०१ पूर्वपक्षरचना

ॐ तत्तु समन्वयात् ॐ

अथ समन्वयाधिकरणम्

पूर्वपक्षरचना

ॐ तत्तु समन्वयात् ॐ

सुधा

ॐ तत्तु समन्वयात् ॐ ॥ अस्तु शास्त्रैकसमधिगम्यं जगत्कारणम् । तथाऽपि शास्त्रत एवान्येषां हरहिरण्यगर्भादीनां प्रधानादीनां च जगत्कारणत्वप्रतीतेरतिव्यापकमिदं लक्षणम् । न च तच्छास्त्रं विष्णुपरमिति वाच्यम् । अभियुक्तैः शिवादिपरत्वेन व्याख्यातत्वात् । यद्यपि नामानि सर्वाणीत्यादिश्रुत्या शिवादिनाम्नां विष्णौ शक्तिमात्रमवसीयते । तथाऽपि न तात्पर्ये प्रमाणमस्ति । यत्परः शब्दः स शब्दार्थ इति हि न्यायः । न च शक्तिमात्रेण तात्पर्यं कल्पयितुं युक्तम् । अति-प्रसङ्गात् । अन्यत्र तात्पर्यज्ञापकमभियुक्तव्याख्यानमस्तीत्युक्तम् । तस्मादलक्षणमेतदित्याशङ्क्य परिहृतं सूत्रकृता तत्तु समन्वयादिति ।

अनुव्याख्यानम्

॥ ॐ तत्तु समन्वयात् ॐ ॥

वाक्यार्थचन्द्रिका

॥ ॐ तत्तु समन्वयात् ॐ ॥ शास्त्रयोनित्वेन कारणत्वस्य नातिव्याप्तिरिति पूर्वाधिकरणफलस्य शास्त्रयोनित्वेऽपि कारणत्वस्यातिव्याप्तिरेवेत्याक्षेपादाक्षेपिकीं पूर्वाधिकरणेनास्य सङ्गतिं सूचयन्नेव न च पाशुपतशास्त्रोदितत्वादिशास्त्रप्रतिपाद्यत्वे कारणमिति न्यायविवरणं मनसि निधाय स्पष्टत्वादत्रानुक्तं पूर्वपक्षमारचयति अस्त्विति । अत्र प्रथमादिपदेन तत्तद्वाद्यभिमतानां चेतनानां द्वितीयेन चाचेतनानां ग्रहणम् ॥ यद्यपि न्यायविवरणे प्रतीतेरादिपदेनोपाधानाद्य्वाख्यानेऽ-विश्वासशङ्कानिरासाय प्रतीत्यनुसरणेन प्रतीतिसघ्रीचीनश्रुत्युक्तटीकायां पूर्वपक्षो दर्शितः, तथाऽपि तत्रत्यादिपदस्वारयस्याय व्याख्यानप्रतीतिभ्यां निरपेक्षाभ्यामपि पूर्वपक्षो दर्शयितुं शक्य इत्याशयेन प्रतीतिमननुसृत्य तच्छास्त्रोदितत्वादिति वक्तव्ये पाशुपतादिशब्दप्रयोगेण लब्धमभियुक्तत्वमविश्वास-शङ्कानिरासकत्वेन योजयन्नेव तदुक्तं हेतुं विष्णुपरत्वे बाधकतया योजयति अभियुक्तैरिति । ‘ज्ञात्वा शिवं शान्तिमत्यन्तमेति’ इत्यादिशास्त्रं शिवस्य मोक्षदत्वादिपरमिति तदागमेषूक्तत्वाव्द्याख्येयस्य व्याख्यानानुसारितायाश्च सुप्रसिद्धत्वादिति भावः ॥ जन्माधिकरणे ‘यं नामानि विशन्त्यद्धा’ इत्यादिना भाष्योक्तमेतच्छङ्कापरिहारमन्यथासिद्धं कर्तुं शङ्कते यद्यपीति । आदिपदेन ‘यो देवानां नामधा’ इत्यस्य ग्रहणम् ॥

