भेदेनैव तु मुख्यार्थसंभवे लक्षणा कुतः
जगज्जन्मादिकारणत्वस्य तटस्थत्वकल्पना अयुक्ता
सुधा
अत्रोच्यते । आस्तां तावद् एषा प्रपञ्चस्य विवर्ततादिवार्ता प्रमाणाभावात् प्रकृत्यधिकरणे निराकरिष्यमाणत्वाच्च । तटस्थेन जगज्जन्मादिकारणत्वेनात्र सूत्रे लक्षणया ब्रह्म प्रतिपाद्यत इति कुतोऽङ्गीकरणीयम् । मुख्यार्थासंभवे हि लक्षणाश्रयणं दृष्टम् । न तावद् ब्रह्मणो जगज्जन्मादिकारणत्वस्य बाधकं प्रत्यक्षं तदगोचरत्वात् । नाप्यनुमानं श्रुतिबाधितत्वात् । नाप्यागमस् तस्याक्लिष्टकारित्वाद्यर्थतया सावकाशात् ।
नन्वर्थापत्त्येदमवसीयते । जीवब्रह्यणोरेकत्वं तावदावश्यकम् । न च जगज्जन्मादिकारणत्वस्य स्वलक्षणत्वे तत्संभवति । अतोऽन्यथाऽनुपपत्त्या मायागतमेवेदं लक्षणम् । जन्माद्यस्य यतस्तद् ब्रह्मेति लक्षणयोच्यत इति कल्प्यत इति । तत्राह भेदेनैवेति ।
अनुव्याख्यानम्
भेदेनैव तु मुख्यार्थसंभवे लक्षणा कुतः ॥
सुधा
यदि जीवब्रह्मणोरेकत्वपरिरक्षणाय यथाश्रुतं सूत्रार्थं परित्यज्य लक्षणाऽऽश्रीयते तर्हि जीवब्रह्मणोर्भेदेनैवाङ्गीकृतेन सूत्रस्य मुख्यार्थसंभवे लक्षणा कस्मादाश्रयणीया ।
परिमल
‘ब्रह्म न कर्तृ निष्क्रियात्वात्’ इत्याद्यनुमानं बाधकमित्यत आह नाप्यनुमानमिति । ‘निष्कलं निष्क्रियम्’ इत्यादिरागमोऽस्तु बाधक इत्यत आह नाप्यागम इति ॥ दशमतात्पर्याद्युक्तां ‘अकर्माऽक्लिष्टकारित्वात्’ इत्यादिस्मृतिं हृदि कृत्वाऽऽह तस्येति ॥ इदमिति लक्षणस्य तटस्थत्व-मित्यर्थः ॥ तामेव दर्शयति जीवब्रह्मणोरित्यादिना ।
श्रीनिवासतीर्थीया
लक्षणयेति । तदाश्रयो ब्रह्येत्यस्य लक्षणया लाभादित्यर्थः ॥ अनुमान-मिति । ब्रह्म न जगत्कारणं चेतनत्वाद्देवदत्तवदित्यनुमानमित्यर्थः ॥ श्रुतीति । यतो वा इमानि । स हि सर्वस्य कर्तेत्यादिश्रुतीत्यर्थः ॥ आगम इति । ‘निष्कलं निष्क्रियम्’ इत्यागम इत्यर्थः । निष्क्रियशब्देन क्रियावेशात्मकत्वरूपकर्तृत्वाभावोक्तेरिति भावः ॥ अर्थापत्त्येति । जीवब्रह्मणोरेकत्वस्यावश्यकत्वा-न्यथाऽनुपपत्त्येत्यर्थः ।
भेदेनैव तु मुख्यार्थसंभवे लक्षणा कुतः
सुधा
नन्वभेदमुपादाय सूत्रे लक्षणा वाऽऽश्रयणीया भेदमुपादाय मुख्यवृत्तिर्वेति सन्दिह्यते । वयं तु ब्रूमः द्वितीयः पक्ष एव श्रेयानिति, अप्रामाणिकत्वाज्जीवब्रह्मणोरेकत्वस्य । न (हि) अप्रामाणिकपरिरक्षणाय वाक्यानां जघन्यवृत्तिराश्रीयमाणा क्वचि(दुपलब्धेति)दपि दृष्टेति । तदिदमुक्तं भेदेनैवेति ।
