०५ भाट्टमतनिरासः

गौरवं कल्पनेऽन्यथा

भाट्टमतनिरासः

गौरवं कल्पनेऽन्यथा

सुधा

अभिहितान्वयवादिनो वदन्ति । पदाभिहिताः पदार्था एवाकाङ्क्षादिवशा-दन्योन्यान्वयं बोधवन्तीति ॥ तैरपि हि पदार्थानामन्वयबोधकत्वं क्वाप्यनुपलब्धं तावत्कल्पनीयम् । ननु ‘पश्यतः श्वेतमारूपं हे (ह्रे) षाशब्दं च श्रुण्वतः । खुरनिष्पेषशब्दं च श्वेतोऽश्वो धावतीति धीः ॥’ इत्युक्तन्यायेनास्त्येव पदार्थानामन्वयबोधकत्वमिति चेन्न । अनूमानादर्थापत्तेर्वा तत्रान्वय-प्रतीतेः । तथा हि । एतेषां पदार्थानामेकाधिकरणतयाऽवगतानां वा प्रत्यायकत्वं विशकलिततया वा । आद्येऽनुमानत्वम् । द्वितीये तत्रार्थान्तराभावो निश्चितो न वा । आद्येऽर्थापत्तिर्भनवाम् अस्माकमनुमानमेव । द्वितीये त्वनध्यवसाय एव । प्रमाणान्तरावगतानां पदार्थानामन्वय-बोधकत्वादर्शनेऽपि पदरैभिहितानां तत्किं न स्यादिति चेत् । तर्हि न केवलं पदार्थानामन्वय-बोधकत्वशक्तिकल्पनं किन्तु पदानां पदार्थाभिधानशक्तिस्तेष्वन्वयबोधकत्वधानशक्तिश्च कल्पनीया । पदानां पदार्थेषु साहचर्यमात्रेण स्मारकत्वाङ्गीकारेऽपि शक्तिद्वयं कल्पनीयमेव ॥ तदिदमुक्तम् । गौरवं कल्पनेऽन्यथेति ॥

