्यसिद्धत्वात् । अन्यथा केेवलचेतने तदप्रतीत्याऽचेतनावच्छिन्नचेतने तत्प्रतीतेर्वक्तव्यत्वे, नियामकाभावेन तस्या एव प्रतीतेश्चेतनावच्छिन्नाचेतननिष्ठतद्विषयकत्वोपपत्ते-र्विपपत्तेर्विपरीतगौण-मुख्यभावस्याप्यापत्त्या गोणश्चेदिति सूत्रानुपपत्तिरेवेत्याशयात् ।
नन्वीक्षितृत्वस्य गौणत्वनिरासे न सूत्रस्य तात्पर्यमपि तु गौणेक्षणोपजीवनेन प्रधानपरत्वशङ्काया आत्मशब्देन तत्परत्वनिरासमात्र इति चेन्न । तथा सत्यप्रयोजकस्येक्षणस्य प्रथमसूत्र एवानुप-न्यसनीयत्वात् । आत्मशब्दरूपपरिहारासङ्गतिं प्रायपाठं निरसितुमाह किञ्चेति ॥ वैषम्यमिति । सति अप्तेजसोश्चेक्षितृत्वमुख्यतानिर्णायकचेतनात्मत्वार्थकात्मशब्दसदद्भावरूपमित्यर्थः ॥ नेति । देवता-शब्दस्याप्यत्मशब्दवच्चेतनमात्रपरत्वादिति भावः ॥ तन्निष्ठस्येति । यदि ह्यचेतनं सच्छब्दवाच्यं तदसीति ग्राहयेन्मुमुक्षुं चेतनं सन्तमचेतनोऽसीति तदा शास्त्रमप्रमाणं स्यादित्यादिनैतत्सूत्रार्थकथनदशायां प्रधानैक्यानुपपत्तेः परेण प्रतिपादनान्मोक्षोपदेशस्य च तदुपपादकाभ्युच्चययुक्तित्वेनाप्युपपत्तेराद्यस्य, द्वितीयकल्पस्य तु सूत्रानुरोधात्स्पष्टमेव प्रसक्तिरिति द्रष्टव्यम् । तथा च निष्ठाशब्द ऐक्यपरो वा स्थितिमात्रपरो वेति भावः ॥ तज्खस्येति । प्रधानज्ञस्येत्यर्थः ॥ अधस्तादिति । सत्यत्वा-त्तेनेत्यादिनेत्यर्थः ॥ तथाविधेति । सदुक्त्यनन्तरं तन्मे विजानीहि भूय एव मा भगवो विज्ञापयत्वित्या-द्युक्त्वा दृष्टान्तान्तराद्युक्तिरूपज्ञापकस्यात्रापि सम्भवात् । तस्यान्यथासिद्धौ चान्नमयादिष्वप्यन्यथा-सिद्धिसंभवादिति भावः । अत एव तथाविधेत्युक्तम् । अप्ययशब्दार्थो लयोपि ध्वंसरूपस्य तस्या-सम्भवादेकीभावो वा परिष्वङ्गमात्रं वेति विकल्पं मनसि निधायाह एकीभावस्येति ॥ दिगिति । ब्रह्मकारणत्वप्रतिपादकवाक्यस्थात्मशब्दस्य प्रधानेऽपि सावकाशत्वात्सर्वज्ञकारणतायाः श्रुतत्वेऽपि मुख्यसार्वज्ञस्य ब्रह्मण्यप्यभावादारोपितस्य च प्रधानेऽपि भावाच्चन्द्रिकोक्तदूषणान्तरस्यापि संभवाच्च नेदं व्याख्यानं युक्तमित्यर्थः ।
परिमल