ननु कथं जीवब्रह्मैक्यमप्रामाणिकम् । तत्त्वमसीत्यादिश्रुतिसिद्धमि(त्वादि)ति चेन्न । उपपत्तिपराहतत्वात् । तथा हि । तच्छब्दस्य मुख्यर्थो यः, ‘सदेव सोम्य’ इत्यादीना प्रकृतः प्रेक्षापूर्वं तेजोऽबन्नादीनां स्त्रष्टा सर्वासां प्रजानां मूलमायतनं प्रतिष्ठा च सकलावद्यगन्धविधुरोऽपरिच्छिन्न-गुणाकरः परमात्मा, यश्च त्वंपदमुख्यार्थः प्रत्यक्षादिसिद्धोऽल्पशक्तिः पराधीनो दोषकलुषितोऽ-वच्छिन्नज्ञानादिगुणः, तावुपादायानेन वाक्येनैक्यमुच्यते, उत विरूद्धभागत्यागेन लक्षणया वा । नाद्यः । परस्परविरोधेन योग्यताविरहे जरद्गवादिवाक्यवदाभासत्वप्रसङ्गात् । द्वितीये दोषमाह भेदेनैवेति ।
सिंहो देवदत्त इत्यादिवत्सामानाकिरण्यमात्रं गौणमुपादाय जीवब्रह्मणोर्भेदेनैवाङ्गीकृतेन पदद्वयस्य मुख्यार्थसंभवे जहदजहल्लक्षणा कुत आश्रयणीयेति ।
वाक्यार्थचन्द्रिका
अत्र मूलान्निष्कृष्टदूषणाप्रतीतेस्तद्दर्शयन्नेव लक्षणापक्षस्यैव मूले दूषणात् परानभिमतमपि मुख्यार्थाभेदपरत्वपक्षं प्रसक्ततयोपर्येव विकल्प प्रदूष्य च पक्षान्तरे मूलं योजयितुमाह ॥ उपपत्तीति ॥ यद्यप्येतत्सत्यत्वात्तेनेत्यदिनोक्तमेव तथाऽपि कथं नित्यगुणस्येत्याद्यधिकोक्तेः प्रकृतोप-युक्ततयोक्तार्थस्मरणाच्चापौनरूक्त्यमिति द्रष्टव्यम् ।
सामानाधिकाण्यमात्रमिति । विशेष्यविभक्तिसजातीयविशेषणविभक्तिमात्रमित्यर्थः । नीलं घटमानयेत्यादौ विशेष्यविभक्त्या घटगतकर्मत्वादेरुक्त्या विशेषणविभक्तरेवाभेदार्थत्वेन तत्परित्यागेन सादृश्यार्थोपादाने तस्या एव मुख्यार्थपरित्यागेन गौणत्वप्राप्तेः । एवं च सामानाधिकरण्यस्य गौणत्वेऽपि विभक्तिद्वयबोधेनानेकबाधादत्र मात्रमित्युत्तरत्र द्वयस्येति त्यजेदेकमिति न्यायोक्तिश्चायुक्तेति निरस्तं भवति । अत्र मात्रमिति द्वयस्येति चैकत्वानेकत्वरूपवैलक्षण्योक्तिः । पदद्वयस्येत्यत्र पदशब्दस्य प्रकृत्यर्थकत्वात्सामानाधिकरण्यशब्देन च विशेषणविभक्तेर्व्याख्यातत्वात्तदुभयोक्त्या प्रकृतिविशेषण-विभक्तिरूपप्रधान्याप्राधान्यरूपतदुक्तिः । अमुख्यवृत्तिरित्येवोभयत्र वक्तव्ये गौणं लक्षणयेत्युक्तिर्गौण्यां सादृश्यस्यान्तर्गणिकभेदे सत्यपि सादृश्यत्वेन रूपेणानुगते तात्पर्यमित्येकार्थघदादिशब्दवत्तात्पर्यविषये द्राग्धीः, लक्षणायां तु क्वचित्संबन्धे तात्पर्यं, क्वचित्तद्वारा पूतत्वे, क्वचित्तच्छीतलत्वादाविति वैरूप्यान्ना नार्थाक्षादिशब्दवद्विलम्बेन तद्धीरिति गौण्यपेक्ष्या लक्षणाया जघन्यत्वसूचनाय । एकदेशपरित्यागेनैक-देशान्तरस्वीकारार्थजहदजहदित्युक्त्या च प्राक् त्यक्तस्य स्वीकारस्त्वदुक्तलक्षणायां, गौणीपक्षे त्वत्त्यक्तस्य स इति तत्सूचयति । यद्यपि सिंहस्याध्ययनमित्यादौ सिंहप्रातिपदिकम्यैव तत्सादृश्य-रूपामुख्यार्थत्वं तथापि समानाधिकरणविशेष्यान्तराभावेनानन्यगत्या तत्र तथात्वेऽपि प्रकृतेऽप्रधान-विशेषणविभक्तेरेवामुख्यार्थत्वोपपत्तौ प्रधानामुख्यतास्वीकारस्यानुचितत्वादिति प्रकृताभिप्रायेणैतद्ग्रन्थ-प्रवर्तनात् ।
तत्राप्यस्येति विशेष्याध्याहारे चेयमेव गतिः । अत एव सिंहो देवदत्त इत्यादिवदित्युक्तम् । न चाभादस्यान्वयतया भानान्न विशेषणविभक्त्यर्थत्वमिति वाच्यम् । विशेषणविभक्तेः साधुत्वार्थ-मङ्गीकृत्यान्वयतयाऽभेदभानाभ्युपगमानौचित्यात् । अन्यथा राज्ञः पुरुष इत्यत्रापि षष्ठ्याः साधुत्वार्थ-कताऽऽपत्त्याऽन्वयतयैव सम्बन्धो भासत इत्यपि स्यात् । चन्द्रिकायां तु शक्यतावच्छेदकेन रूपेणा-भेदस्य सामानाधिकाण्यमुख्यार्थत्वाद्गौणार्थतावच्छेदकेन सादृश्येनाभेदस्य तदमुख्यर्थत्वात्तदभिप्रायेण टीकायां सामानाधिकरण्यगौणतोक्तिर्न तु तत्पदादिरूपप्रकृतेर्न सादृश्ये गौणीत्यभिप्रायेणेत्युक्तम् । तत्तु सिंहस्याध्ययनं सिंहो देवदत्त इत्यादावेकरूपतालाभाय टीकोक्तमात्रादिपदास्वारस्यं सोढ्वेति द्रष्टव्यम् । उक्तरीत्या टीकोक्तपक्षस्यातिस्वरसत्वात् । अत एव तर्कताण्डवे एवमेव सुधाभिप्रायवर्थर्णमिति द्रष्टव्यम् ।
परिमल
सूत्रस्य मुख्यार्थोक्तिपरतया ‘भेदेनैव’ तु इति वाक्यं व्याख्याय श्रुतेर्मुख्यार्थत्वोक्ति-परतयापि व्याख्यातुमवतारयति ननु कथमिति ॥ तदित्यस्य को मुख्यार्थ इत्यतश्छान्दोग्ये षष्ठे तत्त्वमसीत्यतः पूर्ववाक्ये प्रकृतमाह सदेवेत्यादिना ॥ ‘तदैक्षत बहुस्यां प्रजायेय’ इति ‘तत्तेजोऽसृजत’ इत्यादिवाक्योक्तमाह प्रेक्षेति ॥ ‘सन्मूलाः सोम्येमाः सदायतनाः सत्प्रतिष्ठा’ इत्यादिनोक्तमाह सर्वासामिति । सृष्टिस्थितिमुक्तिकर्ता चेत्यर्थः । तत्सत्यं स आत्माऽनयोरर्थः सकलेत्यादि ॥ गौण-मिति । सादृश्यपरमित्यर्थः । ‘सामानाधिकरण्यमात्रं गौणम्’ इत्यादेस्तात्पर्यमुक्तं चन्द्रिकायां पृथ-गुपदेशादित्यधिकरणे । सामानाधिकरण्यमात्रं गौणमित्यस्य, तत्पदं कर्तृत्वादिविशिष्टब्रह्मपरमेव तत्त्वं-पदयोः सामानाधिकरण्यं तु नाभेदपरमिति नाभिप्रायः, अपि तु तत्त्वमसीत्यत्र तत् तत्सदृश इति तत्पदेनैव गौण्या वृत्त्या सादृश्ये लब्धेऽन्योन्यान्वितानेकप्रकृतिनिष्ठैकविभक्तिरूपसामानाधिकरण्यार्थस्य मुख्यस्य तत्पदशक्यतावच्छेदकेन ब्रह्मत्वेन रूपेण ब्रह्माभेदस्य जीवेऽसत्त्वेऽप्यमुख्स्य चेतनत्वादि-रूपेणाभेदस्य सत्त्वात्सामानाधिकरण्येनाऽमुख्याभेदलाभ इत्येवाभिप्राय इति ॥ जहदजहल्लक्षणेति । ओहाक्त्यागे त्यजदत्यजल्लक्षणेत्यर्थः । कर्तृत्वादिधर्मांशत्यागाच्चैतन्यांशस्यात्यागादिति भावः ॥
