१७ नारायणशब्दनिष्पत्तिः

दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः

नारायणशब्दनिष्पत्तिः

दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः

सुधा

ननु नञ्समासे नलोपो नञ इति प्राप्नोति । न । नभ्राडित्य(दिष्व)स्य वक्तव्यत्वात् ॥ अथवाऽमानोनाः प्रतिषेध इति गणपठितनसमासोऽयमित्यदोषः ॥ पूर्वपदात्संज्ञायामग इति णत्वम् ॥ ल्युटष्टित्करणसामर्थ्यादयनशब्दोऽत्राधिकरणे त्रिलिङ्ग इति पुल्लिङ्गत्वोपपत्तिः ।

वाक्यार्थचन्द्रिका

नन्विति ॥ तथा च तस्मान्नुडचीति नुटि अनरायण इति स्यादिति भावः । अस्याप्यभियुक्तप्रयोगत्वेनोपसङ्ख्येयत्वमित्याह ॥ न भ्राडित्यादिष्विति ॥ ननु स्त्रैणार्थ इत्यत्र स्त्रीपुंसाभ्यां नञ्स्नञो भवनादिति विहितस्य नञो नलोपाभावार्थं नलोपो नञ इति सूत्रे रात्रेः कृति विभाषेत्यतोऽनुवृत्तविभाषाया व्यवस्थितविभाषात्वस्य न्यास एवोक्तत्वेन नारायण इत्यत्र तत एव नलोपभावसिद्धेरुपसङ्ख्यानकल्पनं न युक्तमिति चेन्न । प्रत्ययञित्वस्य वृद्धिस्वरयोश्चरितार्थत्वा-न्निपातञित्वस्याचरितार्थत्वान्नञ्ग्रहणेन सूत्रे प्रत्ययप्रसक्तेरेवाभावात्पूर्वपदत्वेन नञोविशेषणाद्वा नञः पूर्वपदत्वाभावादेव स्त्रैणार्थ इत्यत्र नलोपाप्रसक्तिरिति पदमञ्जर्यामुक्तत्वेन स्त्रैणार्थ इत्यस्यान्यथासिद्धतया विभाषाग्रहणानुवृत्तेरभावेन तथा समाधानस्याशक्यत्वात् । चन्द्रिकायां तदङ्गीकारस्तु किं तद्गुण-दोषचिन्तया न्यासस्यापि वृत्तिव्याख्यानत्वात्तदुक्तरीत्याऽप्यस्मदभिलषितसिद्धिरित्यभिप्रेत्येति द्रष्टव्यम् ॥ निर्वचनान्तरेणापि नारायणशब्दाभियुक्तप्रयोगोपपत्तेर्नोपसङ्ख्यानकल्पना युक्तेत्यतः पक्षान्तरमाह ॥ अथवेति ॥

पूर्वपदादिति ॥ पूर्वपदस्थान्निमित्तादगकारादुत्तरस्य णत्वमिति सूत्रार्थः ।

ननु यदनान्तमकर्तरीति कर्तृव्यतिरिक्तकारके यदनप्रत्ययान्तं तत्तृतीये नपुंसकमिति लिङ्गानुशासन-सूत्रेऽन् नप्रत्ययान्तस्य नपुंसकताया नियमितत्वात्साध्यतेऽनेनेति साधनमधिक्रियते अस्मिन्नित्यधि-करणमित्यादौ साधनादिशब्दानां नित्यनपुंसकताया एवोपलम्भादत्रायनशब्दस्याधिकरणसाधनत्वेऽपि नपुंसकतैव युक्ता । न च करणाधिकरणयोश्चेत्यत्र नपुंसके भावे क्त इत्यतो भावग्रहणाननुवृत्त्या सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिरिति परिभाषया नपुंसक इत्यंशस्यापि निवृत्तेर्विशेष्य-निघ्नतया लिङ्गत्रयेऽपि करणाधिकरणादौ ल्युडनुशासनसम्भवान्न नपुंसकत्वनियम इति वाच्यम् । तथात्वे साधनादिशब्दानां नियतलिङ्गत्वाभावप्रसङ्गात् । यदनान्तमकर्तरीत्यस्य विशेषविषयकत्वाच्च परिभाषाया अनित्यतामाश्रित्य करणाधिकरणयोश्चेत्यत्र नपुंसकानुवृत्तेरावश्यकत्वात् । तथा च नारायण इति पुल्लिङ्गानुपपत्तिरित्यत आह ॥ ल्युटष्टित्करणसामर्थ्यादिति ॥ न च सामर्थ्याश्रयणं निर्बीजमिति वाच्यम् । आस्थानमास्थानी करणं करणी प्रमाणं प्रमाणो राजधानं राजधानीत्यभियुक्तप्रयोगाणामेव तत्र बीजत्वात् । अत एव टिढ्ढाणञ्द्वय इति सूत्रे लटो द्य्वनुबन्धकत्वाट्टिद्ग्रहणेन ग्रहणे निरस्ते तर्हि तत एव ल्युटोऽप्यग्रहणं प्रसज्येतेत्याशङ्किते लटष्टित्वस्य टेरेत्वेन चरितार्थत्वाद् ल्युटष्टित्वस्याचरितार्थत्वात् तदग्रहणे टित्त्ववैयर्थ्यापत्त्या ङीबर्थमेव टित्करणमित्युक्तत्वेन टित्करणसामर्थ्यमाश्रितम् । इदं च बाहुलकमनाश्रित्य समाधानम् । अत एव केचिद्बाहुलिकमाश्रित्य त्रिलिङ्गतां व्युत्पादयन्ति । तेषां बाहुलकाश्रयणेन ङीबादिकं व्युत्पादनीयमिति क्लेश इति द्रष्टव्यम् ।