‘न ह्यशब्दम्’ इत्येतदेव वाक्यं तन्निराकरणपरतयापि योजयति यतोऽसाविति ॥ उपपादयिष्यत इति । चतुर्थपादे ‘न शब्दवाच्यतैवात्र प्रधानस्य निषिध्यते’ इत्यादिनेति भावः ॥ किञ्चाद्ये प्रधानस्येति । शब्दगोचरत्वपक्ष इत्यर्थः ॥ तदुपपादनायेति । असत्त्वोपपादनायेत्यर्थः ॥ अत एवेति । प्रमाणान्तरवेद्यत्वोपपादनायेक्षत्युपन्यासस्यायुक्तत्वादेवेत्यर्थः ॥ द्वितीय इति । शब्दा-वाच्यत्वहेतुरित्यर्थः । तादृशस्यापि ब्रह्मणो वेदान्तेषु प्रतिपाद्यत्वोपगमादनैकान्तिको हेतुरिति भावः ॥ तृतीयचतुर्थयोरिति । अवैदिकत्वहेतोः कारणतया वेदान्ताप्रतिपाद्यत्व रूपसाध्येनैकार्थत्वादिति भावः ॥ नेतीति । प्रधानं न कारणतया वेदान्तवेद्यमिति प्रतिज्ञार्थसिद्धावित्यर्थः । शङ्कते परेणेति ॥ इदमिति । आत्मशब्दादित्येतदित्यर्थः । ‘तत्तेज ऐक्षत’ इत्यादावात्मशब्दाभावादिति भावः ॥ देवता-त्वेनेति । अभिमानिनये तथा वक्ष्यमाणत्वादिति भावः ॥ अधस्तादिति । ‘यज्ञमानप्रस्तरत्वं यथा नार्थः श्रुतेर्मवेत्’ इत्याद्यधिकरण इत्यर्थः । सौत्रो मोक्षोपदेशादिति हेतुश्चायुक्त इत्याहुः ॥ आत्म-शब्दस्येति । अथोच्येतत्येतत्सूत्रावतारिकाया मुक्तदिशा गौणत्वे शङ्कित इति भावः ॥ परिचोदनैवेति । अवतारिकारूपाशङ्कैवायुक्तेत्यर्थः । पूर्वपक्षीभूतः सांख्यो ह्येवं स्थूलारुन्धतीन्यायेनाशङ्कत इति वाच्यम् । न चैवं सम्भवतीत्याह न हीति ।
प्रधानं नात्मेति हेयत्वावचनात् प्रधानमेवात्मत्वेन सूक्ष्मब्रह्मज्ञानार्थमुच्यत इति नेति प्रागुक्तसूत्रार्थं च प्रत्याह हेयत्वावचनं चेति ॥ हेयत्वावचनादिति । अन्नमयादि न ब्रह्मेत्येवंरूपवचनाभावादित्यर्थः । उपलक्षणं चैतत् पुच्छरूपब्रह्मज्ञानार्थं ब्रह्मत्वेनोपदेशसत्त्वाच्चेति पूर्वोक्तसाध्याभावोऽपि ध्येयः ॥ उत्तरोत्तरेति । अन्नमयस्याब्रह्मत्वे ‘ये प्राणं ब्रह्मोपासते’ इति प्राणमयस्य ब्रह्मत्ववचनं ज्ञापकम् । एवं प्राणमयस्याब्रह्मत्वे मनोमयस्य ब्रह्मत्ववचनं ज्ञापकमित्येवं ज्ञेयम् ॥ अत्रापीति । सदेव सोम्येत्यादि-प्रकरणेऽपि सच्छब्दार्थस्याब्रह्मत्वे ‘भूय एव मा भवान्विज्ञापयत्वित्यादिप्रश्नप्रतिवचनपौनःपुन्यरूप-ज्ञापकसौलभ्यादित्यर्थः ॥ प्रतिज्ञाविरोधस्त्विति । हेयत्वावचनाच्चेति चशब्दममुच्चितैकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधस्त्वित्यर्थः ॥ न किञ्चिदिति । भोग्यात्मत्वभोक्रात्मकत्वयोर्मध्य इत्यर्थः । जडैक्यस्य त्वयानङ्गीकाराद्भोक्त्रैक्यस्य च यजमानप्रस्तरत्वमित्यादिना अस्माभिर्निरस्तत्वादिति भावः ॥ एषा दिगिति । अयं भावः । सिद्धान्ते किं प्रधानं सदेवेत्यादिवाक्यबोध्यं नेति निरस्य विशिष्टब्रह्मणः परिणामित्वमेतद्वक्यबोध्यमित्युच्यते किं वा कर्तृत्वं बोध्यमिति । यद्वा शुद्धस्य भ्रमाधिष्ठानत्वं बोध्य-मिति । नाद्यद्वितीयौ । विशिष्टे सदेवेत्यादिवाक्योक्तसत्त्वायोगात्पूर्वसूत्रेऽखण्ड एव समन्वयस्य प्रतिज्ञातत्वेनात्राखण्डस्यैव वाच्यत्वाच्च । द्वितीये वैयधिकरण्यं च । न हि प्रधानं परिमिणमीति प्राप्ते ब्रह्मकर्तृत्वसिद्धान्तो युक्तः । अत एव न तृतीयः । प्रधानं परिणामीति प्राप्तेऽधिष्ठानं ब्रह्मेत्यस्य व्यधिकरणत्वादित्यादिरूपेण चन्द्रिकोक्तदिशा ध्येयः ।
यादुपत्यम्
उपपादयिष्यत इति । ‘सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात्’ इत्यादिना चतुर्थपद इति शेषः ॥ किञ्चाद्यपक्षे प्रधानस्येति । आद्यपक्षस्य किं प्रधानासत्त्वे पर्यवसानमुत तस्य प्रमाणान्तर-वेद्यत्वे इति विकल्पार्थः ॥ ईक्षतेरुपन्यास इति । ईक्षतिना हि तत्समभिव्याहृतशब्दविशेषगोचरत्वमेव सिध्यति । न च तावता प्रधानस्यासत्त्वमुपपादितं भवति । तदसमभिव्याहृतशब्दैस्तत्सत्त्वसिद्धि-सम्भवादित्यर्थः । एवं प्रमाणान्तरवेद्यत्वोपपादनायापि नेक्षतेरुपन्यासो युक्तः । ईक्षतेः प्रधानस्य स्वासमभिव्याहृतशब्दप्रमाणकत्वमादायाप्युपपन्नत्वेन तस्य शब्देतरप्रमाणवेद्यतोपपादनासामर्थ्या-दित्याशयेनाह ॥ अत एवेति ॥ अनैकान्तिक इति । जगत्कारणतया वेदान्तवेद्यत्वाभावरूप-साध्यस्यावाच्ये ब्रह्मण्यभावादिति भावः साध्याविशिष्टत्वमिति । तृतीयपक्षे साध्यवत्सन्दिग्धत्वेन साध्याविशिष्टत्वमिति द्रष्टव्यम् ॥ व्यर्थमिति । अत्र कश्चिदाह । प्रकृत्यर्थस्येक्षणस्य प्रधाने गौणता-शङ्कायां न प्रकृत्यर्थस्य गौणताङ्गीकारो युक्तः ब्रह्मपक्षे प्रत्ययार्थस्य कर्तृत्वस्य गौणत्वेऽपि प्रकृत्यर्थ-स्येक्षणस्य मुख्यत्वात् । प्रकृतेः प्रथमश्रुतत्वनिरपेक्षत्वाभ्यां प्रबलत्वेन तदमुख्यताया जघन्यत्वादित्यत्र तात्पर्यात्तत्सूत्रं व्यर्थमित्याह । तत् स्वसिद्धान्तविस्मरणविजृम्भितमित्युपेक्षणीयमेव । त्वन्मते ब्रह्मणोऽ-वाच्यत्वेन प्रकृतेरप्यमुख्यत्वादिति ॥ तदविरोधायेति तद्विरोधाभावायेत्यर्थः ॥ दूषणान्तरमाह आत्म-शब्दस्येति ॥ औतज्ञानार्थमिति । यद्यपि ब्रह्मैव ज्ञीप्सितमित्युक्तत्वाद्ब्रह्मज्ञानार्थमित्येव वक्तव्यम् । तथाऽपि स आत्मा तत्त्वमसीतीहोपदिष्टं स्यादित्यादितद्भाष्यादद्वैतज्ञानार्थत्वस्यावगमादेवमुक्त-मित्यवगन्तव्यम् ॥ उत्तरोत्तरेति । ‘प्राणो ब्रह्मेति व्यजानात्, मनो ब्रह्मेति व्यजानात्’ इत्याद्युत्तरोत्तर-वचनमित्यर्थः ॥ अत्रापि तथाविधेति । अत्रापि चरमदृष्टान्तेऽभिहितो तद्धास्य विजज्ञाविति ब्रह्मज्ञान-वचनमेव पूर्वोक्तस्याब्रह्मत्वज्ञापकं सुलभमित्यर्थः । परस्येति । साङ्ख्यस्येत्यर्थः ॥ अत एवेति । ब्रह्मविषयगतिसामान्यस्य परं प्रत्यसिद्धत्वादेवेत्यर्थः । सकारणं कारणाधिपेत्यत्र च प्रधानमेव प्रतिपाद्यमिति परो वदिष्यतीति भावः ॥ गतार्थं चेति । श्रुत्या ब्रह्मकारणत्वस्य गतिसामान्यदित्यत्र समर्थितत्वादिति भावः । दिगर्थस्तु चन्द्रिकायां द्रष्टव्यः ।
श्रीनिवासतीर्थीया
शब्दागोचरत्वं शब्दाप्रतिपाद्यत्वम् । स्वसिद्धेन सूत्रकारेणेदं निराकरणं स्वमतसिद्धेन हेतुना कृतमित्यर्थः । बाधकाभावमिति । ईक्षतेगौणत्वं न कल्प्यं मुख्यार्थे बाधका-भावादित्यनुक्त्वेत्यर्थः । शङ्कते परेणेति ॥ वैषम्यमिति । आत्मशब्दबलेन सतश्चेतनत्वावगमे-नेक्षतेर्मुख्यत्वमेवेति न गौणप्रायपाठविरोध इति भावः ॥ देवतात्वेनेति । तथा च नन्वयमीक्षतिर्गौणो व्याख्येयः ‘तत्तेज ऐक्षत’ ‘ता आप एैक्षन्त’ इतिगौणप्रायपठितत्वादित्यस्यायुक्तत्वेन प्रायपाठविरोध-स्यैवाभावेन गौणश्चैदिति व्यर्थमेवेत्याशयः ॥ बाधकाभाव एवेति । न तु तन्निष्ठमोक्षोपदेश इत्यर्थः । चशब्दार्थं निरस्यति प्रतिज्ञेति । ब्रह्मविज्ञानेन न सर्वविज्ञानं सम्भवति । सर्वस्य ब्रह्मविकारत्वाभावेन ब्रह्मात्मकत्वाभावादिति भावः ॥ न किञ्चिदिति । सांख्यमते भोक्तृवर्गस्य प्रधानात्मकत्वाभवेऽपि भोग्यवर्गस्य तावदङ्गीकृतमेव । त्वन्मते तु भोक्तृवर्गस्य भोग्यवर्गस्य वा ब्रह्मविकारत्वासंभवेन तदात्मकत्वं नैव सम्भवतीत्यर्थः । स्वाप्ययो नाम किमेकीभाव उत परिष्वङ्गमात्रमिति विकल्प्य क्रमेण दूषयति एकीभावस्येत्यादिना ॥ प्रधाने अपीति । लिङ्गदेहपरिष्वङ्गसद्भावात्तस्यापि प्रधानत्वादिति भावः । असिद्धमन्यतरासिद्धम् । ईक्षतिकर्तृत्वेन गतिसामान्यं ज्ञाप्यत आह ईक्षणेति ॥ प्रथमसूत्रेणै-वेति । ईक्षतेर्नाशब्दमितिसूत्रेणैव इत्यर्थः ।
वाक्यार्थरत्नमाला