यादुपत्यं
सकलावद्यगन्धविधुर इति । इदं च त‘तत्सत्यम् । स आत्मा’ इत्यत्रत्यसाधु-भावार्थकसत्यशब्दतात्पर्यकथनम् ॥ तत्रत्यस्यैवात्मशब्दस्य व्याख्यानम् अपरिच्छिन्नगुणाकर इति ॥ तेजोऽबन्नानां स्त्रष्ट्रत्वेन लब्धस्य पूर्णशक्तित्वस्य प्रतियोगितयोक्तम् पराधीन इति ॥ सिंहो देवदत्त इत्यादिवदिति । न चात्र सिंहपद एव गौणी वृत्तिर्न सामानाधिकरण्य इति वाच्यम् अप्रधानप्रत्ययार्थ-स्वारस्याय प्रधाने प्रातिपदिके गौणीकल्पनस्यान्यय्यत्वादित्यभिप्रायात् । वक्ष्यते चैतत्पृथगधिकरणे ।
वाक्यार्थरत्नमाला
अधिकोक्तेरिति । अपौनरुक्तयमित्युत्तरेणान्वयः । उक्ताशङ्काभिप्रायं मूलारूढं कर्तुं यदीत्यापादकमित्येवमादिपदोपेत एव पाठो मूलकोशे । तदभावो लेखकप्रयुक्तः । तथा पाठेऽपि इतिशब्दस्य प्रकारार्थकत्वादित्यादीत्येव लभ्यत इति ज्ञेयम् । शक्यतावच्छेदकरूपेणाभेदरूपस्य सामानाधिकरण्यशब्दार्थस्य वक्ष्यमाणत्वात् तं व्यावर्तयितुं लक्षणातो गौण्याः प्राबल्यनिर्णयस्थलीय-तर्कताण्डवानुसारेण सामानाधिकरण्यशब्दार्थमाह विशेष्यविभक्तीति । सजातीयत्वं च प्रथमात्वादिना ज्ञेयम् । शब्दसामानाधिकरण्यस्थले विशेषणविशेष्यविभक्तयोरेकरूपत्वस्य आवश्यकत्वादिति भावः । अनेन तदुभयगतविभक्तिद्वयं सामानाधिकरण्यमिति प्रतीतिर्निराकृता भवति । एतद्व्याख्यानप्रयोजनं च एवं चेत्यादिना स्वयमेवाग्रे वक्ष्यतीति ज्ञातव्यम् । विभक्तिद्वयस्यापि तुल्यरूपत्वे कुतो विशेषणविभक्ते-रेवाभेदार्थकत्वं येन तस्या एकस्या एव गौणत्वमिति लाभः स्याद् इत्यतस्तल्लाभमुपपादयति नीलं घटमित्यादि । तस्या एवेति । न तु विशेष्यविभक्तेरपि किमु प्रातिपदिकार्थयोर्गौणत्वं न प्राप्यत इत्याशयः । विशेष्यविभक्तीत्यादिरूपेण सामानाधिकरण्यनिर्वचनेन निरस्य शङ्कां दर्शयति एवं चेति । अभेदार्थकविशेषणविभक्तेरेव सामानाधिकरण्यपदार्थत्वस्य विवक्षणादेवेत्यर्थः ।
