०२ सूत्रवाक्ययोजना

त एवान्वयनामानः

सूत्रवाक्ययोजना

***त एवान्वयनामानः ***

सुधा

तत्रान्वयपदार्थमाह त एवेति ।

अनुव्याख्यानम्

***त एवान्वयनामानः ***

सुधा

उपक्रमादय एवान्वीयन्ते शक्तितात्पर्यगोचरेण संबध्यन्ते तथा ज्ञायन्त इति यावद् वाक्यान्येतैर् इत्यन्वयनामानः । अत्रोपक्रमादिप्रसिद्धपदं परित्यज्य यौगिकान्वयपदपरिग्रहणेनेदं सूचयति । न शास्त्रतात्पर्यावगतावापातप्रतीतिर्व्याख्यातृवचनं वा लिङ्गम् । किन्तूपक्रमादय एव । तेषामव्यभिचारित्वात् । प्रतीतिव्याख्यानयोस्तु व्यभिचारित्वात् । यत्रापि प्रतीतिव्याख्याने न व्यभिचरतस्तत्राप्युपक्रमाद्यनुसन्धानपूर्वकत्वेनैव न तु स्वतः । अत उपजीव्यत्वादुपक्रमादीनामेव तात्पर्यलिङ्गत्वमिति । तदिदमाह त एवेति ।

वाक्यार्थचन्द्रिका

उपक्रमादिलिङ्गेभ्य इति पूर्ववाक्ये लिङ्गशब्दोपसर्जनस्यापि बुद्ध्या विवेकेनोपक्रमादेरेवात्र तच्छब्देन परामर्शोऽतः पुल्लिङ्गोपपत्तिरित्याशयेनाह उपक्रमादय एवेति ॥ नाम-ग्रहणोत्थरूढिमात्राभिप्रायभ्रान्तिं निवारयति अन्वीयन्त इति । तथा चोपक्रमादीनां तात्पर्यज्ञानकारण-त्वोक्त्या पूर्वपक्षनिरासः सिद्धो भवतीत्याह अत्रेति ॥ ननु यादृशतादृशप्रतीतिव्याख्यानयोस्तात्पर्य-व्यभिचारेऽपि नाबाधितप्रतीतिमानान्तराविरुद्धव्याख्यानयोस्तव्द्यभिचार अन्यथा यादृशतादृशोप-क्रमादेरपि तव्द्यभिचारात्तेषामपि तात्पर्यज्ञानकरणत्वाभावापत्तेः; तथा च प्रतीत्याद्यवज्ञानेनोप-क्रमादीनामेवान्वयपदेन तात्पर्यज्ञानकारणत्वोक्तिरनुपपन्ना, इत्याशङ्कायाः ‘त एव’ इत्यवधारणेन सूचितं परिहारं दर्शयति यत्रापीति ।

परिमल

रूढेरभावाद्योगमाह अन्वीयन्त इति । अनुपूर्वादिण्गतावित्यतः करणे ‘एरच्’ इत्यच्प्रत्यये सत्यन्वय इति रूपनिष्पत्तिरिति भावः ॥ उपक्रमादीनामविद्यमानसंबन्धकारकणत्वा-भावादाह तथा ज्ञायन्त इति । सम्बद्धतया ज्ञायन्त इत्यर्थः । अत्रेति । सूत्रो । सूचयतीति । सूत्रकार इति शेषः ॥ व्याख्यातृवचनं वेति । वेदगतोपक्रपाद्यननुगुणं यत्पशुपत्यादिरूपव्याख्यातृणां पाशुपतादिग्रन्थरूपवचनं तदित्यर्थः । वाशब्दद्वयमन्योन्यनिरपेक्षं सत्प्रत्येकमेव पूर्वपक्षप्रापकं न टीकायामिव मिलितमिति सूचयति अव्यभिचारित्वादिति । तात्पर्याव्यभिचारित्वादित्यर्थः ॥ ननु प्रतीतिव्याख्यानयोस्तात्पर्यव्यभिचारित्वोक्तिरयुक्ताप्रतीतेः पञ्चरात्रादिव्याख्यानस्य च विष्णुकारणत्वे वेदस्य यत्तात्पर्यं तदव्यभिचारित्वदर्शनादित्यत आह यत्रापीति ।

यादुपत्यं

तेषामव्यभिचारित्वादिति । अन्वयपदेनोक्तयोगेनाव्यभिचरितसम्बन्धस्य सूचनादिति भावः ॥

श्रीनिवासतीर्थीया

गोचरेण अर्थेन ॥ तथेति । शक्तितात्पर्यविषयार्थसम्बद्धत्वेन । तत्प्रतिपादकत्वेनेत्यर्थः ।

वाक्यार्थरत्नमाला

पूर्ववाक्य इति । पूर्वानुव्याख्यान इत्यर्थः । शक्तितात्पर्यगोचरेणेति मूलम् । ननूपक्रमादीनामर्थनिश्चायकत्वाभावात्कथमत्र शक्तिग्रहणम् । अत एवेक्षत्यधिकरणं चन्द्रिकायां गङ्गायां घोष इत्यादिव्यावृत्यर्थमुपक्रमादिकं विषं भुंक्ष्वेत्यादि व्यावृत्यर्थं श्रुत्यादिकमित्युक्तम् । अत एव च पूर्वाधिकरणटीकायां तात्पर्यज्ञानोपयुक्तत्वेनार्थज्ञानोपयुक्तत्वेनेत्यादिकमुक्तमिति चेन्न । उपक्रमादीनां श्रुत्यादीनां च सन्निकर्षविप्रकर्षाभ्यामित्युत्तरमूलम् । श्रुत्यादिषट्कं च ग्राह्यमिति तत्त्वप्रकाशिका । वायवाया हि दर्शतेति ऋग्भाष्यटीकायामुपक्रमावयवः खल्वर्थस्य निश्चायका इत्युक्तिः । शक्तितात्पर्याव-धारणरूपविचारप्रयोजनस्य जिज्ञास्योऽयं विधीयत इत्येतन्मूले विधीयत इत्येतन्मूले उक्तिशक्ति-तात्पर्यावधारणरूपः समन्वय इति चन्द्रिका । उपक्रमादिलिङ्गानां बलीयो ह्युत्तरेति ज्ञानपादमूलटीकायां श्रुतिलिङ्गेत्यादिनोक्ततात्पर्यनिर्णायकत्वविचारो द्वेधा कृतोऽस्ति आनन्दमयाधिकरणे सकलस्यापि शास्त्रस्य यो ब्रह्मणि परममुख्यवृत्त्या प्रतिपाद्यप्रतिपादकत्वलक्षणसमन्वय इत्युक्तिः । सर्वश्रुत्यादिषट्कं चेत्येतच्चन्द्रिका तट्टीके चावलोक्य स्पष्टनीयमस्ति । तेन चेति प्रतीकोपादानपाठः ।