अत्राशब्दत्वस्य यथाश्रुतस्यैव निराकरणसम्भवे कुतस्तदर्थगवेषणम् । गवेषणेऽपि वा प्रधानप्रतिपादकशब्दाभावस्य पराभिप्रेतत्वेन तन्मात्रस्यैव दूष्यतया विकल्पानुपपत्ति-रेवेत्यतस्तदर्थज्ञानपक्षेऽनुपपत्तिं वदन् पराभिमतार्थावधारणानुपपत्त्या विकल्पावश्यकत्वं चोपपादयति अशब्दत्वेत्यादिना । समासोपसर्जनस्येति । उक्तं च जीवेशभेददृष्ट्यैव समुदायैकता कुत इत्यत एव चोपमेत्यधिकरणीयानुव्याख्यानमूले । समासे गुणभूतेनापि बुध्या विविक्तेन भेदशब्देनैव कारसम्बन्ध इतीति ज्ञेयम् । तर्हि पररीत्याऽसिद्धिः स्यादित्यत आह परं प्रतीति । सन्निहितेति । उत्तरार्ध एव भगवच्छब्देन सूत्रकारप्रतिपादनादिति भावः । उक्तेति । समासे गुणभूतत्वेन प्रकृतस्य स्वातन्त्र्येणोप-स्थित्यभावात्परामर्शानुपपत्तिरित्यनुपपत्तिरित्यर्थः । यद्यपि प्रागुक्तयोजनायामेवं स्वारस्याभावः प्राप्नोतीति सूचनं न युक्तम् । व्याख्यानद्वयस्यापि संमतेः । तथापि वस्तुगत्येतद्योजनान्तरे कुसृष्टिर्नेत्येवं वैषम्यमात्रप्रतिपादने तात्पर्यमिति न दोषः । तदुपव्याख्यानस्येति । महतः परमव्यक्तमित्यादि-प्रतिपादनादित्यन्ताशङ्कारूपपरापव्याख्यानस्येत्यर्थः । व्याख्याकलहो हि साम्ये सति वाच्यः । अयं चार्थोऽस्मदर्थ इव न सूत्रकाराभिमतोऽनुपपन्नत्वादित्याह अनुपपन्नस्येति । अशब्दत्वसामान्यानुपपत्ति-कथनपरतया योजनायामाद्ये द्वितीयस्त्वित्यादेरसङ्गतिरित्यतो विकल्पितपक्षेषु विशेषाश्रयणेनैव दूषणाभिधानपरतयैव किं चेत्यादिग्रन्थं योजयति यद्वेति । पूर्ववाक्यात् । नन्वयं तत्सूत्रव्याख्याकलह इत्यत इत्यनुवर्तते तदसाधकेति । ईक्षणीयत्वस्य शब्दागोचरत्वसाधकं चेक्षितृत्वरूपेत्यादिनोत्तरटीकायां स्पष्टम् । सूत्रकाराङ्गीकारेति । ततश्च वैषम्यान्न कलहपर्यवसानोक्तिर्युक्तेति भावः । अथवा पूर्ववाक्या-दित्यत इत्येतस्य नानुवृत्तिः । किन्तु पूर्वमुपपादयिष्यते इत्येतच्छेषत्वेन योजना । इदानीं तु प्राग्विकल्पितपक्षचतुष्टयस्यासिद्धिरूपसाधारणदूषणकथनपरतया योजनां कृत्वा प्रत्येकदूषणकथन-परत्वेनापि भाष्यं योजयतीति विवेकः । भाष्ये द्वितीयादिदूषणाभावात्कथं चतुष्टयनिरासकत्वमित्येतदुक्तं स्पष्टेति । दुर्गमत्वादुपन्यासानुपपत्तिमुपपादयति ईक्षितृत्वेति । एवमत एवेत्येतदपि दुर्गमत्वात् प्रमाणान्तरेत्यादिना विवरिष्यति प्रधानपरत्वाभावेति । प्रधानपरत्वाभावसिद्ध्या तत्कारणवाक्येन प्रधानासिद्धेरीक्षितृत्वेन सिद्धावपीति योज्यम् । एवं यत्र तदश्रवणमित्यनन्तरं तत्कारणवाक्यादीनां