परिमल

नञ् समासे नलोपो नञ इति प्राप्नोतीति ॥ द्वितीयाध्यायद्वितीयपादे नञितिसूत्रं नञुत्तरपदेन समस्यत इति तस्यार्थः । तथा च नञिति सूत्रेण नञोऽरपदेन समासे सति सवर्णदीर्घे च नारेति रूपं नञश्च तदन्यतदभावतद्विरुद्धरूपार्थत्रयवाचितया प्रकृते विरुद्धार्थकत्वमुपादायारविरुद्धा नारा गुणा इति व्याख्यानेऽसुराविद्यादिशब्देष्विव नलोपो नञ इति सूत्रेण नकारलोपः प्राप्नोतीत्यर्थः । षष्ठस्य तृतीयपादे ‘नलोपो नञ’ इति सूत्रं नञः नलोपः नकारस्य लोपो भवतीत्युत्तरपदे पर इति तस्यार्थः । शङ्कां निराह ॥ नेति ॥ कुत इत्यत आह ॥ न भ्राडित्यादिष्विति ॥ ‘नभ्राण्नपान्न-वेदानासत्यान मुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्ये’ति सूत्रेण नभ्राडित्यादिष्वेकादशशब्देषु नञ्प्रकृत्या भवति नलोपं न प्राप्नोतीत्यर्थ इत्युक्तत्वात् । नभ्राडित्यादिषु शब्देषु मध्ये नारायणशब्दमपि पठित्वा तत्रत्यनकारोऽपि प्रकृत्या भवतीति वक्तव्यत्वादित्यर्थः ॥ चन्द्रिकायां तु प्रकारान्तरेण समाधिरुक्तः ॥ नसमास इति ॥ निषेधार्थकनशब्देन समासशब्दस्य सुप्सुपेति समास इत्यर्थः । तथा चायं नञ्न भवतीति ‘नलोपो नञ’ इति न प्राप्नोतीति भावः । नन्वेवम् अराणां निषेध एव नारेति पदेन सिद्ध्येन्न तु गुण इति चेन्न । प्रयोगानुरोधेन विरोधार्थकस्यापि नारशब्दस्य गुणवाचित्वस्य कल्प्यत्वाद्वा लक्षणया तद्विरोधिनो ग्रहणाद्वा गुणलाभादिति भावः । यत्तु निषेधार्थकनशब्दो नास्तीति चिन्तामणिवचनं तत्तु तर्कताण्डवविवृतौ नञर्थनिर्णयवादे निरस्तमस्माभिरिति ध्येयम् । अत्रापि गणपरिपठितेत्युक्त्या चापोढं ‘चादयोऽसत्व’ इति सूत्रोक्तचादिगणे नञं पृथक्पठित्वा अमानोनाः प्रतिषेध इत्यस्य पाठात् । ननु समानस्थले सत्यप्यैकपद्ये ‘रषाभ्यां नो णस्समान पद’ इत्यष्ट-मांत्यपादीयणत्वविधायकसूत्रे विवक्षितस्य समानमेव पदं समानपदं न कदापि पूर्वोत्तरपदव्यवहार-भागित्येवंरूपसमानपदत्वस्यात्राभावात्कथं णत्वमित्यत आह ॥ पूर्वेति ॥ पूर्वपदस्थान्निमित्तादुत्तर-पदस्थनकारस्य णत्वं भवति संज्ञायां विषये, गकारवतस्तु न भवतीत्यर्थः । ननु तृतीयस्य तृतीयपादे ‘नपुंसके भावे क्त’ इत्यतो नपुंसक इत्यनुवर्तमाने ‘ल्युट्च’ ‘करणाधिकरणयोश्चे’ति ल्युटो विधानेन नारायणमिति नपुंसकेन भाव्यमित्यत आह ॥ ल्युट इति ॥ टित्करणं हि टिढ्ढाणञित्यादिना ङीबर्थम् । यदि ल्युडन्तस्य नपुंसकत्वमेव स्यात्तर्हि स्त्रीत्वाभावात्तन्निमित्तकङीबर्थं टित्करणमनर्थकमेव स्यात् । तेन ज्ञायते लिङ्गान्तरमस्तीति सामान्यतो ज्ञापनात्पुल्लिङ्गतोपपत्तिरित्यर्थः ॥ अधिकरण इति ॥ प्रकृताभिप्रायः कोऽसावनुमानो नामेति करणेऽपि भूवादिसूत्रमहाभाष्ये पुल्लिङ्गप्रयोगदर्शनात्करणाधि-करणयोश्चेति सूत्रे ल्युटोऽनुक्तत्वेऽपि पूर्वत्र ल्युट्चेत्यत्र नपुंसके भावे इत्यनुवर्तमानेन तत्र टित्करण-कृत्याभावात्करणाधिकरणसूत्र एवानुवर्तितस्थले तस्य कृत्यवाच्यमित्येवमुक्तमिति ध्येयम् ।