विभक्तिद्वयेति । विशेषणविशेष्ययोरेकविभक्तिकत्वस्य सामानाधिकरण्यपदार्थतया सामानाधि-करण्यस्य गौणत्वे विभक्तिद्वयस्य गौणत्वप्राप्त्या विभक्तिद्वयबाधप्राप्तेरिति भावः । मात्रमितीत्यादीति-शब्दद्वयस्य अयुक्तमित्येवं लिङ्गविपरिणामेन अयुक्तेत्युत्तरेण सम्बन्धः । गौणीपक्षे एकबाधो लक्षणापक्षे त्वनेकबाध इत्यपि तत्त्वमसीत्यादिप्रकृतवाक्याभिप्रायम् । न तु सिंहो देवदत्त इति दृष्टान्तीकृतवाक्येऽपि लक्षणापक्षे अनेकबाध आयातीत्याशयेन । तत्र सिंहसम्बन्धिनि सिंहसदृशे च चैत्रे लक्षणापक्षे सिंह-प्रातिपदिकस्यैव बाधेनानेकबाधाभावात् । कथं तर्हि तत्र लक्षणा जघन्येति चेन्न । सिंहप्रातिपदिक-स्यैकस्यापि प्रधानतया तद्बाधादेर् लक्षणाया गौणीतो जघन्यत्वोपपत्तेः । अत एव प्राधान्याप्राधान्ये-त्युत्तरटीकानुसारेण प्रधानानेकेत्यपि प्रकृत एवेति ज्ञेयम् । न केवलं मात्रमिति द्वयस्येति चोक्तया गौणीलक्षणापक्षयोर्बाध्यस्यैकत्वानेकत्वरूपवैलक्षण्यमात्रमुच्यते । अपि तु वैलक्षण्यान्तरमप्युक्त-पक्षयोरुक्तं भवतीत्याह अत्र मात्रमितीत्यादिना । पदद्वयरूपत्वेन प्रकृतिद्वयमेव पराभिमतमुपन्यस्त-मिति भावेन प्रकृत्यर्थकत्वादित्युक्तं प्रकृतीति । प्रकृतिप्रत्यययोः प्रधानत्वाप्रधानत्वे हि क्रमेण निर्णीते । प्रयाजशेषेणेत्यादौ प्रत्ययस्यैव लक्षणाश्रयणं कृत्वा प्रयाजशेषं हविः क्षिपतीत्यर्थस्वीकारेण प्रातिपदिक-स्वारस्यानुसरणप्राप्त्या प्रकृतेः प्राधान्यादेः सत्त्वात् । उक्तं च न्यायामृते । न्यायं च निरवकाशप्रधान-भूतानेकप्रातिपदिकस्वारस्याय सङ्ख्यार्थत्वेन सावकाशाप्रधानैकविभक्तयस्वारस्यमिति । ततश्च बाध्यस्य प्रकृतित्वेन त्वत्पक्षे प्रधानबाधः । विभक्तिमात्रत्वे तु मत्पक्षे अप्रधानबाध इति प्राधान्या-प्राधान्यरूपवैलक्षण्योक्तिरित्यर्थः । इत्युक्तिरित्यस्य सूचनायेत्युत्तरेणान्वयः । गौण्यां तात्पर्यविषयस्य सादृश्यस्यापि सर्वत्र एकरूपत्वाभावः ।
सिंहसादृश्यमग्निसादृश्यमित्यादिरूपेण सादृश्यानामपि भिन्नत्वादित्यत उक्तं सादृश्यस्यान्त-र्गणिकेति । सादृश्येऽप्यवान्तरभेदे सत्यपीत्यर्थः । अनुगत इत्यनन्तरं सादृश्य इति वचनविपरिणामेन वर्तते । अनुगतधर्मेणानुगतीकृते सादृश्य इति यावत् । तथा सादृश्यस्यावगतत्वात् तत्र शब्दस्य तात्पर्यमिति शीघ्रं ज्ञानं भवतीत्यर्थः । क्वचित्सम्बन्ध इत्यादि । प्रयोक्तृपुरुषाभिप्रायविशेषानुसारेण पृथक्पृथगेव तात्पर्यान्न तत्रानुगते तात्पर्यम् । कथञ्चित्तावदन्यतमत्वेनानुगमकरणे च नानार्थाक्षादि-शब्देष्वपि तावदर्थानुगमापत्त्या सर्वसिद्धप्रकरणादिबलेनार्थविशेषोपस्थितिरक्षादिशब्देषु विलम्बेन भवतीत्येतद्विरुध्येतेत्याशयेन