तेनाचेतनप्रधानपरत्वासिद्धेति पूरणीयम् । उभयत्रोभयपूर्णाभिप्रायेणैवेकैकत्रैकदेशकीर्तनात् । अश्रवणं चाबोधपर्यवसन्नमिति प्रमाणान्तरसाधारण्योपपत्तिः । ईक्षतेरिति मूले नान्यस्योपन्यासोऽभ्यनुज्ञातोऽ-तस्तदन्यद्दर्शयति प्रमाणाभावरूपेति । अत एवेत्यतिदेशो न प्रागुक्ततत्कारणवाक्येन वेत्युक्तत्रितय-विषयः । अपि तु प्रमाणान्तरवेद्यत्वमित्यनेनोक्तशब्दातिरिक्तप्रमाणवेद्यत्वसाधकत्वेन प्राप्ते ये ईक्षति-श्रवणोपेतवाक्यातिरिक्ततदनुपेतकारणवाक्याकारणवाक्यागम्यत्वे तन्मात्रविषयप्रमाणान्तरावेद्यत्वस्य विरोधेन तदसाधकत्वादिति सङ्कोचाश्रयणेन व्याख्याति प्रमाणान्तरेति ।
साधकत्वेऽपीति । साधकतया तद्वाक्याप्रतिपाद्यत्वसाधकत्वेऽपीत्यर्थः । साध्यावैशिष्ट्यमवैदिकत्वे मुख्यं नेत्यत उपपादयति वेदासिद्धत्वेति । एवमशब्दत्वस्य चतुर्धा विकल्प्य निराकरणं मूलान्न प्रतीयत इत्यतस्तत्प्रतीतिमुपपादयति अत्राद्येति । तत्साधकतयेति । अत एव कथमशब्दत्वमीक्षतेरिति प्रागुप-वर्णितमिति भावः । तर्हीति । कारणस्येक्षितृत्वश्रवणादित्युक्तश्रौतेक्षितृत्वेनैव प्रधानस्य कारणत्वेन वेदान्तावेद्यत्वरूपप्रतिज्ञातार्थसाधने सम्भवत्यपीक्षतिकर्तृत्वेन प्रधानस्याशब्दत्वं तेन च कारणतया वेदान्तावेद्यत्वमिति यत्परम्पराश्रवणं तदचातुर्यावेदकमेवेत्याहेत्यर्थः । साध्यप्रतियोगीति । साध्यभूतो योऽशब्दत्वाभावस्तत्प्रतियोगिभूतं यदशब्दत्वं तत्समर्पणयोग्यस्य शब्दमित्यस्य इत्यर्थः । तत्प्रति-योगीति । साध्यप्रतियोगीत्यर्थः । हेतुत्वेन । लिङ्गवचनत्वेन । अयं भावः । अत्राह नञा केनचिदन्वितेन साध्यं किञ्चित्समर्पणीयम् । तद्धि त्वद्रीत्या कारणत्वेन वेदान्तवेद्यत्वाभावो वाऽशब्दत्वाभावो वा मद्रीत्या प्राप्नोति । तत्र त्वत्पक्षे साध्यभूताभावप्रतियोगिसमर्पकस्यात्राश्रवणेन तदध्याहारः कर्तव्यः । तथाऽशब्दमित्यस्य हेतुविभक्तिशून्यस्य हेतुसमर्पकत्वं चाश्रयणीयमिति कल्पना प्राप्ता । अस्मत्पक्षे तु नाशब्दमित्यत्र नञर्थाभावप्रतियोगिसमर्पणमशब्द इत्यनेनेत्यङ्गीकारान्न तदध्याहारः । अशब्दत्वस्य हेतुत्वेनानङ्गीकारान्न तत्कल्पनापि । एवं च परपक्षे तत्कल्पनमप्रामाणिकमिति सूचनाय कल्पन-मित्युक्तमिति । एतद्दूषणस्योद्भाष्यत्वशङ्कावारणायाह इदमपीति । ईक्षितृत्वं चेत्याद्युत्तरग्रन्थोक्तदूषणानां