वाक्यार्थचन्द्रिका

प्रमाणान्तरावगतेषु पदार्थेषु क्लृप्तमन्वयबोधकत्वं पदाभिहितेष्वप्यास्थीयते वा पदाभिहितेष्वेव वा तत्कल्प्यते । नाद्य इत्याह ॥ तैरपीति ॥ ननु मानान्तरावसेयानां पदार्था-नामन्वयबोधकत्वं क्लृप्तमेव । अनवधारिताश्रयविशेषस्य प्रत्यक्षदृष्टश्वेतस्याप्रतिपन्नगुणविशेषस्य ह्रेषा-शब्दानुमितस्याश्वत्वस्य खुरनिष्पेषशब्दानुमितधावनस्येत्येतेषां प्रत्यक्षानुमानरूपप्रमाणान्तरसिद्धानां गुणक्रियाजातिरूपाणामर्थान्तरसाकाङ्क्षाणां योग्यानां पदार्थानामन्वयबोधकत्वदर्शनादिति शङ्कते ॥ नन्विति ॥ आरूपं श्वेतं कञ्चित्पदार्थमव्यक्तमगवाश्वादिरूपम् । पदार्थानामित्यतः पूर्वं दर्शनसिद्ध-रूपस्य श्रवणश्रुतह्रेषाखुरनिष्पेषशब्दानुमिताश्वत्वजातिरूपक्रिययोश्चेति शेषः । किं येनैव पुरुषेण श्वैत्य-समानाश्रयौ ह्रेषाध्वनिखुरनिष्पेषशब्दाववगतौ तस्यैवेयं श्वेतो धावतीति संसर्गधीरुत यस्य तथाऽ-नध्यवसायस्तस्यापीति । यदि तावदप्रत्यायकलितह्रेषाध्वनिपादविहारनिर्घोषापादानस्यैतदुच्यते । तदपि तस्यार्थान्तराभावस्यानिश्चयो यदि तदा विशिष्टसंसर्गप्रतीत्यभ्युपगमे प्रतीतिविरोधः । स ह्येवं प्रतिपद्यते । भवितव्यमस्मिन्देशे नूनमश्वेन भाव्यं च केनचिद्धावतेति । न पुनः श्वेतोऽश्वो धावतीति । अथाश्वसम्बन्धिनमेव खुरपुटटङ्ककारवमभ्यासपाटववशादवैति । तदाऽसावश्वसम्बन्धिनीमेव वेगवतीं गतिमनुमिनोति न पुनः केवलामेवावगम्यान्वयं पदार्थसामर्थ्येनावबुध्यते । योऽप्यस्मिन्देशेऽश्वादन्यो नास्तीति निश्चित्य पारिशेष्याच्छाब्दापादानानध्यवसायेऽपि ह्रेषादिध्वनेः श्वैत्यसामानाधिकरण्य-मध्यवस्यति । तस्यापि गृहादर्शन इव बहिर्भावावगतौ प्रमाणद्वयविरोधरूपार्थापत्तिरेव । योऽयं श्वेतः स एवाश्व इत्यत्र तव मानम् । मम तु विशिष्टहेतुरूपमनुमानमेव तत्र मानम् । यस्तु श्वैत्यसमानाधिकरणौ ह्रेषाध्वनिखुरपुटटङ्कारवावध्यवस्यति तस्य श्वेतद्रव्यवर्तिनि वेगवद्गमनसमानाधिकरणाश्वत्वे श्वेतोऽयं भवितुमर्हति ह्रेषाध्वनिखुरनिष्पेषशब्दवत्वादित्यनुमानमेवावयोरिति प्रमाणान्तरासंबद्धावगतपदार्थानां न कदाचिदन्योन्यसंबन्धबोधमत्वमनुमानार्थापत्तिव्यतिरेकेण प्रतीतमित्याशयेनाह ॥ तथा हीति ॥ एतेषामिति ॥ प्रत्यक्षज्ञाप्याव्यक्तश्वेतरूपजातिक्रियाज्ञापकह्रेषाखुरनिष्पेषशब्दलक्षणानामित्यर्थः ॥ विशकलितयेति ॥ स्वरूपमात्रेणावसितानामित्यर्थः ॥ आद्य इति ॥ यत्र तत्त्रितयं तत्राश्वत्वमिति व्याप्तिमपेक्ष्य गमकत्वादित्यर्थः ॥ आद्य इति ॥ अर्थान्तराभावैतदन्यतरग्राहकप्रमाणद्वयविरोधेन तवार्थापत्तिः । अर्थान्यराभावविशिष्टैतदन्यतरस्याश्वत्वाविनाभावेन ममानुमानमित्यर्थः ॥ अनध्यवसाय एवेति ॥ विशिष्टपदार्थान्वयाबोध एवेत्यर्थः । द्वितीयं शङ्कते ॥ प्रमाणान्तरेति ॥

परिमल

भट्टमतमनूद्य निराह ॥ अभिहितेति ॥ पदानामभावेऽपि पदार्थानामेव ज्ञाताना-मन्वयबोधकत्वमुपलब्धमिति नानुपलब्धकल्पनादोष इति शङ्कते ॥ नन्विति ॥ श्वेतम् आरूपमिति विभागः । किञ्चिच्छवेतं रूपं पश्यत इत्यर्थः । अन्धकारावृतप्रदेश इति ध्येयम् ॥ हेषेति ॥ अश्वध्वने-र्हेषेति नाम । हेषाख्यशब्दमित्यर्थः ॥ खुरनिष्पेषशब्दं चेति ॥ शृण्वत इत्यन्वयः । खुरनिष्पेष-शब्दरूपोऽर्थो धावनान्वयस्य हेषाशब्दरूपोर्थोऽश्वान्वयस्य श्वेतरूपपदार्थो रूपान्वयस्य बोधक इति श्वेतोऽश्वो धावतीति धीर्जायत इति पदार्थानामेव स्वज्ञानरूपव्यापारद्वाराऽन्वयबोधकत्वमित्यर्थः । स्वमतेनाह ॥ अनुमानादिति ॥ परमतेनाह ॥ अर्थापत्तेर्वेति ॥ आद्ये अनुमानत्वमिति ॥ अयं श्वेतः धावदश्वः हेषाखुरनिष्पेषशब्दवत्त्वात् । संमतवदिति प्रयोगप्रसङ्गादिति भावः ॥ अर्थापत्तिर्भवतामिति ॥ अर्थान्तराभावे सति श्रूयमाणहेषाखुरनिष्पेषशब्दान्यथापपनुत्तिरूपार्थापत्त्या तत्रत्यश्वेतस्य धावदश्वत्व प्रतीतिर्भाट्टनामित्यर्थः ॥ तदिदमुक्तमिति ॥ अन्यथाकल्पने पदाभिहितपदार्थानामेवान्वयबोधकत्व-कल्पने शक्तिद्वयाङ्गीकारगौरवमिति मूलार्थ इति भावः । विवृतमेतदभिहितान्वयभङ्गे तर्कताण्डवे ।

