गौरवं कल्पनेऽन्यथा
मतान्तरनिरासः
गौरवं कल्पनेऽन्यथा
सुधा
अन्ये त्वाहुः । स्मर्यमाणा वर्णमालैव वाक्यार्थबोधजननीति । तदप्यसत् । सा हि व्युत्पत्तिसहाया वा तथा स्यादन्यथा वा । अन्यथा चेदतिप्रसङ्गः । आद्ये पदतदर्थावबोध-स्याश्रितत्वात्किं तयेति गौरवमेव । किञ्च क्रमोपेतानां द्वित्राणां पञ्चषाणां वा वर्णानां स्मरणमुपपद्यते । महावाक्यस्थानां शतसहस्रसङ्ख्यानां तु स्मरणं दुःश(शं)कमेव । किमभ्यासस्य दुष्करमिति चेन्न । गत्यन्तराभावे त्वेवमेतत् । सति तु सुखोपाये न प्रयासगौरवकल्पना युक्तेति । एतदप्युक्तं गौरवं कल्पनेऽन्यथेति ॥
वाक्यार्थचन्द्रिका
एवं वैयाकरणाभिमतं पक्षं निराकृत्य मीमांसकैकदेशिमतं निराकर्तुमनुवदति ॥ अन्ये त्विति ॥ अन्यथा चेदिति ॥ व्युत्पत्त्यनपेक्षायां पदतदर्थानुसन्धानाभावेन संबन्धिरूपदार्थ-ज्ञानाभावेऽपि तत्संसर्गरूपवाक्यार्थज्ञानाभ्युपगमेऽतिप्रसङ्ग इत्यर्थः । यद्वा व्युत्पन्नवदव्युत्पन्नस्यापि वर्णमालास्मरणाविशेषाद्वाक्यार्थबोधप्रसङ्ग इत्यर्थः ॥ आद्य इति ॥ तत्तत्पुरुषप्रयुक्ततत्तदभिप्रायानु सारिवाक्यानामानन्त्याद्वाक्यार्थस्यापूर्वत्वाच्च तत्तद्वाक्यस्थवर्णमालाया वाक्यार्थेषु व्युत्पत्तेरसंभवेन व्युत्पत्त्यपेक्षां वदता तन्मालान्तर्गततत्तद्वर्णेषु पदत्वानुसन्धानस्य ततस्तत्तत्पदार्थानुसन्धानस्यावश्या-श्रयणीयतया तत एव वाक्यार्थबोधोपपत्तौ वर्णमालायास्तद्बोधकत्वकल्पने गौरवमित्याशयः । वाक्यस्थ-वर्णमालास्मरणमभ्युपेत्य दूषणमुक्तम् । वस्तुतस्तु तदेवाशक्यमित्याह ॥ किञ्चेति ॥
परिमल
अन्यथा चेदतिप्रसङ्ग इति ॥ अव्युत्पन्नस्याप्यर्थबोधप्रसङ्ग इत्यर्थः ॥ सति तु सुखोपाये इति ॥ अन्विते शक्त्युपेतपदरूपोपाये सतीत्यर्थः ॥
यादुपत्यम्
मीमांसकैकदेशिनां मतमनूद्य दूषयति ॥ अन्ये त्वाहुरित्यादिना ॥ पदतदर्थाव-बोधस्येति ॥ अन्यथा व्युत्पत्तिरेव न संभवतीति भावः ।
श्रीनिवासतीर्थीया
सा वर्णमाला । तथा वाक्यार्थबोधजननी ॥ पदतदर्थावबोधस्येति ॥ पदानां तदर्थानां चानवगमे वर्णमालासहायभूताया वाच्यवाचकभावसंबन्धरूपाया व्युत्पत्तेरेवायोगेन केवलायाः स्मर्यमाणवर्णमालाया वाक्यार्थबोधजनकत्वायोगात्तदर्थं व्युत्पत्तिरूपसहायाङ्गीकारे पद-तदर्थावबोधस्याश्रितत्वादन्वितस्यैव पदार्थत्वेन वाक्यार्थावबोधस्यावबुद्धत्वात्किं तया स्मर्यमाण-वर्णमालयेत्यर्थः । लघूपाये पदेनैवान्वयबोधरूपे उपाये ॥