नहीत्येद्भाष्योक्तत्वाभावादभिधानायोग इत्यतो भाष्यकाराभिप्रायव्याप्तत्वात्तदभिधानं न दोषायेत्याह एतानीति । सिद्धान्त इति । तदभिमते ब्रह्मण्यपि तस्य मुख्यत्वस्य तेनानङ्गीकारादिति भावः । अनुसारेण गौण इति सूत्रसार्थक्यमाशङ्क्य दूषयति नन्वीक्षितृत्वस्येत्यादिना । तत्र कथं गौण इति सूत्रवैयर्थ्यमिति पाठः । तत्रेत्यस्य तथा सतीत्यर्थः । तथा चेति यावदित्याहुः । वस्तुतस्तु तत्रेत्यस्य सिद्धान्त इति प्रकृतत्वात् सिद्धान्त इत्यर्थः । गौण इति कथं सूत्रवैयर्थ्यमिति क्वाचित्कपाठो लेखकागतः । अनुपन्यसनीयत्वादिति । उपन्यासानुपपत्तेरित्यर्थः । आत्मशब्दरूपेति । प्रायपाठं निरसितुमात्म-शब्दरूपपरिहारासङ्गतिमिति सम्बन्धः । अप्तेजसोः प्राये पठितत्वादीक्षतिर्गौण इति गौणत्वसाधकत्वेन प्रायपाठे शङ्किते तत्परिहारायात्मशब्दोपन्यासाद्गौणत्वसाधकप्रायपाठं निरसितुमात्मशब्दरूपो यः परिहारस्तस्यासङ्गतिमाहेत्यर्थः । अनेन प्रायपाठरूपबाधके गौणत्वसाधकतया परेणोक्ते तद्बाधकस्या-भाव एव वक्तव्यः । तमनुक्तात्मशब्दादिति परिहारस्त्वसङ्गत इति परिहारपदपूरणेन व्याख्यानं कृतं भवति । अथोक्तासङ्गतिपरिहारमाशङ्कते परेणेति मूलम् । तत्रेदं वैषम्यमित्यस्यार्थाप्रतीतेर्व्याचष्टे सतीति । अत्र चेतनार्थकात्मशब्देति पाठः । मध्येत्येत्येतदधिकम् । ईक्षितृत्वस्य या मुख्यता तन्निर्णायको यश्चेतनार्थकात्मशब्दस्तस्य सति सद्भावोऽप्तेजसोश्चासद्भाव इत्येवं सदसद्भावरूपमित्यर्थः । प्रायपाठरूपबाधके परेणोक्ते स एव नास्तीति परिहाराभावेऽप्यात्मशब्दादित्युक्तात्मशब्दरूपः परिहारो युज्यते । तेन परिहारेण प्रायपाठरूपबाधकस्य सत्यपि प्रायपाठे तद्विरोधो नास्ति । आत्मशब्द-सद्भावस्थले ईक्षितृत्वस्य मुख्यत्वेऽपि तदभावस्थले तस्य गौणत्वोपपत्तेरिति वैषम्यप्रतिपादनलाभेन तत्परिहारस्य सङ्गतत्वादिति मूलं व्याख्यातं द्रष्टव्यम् । उपदेशानुपपत्तिर्वेति मूले किं वेति मिलितं पक्षान्तरत्वद्योतकम् । एकीभावादिरूपत्वे हेतुर्ध्वंसरूपस्येति । तस्य लयस्य । अस्माभिरिवेति । एको देवः सर्वभूतेष्वित्यस्यास्मत्पक्षे उदाहरणादिति भावः । सावकाशत्वात् । स्वरूपार्थकत्वेनापि तदुपपत्तेरिति भावः । चन्द्रिकोक्तेति । तत्र किं विशिष्टस्य परिणामित्वमित्यादि चन्द्रिकाग्रन्थोक्त-दूषणेषु यावन्त्यत्रोक्तानि तदतिरिक्तदूषणेत्यर्थः ।