यादुपत्यम्

भाट्टमतं दूषयितुमनुवदति ॥ अभिहितान्वयवादिन इति ॥ पदार्थानामन्वय-बोधकत्वं क्वाप्यनुपलब्धं कल्पनीयमित्येतदसहमानः शङ्कते ॥ ननु पश्यत इति ॥ श्वेतरूपम् आ ईषत्पश्यत इत्यर्थः । श्वेतरूपमेव पश्यति न व्यक्तिविशेषसंसृष्टतयेति दर्शयितुमिदमिति ज्ञातव्यम् । यद्यपि पूर्वमुपस्थितानां प्रतीयमानान्वयप्रतियोगिनामेव पदार्थानामन्वयबोधकत्वमत्र प्रदर्शनीयम् । न येषां केषाञ्चित् । अतिप्रसङ्गात् । हेषाखुरनिष्पेषशब्दौ च न श्वेतोऽश्वो धावतीति प्रकृतान्वयप्रतियोगिनौ तथाऽपि पदार्थानामन्वयबोधकत्वे प्रतीयमानान्वयप्रतियोगित्ववत्तादृशान्वयप्रतियोगितावच्छेदक-सामानाधिकरणत्वमपि तन्त्रमतो नातिप्रसङ्ग इत्यभिप्रेत्याश्वत्वसमानाधिकरणस्य हेषाशब्दस्य धावन-कर्तृत्वसमानानाधिकरणस्य खुरनिष्पेषशब्दस्य चान्वयबोधकत्वमात्रं प्रदर्शितमित्यवधेयम् ॥ उक्तन्याये-नेति ॥ उक्तनिदर्शनेनेत्यर्थः । तथा च यथा वाक्याभावेऽपि प्रमाणान्तरापस्थितानां श्वेतादि-पदार्थानामन्वयबोधे कारणत्वमुपलब्धं तथा पदोपस्थापितानामपि पदार्थानास्वयबोधकारणत्वमस्तु न पदार्थानामिति भावः ॥ अनुमानादिति ॥ तथा च तत्रार्थानामन्वयबोधकारणत्वमनुमानादितयैव न पदार्थतयाऽनुमानमात्रोच्छेदप्रसङ्गात् । ततश्च पदार्थानामन्वयबोधकरणत्वे नेदं निदर्शनमिति भावः ॥ एतेषामिति ॥ श्वेतरूपहेषाशब्दखुरनिष्पेषशब्दरूपार्थानामित्यर्थाः । विशकलिततयेत्यत्र समानाधि-करणतयाऽनवगममात्रं विवक्षितं न तु व्यधिकरणतयाऽवगमोऽपि । तथा सति वक्ष्यमाणार्थापत्ते-रनुमितेर्वाऽसंभावादित्यवधेयम् ॥ आद्येऽनुमात्वमिति ॥ उभयमतेऽपीति शेषः । समानाधिकरण्याव-गमेन हेतूकर्तुं शक्यत्वादिति भावः । अत एव सामानाधिकरण्यावगमाभावेऽर्थापत्तिर्भवतामिति वक्ष्यति । अनुमानं चेत्थम् । अयं श्वेतो धावदश्वो भवितुमर्हति । हेषाखुरनिष्पेषवत्त्वात्संप्रतिपन्नवदिति । अत्र धावति गर्दभे बद्धेऽश्वे च व्यभिचारवारणाय हेतौ क्रमेण विशेषणद्वयम् ॥ आद्येऽर्थापत्तिरिति ॥ प्रमाणद्वयविरोधादिति भावः ॥ अनुमानमेवेति ॥ यद्यप्यत्र हेषाखुरनिष्पेषयोः सामानाधिकरण्या-नवगमादुक्तहेतुरसिद्धस्तथाऽपि एते श्वेतादयः पदार्था धावदश्वधर्मिका निश्चिततद्भिन्नाश्रयाभावकत्वे सत्याश्रितत्वात् । यद्यद्भिन्नाश्रयाभावकत्वेन निश्चितमाश्रितं च तत्तदाश्रितं यथा घटत्वमित्यनुमानं विवक्षितमतो न दोषः ॥ अनध्यवसाय एवेति ॥ श्वेतोऽश्वो धावतीत्यध्यवसायो न भवत्येवेत्यर्थः ॥ शक्तिद्वयमिति ॥ पदानां पदार्थेष्वन्वयबोधकत्वाधानशक्तिः पदार्थानामन्वयबोधकत्वशक्तिश्चेति शक्तिद्वयमित्यर्थः ।