यादुपत्यं

न लोपो नञ इतीति ॥ नञो नस्य लोपः स्यादुत्तरपद इति सूत्रार्थः । अब्राह्मण इत्युदाहरणम् । ततश्च ‘तस्मान्नुडची’ति नुडागमेऽनश्व इत्यादाविवानरायण इति स्यादिति भावः ॥ न भ्राडित्यादिष्विति ॥ ‘नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्ये’ति सूत्रे नभ्राडित्यादिषु नञ्प्रकृत्या भवतीत्युक्तत्वात्प्रामाणिकप्रयोगबलेन नारायणशब्दस्यापि तत्रोपसङ्ख्येय-त्वादित्यर्थः । उपसङ्ख्यानस्य वैयाकरणैरकृतत्वादाह ॥ अथवेति ॥ न समास इति ॥ गणपरिपठितो यो नशब्दस्तेन सह नैकधेत्यादाविव सुप्सुपेति नित्यसमास इत्यर्थः । नित्यं क्रीडेत्यतो नित्यमित्यनुवर्तत इत्युक्तत्वात् । अदोष इति ॥ अस्य नशब्दस्य ञकारानुबन्धाभावात्तदनुबन्धवत एव नस्य तत्र लोपविधानादनरायण इत्यनिष्टरूपापत्तिरूपो दोषो नेत्यर्थः ॥ पूर्वपदात्संज्ञायामिति ॥ पूर्वपदस्था-न्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति संज्ञायां न तु गकारव्यवधाने इति सूत्रार्थः । द्रुणसः खरणसः शूर्पणखा इत्याद्युदाहरणम् । अग इत्युक्तत्वाद् ऋगयनमित्यादौ न भवति । नन्वत्र रषाभ्या-मित्यनेनैव कस्मान्न णत्वमुक्तम् । न च नारायणपदस्य पदद्वयसमासरूपत्वेन समानपदत्वाभावः । समासस्याप्येकविभक्त्यन्तत्वेन समानपदत्वसम्भवादिति चेत् । उच्यते । रषाभ्यामित्यत्र समासरूपैक-पदव्यावर्तनायाखण्डैकपदलाभायैव समानेति विशेषणस्याभिप्रेतत्वात् । अन्यथा दुर्नामा रामनामे-त्यादावपि तेन णत्वप्रसङ्गः । यथाहुः । पद इत्यनेनैव सामर्थ्यादेकपदत्वे लब्धेऽपि समानग्रहणं यत्समानमेकं पदं न कदाचिद्भिन्नं तत्रैव यथा स्यादित्येवमर्थं तेनाखण्डपद एव भवति न समासपद इति । अतोऽत्र समासे तेनाप्राप्तं णत्वं संज्ञात्वाद्विधीयते । रामनामेत्यादौ तु समासत्वेऽप्यसंज्ञात्वान्न णत्वप्रसङ्ग इति । नन्वेवमयनशब्दस्य ल्युडन्तस्य नियमेन नपुंसकत्वात्तदन्तस्य नारायणशब्दस्यापि नपुंसकतापत्तिः । न च भाव एव तस्य नपुंसकता नाधिकरणादिकारकेऽपीति वाच्यम् । यदनान्त-मकर्तरीति लिङ्गानुशासनेऽधिकरणादिकारकेऽनान्तस्य नपुंसकताविधानेन तदन्तस्यायनशब्दस्यापि तथात्वस्यावर्जनीयत्वात् । अयनं वर्त्ममार्गाध्वपन्थान इत्यमरकोशेऽपि भावभिन्ने नपुंसकस्यैव प्रयोगा-च्चेत्यत आह ॥ ल्युटष्टित्करणेति ॥ अत्र हि इध्मप्रव्रश्चनी गोदोहनीत्यादौ ङीबर्थं टित्करणमित्यभि-प्रेतम् । तेन ज्ञायते ल्युडन्तस्य करणेऽधिकरणे च न नियमेन नपुंसकत्वमेवेति । कथमन्यथोक्तोदाहरणे स्त्रीप्रत्ययानामिमं प्रत्ययं टितं कुर्यादिति । तथाऽपि पुल्लिङ्गत्वं कुत इति चेत् । उक्तरीत्या टित्करणे नपुंसकत्वनियमे त्याजिते प्रयोगानुसारेण पुल्लिङ्गत्वस्यापि सम्भवात् । अत एव लिङ्गानुशासने इध्मप्रव्रश्चनः गोदोहन इत्यप्युदाहृतम् । अधिकरण इति च प्रकृतत्वादेवोक्तमिति ज्ञातव्यम् ॥

वाक्यार्थरत्नमाला

न भ्राडित्यादिष्वितीति । नपान्नवेदानासत्यानमुचिनकुलनखनपुंसक-नक्षत्रनक्रनाकेषु प्रकृत्येति सूत्रशेषोक्तं नपादादिशब्दानां ग्रहणमादिपदेन विवक्षितमिति नाकादिशब्दवदिति तत्त्वप्रकाशिकार्थानुगुण्यं भवति । अत्र नभ्राडादिशब्दा सर्वेऽपि नलोपाभावमात्रे दृष्टान्ततामापद्यन्ते । उपसङ्ख्याने उक्ते सति तत्सूत्रेण नभ्राडादिष्विव नारायणशब्देऽपि नलोपाभावो-पपत्तिरिति सूचनात् । नासत्या नाकशब्दौ नलोपप्रयुक्तनुटोऽप्यभावे दृष्टान्ताविति विवेकः । तथा चाभियुक्तप्रयोगसंरक्षणाय प्रवृत्तेऽत्र सूत्रेऽभियुक्तप्रयुक्तनारायणशब्दस्योपसङ्ख्याने सति नलोपा-भावाद्युपपन्नमिति भावः । अनेनैवाराणामयनं न भवतीति प्रथमपद्यव्याख्यानस्थलीयव्युत्पत्तिप्रदर्शन-मप्युपपादितं भवति । स्त्रैणार्थ इत्यत्रेति । स्त्रीपुंसाभ्यां नञ्स्नञौ भवनादिति सूत्रेण स्त्रीशब्दादिदमित्यर्थे नञ्प्रत्ययविधानात्स्त्रिया अयमित्यर्थे नञि ञित्वादादिवृद्धौ णत्वे च स्त्रैण इति भवति । स चासावर्थश्चेति समासे स्त्रैणार्थ इति भवति । एतत्प्रकरणेऽधिकमुपपादनं चन्द्रिकाटीकायां गुरुपादोक्तं किञ्चित्तत्प्रपञ्चे अस्मदुक्तं च ज्ञेयम् । नलोपाभावार्थमिति । स्त्रैणो ऽर्थ इति स्थितेन नलोपो नञ इत्यनेन नलोपे कार्ये णत्वस्यासिद्धत्वात्तल्लोपे सति तस्मान्नुडचीति नुडागमेऽचि परत आयादेशे स्त्रायणर्थ इत्यापत्तिपरिहाराय नलोपाभावस्यावश्यकत्वादिति भावः । व्यवस्थितेति । क्वचिन्नित्यमेव स्यात् क्वचिन्नेत्येवं व्यवस्थितेत्यर्थः । अनश्व इत्यादौ रूपद्वयप्रसङ्गवारणायेदमुक्तम् । न्यासे उक्तत्वोक्तया व्याकरणव्याख्यातृसंमतप्रकाराभिधानान्न काल्पनिकत्वमस्य समाधानस्येति सूचयति ।

