१९ अधिकरणार्थोपसंहारः

यतः प्रसूतेत्युक्त्वा च तदेव ब्रह्म चाब्रवीत्

अधिकरणार्थोपसंहारः

अनुव्याख्यानम्

यतः प्रसूतेत्युक्त्वा च तदेव ब्रह्म चाब्रवीत् ॥ १ ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने

प्रथमाध्याये जिज्ञासाधिकरणं समाप्तम् ।

सुधा

लिङ्गान्तरमाह ॥ यत इति ॥ यतः प्रसूता जगतः प्रसूतीति प्रकृतिकारणत्वं चास्य पुरुषस्योक्त्वा तदेव ब्रह्मेत्यब्रवीत् । प्रकृतिकारणत्वं च मम योनिरप्स्व१न्तस्तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमेत्यादिश्रुतिस्मृतिषु विष्णोरेव प्रसिद्धम् । अतः स एव तदिति परामर्शगोचर इति ब्रह्म चेति चशब्द इतिशब्दार्थे ।

तदेवं तदेव ब्रह्मेतिवाक्यस्य विष्णुविषयत्वाद्ब्रह्मशब्दो विष्णावेव मुख्य इति स्थिते सौत्रोपि ब्रह्मशब्दस्तत्पर एवेति सिद्धम् ।

परिमल

ब्रह्मान्यच्चाब्रवीदिति भ्रमनिरासाय निपातानामनेकार्थत्वादाह ॥ चशब्द इतिशब्दार्थ इति ॥

श्रीनिवासतीर्थीया

यतः प्रसूतेति ॥ सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया प्राप्तैषा सृष्टेत्युदितेत्यर्थः ॥

वाक्यार्थरत्नमाला

अप्राप्तौ हेतुमाह यत इति । तदुक्तेरिति । यत इत्याद्युक्तेरित्यर्थः । युक्तयन्तरे युक्तया स्वयुक्तेरतिशयः प्रतिपादितस्तं स्पष्टयति उत्तरसूत्रेति । अत एवेति । परेण स्वयुक्तेरन्तरङ्गत्वरूपविशेषप्रतिपादनादेव तमप्रयोजकीकर्तुमिति योज्यम् । ननु परिहारेति । तर्हीति वक्ष्यमाणं नन्वित्यतःपरं योज्यम् । आहेति शङ्कत इत्यर्थः । इत्युक्तं भाष्येति मूलम् । अनेन स्वयं भगवतेति भाष्यमुपलक्षणम् । उत्तरसूत्रे जन्मादिकारणत्वं ब्रह्मलक्षणं भगवता स्वयमभिहितमतो ब्रह्मशब्दो विष्णुपर इत्यपि द्रष्टव्यमिति तद्भाष्यव्याख्यानं सूचितम् । तदेतदभिप्रेत्यैव एतेने

त्येतस्य पूर्वोत्तरसूत्रानुसारेणेत्यादि व्याख्यास्यति टीकाकार इति ज्ञेयम् ।


यतः प्रसूतेत्युक्त्वा च तदेव ब्रह्म चाब्रवीत्

यतः प्रसूतेत्युक्त्वा च तदेव ब्रह्म चाब्रवीत्

सुधा

अत्र केनचित्प्रलपितं श्रौतस्य ब्रह्मशब्दस्य जात्यादिकमर्थान्तरमाशङ्क्य यद्भाष्यकारीयं निराकरणं तदनुपपन्नम् । यतः सूत्रकार एव जन्माद्यस्य यत इति जगज्जन्मादिकारणं ब्रह्मेति वक्ष्यति । न हि जात्यादेर्जगज्जन्मादिकारणताऽस्तीति ॥ तदतीव मन्दम् । सौत्रब्रह्मपदश्रवणे जात्यादिप्रतिभास एव न भवतीति वा तन्निराकरणमकर्तव्यम् । उत जातोऽपि प्रतिभासो लक्षणसूत्रपर्यालोचनया निवर्तत इति । नाद्यः गृहीतसङ्गतेरर्थान्तरप्रतिभासस्यावर्जनीयत्वात् । द्वितीये त्वयाऽप्यर्थान्तर-प्रतिभासस्तन्निराकरणं चाङ्गीकृतमेव । तथाप्युत्तरवाक्यपर्यालोचनां विहाय किं युक्त्यन्तरान्वेषणेनेति चेन्न । प्रथमप्राप्तं स विष्णुराह हीत्यादिवाक्यं विहाय किमुत्तरान्वेषणेनेत्यपि वक्तुं शक्यत्वात् । न चोत्तरसूत्रपर्यालोचनया अयं निर्णयो न कार्य इत्युक्तं भाष्यकृता । तस्माद्यत्किञ्चिदेतत् ।

वाक्यार्थचन्द्रिका

भाष्यकारस्य ब्रह्मशब्दार्थसमर्थने केनचिदुद्भावितामचातुरीमाशङ्क्य परिहरति ॥ अत्रेति ॥ सौत्रेति ॥ न चैतत्पक्षाप्राप्तिर्यतः सूत्रकार एवेत्यादिना स्वयमेव द्वितीय-पक्षमात्रविषयक स्वाभिप्रायप्रकटनादिति वाच्यम् । प्रकारस्य प्रकारान्तरादूषकत्वस्य सर्वसिद्धत्वेऽप्येव-माशङ्कमानस्याशङ्कैव नोदेति । अथाप्याशङ्का चेदुत्तरसूत्रपर्यालोचनयैव तत्परिहार इत्यभ्युच्चयेनापि तदुक्तेः सम्भवेन सूत्रकारीयपरिहारादेतच्छङ्काया एवानुदय इति तत्पक्षाभिप्रायस्यापि सम्भवादि-त्याशयात् । उत्तरसूत्रालोचनया परिहारस्य सूत्रानारूढपरिहारापेक्षयान्तरङ्गत्वादिति युक्तिं सूचयति ॥ युक्त्यन्तरेति ॥ अत एव ततोऽप्यन्तरङ्गतां परिहर्ता दर्शयति ॥ प्रथमेति ॥ ननु परिहारान्तरं पूर्वसूत्रान्वेषणेन कृतवता भाष्यकृतार्थात्प्रकारान्तरं दूषितमेव भवतीत्यतः प्रकारस्य प्रकारान्तरा-दूषकत्वन्यायविरोधस्तर्हीत्याशयेनाह ॥ न चेति ॥

परिमल

नन्वेवं जन्मादिसूत्रेण निर्णयो विरुद्ध्यत इत्यत आह ॥ न चोत्तरसूत्रेति ।

श्रीनिवासतीर्थीया

निवर्तत इति ॥ तथा च भाष्यकारीयं तन्निकारणं व्यर्थमिति भावः ॥