सोऽस्ति वस्तुष्वशेषतः
अन्यवादिभिरपि विशेषोऽङ्गीकार्यः
सुधा
एवमद्वैतवादिना विशेषमङ्गीकारयित्वाऽन्यानप्यङ्गीकारयति सोऽस्तीति ।
अनुव्याख्यानम्
सोऽस्ति वस्तुष्वशेषतः ॥
सुधा
न केवलं ब्रह्मणि मायावादिना विशेषोऽङ्गीकरणीयः । किं नाम प्रपञ्चसत्यतावादि-भिरप्यशेषद्रव्येषु स विशेषोऽङ्गीकार्यः । तथा हि पटस्तच्छौक्ल्यं च तावन्न भिद्येते । अङ्गुलीद्वय-वद्भेदेनानुपलम्भात् । अयुतसिद्धत्वादिति चेत् । किमयुतसिद्धत्वं नाम । अवश्यमाश्रयाश्रयिभावे-नावस्थानमिति चेत् । किमेतावता भेदेन न प्रत्येतव्यम् । नापि कुण्डमिव पटोऽधिकरणत्वेन बदराणीव शौक्ल्यमाधेयत्वेन परिस्फुरति । किं नाम तदेव तदिति । न चैषा प्रतीतिर्भ्रान्तिः । बाधकाभावात् । शौक्ल्यपटयोर्भेदावगाहिनी प्रत्यक्षप्रतीतिर्हि बाधिका भवेत् । अनुमानादीना-मभेदप्रत्ययरोधेनोत्थानस्यैवासंभवात् । न च भेदावगाहिनी प्रत्यक्षप्रतीतिरस्तीत्युक्तम् । तेन प्रत्यक्षत एव सिद्धः पटशौक्ल्ययोरभेदः । दृश्यन्ते च भेदकार्याणि, पटशौक्ल्यबुध्द्योरन्यूनानतिरिक्तविषयत्वा-भावः, तच्छब्दयोरपर्यायत्वम् अपर्यायशब्दस्मारकत्वं, जलाहरणाद्यर्थक्रियाभेदः, पटमानयेत्युक्ते यत्किञ्चिच्छुक्लानानयनं, शुक्लमानयेत्युक्ते नियमेन पटस्यानानयनम्, अपटः पट इतिवदशुक्लः पट इत्यनयोर्विरोधाभावः, अन्धस्यापि पटोऽयमितिवच्छुक्लोऽयमिति न प्रतीत्यनुत्पत्तिः, शुक्लाप्रति-प्रत्तिवत्पटाप्रतिपत्त्यभावः, महारजनसंपर्केण शुक्लत्ववत्पटस्याप्यावृतत्वाभावः, पटवद्वा शौक्लस्याप्य नावृतत्वाभावः; इन्येवमादीनि । न चैषा प्रतीतिर्भ्रान्तिः । बाधितत्वाभिमानस्याप्यभावात् । व्यवहाराद्यविसंवादाच्च तदेतयोरभेदभेदकार्यप्रतीत्योरन्यथाऽनुपपत्त्या निर्भेदेऽपि पटेऽस्ति कश्चि-दतिशयो भेदप्रतिनिधिर्यद्वशादिदं सर्वं समञ्जसं स्यादित्येव कल्पनीयम् । स चातिशयोऽभिन्नेऽपि विशेषकत्वाद्विशेष इति गीयते । एवमन्यत्रापि द्रव्ये विशेषः प्रतिपत्तव्यः ।
ननु भेदाभेदाङ्गीकारेणानुपपत्तेः शमनात् किं विशेषेणेति चेन्न । परस्परविरूद्धयोर्भेदाभेदयो-रेकत्रावस्थानघटनायामपि विशेषस्याप्यङ्गीकरणीयत्वात् । प्रतीतत्वात्को विरोध इति चेत् । सत्यम् । प्रतीतिरपि कथमुपपन्नेति चिन्तायां वस्तुस्वभावातिशयस्यानुसरणीयत्वात् । भेदाभेदा-नवस्थापरिहारार्थमपि विशेषाङ्गीकारावश्यकत्वस्योक्तत्वादिति ।
वाक्यार्थचन्द्रिका
