गौरवं कल्पनेऽन्यथा
वैशेषिकपक्षनिरासः
गौरवं कल्पनेऽन्यथा
सुधा
केचिदाहुः । यो यानि पदानि प्रयुङ्क्ते स तत्पदार्थसंसर्गप्रतिपादनाभिप्रायवानिति सामान्येनिस्वात्मनि नियमे प्रतीते पश्चात्पदसमूहप्रयोगाद्वक्तुस्तत्पदार्थसंसर्गप्रतिपादनाभिप्रायाव-गतिद्वारेण पदेभ्यो वाक्यार्थानुमानमिति ॥ इदमप्यनुपपन्नम् ॥ तथा हि । पदसमुदायमात्रप्रयोगाद्वा संसर्गज्ञानानुमानमुताङ्क्षादिमत्त्वे सति । नाद्यः व्यभिचारात् । द्वितीये तु तथाविधपदैरेव वाक्यार्थाव गतेर्वक्तृज्ञानानुमाने बकबन्धरीतिप्रयास एवेति ॥ तदिदमप्याह ॥ गौरवं कल्यनेऽन्यथेति ॥
वाक्यार्थचन्द्रिका
वैशेषिकपक्षं निराकर्तुमनुवदति ॥ केचिदिति ॥ द्वितीये त्विति ॥ एवेत्यस्य साक्षादित्यर्थः ॥ बकबन्धरीतिप्रयास इति ॥ बकबन्धसमानन्यायमित्यर्थः । बकग्रहणे क उपाय इति केनचित्पृष्टे खरतरदिनकरसंपर्कद्रुततन्मस्तकनिहितनवनीतबिन्दुभिर्नयनयोः पूर्णतायां तद्ग्रहणं सुकरमिति कश्चित्प्रवदति । न च तदुपपद्यते । बकग्रहणमन्तरेण तन्मस्तके नवनीतप्रक्षेपानुपपत्ते-स्तस्मिन्स्वयं गृहीते च तत्प्रक्षेपोऽपि मुधैवेति न्यायाभिप्रायः । बकबन्धरीतिव्युत्पादनाय वक्तृज्ञानानु-मान इत्युक्तम् ॥
परिमल
नाद्यः व्यभिचारादिति ॥ गौरश्वः पुरुषो हस्तीत्यादिवाक्ये ॥ बकबन्धरीतीति ॥ बको नाम पक्षी मया कथं ग्राह्य इति केनचित्पृष्टे अन्यो वदति क्वचिदुपविष्टस्य बकस्य शिरसि नवनीते स्थापिते सति आतपेन द्रवीभूतेन चक्षुरन्तःप्रविष्टेन तेन चक्षुषो निमीलने सति बको बन्धनीय इति । इयं बकबन्धनरीतिः । नवनीतस्थापनकाल एव बकबन्धनसंभवे तदुक्तरीतिर्यथा प्रयासस्तथाऽयमपीत्यर्थः।
यादुपत्यं
वैशेषिकादिमतं निराकर्तुमनुवदति ॥ केचिदाहुरिति ॥ अभिप्रायावगतिद्वारेणेति ॥ अभिप्रायानुमितौ वाक्यार्थस्तदवच्छेदकतयैवावभासते न साक्षादित्यर्थः ॥ पदेभ्य इति ॥ तत्प्रयोगादित्यर्थः । तथा च विमतो वक्ता एतत्पदार्थसंसर्गप्रतिपादनाभिप्रायवान् एतत्समुदाय-प्रयोक्तृत्वादित्यनुमानमत्र विवक्षितमित्यवधेयम् । इदमुपलक्षणम् । एतत्पदार्थसंसर्गज्ञानवानित्यपि साध्यमत्र विवक्षितम् । अत एव संसर्गज्ञानानुमानमित्यग्रे व्यवहारः । तत्र चाभिप्रायानुमान-मित्यस्याप्युपलक्षणमतो न विरोध इत्यवधेयम् ॥ उताकाङ्क्षादिमत्त्व इति ॥ आकाङ्क्षादिमत्त्वविशिष्ट-पदसमुदायप्रयोगाद्वा इत्यर्थः ॥ व्यभिचारादिति ॥ आकाङ्क्षादिशून्यपदसमुदायप्रयोक्तरीति शेषः । तथा च यो यानि पदानि प्रयुङ्क्ते इत्युक्तसामान्यनियमो व्यभिचारेण दुष्ट इति भावः ॥ बकबन्धरीतीति ॥ बकबन्धरीतिमेवमाहुः । कथं बको धार्य इति पृष्टः कश्चिदाह । बकशिरसि नवनीतं स्थापनीयं, तस्य च तपनकिरणसन्तप्तस्य बकचक्षुःप्रवेशेऽनन्तरं बको धार्य इति । अत्र यथा नवनीतस्थापनार्थं गतेनैव बकस्य धर्तुं शक्यत्वान्नवनीतस्थापनानन्तरं बकधारणे प्रयासगौरवं तथा प्रकृतेऽपीत्यर्थः ।
श्रीनिवासतीर्थीया
वाक्यार्थानुमानमिति ॥ एतानि वैदिकानि पदानि स्वस्मारितार्थ-संसर्गज्ञानपूर्वकाणि । आकाङ्क्षादिमत्पदकदम्बकत्वाद्गामानय शुक्लां दण्डेनेत्यादिपदवदित्यनुमानेन वक्तृज्ञानावच्छेदकतया संसर्गसिद्धेः । पदानामनुमानविधयैव संसर्गबोधकत्वं न तु शब्दत्वेनेत्यर्थः । तथा च वाक्यार्थो न शाब्द इत्याशयः ॥ प्रयास एवेति ॥ तथा च हेतुज्ञानसमय एव वाक्यार्थ-स्यावबुद्धत्वात्तेनाभिप्रायमनुमाय तदवच्छेदकत्वेन पुनरनुमानेन संसर्गबोधाङ्गीकारे बकबन्धरीति-प्रयासतुल्यः प्रयासः प्राप्त इत्यर्थः ॥
वाक्यार्थरत्नमाला
न्यायप्रकारं दर्शयति बकग्रहण इत्यादि । खरतरो मध्याह्नकालीनात्युष्ण-रश्मिमान् यो दिनकरः सूर्यस्तत्संपर्केण द्रुतं यत्तस्य बकस्य मस्तके निहितं नवनीतम् । तद्बिन्दुभिरिति सम्बन्धः ।