तथापीति । न तावत् ‘सर्वे वेदा यत्पदमामनन्ति’ इत्यादिश्रुतिस्तत्र मानम् । तस्याः शिवे वेदतात्पर्यमित्येवंपरतया तदागमो व्याख्यातत्वात् । नापि ‘वेदैश्च सर्वैरहमेव वेद्यः’ इत्यादीतिहासो वा पञ्चरात्राद्यागमो वा तत्र मानं तथाऽपि प्रतिपक्षापप्त्या विष्णावेव तात्पर्यमित्यवधारणसिद्धेः । नाप्युप-क्रमादिस्तत्र मानम् । ‘श्रद्धजुव्हती’त्युपक्रमस्य इति तु पञ्चम्यामाहुतावाप’ इत्युपसंहारस्य च ‘तस्यैष एव शारीर आत्मा यः पूर्वस्य’ इति जीवप्रापकोपसंहारस्य ब्रह्मशब्दाभ्यासस्य च ‘जीवाद्भवन्ति भूतानि’ इति जीवशब्दाभ्यासस्य ब्रह्म परत्वेऽपूर्वतायाश्च ‘असतः सदजायत’ इत्यसतः सदुत्पत्ताव-पूर्वताया ब्रह्मानुत्पत्तौ फलस्य च कर्मुसु पश्वादिफलस्य ‘कर्मणा ज्ञानमातनोति, ज्ञानेनामृतीभवति’ इत्याद्यर्थवादस्य च तत्त्वमसीत्यदावभेदपरत्वेऽर्थवादस्य भेदे उपपत्तेश्च सत्त्वात्तोषां च परस्पर-विरुद्धत्वेनोभयानुसारेण तात्पर्यनिश्चयस्याशक्यत्वादेकप्रहाणेनापरेण तन्निश्चये च तत्र तत्र तस्य तस्य तात्पर्यव्यभिचारेण नैकस्यापि तात्पर्यनिश्चायकत्वम् । न चैकेनापरबाधनिश्चयः । बाध्यबाधक-भावप्रयोजकप्राबल्यदौर्बल्ययोर्नियामकाभावेन निश्चेतुमशक्यत्वात् । तथ च तात्पर्ये न किमपि प्रमाण-मिति भावः ॥ ननु माऽस्तु तात्पर्यं तथाऽपि शक्तिविषयत्वामात्रेण शब्दार्थत्वसिद्धिरित्यत आह यत्पर इति ॥ ननु माऽस्तु प्रमाणान्तरं शक्तिरेव तत्र मानं भविष्यतीत्याशङ्क्य निषेधति न चेति ॥ अतिप्रसङ्गादिति । ‘‘गङ्गायां घोष’’ इत्यस्य प्रवाहे तात्पर्यापत्तेरित्यर्थः ॥ प्रतिपक्षस्योभयत्र तात्पर्ये प्रमाणाभावामात्रेणोपपत्तावपि स्वपक्षेऽम्युच्चयेनाधिक्यमुपपादयति अन्यत्रेति ॥ तस्मादिति । उपलक्षणं चैतत् । शास्त्रद्रुद्रादीनां कारणत्वप्रतीतेरबाधितप्रतीत्या तात्पर्यस्यापि निश्चेतुं शक्यत्वा-च्छास्त्रातिरिक्तस्य च साधकत्ववद्बाधकत्वस्याप्यभावाद्विष्णोर्जगत्काणत्वसाधकस्य रुद्रादेः कारणत्व-निषेधकशास्त्रस्य च वैपरीत्यस्यापि संभवेन शङ्कितुमशक्यत्वेन बाधकाभावादतिव्याप्तिरिति पूर्वपक्षोऽ-प्यत्राभिमतः । अत एव व्याख्यानसमकक्षतया प्रतीतिं वक्ष्यतीति बोध्द्यम् ।