तत एव स्त्रैणार्थ इत्यत्र नलोपाभावार्थमनुवर्तितविभाषयैवेत्यर्थः । सत्यं न्यासकारीयं नलोपाभावस्य विभाषयोपपादनमस्तीति । परन्तु मञ्जर्यादौ स्त्रैणार्थ इत्यादिप्रयोगगतनलोपाभावस्य प्रकारान्तरेण सम्भववर्णनात्तदर्थं विभाषाग्रहणानुवृत्तेरनावश्यकत्वात्तदनुवृत्त्यङ्गीकारे नञः सानुबन्धकस्य ग्रहणं व्यर्थमापद्यते । नभ्राडित्यादिसूत्रप्रणयनं चानर्थमापद्यत इत्यनुपपत्तिग्रस्तत्वाच्च न तस्याः कर्तव्यत्व-मित्यादेस्तत्र तत्र प्रतिपादनात्तदनुसारेण विभाषानुवृत्तेः स्वीकर्तुमनुचितत्वाच्चन्द्रिकोक्तरीत्या समाधानं परित्यज्योपसङ्ख्यानबलादेव नलोपाभावोपपादनं कार्यमिति भावेन मूलोक्तमुपसङ्ख्यानमुपपादयति प्रत्ययञित्वस्येत्यादिना । वृद्धिस्वरयोरिति । अचो ञ्णितीति ञिति परे वृद्धिर् ञ्णित्यादिर्नित्यमिति ञिति परे आद्युदात्तत्वं चेत्येवं वृद्धिस्वरयोरित्यर्थः । निपातञित्वस्येति । निपातरूपाव्ययस्य यत् ञित्वं तत्पुरस्कारेण कस्यचित्कार्यस्य कुत्राप्यनुक्तया तस्य चरितार्थत्वमित्यर्थः । प्रत्ययप्रसक्तेरेवेति । चरितार्थाचरितार्थयोरचरितार्थस्यैव ग्रहणौचित्याच् चरितार्थञित्वोपेतप्रत्ययस्याप्रसक्तिरित्यर्थः । यत्तु चन्द्रिकाव्याख्यानरूपराघवेन्द्रीयग्रन्थे प्रत्ययञित्वस्य चरितार्थत्वान्नलोपसूत्रे प्रत्ययस्याग्रहणम् । किन्तु निपातस्यैवाचरितार्थञित्वोपेतस्य ग्रहणमतस्त्रैणार्थ इत्यस्य व्यावृत्तिरिति यद्विभाषानुवृत्तिबाधकमुपन्यस्तं तत्खण्डनाय तट्टीकान्तरेऽभिहितम् । अनन्यार्थानुबन्धकग्रहणेनान्यार्थानुबन्धकस्य ग्रहणमिति परिभाषायाः कुत्राप्यनुपलब्धेर्भाष्यदिशा नप्रत्ययव्यावृत्त्यर्थतया अव्ययनञनुबन्धस्य चरितार्थत्वे-नानन्यार्थत्वाभावाच्चेति दोषद्वयाच्चरितार्थत्वात् प्रत्ययस्याग्रहणमित्ययुक्तमिति । तत्र न तावदाद्यो दोषः । प्रत्ययञित्वस्य चरितार्थत्वमभिधाय निपातञित्वस्याचरितार्थतया नलोपसूत्रे अन्येनाचरितार्थ-ञित्वोपेतनिपातस्यैव ग्रहणमिति वदता मञ्जरीकृता चरितार्थाचरितार्थयोश् चरितार्थस्य ग्रहणमिति परिभाषायाः सूचितत्वेन तदुक्तिमेव मूलीकृत्य परिभाषायाः कल्पनीयतया तदनुपलब्धेरप्रयोजकत्वात् । पणव्यवहारे स्तुतौ चेति धातुव्याख्यानप्रक्रियाटीकायामनुबन्धस्य चरितार्थत्वादित्युक्तेश्च । अत एव निरनुबन्धकग्रहणेन सानुबन्धकस्येत्यादिरूपाणां सूत्रज्ञापितानां परिभाषाणामिव न्यायमूलानामपि गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः । कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्यय इत्यादिरूपाणां परिभाषात्वेन गणनम् । स्वव्याहतं चेदं दूषणम् । ल्युटष्टित्करणेति चन्द्रिकावाक्यव्याख्यावसरे स्वराद्यनिमित्तस्य ङीबेकार्थस्य टित्करणस्य । वैयर्थ्यायाधिकरणे ल्युडन्तः स्त्रीलिङ्ग इति भवद्भिरुच्यते । तत्र ह्येवमुक्तं भवति । टिड्ढाणञिति सूत्रे टिद्ग्रहणेन लडादिटितः प्राप्तौ तस्य टितष् टित आत्मनेपदानामित्यादिना विहितटेरेत्वेन चरितार्थत्वाद् ल्युटष्टित्वस्याचरितार्थत्वात् ङीबर्थमेव टित्करणात् ङीपश्च स्त्रियां विधाना-दधिकरणे ल्युडन्तस्य त्रिलिङ्गतेति । तथाच भवतीत्युक्तन्यायस्याश्रयणेन तदनुपलब्ध्या परनिराकरणं कथं न स्वव्याहतम् । भाष्यदिशेत्यादिनोक्तो द्वितीयदोषोऽप्यसाधुरेव । नकाररूपप्रत्ययव्यावृत्त्यर्थं नञः सानुबन्धकस्य ग्रहणमिति वदता भाष्यकृता नञो ञित्वप्रयुक्तस्वरादिरूपप्रयोजनेन चरितार्थस्यानुक्तेः । यदि च ञानुबन्धेन नकारस्य नप्रत्ययाद्व्यावृत्तिकरणमात्रेण ञानुबन्धश्चरितार्थः स्यात्तर्हि नञादिप्रत्ययस्थलेऽपि ञानुबन्धस्य नप्रत्ययव्यावर्तकतया चरितार्थत्वेन पुनर्वृद्ध्यादिप्रयोजनाश्रयणानु-पपत्तिः । भवदीयल्युटष्टिदितिवाक्यव्याख्यानपक्षेऽपि नन्दिग्रहिपचादिभ्योल्युणिन्यच इति विहितल्यु-व्यावृत्त्यर्थतया ल्युटष् टित्वस्य चरितार्थत्वमिति वक्तुं शक्यत्वेन ङीबेकार्थत्वादिकल्पनानुपपत्तिश्च । तस्मात्प्रत्ययव्यावृत्त्यतिरिक्तप्रयोजनसदसद्भावाभ्यामेव चरितार्थत्वाचरितार्थत्वे वाच्ये इति भवदुक्ता-न्यार्थत्वोपपादनायोग एवेत्यलम् । पूर्वपदत्वेन नञो विशेषणाद्वेति । पूर्वपदता पर्याप्त्यधिकरण-त्वेनेत्यर्थः । तेन स्त्रैणादिपदेऽपि नञः पूर्वपदत्वमवर्जनीयमिति शङ्कानवकाशहतेति ज्ञेयम् । उत्तरशब्दस्य सम्बन्धिशब्दत्वेन पूर्वपदभूतस्य नञ एव नलोपो नञ इत्यत्र ग्रहणादिति न्यासेऽप्युक्तत्वादिति भावः । यत्त्वत्रापि उक्तटीकान्तरे उक्तं, उत्तरपद इत्यनुवृत्तिबलात् पूर्वपदस्येत्यर्थलाभाङ्गीकारे महाभाष्योक्त-सानुबन्धकग्रहणप्रयोजनानुपपत्तेः ।