सत्यत्ववादिनं प्रति ब्रह्मण्येव विशेषो व्युत्पादनीय इति न निर्बन्धः किन्तु सर्वत्रापीत्याशयेनाशेषत इति व्युत्पादयितुं प्रपञ्चसत्यत्ववादिभिरिति विशेषणम् ॥ अवश्यमिति । नियमेनेत्यर्थः । सम्बन्धविनाशस्य सम्बन्धिविभागस्य च कालान्तरेऽप्यभावेनेति यावत् । पटतच्छौक्ल्ययोः कुण्डबदरयोश्च भेदे संबन्धे च समाने कालान्तरभाविनः सम्बन्धविनाशस्य सम्बन्धविभागादेर्वा प्रत्यक्षप्रतीत्यप्रयोजकतयाऽऽश्रयाश्रयिभावेनास्थानतौल्यात्तद्वदेव भेदेनोपलम्भः स्यादेव । न हि यावदयावद्द्रव्यभाविश्यामतास्थले श्यामतादशायां प्रतीतिवैलक्षण्यानुभवः कस्यचिदित्याशयेनाह किमेतावतेति ॥ आश्रयाश्रयिभावेन प्रतीतिमभ्युपेत्येदमुक्तं वस्तुतस्तु न तथा प्रतीतिरपि त्वभेदेनैवेत्याह नापीति ॥ अनुमानादीनामिति । अन्यथा कालात्ययापदिष्टोच्छेद एव स्यादिति भावः । असञ्जातबाधस्थलवदुपपत्तिं निरस्यति व्यवहारादीति ॥ एवमिति । तन्तुपटादि-बुद्धीनां भिन्नघटादिबुद्धितो वैलक्षण्यं तावदनुभूयते । तच्च न तावत्सम्बन्धविषयत्वेन । कुण्डबदरादि-बुद्धितोऽपि वैलक्षण्यानुभवात् । नापि संयोगान्यसंबन्धविषयत्वेन । घटतज्खानतदभावादिबुद्धितोऽपि वैलक्षण्यानुभवात् । नापि स्वरूपप्रत्यासत्तिसंयोगान्यसम्बन्धविषयत्वेन । घटतद्धर्मिकान्योन्या-भावादिबुद्धेर्घटपटादिबुद्धितो वैलक्षण्याभावापातात् । नाप्ययुतसिद्धिविषयत्वेन । आश्रयाश्रयिभावनियमो ह्ययुतसिद्धिः । तत्र च तदानीन्तनाश्रयाश्रयिभावः कुण्डबदरादिबुद्धावपि भाति । नियमस्तु न तन्तु-पटादिबुद्धावपि । न हि प्रत्यक्षा तन्तुपटादिधीस्तन्तुपटसम्बन्धनाशो वा तन्तुपटविभागो वा न भविष्यतीत्याकारा । नापि कुण्डबदरादिधीस्तयोः सम्बन्धनाशो वा कुण्डबदरादिविभागो वा भविष्यतीत्याकारा । नापि समवायविषयत्वेन उक्तरीत्या सम्बन्धनाशो वा कुण्डबदरादिविभागो वा भविष्यतीत्याकारा । नापि समवायविषयत्वेन । उक्तरीत्या सम्बन्धनित्यत्वस्य सम्बन्ध्ययुतसिद्धत्वस्य वा तत्रास्फुरणात् । तस्मादभेदविषरत्वेनैव वैलक्षण्यं वाच्यम् । अत एव ह्यातानवितानात्मकास्तन्तव एव पट इत्यादिरेव प्रत्ययो न त्वाश्रयाश्रयिभावेन कस्यचित् । दृश्यन्ते च भेदकार्याणि तन्तु-पटबुध्द्योरन्यूनातिरिक्तविषयत्वाभावः, तच्छब्दयोरपर्यायत्वम्, अपर्यायशब्दस्मारकत्वं, शीतनिवारणा-द्यर्थक्रियाभेदः, सामानाधिकरण्यव्यवहार इत्येवमादीनि । न चैतयोर्बाधोस्ति येन भ्रान्तित्वं शङ्केत । तदेतयोरभेदभेदकार्यप्रतीत्योरन्यथाऽनुपपत्त्या तत्रापि विशेषः प्रतिपत्तव्य इत्यर्थः । भाष्यकारोक्ता-न्यथाऽनुपपत्तिं समर्थयितुमन्यथोपपत्तिं शङ्कते नन्विति । यद्वा मीमांसकेनापि विशेषमङ्गीकारयितुं तन्मतेनान्यथोपपत्तिं शङ्कते नन्विति ॥ उक्तयुक्तिं स्मारयति भेदाभेदेति ।
