गौरवं कल्पनेऽन्यथा
जरन्नेयायिकमतनिरासः
गौरवं कल्पनेऽन्यथा
**सुधा **
अपरे तु वाक्यान्त्यवर्णं वाक्यार्थस्य प्रतिपादकमाचक्षते ॥ तदप्ययुक्तम् । स हि केवलो वा तथा स्यात्, पूर्ववर्णसंबन्धस्मरणेनानुगृहीतो वा । आद्ये पूर्ववर्णोच्चारणवैयर्थ्य-मतिप्रसङ्गश्च । द्वितीयेऽनुभूयमानः स्मर्यमाणो वा । नाद्यः । सम्बन्धस्मृतिव्यवहितस्यानुभवस्य तदाऽनवस्थानात् । द्वितीये तु किमनेन प्रयत्नगौरवेण ॥ स्मृतिस्था वर्णाः पदत्वेनानुसंहिता वाक्यार्थमवगमयन्तीत्येव वक्तव्यम् ॥ तदिदमुक्तं गौरवं कल्पनेऽन्यथेति । पूर्ववर्णसंस्कार एवोप-योगी न स्मृतिरिति चेन्न । तथा सति पदानुसन्धानासंभवेन संबन्धस्य स्मरणाभावप्रसङ्गादिति ॥
**वाक्यार्थचन्द्रिका **
जरन्नैयायिकमतं निराकर्तुमनुवदयति ॥ अपरे त्विति ॥ अनुगृहीत इति ॥ सहकृत इत्यर्थः ॥ अतिप्रसङ्गश्चेति ॥ अन्त्यवर्णश्रवणमात्रेण वाक्यार्थबोधप्रसङ्ग इत्यर्थः । तदा वाक्यार्थबोधसमये । तत्तद्वर्णानुभवजनितसंस्कारैस्तत्स्मरणं ततः पदानुसन्धानं ततः पूर्ववर्ण-संबन्धस्मरणमेवं पूर्वपूर्वपदानुभवजनितसंस्कारैस्तत्पदस्मरणं ततः पूर्वपदसंबन्धस्मरणं ततः पदार्थ-स्मृतिरित्याद्यनेककल्पनाया एकस्मृत्युपारूढानां सर्ववर्णानां पदत्वेनानुसंहितानां वाक्यार्थबोधकत्व-कल्पनापेक्षयाऽतिगुरुत्वमित्याह ॥ किमनेनेति ॥ ननु पूर्ववर्णसंस्कारोऽन्त्यवर्णमात्रस्मरणं वाक्यार्थ-बोधोपयोगितयाऽभ्युपगम्यतेऽतो न गौरवमिति शङ्कते ॥ पूर्ववर्णेति ॥ सर्ववर्णाविषयैकस्मृत्यनभ्युगपमे संस्कारस्य स्मृतिमात्रजनकतया पूर्ववर्णसंस्कारमात्रेण तेषु पदत्वानुसन्धानासंभवेन पूर्ववर्णसंबन्ध-स्मरणरूपस्य त्वदुक्तस्यान्त्यवर्णसहकारिणोऽप्यभावप्रसङ्ग इत्याह ॥ तथा सतीति ॥ उपलक्षणं चैतत् । उक्तरीत्या पूर्ववर्णसंस्कारस्य वैयर्थ्यात् तदर्थस्य पूर्ववर्णोच्चारणस्य वैयर्थ्यमित्यपि द्रष्टव्यम् ॥
यादुपत्यम्— जरन्नैयायिकमतमनूद्य निराकरोति ॥ अपरे त्वित्यादिना ॥ पूर्ववर्णस्मरण-सम्बन्धेनेति ॥ पदत्वानुसन्धानेनेत्यर्थः ॥ पूर्ववर्णसंस्कार एवेति ॥ तथा च स्मृतिस्था वर्णा इत्येतन्न युक्तमिति भावः । सम्बन्धस्मरणस्येति ॥ शक्तिस्मरणस्येत्यर्थः ।
**श्रीनिवासतीर्थीया **
पूर्ववर्णसंबन्धस्मरणेनेति ॥ पूर्ववर्णानां पदत्वानुसन्धानानन्तरं तच्छक्ति-स्मरणेनेत्यर्थः ॥ अतिप्रसङ्ग इति ॥ अन्त्यवर्णश्रोतॄणां सर्वेषामपि वाक्यार्थबोधः स्यादित्यर्थः ॥ अनुभूयमान इत्यादि ॥ वाक्यान्त्यवर्णः स्वयमनुभूयमानः पूर्ववर्णसम्बन्धस्मरणेनानुगृहीतः सन्वाक्यार्थप्रतिपादक इत्यर्थः ॥ सम्बन्धस्मृतीति ॥ शक्तिस्मरणेत्यर्थः ॥ अनवस्थानादिति ॥ अन्त्यवर्णानुभवानन्तरं पूर्वानुभूतवर्णस्मरणेन भाव्यम् । तेन तेषु पदत्वानुसंधानेन तस्य पदस्य शक्तिस्मरणेन भवितव्यम् । तथा च वर्णस्मरणपदत्वानुसंधानतच्छक्तिस्मरणैरन्त्यवर्णानुभवस्य नष्टत्वेन वाक्यार्थबोधसमयेऽन्त्यवर्णानुभवानवस्थानान्नानुभूयमानोऽन्त्यवर्णो वाक्यार्थप्रतिपादक इत्यर्थः ॥ प्रयत्न गौरवेणेति ॥ पूर्ववर्णसंबन्धस्मरणानुगृहीतान्त्यवर्णस्मरणस्य वाक्यार्थबोधकत्वाङ्गीकारे गौरवमित्यर्थः। तर्हि लाघवं कथमित्यत आह ॥ स्मृतिस्था इति ॥ अनुभवक्रमोपहितक्रमवन्त इति शेषः ॥ संस्कार एवेति ॥ तथा च स्मृतिस्था वर्णा इत्युक्तमसदिति भावः ॥ पदेति ॥ पदत्वेत्यर्थः । संबन्धः शक्तिः ॥