शेवाद्यागमसंप्राप्तदृष्टगेन फलेन तु
अथ शैवाद्यगमप्रमाण्यसाधकानुमाननिरासः ।
शेवाद्यागमसंप्राप्तदृष्टगेन फलेन तु
सुधा
एवमागमादनुमानाच्चान्येषां जगज्जन्मादिकारणत्वे प्राप्ते प्रतिविहितं सूत्रकृता । आगमादनुमानतो वाऽन्ये जगत्कारणत्वेन न कल्पनीयाः । कुतः । शास्त्रयोनित्वात् । ऋग्यजुस्प्तामाथर्वाश्चेत्यादिनोक्तं शास्त्रं योनिः कारणमभिव्यञ्जकं प्रमाणमस्येति शास्त्रयोनि तस्य भावः शास्त्रयोनित्वं तस्मात् । एतदुक्तं भवति । जगज्जन्मादिकारणस्य वस्तुनो वेदादिशास्त्रैक-समधिगम्यत्वेन शैवाद्यागमानुमानागोचरत्वान्न तैरन्येषां जगत्कारणत्वं कल्पनीयम् । किन्तु शास्त्रं यस्य जगत्कारणत्वमाचष्टे स एव तथाऽभ्युपगन्तव्य इति ॥
वाक्यार्थचन्द्रिका
ननु प्राप्तपक्षव्यावर्तकत्वेन सूत्रमवतार्य तदर्थभावयोरकथनात्कथमे-तव्द्याख्यानमित्यतः सूत्रभाष्यभ्यां सर्वस्य सिद्धत्वात्सौत्रहेत्वसिद्धिपरिहाररूपपरोक्तागमप्रामाण्य-साधकनिरासायैतद्भाष्यमित्याशयेन प्रतिज्ञादिकमवश्यवक्तव्यं दर्शयन्नेव तत्सङ्गततयाऽनुव्याख्यानं योजयितुमाह एवमिति ।
परिमल
साध्यमध्याहृत्य तत्र हेतुत्वेन सूत्रं योजयति आगमादनुमानतो वेत्यादिना । एतेन भाष्यानुभाष्ययोर्विरोधोऽपि प्रत्युक्तः । उपलक्षणतयोभयत्र द्वयोरपि ग्राह्यत्वादिति दर्शितम् ॥ इत्यादि-नोक्तमिति । भाष्योक्तप्रमाणेनोक्तमित्यर्थः ॥ कथमनेनोक्तशङ्गानिरास इत्यत आह एतदुक्तं भवतीति ॥ जगज्जन्मादिकारणस्य वस्तुन इति । एतेन पूर्वसूत्रेऽव्याहृतं तदितिपदं तस्येति षष्ट्यन्ततया विपरिणम्यानुवर्तत इति सूचितम् ।
वाक्यार्थरत्नमाला
मूले प्रतिविहितं सूत्रकृतेति । आगमादनुमानतो वाऽन्ये जगत्कारणत्वेन न कल्पनीयाः कुतः शास्त्रयोनित्वादिति योजनया सूत्रेन कल्पनीया इत्यन्तप्रतिज्ञाध्याहारः कार्य इति सूचनादागमतोऽनुमानतो वेत्यादि प्रतिज्ञापि सूत्रवाक्यं भवतीत्याशयेन सूत्रकृता प्रतिविहितत्वमुक्तमिति न दोषः । अत एवानुमानत इति भाष्यस्य सिद्धान्तयतीत्येवावतारस्तत्त्वप्रकाशिकायां कृतः । तत्रत्यमुप-पादनं तद्व्याख्यानेऽस्मदीये ज्ञातव्यम् । उक्तं च प्राक् टीकाकृता न पृथक् चानुमेश्वर इति सिद्धान्तानु-व्याख्यानं चेतीति ज्ञेयम् । शास्त्रैकसमधिगम्यत्वेनेति मूलम् । शास्त्रं च तदेकमसहायं चेति शास्त्रैकम् । विशेषणविशेष्यभावस्य कामचारित्वादित्यादिकं न्यायविवरणटीकायामुक्तं तदनुसारेणात्रार्थो ज्ञेयः । एवमुत्तरत्र तत्र तत्र ज्ञेयम् ।