०६ अथ अव्याप्त्यतिव्याप्त्यसम्भवाभावोपपादनम्

न पुराणादिमानत्वं..

अथ अव्याप्त्यतिव्याप्त्यसम्भवाभावोपपादनम् ।

अनुव्याख्यानम्

न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत् ॥

सुधा

ननु मा भूच्छतिबलेनातिव्याप्तिरसंभवश्च लक्षणस्य, शैवादिपुराणैस्तु भविष्यति तेष्वन्येषां जगत्कारणत्वस्य विष्णोरुपसर्जनत्वस्य चाभिधानात् । न च तेषामपि श्रुतिवदन्यार्थ-त्वम्, तात्पर्यलिङ्गविरोधाद् इति चेन्न; तेषां श्रुतिविरूद्धार्थे प्रामाण्यानुपपत्तेः । यथाऽऽह जैमिनिः ‘विरोधे त्वनपेक्षं स्यात्’ इति । पौरुषेयतया शङ्कितदोषस्यापौरुषेयवाक्यविरोधेऽप्रामाण्यस्य न्याय्यत्वात् । रूद्रादीनां जगज्जन्मादिकारणत्वं विष्णोरूपसर्जनत्वं चानेक श्रुतिविरुद्धम् । ताश्च तत्र तत्रोदाहरिष्यामः ॥ इत्याशयवानाह न पुराणेति ।

वाक्यार्थचन्द्रिका

पुराणादीनां विशिष्यनिराकरणबीजतया पूर्वन्ययवैषस्ये दर्शयति न चेति ॥ माऽस्तु पूर्वपरिहारसाम्यं तथाऽप्यप्रामाण्येन तद्विरोधस्याकिञ्चित्करत्वमेव परिहार इत्याह तेषामिति ॥ विरोधेत्विति । श्रुतिविरोधे स्मृतिप्रामाण्यमनपेक्ष्यमनादरणीयं स्याद्धि यस्मादसति विरोधे मूलश्रुत्यनुमानमुक्तं न तु सतीति सूत्रार्थः । यथा सर्ववेष्टनस्मृतेः स्पर्शश्रुतिविरोधेनाप्रमाण्यमिति ॥ न केवलं जैमिनिसूत्रं प्रत्यक्षश्रुतिविरोधे श्रुत्यनुमानानुपपत्तिरूपतत्सूचितन्यायबलादेवैतद् युक्तं च तथेत्याह पौरुषेयतयेति ।

परिमल

श्रुतिबलेनातिव्याप्तिरसंभवश्चेति । लक्षणस्य ‘हिरण्यगर्भः समवर्ततागे्र’ इत्यादि-श्रुतिभिर् ब्रह्मादिष्वतिव्याप्तिः । ‘जनितोत विष्णोः’ इत्यादिश्रुत्या विष्णावसंभवश्चेत्यर्थः ॥ तार्त्यलिङ्ग-विरोधादिति । शिवादिकारणत्व एव यान्युपक्रमादीनि तात्पर्यलिङ्गानि तद्विरोधादित्यर्थः ॥ यथाऽऽ-हेति । आद्यस्य तृतीयपादीयद्वितीयाधिकरणे ‘विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्’इति सूत्रेण स्मृतीनां श्रुतिविरोधे सति तत्स्मृतिजातम् अनपेक्षम् अनादर्तव्यम् अप्रमाणमिति यावत् ॥ नन्वेवं स्मृतीनां मूलभूतश्रुत्यनुमापकत्वेन प्रामाण्योक्तिपरेण ‘धर्मस्य शब्दमूलत्वात्’ इति पूर्वाधिकरणेन विरोध इत्यत्र उक्तम् ‘असति ह्यनुमानम्’ इति । प्रत्यक्षश्रुतिविरोधेऽसति स्मृत्या मूलश्रु त्यनुमानमुक्तमिति सूत्रार्थः । तन्मात्रस्य प्रकृतोपयोगाद्विरोधे त्वनपेक्षं स्यादित्येवोक्तम् ॥ तत्र तत्रेति । आनन्दमयनये तदनन्यत्वादिनये साङ्ख्यनये पत्युर्नयादावित्यर्थः ।