परिमल

ॐ तत्तु समन्वयात् ॐ ॥ मूले सूत्रार्थस्यैव भाषणेन सूत्रस्य गमनिकानुक्तेः पूर्वाधिकरणफलाक्षेपपूर्वं पूर्वपक्षं वदन्सूत्रं स्वयमवतारयति अस्त्वित्यादिना ॥ हरेति । ‘एक एव रुद्रो न द्वितीयोवतस्थे (एको रुद्रो न द्वितीयाय तस्थे)’ ‘हिरण्यगर्भः समवर्तताग्रे’ ‘प्रधानादिदम्’ ‘आविरासीत्’ ‘जीवाद्भवन्ति भूतानि’ इत्यादिशास्त्रतो हरादेः प्रतीयत इत्यर्थः ॥ ननु न प्रतीति-मात्रादर्थसिद्धिः, तथात्वे ‘‘यजमानः प्रस्तर’’ इत्यादौ ऐक्याद्यर्थसिद्धिप्रसङ्गात्; किन्तु ऐक्यतात्पर्य-विषयत्वादेव; तथा च कथमेतत्; इति भावेनाशङ्क्याह न चेति । अभियुक्तैः पशुपत्यादिभिः संप्रतिपन्नैरित्यर्थः ॥ न तात्पर्ये प्रमाणमस्तीति । उपक्रमादिकं हि प्रमाणतया वक्तव्यम् । तत्तु न तात्पर्यनिर्णायकम् । अन्योन्यं बलाबलनिर्णयासंभवादिति भावः ॥ अतिप्रसङ्गादिति । गङ्गायां घोष इत्यादावपि प्रवाहादौ तात्पर्यकल्पनाप्रसङ्गादित्यर्थः ॥ कथं तर्हि रुद्रादिकारणत्वेऽपि तात्पर्यमित्यत आह अन्यत्रेति । व्याख्यानं पाशुपताद्यागमरूपम् । ननु ‘नारायणो वा इदमग्र आसीदि’त्यदौ विष्णोरऽपि कारणत्वं प्रतीयते । न च तच्छिवादिपरम् । अभियुक्तविष्ण्वादिकृतपञ्चरात्रादिना विष्णुपरत्वेन व्याख्यानात् । विष्णोरपि कारणत्वं सिद्धमिति चेत् । अस्त्वेवं कालादिभेदेन द्वयोरपि कारणत्वोपपत्तेरित्येतावान् ग्रन्थोऽत्र तस्मादित्यतः प्राक् योज्यः । तेनातिव्यापकमिदं लक्षणमिति प्राचीनो ग्रन्थस्साधुः । सौत्रोऽवधारणार्थस्तुशब्दश्च समञ्जसो भवतीति ध्येयम् ।

यादुपत्यम्

॥ ॐ तत्तु समन्वयात् ॐ ॥ तथाऽपि न तात्पर्य इति । ननु शक्त्यतिरिक्तं किं तात्पर्यम् । तात्पर्यवृत्तेरतिरिक्ताया अन्यत्र निराकृतत्वादिति चेत् । सत्यमेवम् । तथाऽपि तयोरस्ति भेदः । पदस्य सामान्यत इतरान्विते या वृत्तिः सा शक्तिः । एतस्या एव पदान्तरादिसमभिव्याहारेण विशेषान्वयप्रमाजनकत्वे पर्यवसानं वा तदाहितशक्त्यन्तरं वा तात्पर्यमिति । तथा च तत्प्रमिति-जनकत्वमेव तात्पर्यशब्दार्थ इत्यवगन्तव्यम् ॥

श्रीनिवासतीर्थीया

॥ ॐ तत्तु समन्वयात् ॐ ॥ अतिप्रसङ्गादिति । भोजनसमये सैन्धव-मानयेति पदस्याश्वे शक्तिसत्वेऽपि तत्र न तात्पर्यमपि तु लवण इत्यस्ति तदपि न स्यादित्यर्थः ।