परिमल
अङ्गीकारयित्वेति । अङ्गीकारशब्दात् ‘तत्करोति तदाचष्टे’ इति णिचि कृते ण्यंतात्क्त्वाप्रत्यये रूपम् । अङ्गीकार्य, इति शङ्कानवकाशः । अस्तीत्यस्य तात्पर्यमाह अङ्गीकर्तव्य इति ॥ अर्थापत्तेरन्यथोपपत्तिमाशङ्क्य निराह ननु भेदाभेदाङ्गीकारेणेति ॥ एकत्रेति । यस्य येन भेदाभेदौ तत्र वस्तुनीत्यर्थः ॥ उक्तत्वादितीति । ‘भेदाभेदौ यदि तदा स्यादेव ह्यनवस्थितिः’ इत्यादाविति भावः ।
यादुपत्यम्
अस्ति इत्यस्य तात्पर्यमङ्कीकर्तव्य इति । अन्यथाऽन्यानप्यङ्गीकारयतीत्युक्तस्यालाभ इति द्रष्टव्यम् ॥ अयुतसिद्धत्वादिति । तथा चोक्तानुमानेऽन्यथासिद्धिरिति भावः ॥ अवश्यमिति । कुटुम्बदारादिव्यावृत्त्यार्थमिदम् । नियमेनेत्यर्थः । अत्राविनश्यतोरिति विशेषणीयम् । तेन विनश्यदवस्थयोराश्रयाश्रयिभावेनावस्थानाभावादव्याप्तिरितिनिरस्तम् । यथाहुः—
तावेवायुतसिद्धौ द्वौ विज्ञातव्यौ ययोर्द्वयोः ।
अविनश्यदेकमपराश्रितमेवावतिष्ठत ॥ इति ।
ननु कथमेतत् । अविनश्यतोरित्यस्य हि विनश्यताशून्ययोरित्यर्थो वर्णनीयः । अन्यथोक्ता-व्याप्त्यपरिहारात् । तथा च नित्यायुतसिद्धयोरप्रसिद्धेः । न च ययोर्द्वयोः सत्त्वदशायामिति विवक्षितम् । भूतलधटाभावयोरप्ययुतसिद्धाताप्रसङ्गात् । न च भावयोरित्यपि विवक्षितम् । कालघटत्वयोरपि तत्त्वप्रसङ्गादिति चेन्न । उभयस्थित्यवच्छिन्नकालावच्छेदेन नियताधाराताप्रयोजकीभूतसम्बन्धातिरिक्त-सम्बन्धाश्रयत्वमेवायुतसिद्धत्वमित्यत्र तात्पर्यात् । एतेन प्रलयकाले व्यक्त्यभावेऽपि जातेः सत्त्वात्कथं तयोराश्रयाश्रयिभावेनावस्थानमिति निरस्तम् । उभयस्थित्यवच्छिन्नकालावच्छेदेन तत्रापि तत्सत्त्वात् । इदमयुतसिद्धत्वं भेदोपलम्भानुकूलमेव न प्रतिकूलमतो नोक्तान्यथासिद्धिरित्याशयेनाह किमेतावतेति ॥ येनान्यथासिद्धिरुक्ता तदयुतसिद्धत्वमसिद्धं चेत्याह नापि कुण्डमिवेति ॥ ननु विरुद्धधर्माधि-करणत्वरूपमनुमानं तदन्यथाऽनुपपत्तिरूपार्थापत्तिर्वा वैशेषिकसमयरूप आगमो वा तयोर्भेदे मानमित्यत अह अनुमानादीनामिति ॥ अन्यूनातिरिक्तेति । पटं विना शौक्ल्यबुद्धेर्बलाकाऽऽदौ शौक्ल्यं विना पटबुद्धेः रक्तपटादौ सत्त्वादिति भावः ॥ जलाहरणद्यर्थक्रियेति । अतद्गुण-संविज्ञानबहुव्रीहिणा शीतनिवारणाद्यर्थक्रिया ग्राह्येति वा घटशौक्ल्ययोरित्यादिपाठमपेक्ष्य वेदमिति ज्ञातव्यम् ॥ घटमानयेत्युक्त इत्यादि । नन्वत्र ययोः पटशुक्लरूपव्यक्तिविशेषयोरभेदः प्रत्यक्षसिद्धः । न तयोरेतानि भेदकार्याणि किन्तु पटशौक्ल्यसमान्ययोस् तयोश्च नाभेदः प्रत्यक्षसिद्धः । न हि पटमात्रं शुक्ल्यसामान्याश्रितानीमानि भेदकार्याणीति । तथापि नासङ्गतिः । व्यक्तिविशेषाभेदविषयकेणापि पटशौक्ल्यसामान्यव्यक्त्योरपि अभेदावगाहनस्य प्राप्तेः । विशेषव्यक्तिरूपातिरिक्तस्य सामान्य-व्यक्तिस्वरूपस्यैवाभावात्पटत्वशुक्लत्वयोरपि धर्मत्वेन पटशौक्ल्यरूपधर्म्यभिन्नत्वात् । उक्तं हि भगवत्पादैः । ‘व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः’ इति । एतव्द्याख्यावसरे सुधाया-मप्येवमेवोक्तम् । ‘व्यावृत्तस्वरूपाभिन्नस्य प्रतिनियतसामान्या कारस्याभ्युपगमेन विशेषसामान्यरूपं सर्वमपीष्यत’ इति । तथा च शुक्लः पट इति सामान्याकारेणाभेदावगाहिनी प्रत्यक्षप्रतीतिः सामान्य-योरप्यभेदमवगाहत इति तदाश्रितभेदकार्यप्रदर्शनं नासङ्गतम् । यदत्रोक्तम् पटमात्रं शुक्लमात्राभिन्नमिति न प्रतीयत इति तत्तथैव । उक्तरीत्या सामान्ययोरभेदे तत्र भेदकार्यनिर्वाहकविशेषानङ्गीकारेऽस्यापि भेदकार्यस्यानुपपत्तेः । नन्वस्तु सिद्धान्त इत्थं समाधानम्, प्रकृते तार्किकादीन्प्रति कथमिदं सङ्गतमिति चेत् । तान्प्रत्यपि पटशौक्ल्यव्यक्त्योर्भेदानुपलम्भेनादावभेदं प्रसाध्य तदाश्रितयोः पटत्वशुक्लत्व-सामान्ययोरपि तेनैव हेतुना स्वाश्रयाभेदे सिद्धे तेन परस्परमपि तरुत्ववृक्षत्वयोरिवाभेदमापद्य तदाश्रितभेदकार्यान्यथाऽनुपपत्त्युद्भावनात् । यद्वा । पटशुक्लविशेषयोरत्यन्ताभेदे पटशुक्लसामान्ययोरपि अत्यन्ताभेदः प्राप्नोति । घटघटयोरिव विशेष्यसामान्ययोरत्यन्ताभेदस्याप्रतीत्या विशेषानङ्गीकारे विरुद्धयोर्भेदाभेदयोश्च समाधातुमशक्यत्वस्य वक्ष्यमाणत्वेन च विशेषानतिरिक्तसामान्यस्यैव वक्तव्य-त्वादिति भावः ॥ ननु तर्ह्यतिशय एव कल्पनीयो न विशेष इत्यत आह स चातिशय इति ।
श्रीनिवासतीर्थीया
अन्यूनेति । समानविषयत्वाभावः । पटबुद्धौ प्रतीयमानः शौक्ल्यबुद्धौ न प्रतीयते । तत्र प्रतीयमानः पटबुद्धौ न प्रतीयत इति भावः ।
वाक्यार्थरत्नमाला
अङ्गीकारयित्वेति मूलम् । अत्राङ्गीकार्येति वाच्यमित्याद्याशङ्कापरिहारादिकं रचनाधिकरणटीकायां तदुपपादने च ज्ञेयम् । ननु सोऽस्ति वस्तुष्वशेषत इत्यादिभाष्यमूले वस्तुपदं द्रव्यार्थमाश्रित्य द्रव्येष्विति व्याख्यातम् । विशेषास्तेऽप्यनन्ताश्चेत्येतद्भाष्यमूले अशेषतो वस्तुषु अनन्तद्रव्येष्विति च व्याख्यातम् । प्रतिद्रव्यमनेकत्वे द्रव्याभेदे द्रव्यस्यापि । पूर्वं द्रव्येण विशेषस्या-भेदचिन्तेत्यादिकं चोक्तम् । तत्कथम् । कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिक इत्यादि वैशेषिकाधि-करणानुभाष्यमूले द्रव्यादिषु सप्तस्वपि पदार्थेषु विशेषसमर्थनात्तदनुसारेणात्रापि वस्तुशब्देन द्रव्यादिपदार्थग्रहणस्यैव कर्तव्यत्वादिति चेत्सत्यम् । अत्र हि प्रकरणे लक्ष्यलक्षणयोर्भेद इत्यादि-शङ्कासमाधानग्रन्थे अतोऽनन्तगुणं ब्रह्म निर्भेदमपीत्यन्ते द्रव्यतद्धर्मेष्वेव भेदाभेदविचारस्य प्रक्रान्ततया तत्र विशेषाङ्गीकारेण समाधानव्याख्यावसरे वस्तुपदं द्रव्यमात्रपरत्वेन व्याख्यातम् । तद्भाष्ये गुणादिनिष्ठतद्गतत्वादिधर्माणामप्रसक्तत्वेन तत्रापि विशेषप्रतिपादनपर्यन्तं धावनस्यानावश्यकत्वेन वस्तुपदस्य द्रव्यमात्रार्थतयैव व्याख्येयत्वात् । गुणादिषु विशेषविचारस्तु कार्यस्य तत्तन्निष्ठत्वमित्यादिना द्रव्यादिसाधारण्येन वैशेषिकाधिकरणे भविष्यतीति तत्राभिप्रेतम् । अत एव वैशेषिकनयेऽपि द्रव्यमेव ततोऽनन्तेत्येतद्भाष्ये गुणगुण्यादीनामत्यन्ताभेदेऽपि गुणादीनां द्रव्यविशेषत्वेन द्रव्यमेव विशेषशक्तयैवा-पर्यायशब्दवाच्यत्वादिव्यवहारहेतुर्भविष्यतीत्युक्तवैवं द्रव्यमेव घटादिकं गुणक्रियाद्यनन्तं विशेषात्मतया नानाव्यवहारहेतुर्भविष्यतीति योजनान्तरे उक्तवा कल्पनागुरुतादोषादित्यादिना गुणगुण्यादीनां पदार्थान्तरता नास्तीत्यादिप्रमेयप्रतिपादनेन द्रव्यतद्गतगुणादिधर्माभेदस्य भेदकार्यकारिविशेषस्य चोपपादनानन्तरमेव सामान्यादिपदार्थेष्वित्यादिना गुणादिगतधर्माणामप्यवयविरूपद्रव्यसाहित्येन सविशेषाभेदोपपादनं कृतम् ।
प्रागुक्तं समवाये विशेषोऽङ्गीकृत इति तन्न तावदेव किं नाम सर्वेष्वपि पदार्थेष्विति दर्शयन् विशेषस्य व्यवहारान्यथानुपपत्तिसिद्धतां चोपपादयति । सामान्य इत्येवं मूले अवतारकरणादिना च स्पष्टमेतत् । तथा च विशेषोपपादनं समवायस्थलतया परोक्तगुणादिपञ्चकानुसारेण द्रव्यतद्गतगुणादिपञ्चकपुरस्कारे-णैकम् । गुणादीनां तद्गतद्रव्यगतत्वादिधर्माणां च पुरस्कारेणापरमिति द्वैविध्याल्लक्ष्यलक्षणयोर्भेद इत्यादिना च ब्रह्मरूपद्रव्यतद्गुणादेरेव भेदाभेदशङ्कासमाधानप्रवृत्तेस्तत्र द्रव्यतद्धर्मव्यतिरिक्तस्थलेऽ-भेदेऽपि विशेषोऽस्तीति प्रतिपादनस्याप्रसक्तया सोऽस्ति वस्तुष्वशेषत इति भाष्यस्थवस्तुपदस्य द्रव्यमात्रपरत्वेन व्याख्यानं युक्तम् । वैशेषिकपरीक्षायां तु समवायनिराकरणप्रसङ्गसङ्गत्या द्रव्यमेव ततोऽनन्तेत्यादिना द्रव्ये विशेषोपपादनानन्तरम् अवयविसहितगुणादिधर्मेष्वपि विशेषोपपादनं पृथगेव कार्यस्य तत्तन्निष्ठत्वमित्यादिना कृतमिति न दोषः । तथा विशेषविशेषिभावनिर्वाहाय विशेषेऽपि