नानार्थेति दृष्टान्तीकरणम् । तद्धीरित्यस्य तात्पर्यविषयविशेषेऽर्थे प्रकरणादि बलेन विलम्बेन धीशब्दस्य तात्पर्यधीरित्यर्थः । इत्युक्तयेति । इति लक्षणाविशेषणेनेत्यर्थः । जहाति स्वार्थं पदं यस्यां लक्षणायां सा जहत्स्वार्थेति व्याख्यानस्य तत्र तत्र करणात् प्रकृते स्वार्थमध्येऽप्येकदेशे विवक्षाभेदमङ्गीकृत्य पदं जहाति स्वार्थैकदेशं न जहाति च तदेकदेशं यस्यां लक्षणायां सा जहदजह-ल्लक्षणेति तल्लक्षणं मनसि निधाय एकदेशपरित्यागेनेत्यादिरनुवादः । पृथगधिकरणमूले विरुद्धस्वार्थैक-देशत्यागेन एकदेशलक्षणया सामानाधिकरण्यमात्रं मुख्यमङ्गीकृतम् । ततो वरं पदद्वयस्येत्याद्युक्तिः । विरुद्धभागत्यागेनेति पूर्वमूले उक्तेश्च । विरुद्धैकदेशपरित्यागेनेति योजनीयम् । तत्त्वमसि वाक्यार्थ-स्थलीयन्यायामृतानुसारेणाह प्राक् त्यक्तस्येति । वाच्यान्तर्गतत्वेन प्राग्धीस्थस्यापि अनन्तरमनुपपत्ति-दर्शनेन त्यक्तस्य पुनः स्वीकार इत्यर्थः । तथैव न्यायामृतवाक्यसत्त्वात् । सः स्वीकारः । तदित्यस्य गौण्यपेक्षया लक्षणाया जघन्यत्वमित्यर्थः ।
सिंहो देवदत्त इत्यादेर्दृष्टान्तस्य मूले उक्तया सूचितमभिप्रायं वक्तुं तद्व्यावर्त्य शङ्कादिकं पृथगधिकरणीयचन्द्रिकानुसारेणाह यद्यपि सिंहस्येत्यादि । अमुख्यार्थत्वमिति । ततश्च तत्रेवात्रापि प्रधानपदभूततत्पदप्रातिपदिकस्य बाधमङ्गीकृत्यैव गौणी अङ्गीकर्तुं शक्येति कुतः प्रातिपदिकमुख्यार्थत्वं स्वीकृत्य विशेषणविभक्तिमात्रस्यामुख्यार्थत्वं स्वीक्रियत इति भावः । तत्र तथात्वेऽपीति । सिंहस्येत्यत्र प्रातिपदिकस्यैव गौणार्थत्वेऽपीत्यर्थः । प्रकृत इति । समानाधिकरणविशेष्यान्तरोपेते तत्त्वमसीत्यत्रेत्यर्थः । ननु सिंहस्येति वाक्येऽप्यस्येति विशेष्याध्याहारेण समानाधिकरणविशेष्यान्तरसद्भावोऽपि प्राप्तः । तथा च तत्सद्भावेऽपि सिंहप्रातिपदिकामुख्यार्थत्वं दृष्टमेवेति साम्यमित्यत आह तत्रापीति । इयमेव गतिः प्रधानप्रातिपदिकामुख्यार्थत्वं परित्यज्य विशेषणविभक्तेरेवामुख्यार्थत्वाश्रयणमुचितमित्ययमेव प्रकार इत्यर्थः । मण्युक्तरीत्या आशङ्कते न च अभेदस्यान्वयतयेति । नीलमुत्पलमिति व्यासे विभक्तिद्वयश्रवणेन सामानाधिकरण्यसद्भावेऽपि नीलोत्पलमिति कर्मधारयसमासे विशेषणविभक्तेरभावेन सामानाधि-करण्याभावेऽपि नामार्थयोरभेदान्वयव्युत्पत्तेरभेदस्यान्वयतयैव भानं न तु तस्य विशेषणविभक्तयर्थत्व-मित्याशयः । अनौचित्यादिति । श्रुतविभक्तेरेवाभेदार्थकत्वेन सार्थकत्वोपपत्तौ साधुत्वार्थत्वस्य वैयर्थ्यापरपर्यायतया स्वीकरणायोग्यत्वादित्यर्थः ।