महाभाष्ये हि नलोपो नञ इत्यत्र चादिष्वननुबन्धक एव नकारः पठ्यतां स एवानुक्रियता-मित्याशयेन किमर्थं नञः सानुबन्धकस्य ग्रहणं क्रियत इत्याशङ्कायां नस्येत्युच्यमाने वामनपुत्रः पामनपुत्र इत्यत्रापि नलोपः प्रसज्येत । स मा भूदित्येवमर्थं सानुबन्धकस्य ग्रहणमिति नञः सानुबन्धकग्रहणस्य प्रयोजनमुक्तं तदनुपपन्नं स्यात् । लोमादिपामादिपिच्छादिभ्यः शनेलच इति विहितस्य नप्रत्ययस्य पूर्वपदत्वाभावेन प्रत्ययनकारस्य लोपाप्रसक्तेरितीति । तदप्यापातरमणीयम् । तथाहि । नञः पूर्वपदत्वेन विशेषणपक्षे किं भाष्योक्तसानुबन्धकग्रहणप्रयोजनानुपपत्तिरित्येवाभिमतं किं वा सानुबन्धकग्रहणस्य प्रयोजनान्तरस्याप्युक्तविशेषणपक्षेऽनुपपत्तिरिति । नाद्यः । भाष्यकृता नञः पूर्वपदत्वेन विवक्षा-नाश्रयणपक्ष एव सानुबन्धकग्रहणप्रयोजनतया पामनपुत्र इत्यादिव्यावृत्तेरभिहिततयोक्तविवक्षाश्रयणपक्षे तदुक्तप्रयोजनस्याप्रसक्तया तद्विरोधाभावात् । न द्वितीयः । नञः पूर्वपदत्वेन विवक्षाश्रयणपक्षे पामनपुत्र इत्यादि मत्वर्थनप्रत्ययस्येव स्त्रैणार्थ इत्यत्रत्यनञोऽपि व्यावृत्तिसिद्धावपि नैकधेत्यत्रत्यनिषेधार्थक-नकारस्य पूर्वपदी भवतः सत्त्वेन तत्रापि नलोपप्रसङ्गात्तत्परिहाराय सानुबन्धकनञ्ग्रहणसार्थक्योपपत्तेः । अत एव मञ्जर्यादौ भाष्योक्तप्रयोजनपक्षे स्त्रैणार्थ इत्यादेः सानुबन्धकतया व्यावृत्त्ययोगेन तद्व्यावृत्त्यर्थं चरितार्थादिपरिभाषामाश्रित्यापि प्रकारान्तरेणापि स्त्रैणार्थ इत्यादेर्व्यावृत्तिसिद्धिरिति दर्शयितुम् अलुगुत्तरपद इत्यतोऽनुवृत्तोत्तरपद इत्येतद्बलात्पूर्वपदी भवतो नञ इत्यर्थलाभोऽङ्गीकृतः । तेन भाष्यकारस्यापि स्त्रैणार्थ इत्यादिव्यावृत्त्यर्थतया चरितार्थादिपरिभाषाद्याश्रयणमावश्यकमिति सूचनात् । तथा चायं विवेकः । भाष्ये कण्ठोक्तनप्रत्ययव्यावृत्तिरूपप्रयोजनपक्षे स्त्रैणार्थ इत्यत्र नलोपप्राप्तेरपरिहारात् तत्परिहाराय भाष्याभिप्रेतचरितार्थादिपरिभाषाश्रयणेनैकः समाधिरभिहितः । यदि च स्त्रैणार्थ इत्यादिपरिहाराय नञः पूर्वपदत्वेन विवक्षाश्रयणमुत्तरशब्दस्येत्याद्युक्तन्यासाद्युक्तिप्राप्तमाश्रीयते तदा भाष्योक्तसानुबन्धकग्रहणप्रयोजनं तद्विवक्षानुसारेण नैकधेत्यादिव्यावृत्तिरूपप्रयोजनान्तरोपलक्षणतया व्याख्येयमित्याशयेन पूर्वपदत्वाश्रयणेन परिहार उक्त इति न भाष्यविरोध इति । तदेतत्सर्वं मनसि कृत्वा मञ्जर्यामुक्तत्वादित्युक्तम् । अत्र नञः पूर्वपदत्वेन विवक्षणात्स्त्रैणार्थ इत्यत्र नलोपाभाव इति सिद्धं कृत्वा निषेधार्थकनकारस्य समासावयवत्वान्नलोपाभावो नैकधेत्यादौ ज्ञेय इति प्रक्रियाकौमुद्यामुक्तम् । तच्छेष्यां तु निरनुबन्धकोऽपिशब्दो निषेधवाच्यस्ति । तेन यदा समासस्तदा नलोपो न भवति । तद्विधौ नञ इति सानुबन्धकस्योपादानात् । नञा तु समासेऽनेकधेत्यपि भवतीत्यर्थ इत्युक्तम् । तत्र च निषेधार्थकत्वोक्तया प्रत्ययव्यावृत्तिसूचनं समासावयवत्वोक्तया पूर्वपदत्वमेव नञ इति सूचनम् । अनुबन्धव्यावर्त्यं तु नैकधेत्येतदिति प्रतिपादनमित्यादेः प्रतीतेर्निषेधार्थत्वं नञ इति स्वीकारेणापि प्रत्ययव्यावृत्तिसिद्धत्वात् ञित्वचारितार्थ्यादियुक्तिवन्नञ्पूर्वपदत्वयुक्तिवच्च नकारस्य निषेधार्थकत्वमपि स्त्रैणार्थ इत्यादिव्यावृत्तौ युक्तित्वेनोपलक्षणया टीकायां ज्ञेयमिति प्रतिभाति । तथा नशब्दस्य सुपा विशेषण(प्ता)?मादिलक्षणस्य नस्यासुबन्तत्वादेवाग्रहणं सिद्धमिति नञ्सूत्रे शेष्यामुक्तेः समासावयवस्य नशब्दस्यैव नलोपसूत्रेऽपि ग्रहणमिति प्रकारान्तरमपि भाति ।