यादुपत्यं

विरोधे त्वनपेक्षं स्यादिति । ज्योतिष्टोमे सदोनाममण्टपस्य मध्ये काचिदौ-दुम्बरीशाखा निखन्यते । तस्याश्च वाससा वेष्टनं स्मर्यते । औदुम्बरी सर्वा वेष्टयितव्या’ इति । इयं स्मृतिः प्रमाणमष्टकादिस्मृतिवन्मूलभूतवेदानुमापकत्वादिति प्राप्ते औदुम्बरीं स्पृष्टोद्गायेदित्यनेन प्रत्यक्षवेदवचनेन स्पर्शभिधायकेन विरूद्धत्वेन कालात्ययापदिष्टं मूलवेदानुमानम् । न च सर्ववेष्टने साक्षात्स्पर्शः संभवति । परम्परास्पर्शनस्य च भूमिस्पर्शनेनापि सिद्धेः स्पर्शविधिवैयर्थ्यप्रसङ्गः । स्पर्शनार्थं द्वित्राङ्गुलिपरित्यागेन वेष्टने सर्वशब्दसङ्कोचापातः । अतः सर्ववेष्टनस्मरणं प्रत्यक्षस्पर्शन-श्रुतिविरोधेन निर्मूलं विप्रलम्भकवाक्यवदप्रमाणमेवेति सिद्धान्तः । ततश्चायं सूत्रार्थः । स्मरणं प्रत्यक्षश्रुतिविरोधेऽनपेक्षम् अनादरणीयं स्यात् । असति प्रत्यक्षश्रुतिविरोधे मूलश्रुत्यनुमापक-मष्टकादिस्मरणमिति । अत्रैव मतान्तरम् । स्पर्शसर्ववेष्टनविषययोः प्रत्यक्षानुमितश्रुत्योः परस्परविरोधा-दुभयोरप्यप्रामाण्यमिति प्राप्तेऽनुमानस्य कालात्ययापदिष्टत्वेन स्पर्शनश्रुतिः स्वार्थे प्रमाणम् । अथ पुरुषान्तरप्रत्यक्षो वेदः सर्ववेष्टनस्मृतेर्मूलमित्युच्यते । मैवम् । परप्रत्यक्षात्स्वप्रत्यक्षस्य विस्रम्भणीयतया परप्रत्यक्षमनादृत्यात्मीयप्रत्यक्षेणैव व्यवहारः क्रियते । अतोऽत्र स्पर्श एवानुष्ठीयते न तु सर्ववेष्टनमिति फलतोऽप्रामाण्यं श्रुतिविरुद्धानां स्मृतीनामिति । एतन्मते सूत्रार्थस्तु श्रुतिस्मृत्योर्विरोधे यत्प्रमाणान्तरा-नपेक्षं श्रुतिवाक्यं तदेव ग्राह्यम् । असति ह्यात्मप्रत्यये परप्रत्ययानुमानक्लेशाश्रयणमिति द्रष्टव्यम् ।

वाक्यार्थरत्नमाला

श्रुतिविरोध इति । अयं च सूत्रार्थः युक्तिपादे । उपपादयिष्यते । न तु सतीति पाठः । जैमिनिसूत्रमिति । न्यायेति । जैमिनिसूत्रं च प्रत्यक्षेत्यादिन्यायश्च तयोर्बलादित्यर्थः । सूत्रग्रहणेन तत्सूचितन्यायप्राप्तावपि सूत्रस्य मुखतोऽधिकार्थप्रतिपादकत्वादुपयुक्तन्यायस्य पृथग्ग्रहणम् । एतत् श्रुतिविरुद्धार्थ इत्यादिकम् ।


दर्शनान्तरमूलत्वात्

सुधा

ननु शैवपुराणादीन्यपि श्रुतिमूलानि तत्कथं श्रुतिविरोधेनाप्रमाणानीत्यत आह दर्शनान्तरेति ।

अनुव्याख्यानम्

दर्शनान्तरमूलत्वात्

सुधा

पुराणादीनां न श्रुतिमूलत्वमिति शेषः । तथा चोक्तं मोक्षधर्मे ‘शैवान्पाशुपताच्चक्रे’ इति ।

परिमल

शैवानिति । व्यक्तमेतद्दशमे भारततात्पर्यनिर्णये ।