तर्हि राज्ञः पुरुष इत्यत्रापीत्यादि तर्कताण्डवसूचितमतिप्रसङ्गबाधकं दण्डत्वेनाह अन्यथा राज्ञ इति । अपिपदेन राजपुरुष इति समस्तपद इवेति समुच्चिनोति । तथा च समासव्यासयोर्विभक्तिश्रवणतद-भावाभ्यां वैषम्यमङ्गीकृत्य समासे सम्बन्धस्यान्वयतया भानेऽपि राज्ञः पुरुष इति वाक्ये षष्ठ्यर्थ एव सम्बन्ध इत्यादेर्वक्तव्यतया प्रकृतेऽपि नीलोत्पलमिति समासे अभेदस्यान्वयतया भानेऽपि नील-मुत्पलमिति वाक्ये विशेषणविभक्तयर्थ एवाभेद इत्यास्थेयमिति भावः । तर्कताण्डवानुसारेण विशेष्यविभक्तिसजातीयविशेषणविभक्तिमात्ररूपसामानाधिकरण्यं गौणं तत्पदप्रातिपादिकं तु मुख्यार्थमेव । अत एवाप्रधानस्य एकस्य बाधः स्वपक्षे । परपक्षे तु प्रधानानेकबाध इत्यादिकं यदुपपादितं तस्य तत्पदप्रातिपदिके गौणीमङ्गीकृत्य सामानाधिकरण्यमिति टीकाया अभिप्रायान्तरकथनरूपपृथगधि-करणीयचन्द्रिकाविरोधं परिहर्तुं तत्रोक्तपक्षानुवादपूर्वकं तद्गतिमाह चन्द्रिकायां त्विति । सामानाधि-करण्येति । परस्परान्वितानेकप्रकृतिनिष्ठैकविभक्तिरूपसामानाधिकरण्येत्यर्थः । मुख्यार्थत्वादित्यनन्तरं प्रकृते च तत्पदशक्यतावच्छेदकेन ब्रह्मत्वेन रूपेणाभेदस्य जीवे अभावाज् जीवे विद्यमानस्य चेति पूरणीयम् । अमुख्यार्थत्वादिति । सिंहश्चैत्र इत्यत्र चैत्रे सिंहत्वेन रूपेण सिंहाभेदाभावेऽपि शूरत्वेन तदभेदो अमुख्यो यथेति भावः । न सादृश्ये गौणीति । एतच्च यद्यपि सिंहस्येति पूर्वग्रन्थे स्पष्टम् । इत्यादाविति । समानाधिकरणपदान्तरशून्ये तद्युक्ते च स्थलद्वय इति योज्यम् । पूवोक्तरीत्या सिंहस्येत्यस्य अन्यथासिद्धत्वात्सिंहो देवदत्त इत्यस्य च स्वपक्षानुगुण्याट्टीकोक्तमात्रादिपदास्वारस्यस्य च वृथाऽङ्गीकारप्राप्तेरित्याशयः । अत एवाह उक्तरीत्येति । चन्द्रिकाग्रन्थोऽपि तर्कताण्डवानुसारेण नेयः । तत्र विस्तरेण एतद्विचारकरणादित्याशयः । पृथगधिकरणीयटीकायां तु तर्कताण्डवानुसारेण सामानाधि-करण्यादि व्याख्याय उपपाद्य च चन्द्रिकोक्तपक्षोऽपि यद्वेति पक्षान्तरतया कथितः । कथञ्चिदपि परोक्तपदद्वयलक्षणा निराकार्या । स्वपक्षे लघुभूतं प्रकारान्तरं च वाच्यम् । तच्च विशेषणपदे लक्षणयेव गौण्येव च प्रत्ययार्थाभेदत्यागेनापि तत्त्वमिति प्रयोगे मत्पक्षे उपपन्न इति लाघवमित्येवंरूपम् । तथा च चन्द्रिकोक्तपक्षेपि लाघवम् । तर्कताण्डवपक्षेऽपि