तत्त्वबोधिन्यां त्विह नलोपो नञ इत्यत्र विशेषणार्थो ञकारस्तत्फलं च नैकधेत्यत्रालोप इत्युक्तवा अव्यये नञ् कुनिपातानामित्यव्ययपूर्वपदप्रकृतिस्वरार्थं ञकारोच्चारणमित्यन्य इत्युक्तम् । तेन तत्पुरुषे तुल्यार्थेति सूत्रेण नञो निपातत्वप्रयुक्ताद्युदात्तस्वरस्य प्रकृतिभावविधानेन तत्स्वरे तुल्यार्थादीनां पूर्वपदत्वविवक्षायाः सिद्धत्वादव्ययनञः पूर्वपदभूतस्यैव प्रकृतिस्वरविधानाभ्युपगमसिध्या तदनुसारेण पूर्वपदभूत इति प्राप्तेः । एवं पक्षभेदेन भाष्यप्रवृत्तिमभ्युपेत्य तद्विरोधपरिहारानङ्गीकारे वयं तु ब्रूम इत्यादि भवद्वक्ष्यमाणग्रन्थस्थप्रथमेऽस्वरसेर्णीवतारे? निषेधार्थकत्वेन नञ्स्वीकारायोगः पामन इत्यादेरपि तत एव व्यावृत्तिसिध्या भाष्योक्तप्रयोजनविरोधात् । नभ्राडादिष्वपि नसमासोपपत्त्या तत्सूत्रवैयर्थ्यमिति साम्येन व्याघाताच्च । नञ्समास एवास्त्विति प्रतिज्ञाय निषेधार्थकत्वेन लोपमाशङ्क्य पृषोदरादित्वेन नलोपाभावोपपत्तेरिति समाधाय चोक्तं च कैयटे भुवो भाव इति सूत्रे नान्तरीयकत्वादिति भाष्यवाक्यव्याख्यानावसरे । अन्तरशब्दो गर्हादिषु पठ्यते । स च विनार्थे वर्तते । अन्तरे भवमन्तर्यं न अन्तर्यं नान्तर्यम् । न च नञ्समासे नलोपः स्यादिति वाच्यम् । पृषोदरादित्वान्नलोपाभाव इतीति द्वितीयावतारे च निषेधार्थकस्य पृषोदरादित्वेन नलोपाभावाश्रयणं चानुपपन्नम् । निषेधार्थकत्वस्वीकारे उक्तप्रयोजनविरोधाविशेषात् । निषेधार्थत्वाङ्गीकारनिमित्तकौमुदीग्रन्थस्य वक्ष्यमाणस्यार्थे सम्बद्धे तत एव नञः पूर्वपदत्वस्यापि समासावयवत्वोक्तया प्राप्तत्वेन तत्पक्षदूषणस्य प्राक्कृतस्य व्याघातापातश्च । नसमासपक्षेऽपि नभ्राडादिसूत्रवैयर्थ्यशङ्कायाः समानत्वादिति टीकान्तरदूषणस्यापि स्वव्याघातकत्वा-पातश्च । पृषोदरादित्वेन नलोपाभावपक्षेऽपि तद्वैयर्थ्यसाम्यात् । सानुबन्धकग्रहणप्रयोजनकथन-परभाष्यविरोधस्यैतत्पक्षेऽपि साम्याच्च । पृषोदरादित्वेनैव पामनादिव्यावृत्तिसिद्धेः । निषेधार्थकत्वं स्वीकृत्य नलोपशङ्काया अयोगश्च । तदर्थत्वस्य कैयटोक्तरीत्या समाधानपक्षे वैयर्थ्येनानाश्रयणीयत्वात् । वैयाकरणटीकाकाराणां भाष्यप्रभृतीनां श्रमो व्यर्थ इति स्वीकारप्राप्तेश्च । शरणीकृतभाष्यविरोधेन टीकान्तरदूषणस्याप्यकर्तव्यत्वप्राप्तेश्चेत्येवं बहुविप्लवापातः । एवं कैयटोपजीवनेन समाधाने प्रकारान्त-रेणापि समाधानोपपत्तिरिति वक्तुं शक्यत्वाच्च । तथाहि । नलोपो नञ इति सूत्रमेव मास्तु । अनश्व इत्यादौ गणपठितप्रथमाकारेणैव समाससम्भवात् । न च तस्मान्नुडचीत्यत्र लुप्तनकारप्रत्यभिज्ञासिध्यर्थं नलोप आवश्यक इति वाच्यम् । तत्रापि आन्नुडचीत्येवसूत्रणसम्भवेन यथाश्रुतपाठस्य वैयर्थ्यमिति वक्तुं शक्यत्वात् ।

