स्वयं भगवता विष्णुर्ब्रह्मेत्येतत्पुरोदितम्
ब्रह्मशब्दार्थसमर्थनम्
अनुव्याख्यानम्
स्वयं भगवता विष्णुर्ब्रह्मेत्येतत्पुरोदितम् ।
स विष्णुराह हीत्यन्ते देवशास्त्रस्य तेन हि ॥
आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम् ।
मध्यं तदाज्ञया शेषपैलाभ्यां कृतमज्जसा ॥
अतस्तत्रैव विष्णुत्वसिद्धेर्ब्रह्मेत्यसूचयत् ॥
सुधा
एवमतःशब्दव्याख्यानमुपपाद्य स्वयं भगवतेत्यादिना क्रमप्राप्तं ब्रह्मशब्दार्थं समर्थयते ।
जिज्ञास्योऽयं विधीयत इति ब्रह्मशब्दो विष्णुविषयो व्याख्यातः । तदनुपपन्नम् । ब्रह्मशब्दस्य जातिजीवकमलासनशब्दराशिषु वृद्धप्रयोगादिसिद्धत्वात् । ननु भगवत्यपि ब्रह्मशब्दो वृद्धप्रयोगादि-सिद्धः । तथाऽप्यनेकार्थेषु शक्तियुक्तस्य विवक्षाज्ञापकप्रमाणाभावेन भगवत्परत्वावधारणा-योगादित्याशङ्क्य यथाऽनेकार्थोऽपि गोशब्दः प्रकरणवशादर्थविशेषपरोऽवधार्यते तथाऽनेकार्थोऽपि ब्रह्मशब्दः सूत्रकृता विष्णुविषय एव प्रयुक्त इति प्रकरणवशाज्ज्ञायत इति परिहारं विवक्षुर्बह्मशब्दस्य विष्णौ प्रकृतत्वं तावदाह ॥ स्वयमिति ॥
नन्वथातो ब्रह्मजिज्ञासेत्येतदेवादिसूत्रम् । अस्मादपि पूर्वसूत्रस्य विद्यमानत्वे तदादि(त्वेन)-व्याख्यानप्रसङ्गात् । अन्यथा प्रथमातिक्रमे कारणाभावादकुशलाः सर्व एव व्याख्यातारः प्रसज्जेरन् । तत्कथमस्मात्सूत्रात्पुरा विष्णुर्ब्रह्मेत्येतत्स्वयं भगवता सूत्रकृतोदितमित्युच्यत इति; तत्राह ॥ स विष्णुरिति ॥ तेनेति भगवतेत्यनेन सम्बध्यते । येनेदं शास्त्रं कृतं तेनैवेत्यर्थः । सत्यमेतदेव ब्रह्ममीमांसाशास्त्रस्यादिसूत्रम् । किन्तु दैवीमीमांसाशास्त्रस्यान्ते ‘स विष्णुराह हि । तं ब्रह्मत्या-चक्षते’ इति सूत्रद्वयेन विष्णुर् ब्रह्मेत्युदितम् । तदनन्तरमेव चाथातो ब्रह्मजिज्ञासेति सूत्रितत्वात् पुरोदितमिति युज्यत इति । ये तु देवमीमांसाशास्त्रस्वरूपे तदनन्तरमेतत्सूत्रप्रणयने विप्रतिपद्यन्ते तेषां पुराणादिप्रसिद्धिविरोधं हिशब्देन दर्शयति ।
ननु देवतामीमांसाशास्त्रं शेषपैलाभ्यां कृतमिति पुराणादौ प्रसिद्धं तत्कथमुच्यते भगवतोदित-मिति तत्राह ॥ आद्यन्तमिति ॥ अथातो दैवीत्यादिरुदाहृतोन्तश्चाद्यन्तम् । यतस्तदाज्ञया कृत-मतोऽञ्जसैव कृतमित्यनेनानेककर्तृकत्वान्न कन्थायितत्वमस्य शङ्कनीयमित्याह । अयं च विशेषो विशेषवाक्यादिभिरवगन्तव्य इति ।