लाघवं समानमेव । परन्तु न्यायामृतोक्ते तर्कताण्डवोक्ते च विशेषणविभक्तिमात्रास्वारस्येऽतिलाघवम् । तथापि परोक्तपदद्वयलक्षणाविरोधिभूताः सर्वेऽपि पक्षाः सम्मता एव । अत एव न्यायामृते त्वन्मते पदद्वयलक्षणा ततो वरं मद्रीत्या एकस्मिंस्तत्पदे त्वं पदे वा अमुख्यवृत्तिरिति प्रतिज्ञायापि तद्देश्यतदधीनत्वादिधर्मेण तदिति व्यपदेशमुपपाद्य प्रत्ययास्वारस्य-मात्राश्रयणेनापि तदिति व्यपदेश उपपादितः । तत्र टीकोक्तसामानाधिकरण्यमात्रं गौणमित्येतत्स्वारस्ये भाराभावात् । अत्र तु सामानाधिकरण्यमात्रं गौणमिति मूलव्याख्यानकारणाय प्रवृत्तेन टीकाकृता मूलोक्तमात्रादिपदस्वारस्यं वर्णनीयमेव । स्थलान्तरोक्तिगतिश्च कार्यैवेति मनसि कृत्वा चन्द्रिकोक्त-पक्षगतिः कृता । उपलक्षणया न्यायामृतगतिश्च टीकाभिप्रेता व्याख्येयपृथगधिकरणीयचन्द्रिका-तर्कताण्डवन्यामृतादिग्रन्थानामेकवाक्यता तु उपायानेकत्वेनानेकोपायानामविरोधविरोधलाघवाति-लाघवविचारो न कार्य इति सर्वसंमतत्वाद्युक्तेत्यलम् ।
इदं पुनरवशिष्यते । एतदधिकरणे पृथगधिकरणे च सामानाधिकरण्यमात्रं गौणमिति व्यवहारः । पृथगधिकरणतत्त्वप्रकाशिकायां तु लक्षणावृत्तौ हि तत्त्वंपदवाच्यार्थपरित्यागेनासिपदमात्रमुख्यार्थता अशेषप्रमाणविरुद्धाङ्गीकर्तव्या । वरं हि ततस्तत्त्वंपदमुख्यार्थमङ्गीकृत्यासिपदमात्रस्य गौणार्थत्व-वर्णनमित्युक्तम् । तद्भावबोधे असिपदमात्रस्येति प्रतीकमुपादाय तत्त्वंपदसमभिव्याहृतासिपदबलाद्धि तत्त्वंपदार्थतावच्छेदकयोर्ब्रह्मत्वजीवत्वयोः सामानाधिकरण्यरूपस्य तदाश्रयब्रह्मजीवाभेदस्य लाभः । स च ब्रह्मत्वजीवत्वयोरेकवस्तुनिष्ठत्वलक्षणमुख्यसामानाधिकरण्यरूप इत्याद्युक्तम् । अभिनवचन्द्रिकायां तु तत्त्वंपदयोर्मुख्यार्थमङ्गीकृत्यासिपदमात्रस्येवार्थे लक्षणेति असिपदार्थभवनस्येति चासिपदपुरस्कारेण व्युत्पादनम् । चन्द्रिकायां तु असिपदप्रयोगस्यैवाभावः । तत्कथमेतदिति तत्र ब्रूमः । यथा हि नीलो घटो भवतीत्येवं भवतिपदसमभिव्याहारे सति समभिव्याहृतपदार्थयोरैक्यं भवतीति पदबोध्यं सामानाधि-करण्यफलं स्वीक्रियते । यत्र तु नीलो घट इत्येव प्रयोगस् तत्र सामानाधिकरण्यमेवाभेदबोधकम् । एवं चासिपदस्य सत्त्वे सामानाधिकरण्यार्थोऽभेदो असिपदबोध्योऽङ्गीक्रियते । असिपदाभावेऽपि तु सामानाधिकरण्यमेवाभेदबोधकमिति असिपदे भाराभावेन सुधादावसिपदमपुरस्कृत्य सामानाधि-करण्यमेवाभेदार्थकतया उक्तमित्यादिरुपपादनप्रकारो ज्ञेय इति ।