अत एव नञस्तत्पुरुषादिति समासान्तनिषेधकसूत्रेऽप्यात्तत्पुरुषादित्येव सूत्रणसम्भवेन तत एवं वाराजेत्यादौ समासान्ताभावोपपत्तिः । नभ्राडित्यादिसूत्रेणापि नभ्राडादिशब्देषु भ्राडादिशब्दानामकारेण समासः । तस्य चाकारस्य नुडागमो निपात्यत इत्यादिकमेव सिद्धान्तरत्नाकरोक्तरीत्या वक्तुं सुवचम् । तथाच नारायणशब्देऽपि नाकशब्दवदकारस्य पूर्वपदता । तस्य च नुडागमो निपातबलात्प्राप्तः । मूलकृतोपसङ्ख्यानाङ्गीकारात् । तदुपसङ्ख्यानोक्तेरपि अकारेण समासे नुडागमसिध्यर्थकत्वमेवेत्यपि वक्तुं शक्यत्वात् । उपसङ्ख्यानाश्रयणभयादेव यद्वेति पक्षान्तरं मूले प्रवर्तितमिति वक्तुं शक्यत्वाच्च । अन्ततो मूलेऽपि नञो नलोपादिशङ्का नोदेत्येव । नलोपसूत्रस्यैवानारम्भणीयत्वात् । कथञ्चिदुदये वोक्तरीत्या तत्सूत्रप्रत्याख्यानप्रकारेणैव समाधेः प्राप्तेर्नारायणशब्दे नलोपप्रसङ्गाभावेनानुपपत्तेर-भावादित्येव वाच्यत्वादित्यादि । तथाच प्रौढिवादेन समाधानाश्रयणे भवदाश्रितनान्तरीयकत्वपदसाधुत्व व्युत्पादनस्याप्यनवकाशेन तन्न्यायेन नारायणशब्दे नलोपाभावाङ्गीकारस्याप्ययोगप्रसङ्गाच्चेति । तस्मादुक्तरीत्या प्रकारान्तरस्य प्रौढवादेन प्रवर्तयितुं शक्यत्वेऽपि प्रचरद्ग्रन्थकारप्रवृत्त्यनुसारेण शङ्का-समाधाने तद्ग्रन्थानुसारेण बहुस्थलेषु प्रवर्तमानैः प्रवर्तनीये इत्यङ्गीकारस्यावश्यकतयेहापि नभ्राडित्यादि-सूत्रारम्भादिदर्शनं मूलीकृत्य नलोपस्य शङ्काया उपसङ्ख्यानेन नसमासाश्रयणेन वा परिहारस्योचित-त्वाद्भवदीयप्रौढिवादेन परिहारायोग इत्यलम् । स्त्रैणार्थ इत्यस्यान्यथासिद्धतयेति । उपलक्षणं चैतत् । सानुबन्धकग्रहणप्रयोजनस्य पामन इत्यादिव्यावृत्तिरूपस्य वा नैकधेत्यादिव्यावृत्तिरूपस्य वा विभाषयैव सिध्या सानुबन्धकग्रहणवैयर्थ्यापत्त्या चेत्यपि ज्ञेयम् । अधिकं चन्द्रिकाटीकायां गुरुपादोक्तं ज्ञेयमिति प्रागुक्तम् । तथा समाधानस्येति । विभाषाश्रयणेन नलोपाभाव इति समाधानस्येत्यर्थः । कथं तर्हि चन्द्रिकाकारैरेतत्समाधानाङ्गीकारः कृत इत्यत आह चन्द्रिकायामिति । तद्गुणदोषेति । विभाषाश्रयणेन नलोपसमाधाने साधुत्वासाधुत्वचिन्तयेत्यर्थः । वृत्तिव्याख्यानत्वोक्तेर्न्यासकारोक्तयाश्रयणे वैयाकरण-संमतोऽयं पक्ष इति ज्ञानसम्भवमात्रे तात्पर्यमिति भावः ।

निर्वचनान्तरेणापीति । पूर्वपदभूतस्य नञ्त्वं परित्यज्यामानोना इति गणपठितनिषेधार्थक-नकारत्वं स्वीकृत्य निर्वचनस्वीकारेणापीत्यर्थः । उपपत्तेः । तत्पक्षे नलोपप्रसक्तयभावादिति भावः । कल्पना न युक्ता । नैकधेत्यादौ नसमासदर्शनात्सपक्षो न कल्प्यः । किन्तु क्लृप्त उपसङ्ख्यानस्य त्वक्लृप्तत्वात्तदाश्रयणे कल्पना आयातीति भावः । नसमासपक्षे शङ्काशूकनिरासस्तु चन्द्रिका-टीकान्तरोक्तविचारावसरे प्रागेव सिद्धः । नन्विदं नसमासाश्रयणमनुपपन्नम् । प्राक्नञश्च विरुद्धार्थत्व-मित्यनेन विरोधार्थकताया उक्तत्वात् । तद्बलेनैव गुणानां नारशब्देन लाभस्वीकाराच्च । प्रतिषेधार्थत्वे तु दोषाभावप्राप्तेर्दोषविरुद्धगुणलाभायोगादिति चेन्न । तत्रत्यप्रतिषेधशब्दस्य नञर्थमात्रपरतया तदर्थकन-कारस्याधर्म इत्यादाविव विरोधार्थकत्वस्यापि सम्भवादित्याशयादित्यादि लेख्यमस्ति । पूर्वपदादि-तीति । प्रतीकोपादानपाठः । चन्द्रिकालक्ष्मीनाथीये तु यच्छब्दा योगवृत्तय इति भाष्यकारीयवचनात् सकलशब्दान्तर्गतनारायणशब्दस्य यौगिकत्वेनासञ्ज्ञात्वात् णत्वानुपपत्तिरित्याशङ्कानिरासपरतया पूर्वपदादिति चन्द्रिकावाक्यमवतारितम् । तत्कथम् । रूढत्वाभावात् णत्वानुपपत्तिशङ्कायां सञ्ज्ञात्व-मप्यस्ति । नारायणशब्दस्य रूढत्वादिति स्वमुखेनैव प्रतिपादयितुं समर्थो व्यासतीर्थश्रीचरणो व्याकरणसूत्रप्रवृत्तिवर्णनमुखेन रूढत्वं ज्ञापितवानित्यस्यालौकिकत्वात् । यच्छब्दायोगेति साधकस्य गतिकथनाभावे यौगिकत्वेन रूढत्वाभाव इति शङ्कायां रूढत्वमस्तीति प्रतिपादनमात्रं परिहारत्वेनोक्त-मित्यस्यासङ्गतत्वाच्चेत्यलम् । रषाभ्यां नोणः समानपद इत्यत्र पद इत्येतावतैव सामर्थ्यादेकपदत्वे लब्धेऽपि समानग्रहणं यत्समानमेव न कदाचिद्भिन्नं तत्रैव यथा स्यादित्येवमर्थं तेनाखण्डपद एव भवति न समासपद इति वैयाकरणव्याख्यानानुसारेणैकपदत्वस्य णत्वप्रयोजकस्य रामनामदुर्नामेत्यादाविव नारायणशब्देऽभावादुक्तसूत्रेण णत्वाप्राप्तिरिति शङ्कावारणाय पूर्वपदात्सञ्ज्ञायामिति मूलं प्रवृत्तमिति सिद्धं कृत्वा तद्वाक्यप्रतीकोपादानमात्रं कृतमिति न दोषः सूत्रं व्याचष्टे पूर्वपदस्थादितीत्यादिना । तथा च शूर्पणखेत्यादाविवाखण्डपदत्वाभावेऽपि णत्वं युक्तमिति भावः । णत्वानुपपत्तिशङ्काविस्तरश्चन्द्रिका-टीकायां ज्ञेयः । किञ्चिदुपपादनमस्मदीये तत्प्रपञ्चे । विस्तरेण तु तदुपपादनं तत्त्वप्रकाशिका-व्याख्यानेऽस्मदीये द्रष्टव्यम् । यदनान्तमकर्तरीतीति । अकर्तरीत्यन्तेन लिङ्गानुशासनानुवादः । कर्त्रित्यादि तु व्याख्यानं मिलित्वेति लिङ्गानुशासनेति प्रयुक्तमिति विवेकः ।