विशेषोपपादनं तृतीयम् । असङ्ख्यातविशेषत्वादिच्छाया अपि सर्वदा । ईशो देशश्चेत्यादि वैशेषिक-नयानुभाष्योक्तम् इच्छायाः सिसृक्षादिरूपायाः सदा सत्त्वेऽपि विशेषबलाद्व्यक्तत्वाव्यक्तत्वदेशादेरपि विशेषादेव स्वगतत्वादिकम् ईश्वरस्य सार्वज्ञ्यविशिष्टेनात्यन्ताभेदेऽपि विशेषेण पर्यायत्वादिपरिहारः भगवद्रूपेष्वपि विशेषेण नानाव्यवहारश्चेत्यादिकं तत्र तत्र विशेषोपपादनं चतुर्थम् । स विशेषोऽपि क्रियाशक्तयात्मना स्थित इति सैव यत्सविशेषा स्यादिति च क्रमेणातृत्वाहिकुण्डलाधिकरणभाष्योक्तरीत्या शक्तिव्यक्तयोर्विशेषश्चापर इत्युपपादनं पञ्चमं द्रष्टव्यम् । एवं विशेषोपपादनस्य सम्बन्धिभेदेनानेक-विधत्वादेव वस्त्वादिपदैर्द्रव्यादिपदव्याख्यानं युक्तमिति सूरयो विदांकुर्वन्तु । वस्तुष्वित्यस्य द्रव्येष्वित्येव व्याख्योपपादिता । स्मृत्वा श्रीगुरुपादाब्जं तत्प्रीतोऽस्तु रमापतिः ॥ स्मृत्वा श्रीगुरुपादाब्जं वोच्चार्य खिलवस्तुषु । विशेषस्तेन सुप्रीतो गुरुगोस्तु रमापतिः ॥ इति पाठान्तरम् ॥
सम्बन्धिविभागस्य वा प्रत्यक्षेति पाठः । अनश्यदेकमपराश्रितमेवेत्येतदनुसारि सम्बन्धिविभागस्य वेति पूर्ववाक्यानुसारात् । तद्वदेव । कुण्डबदरवदेव । यावदयावदिति । यावद्द्रव्यभाविनी श्यामता अयावद्द्रव्यभाविनी च सा तदुभयस्थल इत्यर्थः । विशेषसमर्थनस्थलीयन्यायामृतानुसारेणाह तन्तुपटादि बुद्धीनामित्यादिना विशेषः प्रतिपत्तव्य इत्यन्तेन ।
विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः
सुधा
ननु सर्ववस्तुषु यद्यस्ति विशेषः, स च वस्तुनो न भिद्यते, प्राप्तं तर्हि सकल-वस्तूनामैक्यमित्यत आह विशेषा इति ।
अनुव्याख्यानम्
विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः ॥
स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः ॥
सुधा
ते प्रकृतस्वरूपा विशेषा अशेषतो वस्तुष्वनन्तेषु द्रव्येष्वनन्ता एव सन्ति । न पुनरेक एव सर्वत्रातो नोक्तदोषः । सोऽस्तीत्येकवचनं तु समुदायापेक्षया प्रयुक्तमिति भावः । नन्वेकैकस्मिंश्च द्रव्ये विशेषोऽप्येकैकोऽस्ति तदा पटो महांश्छुक्लश्चलतीति विचित्रानेकव्यवहारानु-पपत्तिः । न ह्येकस्मादविचित्रस्वभावाद्विचित्रानेककार्योत्पत्तिर्दृष्टा । तथा सत्याकस्मिकत्व-प्रसङ्गात् । ततश्च विशेषाङ्गीकारो व्यर्थः स्यादित्यत आह विशेषा इति ।
तेऽप्युक्तलक्षणा विशेषा अशेषतोऽपि वस्तुषु प्रत्येकमनन्ताः सन्त्यतो नोक्तदोषावकाशः । अनन्ता इत्युपलक्षणम् । यत्र यावन्तो व्यवहारास्तत्र तावन्तो विशेषा इति ज्ञातव्यम् ।