श्रीनिवासतीर्थीया

अर्थापत्तिर्भवतामिति ॥ श्वेतरूपहेषादयः पदार्था विशकलित-तयाऽवगम्यन्ते । तत्र च खराश्वतर्यादिपदार्थान्तराभावश्च निश्चितः । तदन्यथाऽनुपपत्त्या धावदश्व-धर्मिका एवैते पदार्था इत्यर्थापत्तिर्भवतां भाट्टानां मते; अस्मन्मते त्वनुमानमेवेति न पदार्थानां तत्रान्वय-बोधकत्वमित्यर्थः । अनुमानप्रकारस्त्वित्थम् । अयं श्वेतो धावमानाश्वो भवितुमर्हति हेषाखुरनिष्पेष-शब्दवत्त्वात् संप्रतिपन्नधावदश्ववदिति । अत्र खुरनिष्पेषशब्दवत्त्वमात्रं धावति गर्दभे व्यभिचारि । तत्र धावमानत्वे सत्यप्यश्वत्वरूपविशेष्याभावेन विशिष्टाभावरूपसाध्याभावात् । अतो हेषेत्युक्तम् । हेषा स्यात्तुरगध्यनिरित्यभिधानान्न व्यभिचारः । हेषावत्त्वमात्रं बद्धेऽश्वे व्यभिचारि । तत्राश्वत्वे विद्यमानेऽपि धावमानत्वरूपविशेषणाभावेन विशिष्टाभावरूपसाध्याभावत् । अत उक्तं खुरनिष्पेषशब्दवत्त्वादिति । यद्यपि बद्धेऽश्वेऽपि खुरनिष्पेषशब्दोऽस्ति तथाऽपि धावदश्वनिष्ठखुरनिष्पेषशब्दविशेष एव विवक्षित इत्यदोषः ॥ पदैरभिहितानामिति ॥ तथा च परम्परया शाब्दत्वमिति भावः ॥ अन्वयबोधकत्वा-धीनशक्तिरिति ॥ केवलपदार्थानामन्वयबोधकत्वाभावेऽपि पदैरभिहितानां तु पदार्थानां भविष्यतीत्युक्तया पदार्थेष्वन्वयबोधकत्वाधानशक्तिः पदानां प्राप्तेत्यर्थः ॥ स्मारकत्वाङ्गीकारेऽपिति ॥ तथा च पपदानां न स्वार्थे शक्तिरिति शक्तित्रयं न कल्प्यत इत्यर्थः ।

