०९ जगज्जन्मादिकारणत्वस्य तटस्थत्वकल्पना

निर्गुणत्वं च तनैव निषिद्धं प्रभुणा स्वयम्

जगज्जन्मादिकारणत्वस्य तटस्थत्वकल्पना

सुधा

स्यादियं जीवब्रह्मणोरेकत्वं ब्रह्मणश्च निर्गुणत्वमङ्गीकुर्वतां लक्षणसूत्रारम्भानुपपत्तिः । यद्यनेन सूत्रेण जगज्जन्मादिकारणत्वं ब्रह्मणः स्वलक्षणमुच्यते । न चैवं किन्तु तटस्थमेव । न हि तथाविधं जगज्जन्मादिकारणत्वं जीवब्रह्मणोरेकत्वं वा ब्रह्मणो निर्गुणत्वं वा विरुणद्धि ॥

ननु स्वलक्षणत्वे प्रमाणमुक्तम् । मैवम् । स्वस्य लक्षणानि स्वलक्षणनीति वा । सुसम्यक् स्वरूपान्तर्गत्या न लक्षणानीति वा तदर्थोपपत्तेः ॥ तर्हि यतोऽस्य जन्मादि सा माया तदाश्रयो ब्रह्मेति निर्देशः स्यात् । न तु जन्माद्यस्य यतस्तद्ब्रह्मेति । मैवम् । यत्र घोषः सा गङ्गेतिवल्लक्षणया प्रयोगोपपत्तेः ॥ ननु तटस्थेनापि जगज्जन्मादिकारणत्वेन ब्रह्मणो जीवैक्यं निर्गुणत्वं च विरुध्द्यते । काकनिलयनत्वं हि परेण तटस्थं लक्षणमुदाहृतं तस्य लक्ष्यान्तर्भावे काकाधिकरणत्वमपि गृहशब्दार्थः स्यात् । ततश्च काकविगमे गृहैकदेशभङ्गबुद्धिः स्याद् इति । तत्र काकाधिकरणत्वं तदनधिकरणेभ्यो गृहं व्यावर्तयति न वा । नेति पक्षेऽनुभवविरोधस्तदभिधानवैयर्थ्यं च । आद्ये ब्रह्मलक्षणमपि कथं न जीवव्यावृत्तिं करोति । कथं च तत्संबन्धेन सगुणं न भवतीति । मैवम् । यो हि कार्यकारणसङ्घातादविविक्तं कर्तृत्वभोक्तृत्वदोषसंसर्गिणमात्मानं मत्वा मृषैव क्लिश्यति स जीवो व्यावर्त्यत एव अनेन लक्षणेन । तत्र यश्चैतन्यधातुः स ब्रह्मणो न भिद्यत इत्यभ्युपगमे विरोधाभावात् । न च सत्यस्य प्रपञ्चस्य कारणभूतायाः सत्याया आश्रयो ब्रह्मेति सूत्रार्थो येन ब्रह्मणः सविशेषत्वं स्यात् । किन्तु यदवष्टम्भो विश्वो विवर्तः प्रपञ्चस्तद् ब्रह्मेति सूत्रार्थः । सति चैवं सूत्रार्थे कथं जीवब्रह्मणोरेकत्वं ब्रह्मणो निर्गुणत्वं च विरुध्द्यत इति ।

वाक्यार्थचन्द्रिका

नन्वैक्यान्यथाऽनुपपत्त्या सूत्रेऽमुख्यार्थस्य परेणानुक्ततया भेदाङ्गीकारेण मुख्यार्थसंभवप्रतिपादकं भेदेनैवेत्युत्तरवाक्यमसङ्गतम् । न च मुख्यार्थसंभवे लक्षणाश्रयणानुपपत्ता-वस्माभिरुक्तायामैक्यान्यथाऽनुपपत्त्या मुख्यार्थासंभवः प्रतिपादनीय एव परेणेति वाच्यम् । निराश्रयतया तथाऽस्मदुक्तेरेवानुपपत्तेः । न च तटस्थेन जगत्कारणत्वेनात्र सूत्रे लक्षणया ब्रह्म प्रतिपाद्यत इति परोक्तिरेवाश्रय इति वाच्यम् । स्वलक्षणत्वस्य प्रमाणोदाहरणेन प्रतिपादिततया तेन तटस्थ-त्वस्यानाशङ्कनीयत्वात् । तटस्थस्यापीतरव्यावर्तकतया स्वसंबन्धेन सगुणत्वापादकतया चैकत्व-निर्गुणत्ववादिनां सूत्रारम्भानुपपत्त्यशामकतया वैयर्थ्येन तदीयतटस्थत्वोक्त्यनुपपत्तेश्च । न च स्वरूपलक्षणस्य जीवस्वरूपव्यावर्तकत्वेऽपि तटस्थस्य विशिष्टव्यावर्तकत्वेन स्वरूपव्यावर्तकत्वाभावात् स्वरूपाभेदावादिनां न तटस्थलक्षणसूत्रारम्भानुपपत्तिः । प्रपञ्चतत्कारणमायादेः सर्वस्य ब्रह्म-विवर्तत्वार्थकत्वाच्च सूत्रस्य, न निर्गुणत्ववादिनां तदारम्भानुपपत्तिश्चेति व्युत्पादनाय तदीयतटस्थ-त्वोक्तिः श्लिष्टेति वाच्यम् । तथा सति सिद्धान्ते विवर्तत्वादेरपि निरस्यत्वापातात् । तटस्थत्वं वदतो लक्षणाया अवड्यवक्तव्यत्वे बीजाभावाच्चेत्यत उक्तानुपपत्तिपरिहारेण पराभिप्रायं सम्यगनूद्योत्तरक्रमं दर्शयन्नाकाङ्क्षाक्रमेणोत्तरवाक्यं सङ्गमयति स्यादियमित्यादिना ॥