प्रतिद्रव्यमनेकत्वे विशेषाणां परस्परं भेदेन भाव्यम् । भेदाविनाभूतत्वादनेकत्वस्य । तथा च भिन्नानां द्रव्याभेदे द्रव्यस्यापि भेदप्रसङ्ग इत्यत आह परस्परेति । परस्परविशेषवत्त्वेनैवानेकत्वं संभवति । विशेषस्य भेदकार्यकारिताया उक्तत्वादिति भावः ।
विशेषाणामपि विशेषान्तराङ्गीकारेऽनवस्थेत्यत आह स्वनिर्वाहकतेति । पूर्वं द्रव्येण विशेषस्याभेदचिन्ता इदानीं तु परस्पमिति स्फुटोऽर्थभेदः । सर्वं चैतद्विशेषस्वरूपसाधकार्थापत्त्यैव सिद्धमिति न पृथक् प्रमाणमुक्तम् । न हि स्वयमनुपपन्नमनुपपत्त्यन्तरशान्त्यै प्रभवति । किन्तु यथायथोपपद्यते तथातथैव स्वरूपग्राहिण्याऽर्थापत्त्यैव कल्प्यते । यद्यपि विशेषः प्रत्यक्षोऽपि भवति । ‘येन प्रत्यक्षसिद्धेन’ इति वक्ष्यमाणत्वात् । तथाऽपि विप्रतिपन्नो न तन्मात्रेण बोधयितुं शक्यत इत्यर्थापत्तिरुपन्यस्तेति ।
वाक्यार्थचन्द्रिका
सोऽस्तीत्येकवचनाद्भ्रान्तः शङ्कते नन्विति ॥ न चैवं सोऽस्तीत्यनेन विरोध इत्यतः शङ्कामूलं विघटयति सोऽस्तीतीति ॥ एकस्मिन्नप्यनेकविशेषप्रतिपादनपरतया विशेषास्तेऽपीत्येतदेव योजयितुं तद्व्यावर्त्यशङ्कां दर्शयति नन्विति ॥ नन्वीश्वरस्यानन्तधर्मवत्त्वात्तत्र तावद्विशेषसत्त्वेऽपि नाशेषवस्तुष्वनन्तविशेषा इत्यत आह अनन्ता इत्युपलक्षणमिति । सङ्ग्राहक-मुपलक्ष्यतावच्छेदकमाह यत्रेति ॥ ‘विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत्’ इत्यनेनापाततः प्राप्तां पौनरुक्त्यशङ्कां परिहरति पूर्वमिति ॥ ननु प्रतिज्ञामात्रेण भाष्यकारेणोक्तं ‘विशेषास्तेऽपि’ इत्यादि प्रमाणानुक्तौ कथं सिध्यतीत्यत आह सर्वं चैतदिति । प्रथमप्राप्तप्रत्यक्षपरित्यागेतार्थापत्त्युक्त्या प्राप्तां भाष्यकारस्याचतुरीं परिहरति यद्यपीति ।
परिमल
सोऽस्तीत्युक्त्या एक एव विशेषः सर्ववस्तुष्वनुगत इतिभ्रान्तः शङ्कते ननु सर्ववस्तु-ष्विति ॥ ऐक्यमिति । घटाद्यभिन्नविशेषाभिन्नत्वात्सर्ववस्तूनां यो यदभिन्नधर्माभिन्नः स तदभिन्न इति व्याप्तेरिति भावः ॥ असंभावनानिरासायाह अनन्ता इत्युपलक्षणमिति ॥ अपौनरुक्त्यायाह पूर्वमिति । ‘विशेषतद्वतोश्च’ इत्यावित्यर्थः ॥ ‘सर्व चैतत्’ इत्याद्युक्तं व्यनक्ति नहीति ॥ येनेति ।
येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत् ।
भावाभावविभागेन यं विना न कथञ्चन ।
एतादृशे विशेषेऽस्मिन्को द्वेषो वादिनां भवेत् ॥
इति वैशेषिकनये वक्ष्यमाणत्वादित्यर्थः ।
यादुपत्यं