वाक्यार्थरत्नमाला

अनवधारितेति । न अवधारितो निश्चित आश्रयविशेषो यस्यैवंविधं प्रत्यक्षेण दृष्टं च यच्छ्वेवं रूपं तस्येत्यर्थः । वक्ष्यमाणरीत्या रूपग्रहणम् । अप्रतिपन्नो गुणविशेषः नीलश्वेतादेर्यस्याश्वस्येति सम्बन्धः । खुरनिष्पेषेति । अत्राप्यप्रतिपन्नाश्रयस्येति पूरणीयम् । गुण-क्रियेति । गुणजातिक्रियेति पाठः । दर्शनसिद्धेत्याद्युत्तरग्रन्थानुसारात् । क्रियाजातीति पाठेऽपि यथायोग्यं सम्बन्धः । अर्थान्तरेति । धर्मिरूपार्थान्तरेत्यर्थः । श्वेतं रूपमापश्यत ईषत्पश्यतः श्वेतं रूपमेव पश्यति न व्यक्तिविशेषसंसृष्टतयेत्याद्यन्यथाख्यात्याद्युक्तप्रकारेणार्थप्रतीतिनिरासाय श्वेतपदं धर्मिपरं स्वीकृत्योप-सर्गस्य यथाश्रुतसम्बन्धं चाश्रित्य व्याचष्टे आरूपं श्वेतमिति । आरूपमित्यस्य विशेषणत्वव्यक्तयर्थ-मारूपमित्यस्य पूर्वनिर्देशः । एवं सम्बन्धं प्रदर्श्यारूपमिति विशेषणपदार्थमाह कञ्चित्पदार्थमव्यक्त-गवाश्वादिरूपमिति । अत्राव्यक्तगवाश्वादिरूपमित्येव पाठः । मध्ये मकारो लेखकागतः । मूलपुस्तके शोधलेखनकाले मध्ये मकारलेखानन्तरं प्रकारान्तरलेखनेन मकारस्य त्यागात् । श्वेतमिति पूरणीयम् । अनुवर्तते वा । तथा चाङोऽनेकार्थत्वादा अव्यक्तं रूपं गवाश्वादिकम् आकारविशेषो यस्यैवंविधं श्वेतं श्वेतरूपयुक्तं कञ्चित्पदार्थं पश्यत इति योजनोक्ता भवति । कञ्चित्पदार्थमव्यक्तगवाश्वादिरूपमित्युक्ते धर्मिणं विना रूपमात्रप्रतिभासो नेति सूचनात् । दर्शनसिद्धरूपेत्युत्तरत्र तु किञ्चिद्धर्मिनिष्ठत्वेनाव-गतरूपलक्षणधर्मस्यैव पुरस्कारान्न कश्चिद्दोषः । प्रत्यक्षज्ञाप्याव्यक्तश्वेतरूपेत्युत्तरवाक्यस्य तु प्रत्यक्षेण ज्ञाप्यं यदव्यक्तगवाश्वाद्याकारस्य कस्यचित्पदार्थस्य श्वेतं रूपं तदिति योजनेत्यादि ज्ञेयम् । एतच्चारूपमीषद्रूपमिति निबन्धव्याख्यानात्तत्रोपात्तपाठानुसारेण । श्वेतिमारूपमिति तत्त्वप्रदीपिकादि-गतपाठपक्षे तु श्वेतिम्नोरूपं तत्स्वरूपमिति वा श्वेतिमाख्यं रूपमिति वा व्याख्येयम्। एतत्तर्कपादीय-शास्त्रदीपिकानिबन्धाद्यनुसारेण स्पष्टनीयमस्ति । रूपस्येव हेषादिशब्दयोरर्थान्तराकाङ्क्षाया अन्वय-बोधकत्वायोगादाह ह्रेषाखुरनिष्पेषशब्दानुमितेति । क्रिययोश्चेति शेष इत्यत्रेति शब्द आवर्तनीयः । तथाच क्रिययोश्चेतीति शेष इति लाभः । तथैव पाठस्तु स्वरस एव । तथा चेति पदार्थानामन्वय-बोधकत्वमस्त्येवेति योजना ।