उक्तं शङ्काभिप्रायं मूलारूढं कर्तुं यदीत्यापादकमध्याहृत्या मूलं योजयति यदीति । एवकाराभिप्रायं वक्तुं तव्द्यावर्त्यां शङ्कामुत्थापयति नन्विति । एवकाराभिप्रेताभेदाप्रामाणिकत्वोपपादकतयाऽपीदमेव मूलं व्याख्यातुं तदाक्षेपं दर्शयति नन्विति ।

परिमल

‘भेदेनैव तु’ इत्यादिकमवतारयितुं शङ्कामाह स्यादियमित्यादिनाऽत्रोच्यत इति पर्यन्तेन ॥ तटस्थमेवेति । ब्रह्माश्रितमायागतमेव न ब्रह्मगतमित्यर्थः । यद्वा काकवत्त्वमिवोप-लक्षणमेवेत्यर्थः ॥ लक्षणयेति । यथा ‘सा गङ्गा’ इति गङ्गापदं तीरं लक्षणया बोधयति तथा ‘तद्ब्रह्म’ इत्यत्र तत्पदमपि लक्षणया तदाश्रयं ब्रह्म बोधयतीत्युपपत्तेरित्यर्थः । यद्वा यत्रेत्यत्र यत्पदं गङ्गार्थं सदपि लक्षणया यथा यत्तीरम् इत्यर्थकं तथा यत इति पदं यदधिष्ठितमायात इत्यर्थकमित्यर्थः ॥ तटस्थ-लक्षणपरत्वेऽप्यैक्यवाद्यननुकूलत्वमस्य सूत्रस्याशङ्कते नन्वित्यादिना ॥ काल्पनिकभेदमाश्रित्य समाधत्ते मैवमित्यादिना । कार्येति देहेन्द्रियान्तःकरणादि । कारणमविद्यादोषो रागादिः । ऐक्यप्रापिकूल्यमस्य नेत्युक्त्वा निर्गुत्वप्रतिकूलतापि नेत्याह न च सत्यस्येति । विश्वः समस्तः विवर्तः । अन्यथाप्रतीयमानः प्रपञ्चो यदवष्टम्भो यदधिष्ठानक इत्यर्थः ।

यादुपत्यं

तर्हिति । तटस्थलक्षणत्व इत्यर्थः ॥ यत्र घोष इति । अत्र यथा तच्छब्दस्य लक्षणया तत्संबन्धाद्गङ्गेत्यर्थो लभ्यते तथा यतो जन्मादि तद्ब्रह्मेत्यत्रापि तदाश्रयो ब्रह्मेत्यर्थलाभ इति भावः ॥ काकनिलयनत्वस्य लक्ष्यभूतगृहस्वरूपत्व इत्यर्थः ॥ विवर्तत इति । एकस्य तत्त्वादप्रच्युतस्य पूर्वविपरीतासत्यानेकरूपावभासो विवर्तशब्दार्थ इत्याहुः ।

श्रीनिवासतीर्थीया

स जीव इति । विशिष्ट इत्यर्थः । चैतन्यधातुर् विशिष्टान्तर्गतं विशेष्यांशरूपचैतन्यमित्यर्थः ॥ ननु त्वद्रीत्यैवास्तु सूत्रार्थः । तथाऽपि सत्यभूतप्रपञ्चकारणीभूता या सत्यभूता माया तदाश्रयत्वे ब्रह्मणः सविशेषत्वं स्यादेवेत्यत आह सत्यस्येति ॥ यदवष्टम्भ इति । अवष्टम्भो ऽधिष्ठानम् । विवर्तः कल्पितः । तथाचास्य जन्मादि यतो मायायाः सकाशाद्भवतीत्यस्य विश्वःसमस्तः प्रपञ्चो विवर्तो मायाकल्पित इत्यर्थस्तदाश्रयो ब्रह्मेत्यस्य तदारोपाधिष्ठानमित्यर्थः । एवं च मायाकल्पितप्रपञ्चारोपाधिष्ठानं ब्रह्मेति सूत्रार्थ इति भावः ।