अस्त्वेवं ब्रह्मशब्दस्य विष्णुविषयतया प्रकृतत्वं ततः किमित्यत आह ॥ अत इति ॥ यतो देवतामीमांसाऽन्तिमसूत्रद्वयं भगवता कृतम् । अतस्तत्रैव सूत्रद्वये ब्रह्मशब्दार्थस्य विष्णुत्व-सिद्धेर्विष्णुतायाः प्रकृतत्वाद् अथातो ब्रह्मजिज्ञासेत्यत्रापि ब्रह्मेति विष्णुमेवासूचयत्सूत्रकार इति ज्ञायते । अतो जिज्ञास्योऽयं विधीयत इत्युचितमेव व्याख्यानमिति ।
वाक्यार्थचन्द्रिका
ननु ब्रह्मशब्दस्य विष्णुविषयताया अनुक्तत्वेन धर्मिण एव बुद्ध्यनारो-हात्तस्या एव वक्तव्यत्वे प्रथमत एव समर्थनमयुक्तम् । अनुपपत्त्यभावाच्च । ब्रह्मशब्दस्य विष्णुविषय-तायाः प्रकृतत्वोपपादनं चायुक्तम् । अतःशब्दस्येव ब्रह्मशब्दस्य प्रकृतपरामर्शकत्वाभावादित्यतोऽ-तस्तत्रैव विष्णुत्वसिद्धेर्विष्णुमेव ब्रह्मेत्यसूचयदित्यनेन सूचितमनुपपत्तिप्रकारं दर्शयन्नेवोक्तबाधकानि परिहरति । ब्रह्मशब्द इति ॥ भगवदुदितत्वं न सूत्रकारीयब्रह्मशब्देन परामर्शप्रयोजकमित्यतो भगवतेति व्याख्यातं सूत्रकृतेति । अत एव तेनेत्यपि तथैव व्याख्याति ॥ येनेति ॥ उदाहृतसूत्रमात्रस्य विवक्षितार्थासाधकत्वादर्थतोऽनूदितद्वितीयं सूत्रमुदाहरति । हिशब्दस्य हेतुपरत्वायोगाल्लोक- प्रसिद्धेश्चा-भावादाह ॥ ये त्विति ॥ आद्यन्तं भगवता कृतं मध्यं शेषपैलाभ्यां कृतमित्येतावतैवोक्त- शङ्का-परिहारात्तदाज्ञयाऽञ्जसैवेत्यस्य वैयर्थ्यं परिहर्तुं तत्प्रयोजनमाह ॥ यत इति ॥ विशेषवाक्यादिभि-रित्यत्रादिपदेन तदानीन्तनप्रत्यक्षैतिह्ययोः सङ्ग्रहः । ब्रह्मशब्दस्य विष्णुवाचकतायाः परेणाप्यङ्गीकृत-त्वात्प्रकृतोपयुक्तमर्थमाह ॥ विष्णुताया इति ॥ उक्तशङ्कापरिहारत्वज्ञापनाय विष्णुमित्यध्याहृत्यैव-कारस्य तेनाप्यन्वयं प्रदर्शयति ॥ विष्णुमेवेति ॥
परिमल
एवमिति ॥ एतत्सर्वं तर्कशास्त्र इत्याद्युक्तप्रकारेणेत्यर्थः ॥ प्रकृतत्वमिति ॥ प्रकरणप्राप्तत्वं तावदाहेत्यर्थः ॥ उदाहृतोऽन्तश्चेति ॥ स विष्णुराह हीत्यन्तश्चेत्यर्थः । अयं च विशेष इति । उक्तदिशाऽनेककर्तृकत्वविशेष इत्यर्थः । न पुनरेकस्मिन्नेव वाक्य इति प्रयोज्यत्वमित्यननुषङ्कः ॥
वाक्यार्थरत्नमाला
भगवतेतीति । भगवतेत्येतदित्यर्थः । वैयर्थ्यं परिहर्तुमिति । यद्वैयर्थ्यं प्राप्तं तत्परिहर्तुमिति योजना ।