श्वैत्यसमानाश्रयाविति । श्वैत्यपदं श्वेतरूपपरम् । समानाश्रयत्वं च निर्घोषापादनस्येत्युत्तर-वाक्यानुसाराज्जातिक्रियाज्ञापकेत्युत्तरानुसाराच्च हेषाध्वनिखुरनिष्पेषशब्दावगताश्वत्वजातिगतिक्रियापेक्षया परम्परयैव विवक्षितमिति न दोषः । तथाहि एतेषामित्युत्तरग्रन्थमपेक्षितपूरणेन व्याकुर्वन्नवतारयति किं येनैवेत्यादिना । एतेषां पदार्थानामिति पदार्थपुरस्कारस्यैव प्रतीतावपि केनचिदवगतानां तेषामन्यं प्रत्यन्वयबोधकत्वमिति प्रतीतिवारणाय पुरुषपुरस्कारेण विकल्पो वर्णितः । तत्र येनेत्येतावतैव पूर्णे एवकारस्याधिकस्य प्रयोगस्तदन्यनिषेधस्य दृढीकरणार्थः । येनैव ज्ञानं गृह्यते तेनैवेत्यत्र यथा । येनैव च प्रकारेणासिद्धमनुमीयते । तैनैव शशशृङ्गादेरिति वैशेषिकाधिकरणीयभाष्येऽपि । श्वैत्यसमानाश्रया-वित्यादिकमुपलक्षणम् । हेषाध्वनिसमानाश्रयौ श्वैत्यखुरनिष्पेषशब्दावित्यादिकमपि ज्ञेयम् । प्रत्यक्ष-ज्ञाप्याव्यक्तश्वेतस्येत्याद्युत्तरटीकानुसारेणात्रापि प्रत्यक्षेत्यादि पूरणीयम् । तथाऽनध्यवसाय इति । श्वैत्यसमानाश्रयतयोक्तयोरध्यवसायाभावः । येन पुरुषेण तौ तथा नावगताविति यावत् । विश-कलिततया वेति मूले विशकलिततयावगतानामित्येवार्थपक्षेऽनध्यवसायरूपदूषणायोगः । अश्वत्वादे-र्भिन्नाधिकरणतयाऽवगमेऽश्वान्यो धावतीत्यादिबोधस्यैवापादनीयतया निर्णयायोगपर्यन्तगमनानुपपत्तेः । अर्थापत्त्यादिमानत्वोक्तययोगप्रसङ्गाच्च । अतः स्वरूपमात्रेणावगतानामिति व्याकरिष्यति । तदनु-सारेणोत्तरमूलानुवादं विहायानध्यवसाय इत्येवोक्तम् । तस्येत्येव वक्तव्ये तस्यापीति वचनं तादृशस्य संसर्गधीप्राप्तौ समानाश्रयत्वज्ञानवतः संसर्गधीरवर्जनीयतया प्राप्नोतीति पूर्वकल्प इव नात्र कल्पेऽन्य-निषेधे तात्पर्यमिति द्योतनाय । तस्यापि संसर्गधीरित्यनुवृत्तेन सम्बन्धः । कल्पद्वयेऽपि इत्युच्यत इति पूरणीयम् । तथैवोत्तरत्रानुवादादेः ।

द्वितीयनिराकरणस्य बहुत्वात्तमेवादावनूद्य दूषयति यदि तावदिति । तावदित्यनेन यदि च श्वैत्यसमानाश्रयावित्याद्युच्यत इत्येवं यस्तु श्वैत्येत्युत्तरत्र योज्यमिति सूचयति । तदा अर्थान्तराभावो निश्चितो न वेति विकल्पं मनसि कृत्वा तदापीत्यादिरूपेण पक्षद्वयनिराकरणमिति ज्ञेयम् । अत्राप्य-निश्चयपक्षस्य प्रथमं निराकरणमनध्यवसायदण्डभयेन कथञ्चित्प्रमाणप्रवृत्त्युपपत्तिर्यत्पक्षे तत्पक्ष-मङ्गीकारयितुमिति न दोषः । प्रतीतिविरोध इत्यनेन तथा संसर्गाध्यवसायाङ्गीकारे प्रतीतिविरोध इति सूचितम् । अप्रत्याकलितेति । न प्रत्याकलितम् । नावगतं हेषाध्वनिपादविहारनिर्घोषयोरपादानं येनेति विग्रहः । प्रतीतिविरोधमेव दर्शयति स हीति । धावतीत्यस्येति शब्दस्य प्रतिपद्यत इति पूर्वेण सम्बन्धः । धावतीतीत्यनन्तरं प्रतिपद्यत इति वर्तते ।