वाक्यार्थरत्नमाला

॥ ॐ तत्तु समन्वयात् ॐ ॥ शास्त्रयोनित्वेनेत्यादि चन्द्रिकानुसारेण फलाक्षेपप्रकारं दर्शयन्नेव पूर्वाधिकरणसङ्गतिसूचनग्रन्थाभिप्रायं पूर्वपक्षप्रवृत्त्युपपत्तिं च दर्शय-न्नवतारयति शास्त्रयोनित्वेनेति । फलस्याक्षेपादिति सम्बन्धः । सङ्गतिमित्यस्य सङ्गतिरितीत्यर्थः । अत्र भाष्ये पूर्वपक्षानुक्तौ हेतुः स्पष्टत्वादिति । तर्हि भाष्यकारीय सर्वथाऽवचनमेवेति भ्रान्तिनिरासाय स्थलान्तरे तदुक्तिरस्तीत्याशयेनोक्तं न च पाशुपतेति । चेतनानामिति । स्कन्दसूर्यादीनामित्यर्थः । अचेतनानामिति । शाक्ताभिमतशक्तेः साङ्ख्याभिमतप्रधानस्य तत्तदभिमता देश्च ग्रहणम् । अत्र चाद्यः पूर्वपक्ष इत्यादि चन्द्रिकानुसारेणैतत्पूर्वपक्षग्रन्थाभिप्रायमाह यद्यपीत्यादिना । प्रतीतिसध्रीचीनेति । अत्र प्रतीतिसध्रीचीनागमेनेति पाठः । चन्द्रिकायां तथैवोक्तेः । तात्पर्यावगतौ पाशुपताद्यागमस्य लिङ्गत्वे उक्ते सति तत्राविश्वासशङ्कापरिहाराय प्रतीत्यनुसरणेऽपि व्याख्यारूपागमस्य प्रतीतिसध्रीचीनत्वाश्रयणेन तात्पर्यावगतिहेतुत्वाङ्गीकारेण पूर्वपक्षकर्तव्यत्वशङ्का तत्परिहारपरपूर्वोत्तरवाक्यपर्यालोचनयापि तथैव लाभाच्च । अत एव मूलकोशे श्रुत्येत्येतदुपरि रेखा कृता । श्रुतिपदस्य अनादिकालतोऽनुवृत्तत्व-साम्यादागमे प्रयोग इत्याश्रयणान्न दोष इत्यप्याहुः । स्वारस्यायेति । अन्यथा पाशुपतशास्त्रादितत्त्वस्य च प्रधानतया तत्समकक्षतया प्रतीतेरुपन्यासायोग इति भावः । अननुसृत्येत्यस्याभियुक्तत्वमित्युत्तरेण सम्बन्धः ।