सोऽस्तीत्येकवचनेन भ्रान्तः शङ्कते ननु सर्वेति ॥ ननु पूर्वमेकस्यैव विशेषस्योक्त-त्वात्ते विशेषा इति बहूनां परामर्शः कथमित्याशङ्कायां न बहुत्वस्य परामर्शः । किन्तु विशेषस्वरूप-स्यैवेत्याह ते प्रकृतस्वरूपा इति ॥ यत्र यावन्त इति । इदं च भगवदितरचेतनज्ञेयविशेषानपेक्ष्यै-वोक्तम् । अतो घटादावपि स्वभिन्नानां सूक्ष्मरजसां कालक्षणानामीश्वरगुणानां चानन्तानां सत्त्वात् । तत्प्रतियोगिकत्वरूपानन्तविशेषविशिष्टभेदात्मकत्वेनानन्तविशेषप्राप्त्येदमनुपपन्नमिति चोद्यानवकाश इति ध्येयम् । यद्वा । तत्तत्प्रतियोगिकत्वानामनन्त त्वेऽपि तेषां भेदधर्मत्वेन प्रतिद्रव्यं च भेदस्यैकत्वेन घटादौ द्रव्येऽनन्तभेदकार्याणामभावः । अनन्तपरमाणुकालसम्बन्धस्यापि अनित्यघटदावभावात् । यद्यपीश्वरानन्तानन्तरूपगुणकर्मसम्बन्धः सर्वस्यप्यस्ति । तथाऽपि तत्तन्निरूपितत्वानामनन्तत्वेऽपि न सम्बन्धानन्तत्वम् । भेदवदनन्तप्रतियोगिकत्वस्यैकस्यापि सम्बन्धस्योपपत्तेः । प्रतियोगिभूतगुणकर्मसु भेदाभावाच्चेति द्रष्टव्यम् ।
श्रीनिवासतीर्थीया
प्राप्तं तर्हिति । यद्यदभिन्नाभिन्नं तत्तेनाभिन्नमिति व्याप्तेरित्यर्थः ॥ महानित्यादि, महत्वादिधर्मवान् ॥ ‘सन्ति वस्तुष्वशेषतः’ इति वक्ष्यमाणं ‘विशेषास्तेऽप्यनन्ताश्च’ इत्यनन्तरं सम्बध्यत इत्याशयेन योजयति तेऽप्युक्तलक्षणा विशेषा इत्यादि । मूले ‘स्वनिर्वाहकतायुक्ताः सन्ति’ इत्यस्य स्वनिर्वाहकत्वरूपधर्मयुक्ताः सन्तीत्यर्थो द्रष्टव्यः ॥ भेदप्रसङ्ग इति । अनेकाभिन्न-त्वादिति भावः ॥
वाक्यार्थरत्नमाला
समुदायापेक्षयेति मूलम् । विप्राणां भोजनमित्यादिवदिति योज्यम् । नाशेषवस्तुष्वनन्तविशेषा इति । न च घटादिष्वप्यनन्तभगवद्रूपादिसंयोगवैशिष्ट्यनिर्वाहायानन्त-विशेषाणामावश्यकत्वात् कथं तेषु वस्तुषु तेषामानन्त्याभाव इति वाच्यम् । अनन्तज्ञानादिधर्मानादाय विष्णुरनन्तधर्म इतिवद्घटादावुक्तसम्बन्धानेकत्वमात्रेण अनन्तधर्मा घटादिरिति व्यवहाराभावात् । निरूपकभेदसद्भावेऽपि संयोगादेः संयोगत्वादिना क्रोडीकारसम्भवेनानन्त्यप्राप्तेश्च । भगवति तु क्रोडीकृता एव ज्ञानादयो धर्मा अनन्ता इति न तत्साम्यम् । किञ्चैवं प्रत्येकमपि संयोगाद्यानन्त्यस्यापि भगवति सत्त्वेन भगवति घटादितोऽपि अनन्ता विशेषाः सिद्धाः । तस्मात् संयोगत्वादिना संयोगादिकं क्रोडीकृत्य घटादौ कतिपयधर्मविशिष्टत्वमेवेति विशेषा अपि तन्निर्वाहका अल्पा एव । नानन्ताः । भगवति तु क्रोडीकृता एवानन्तधर्मा इति तद्वैशिष्ट्यनिर्वाहका अनन्ता एव विशेषा इति युक्तमिति ज्ञेयम् । एवं च यत्र यावन्त इत्युत्तरमूलमपि व्याख्यातं भवति ।