कर्तृव्यतिरिक्तकारक इति । अत्र कारकग्रहणं प्रायिकाभिप्रायेण । तेन पचनमित्यादिक्रियाशब्देऽपि नपुंसकत्वोपपत्तिः । ल्युटो लकारटकारलोपोत्तरमुर्वरित यु इत्यस्यानादेशं सिद्धवत्कृत्यानान्तमित्युक्तम् । तृतीये इत्यनुवृत्तस्य नपुंसक इति व्याख्यानम् । लिङ्गानुशासनेऽमर इति पाठः । सूत्रपदसद्भावे तु सूचकत्वात्सूत्रमिति लिङ्गानुशासनसूत्र इत्यपि युक्तम् । नियमितत्वादिति । विशेषलिङ्गविधिः शेषलिङ्गनिषेधार्थ इति तदीयपरिभाषानुसारेण नियमलाभ इति ज्ञेयम् । साध्यत इत्यादिना तदुदाहरण-प्रदर्शनम् । अधिकरणसाधनत्वेऽपीत्यनेन भावकरणसाधनत्वपक्षयोरिवेति दृष्टान्तः सूचितः । नपुंसक इत्यंशस्यापीति । अत एव वृत्तौ इध्मप्रव्रश्चन इत्यादिपुल्लिङ्गमेवोदाहृतमिति भावः । तथात्व इति । नपुंसक इत्यस्याननुवृत्तिस्वीकार इत्यर्थः । प्रसङ्गात् प्रसङ्गेनेति योज्यम् । आवश्यकत्वादित्यनेनास्य सम्बन्धः । हेत्वन्तरमाह यदनान्तमिति । आवश्यकत्वेनेति योज्यम् । सन्नियोगपरिभाषा तर्हि विरुध्येतेत्यत आह परिभाषायाश्चेति । वृत्तावपि इध्मप्रवृश्चन इति नोदाहर्तव्यमिति भावः । राजधानं राजधानीति पाठः । धान्यमिति लेखकप्रयुक्तम् । द्व्यनुबन्धकत्वादिति । एकानुबन्धकग्रहणेन द्व्यनुबन्धकस्येति परिभाषयेति शेषः । तत एव द्व्यनुबन्धकत्वादेव । अचरितार्थत्वादिति । ततश्च चरितार्थाचरितार्थपरिभाषया टितो ल्युट एव ग्रहणप्राप्तावपि तदग्रहणे ल्युटष्टित्करणस्य वैयर्थ्यापत्त्या टित्करणान्यथानुपपत्त्या ङीबर्थमेव ल्युटष्टित्करणमिति योजना । उक्तत्वेन आकरे । ननु कृत्यल्युटो बहुलमिति बहुलग्रहणात्तस्य च नपुंसक इत्येतदभावे ल्युट् भवतीत्यर्थकत्वान्नारायणशब्देऽपि तत एव पुंस्यपि ल्युडुपपत्तेः किमर्थं टित्करणसामर्थ्यपर्यन्तधावनमित्यत आह इदं चेति । यद्यपि बाहुलकेनापि पुल्लिङ्गतानिर्वाहः सम्भवति तथापीदं समाधानं तदनाश्रित्यैव कृतम् । तदाश्रयणे कुसृष्टिसत्त्वादिति भावः। कथं कुसृष्टिरित्यत आह अत एवेति । बह्वर्थादानप्रवृत्तिनिमित्तकबहुलपदेन नपुंसके स्त्रीपुंसयोरपि ल्युट् भवतीत्यर्थलाभः स्वीकार्यः । तद्बलादेव टिड्ढाणञित्यनेन ङीबिति स्वीकार्यम् । तत्र टिद्ग्रहणे द्व्यनुबन्धकल्युटो ग्रहणानुपपत्तिशङ्काप्राप्तेः । अतो ङीबादिव्युत्पादनक्लेश इत्यर्थः । बाहुल-कमनाश्रित्येत्युपलक्षणम् । नपुंसक इत्यस्यानुवृत्तिमाश्रित्येत्यपि ज्ञेयम् । अयं तदाशयः । तदननु-वृत्तिपक्षेऽधिकरणे ल्युडन्तत्वेऽपि नपुंसकत्वाभावसम्भवात् । साधनादिशब्दानां तु प्रयोगसद्भावे नियतलिङ्गत्वाभावो नानिष्टः । वैयाकरणानां प्रयोगशरणत्वात् । एतेन वृत्तौ पुंल्लिङ्गोदाहरणं च युक्तम् । यदनान्तमकर्तरीत्यस्य विशेषविषयत्वेऽपि तदपेक्षया क्तल्युट् नपुंसके भावे इत्यमरोक्तेर्विशेषतया भावे ल्युडन्तस्यैव नपुंसकत्वनियमसिद्धेश्च । न च विरोधः । भावकरणाधिकरणेषु अनान्तस्य नपुंसकत्व-मित्येवंरूपसामान्यस्य यदनान्तमित्येतद्विषयतया तन्नियमविषयत्वाभावेन तेन भावे नियमविषयकल्युट् नपुंसके भाव इत्यस्य विरोधाभावात् । अत एव भूवादयो धातव इति सूत्रीयमहाभाष्यकारीयः कोऽसावनुमानो नामेति प्रयोगः । तत्कैयटेऽपि भावे ल्युडेव नपुंसकः । अत्राभिधेयवशादनियतलिङ्ग इत्युक्तम् । अत एव गीताभाष्यटीकायां बहवः कर्म कारणाः सन्ति क्रोधादय इत्येतद्व्याख्यावसरे अयमनुमान इति भाष्ये प्रयोगात् कारणशब्दस्त्रिलिङ्ग इत्युक्तम् । अत एव प्रक्रियायां ल्युड्वेति सूत्रे तदन्तश्च नपुंसक इति यदुक्तं तद्विवृतं शेषीकृता । भावे यो ल्युट् तदन्त इत्यर्थः । तथा चामरः । क्तल्युट् नपुंसके भाव इति । एवं च करणार्थस्य ल्युटो विशेष्यलिङ्गत्वमित्युक्तं भवति । तथा चैवोदाहरिष्यति । अत एव भाष्येऽपि प्रयोगः कोऽसावनुमानो नामेतीति । कोऽसाविति प्रश्नवाक्यं शेष्यामुदाहृतम् । अयमित्युत्तरवाक्यं तु गीताभाष्यटीकायामिति विवेकः ।