तदुक्तं हेतुमिति । अनेन मूले व्याख्यानस्य स्वपक्षे साधकत्वेन परपक्षदूषणत्वेन चोपन्यास इति मूलाशयो वर्णितो भवति । सुप्रसिद्धत्वादिति भाव इति । काव्यादिव्याख्यानानुसारित्वस्य काव्यादौ दृष्टत्वात् सिद्धे शब्दार्थसम्बन्ध इत्येतद्व्याख्यानरूपप्रथमाह्निकगतव्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति महाभाष्यकारीयपरिभाषावचनाच्चेति भावः । इत्यस्या इति । श्रुतेरिति शेषः । सर्वे वेदा यत्पदमामनन्तीत्यादिश्रुतिरपि शिवे वेदेत्यादि चन्द्रिकानुसारेण तात्पर्ये प्रमाणाभावमुपपादयति न तावत् सर्वे वेदा इत्यादिना । यद्यप्युपक्रमादि तु न तात्पर्यनिश्चायकमिति प्रतिज्ञायाश्च प्रतिग्रहेष्ठि-रुपक्रमाद्धातुरूपसंहारात्प्रतिग्रहीतुरिति प्रसङ्गादित्यादि चन्द्रिकाग्रन्थे पूर्वमीमांसाधिकरणेषु निर्णीतस्थ-लान्युदाहृत्यैव तत्र बलाबलविचारसम्भव उक्तः । तथापि तत्रचैकप्रकरण इत्यादि चन्द्रिकाया-मुत्तरमीमांसायामुदाहृतस्थलेषु उपक्रमादित उपसंहारादेः प्राबल्यव्युत्पादनाप्राबल्यनिर्णयात्प्राक् परस्परविरुद्धोपक्रमादितस्तात्पर्यनिर्णयायोगशङ्कायां बाधकाभावेन च श्रद्धां जुह्वतीत्याद्युपक्रमादेरेवोप-संहारादिविरोधेन तात्पर्यनिश्चायकत्वाभावाभिप्रायत्वमेवास्य वाक्यस्येति दर्शयति श्रद्धां जुह्वतीत्युप-क्रमस्येत्यादिना । अत्र चशब्दसमुच्चितयोर्द्वयोर्द्वयोः परस्परं विरोधाभिप्रायेण प्रत्येकं चशब्दानां प्रयोगः। षष्ठ्यन्तानां सत्त्वादिति वक्ष्यमाणेनान्वयः । प्रीत्या मोक्षफलत्वाच्चेत्यनुव्याख्यानव्याख्यानानुसारेण भगवन्निर्द्दोषत्वज्ञानस्य मोक्षफलत्वादित्याशयेनोक्तं ब्रह्मानुत्पत्तौ फलस्येति । एवं तत्तदुपपादनं चन्द्रिकोक्तरीत्या ज्ञेयम् । न्यायवाचस्पतौ शब्दमणिग्रन्थादौ च व्यवहृतं यत्परःशब्दः स शब्दार्थ इति वाक्यं जिज्ञासाधिकरणे व्याख्यातं कार्यतावादे जैमिनीयानुवादव्याख्यावसरे टीकाकृता तद्व्याख्यानं तत एव प्रतिपत्तव्यमित्याशयेनात्र तदव्याख्यानम् । प्रतिपक्षस्येति । अयमर्थः । नामानीत्यादिश्रुत्यनुसारेण विष्णुपरत्वे उक्ते व्याख्यानानुसारेण शिवादिपरत्वमेव वाच्यम् । तावतैव प्रतिपक्षसिद्धेः । न पुनः स्वपक्षे तात्पर्ये प्रमाणमभिधातव्यं परपक्षे तात्पर्ये प्रमाणाभावात्स्वपक्षेऽपि प्रतिपक्षत्वोपपत्तेः । तथाप्यभ्युच्चयेन स्वपक्षे आधिक्यप्रतिपादनाय तदुक्तिरिति । यद्वा शास्त्राद्रुद्रादेरित्यादिचन्द्रिकोक्तरीत्या प्रतीत्यवलम्बनेन पूर्वपक्षस्याप्यत्रोपलक्षणया ज्ञेयत्वमाह उपलक्षणं चैतदिति । प्रतीतेरत्र टीकाकृता अनुपादानात् कुतस्तदाश्रयणेन पूर्वपक्षोपलक्षणाश्रयणमित्यतोऽत्रानुपादानेऽपि न शास्त्रतात्पर्यावगतावापातप्रतीति-रित्युत्तरत्र तदुपादानात्प्रागपि तदाश्रयणेन पूर्वपक्षोपलक्षणं युक्तमित्याशयेनाह अत एव व्याख्यानेति । तत्त्वप्रकाशिकायां प्रतीतिव्याख्यानयोरन्योन्यापेक्षयोः पूर्वपक्षसाधकतया वर्णनात्तथाप्रतीतिनिरासाय व्याख्यानसमकक्षतयेत्युक्तमिति ज्ञेयम् ।