अर्थान्तरस्याभावो यद्यपि न निश्चितः यद्यपि च हेषाध्वन्यपादानप्रत्याकलनाभावस्तथापि खुरपुट-टङ्कारवापादानज्ञानमात्रेण श्वेतोऽश्वो धावतीति धीः सम्भवतीत्याशङ्कते अथेति । अवैतीत्यत्रावेत्यस्य एतौ परतः प्राप्तमेङि पररूपं बाधित्वा एत्येधत्यूठ्स्वित्यनेन वृद्धिरिति द्रष्टव्यम् । अप्रत्याकलितेत्युक्त-पक्षेऽर्थान्तरस्याभावनिश्चयोऽस्तीति द्वितीयपक्षं दूषयितुमनुवदति योऽप्यस्मिन्निति । परिशेष एव पारिशेष्यं तस्मादित्यस्य हेषाध्वनेरित्यनेन सम्बन्धः । तस्यापीति । तस्यापि योऽयं श्वेतः स एवाश्व इत्यत्रेत्यर्थप्रतिपत्तावर्थान्तराभावैतदन्यतरग्राहकेति वक्ष्यमाणद्वयविरोधरूपार्थापत्तिरेव तद्रीत्या प्रमाणम् । तत्र दृष्टान्तो गृहेति । जीवतश्चैत्रस्य गृहेऽदर्शने सति तस्मिन् बहिर्भावोऽवगम्यते किल । तदवगतौ जीवनप्रमाणगृहासत्त्वप्रमाणरूपप्रमाणद्वयविरोधरूपार्थापत्तिर्यथा प्रमाणमिति योजना । इदं च प्रमाणद्वयविरोधोऽर्थापत्तिरिति लक्षणं परेणाङ्गीकृतत्वादुपन्यस्तम् । स्वपक्षे तल्लक्षणस्यार्थापत्ति-स्वरूपनिरूपणावसरे तत्र तत्र निराकृतत्वात् । विशिष्टेति । परिशेषाद्धेषादिध्वनेः श्वैत्यसामानाधि-करण्यानुभवसत्त्वे श्वैत्यादीनामेकाधिकरणनिष्ठतया ज्ञानवत इति श्वेतोऽयं धावदश्वो भवितुमर्हतीत्यादि-वक्ष्यमाणरीत्याऽनुमानमित्यर्थः । येनैव पुरुषेण श्वैत्येति प्रथमपक्षमनूद्य दूषयति यस्तु श्वैत्येति । समानाधिकरणाश्वत्वे । तद्रूपवाक्यार्थ इत्यर्थः । श्वेतोऽयं पक्षः । धावंश्चासावश्वश्च धावदश्व इति साध्यम् । आवयोर्मते मानमिति वर्तते । प्रमाणान्तरेति । श्वेताश्वत्वधावनक्रियारूपपदार्थानां प्रत्यक्षादिना असम्बद्धावगतानां प्रत्येकमवगतानामन्योन्यान्वयबोधकत्वं कदाचिदपि नास्ति । यत्र च तत्पदार्थावगमनानन्तरमन्वयप्रतीतिर्भवति । तत्रानुमानार्थापत्तिरूपप्रमाणाभ्यामेव । न तु पदार्थै-रेवेत्यर्थः । विशकलिततयेत्यस्य भिन्नभिन्नाधिकरणनिष्ठतयेत्यर्थः प्रतीयते । तत्र च वक्ष्यमाणार्था-पत्त्यनुमानयोरुक्तययोग इत्यादि बाधकमायातीत्यतोऽत्र विवक्षितमर्थमाह स्वरूपमात्रेणेति । अर्थान्तरा-भावैतदिति । अर्थान्तराभावश्च श्वैत्यादित्रयं च एतयोर्यदन्यतरत् तद्ग्राहकप्रमाणद्वयेति योज्यम् । एतेनान्यतमेति वक्तव्यमिति शङ्कानवकाशः । अर्थान्तराभावग्राहकं प्रमाणम् । एतत्त्रितयग्राहकं च प्रमाणमित्येवं प्रमाणद्वयेत्युक्तं भवति । अन्यतरेत्यत्रान्यतमेत्यर्थ इति वा । तद्धिता इति बहुवचनेन तमबर्थस्थलेऽपि तरप्प्राप्तेः । तथाविधप्रयोगाणां तत्रोपलम्भाद् अर्थान्तराभावविशिष्टेत्युत्तर-वाक्यमप्यस्मिन्पक्षे सुघटम् । पूर्वपक्षे तु तत्रार्थान्तरकल्पना ज्ञेया । अर्थान्तराभावेन विशिष्टं यदेतद् इति विग्रहः । तथा चार्थान्तराभावविशिष्टे जातिगुणौ क्रिया च गुणक्रिये जातिश्च एतयोरन्यतरादित्यादिरूपेण कथञ्चिदर्थसम्भवादिति ज्ञेयम् । विशिष्टपदार्थेति । श्वेतोऽश्वो धावतीति गुणक्रियाजातिविशिष्टरूपो यः पदार्थानामन्वयस्तस्येत्यर्थः ।