२२ स्फोटवादः

गौरवं कल्पनेऽन्यथा

स्फोटवादः

अनुव्याख्यानम्

गौरवं कल्पनेऽन्यथा ॥

सुधा

एवं स्वमतेन परिहारमभिधाय ये तु प्रत्यस्तमितवर्णपदविभागं वाक्यमेव स्फोटाख्यं वाक्यार्थप्रतिपादकमित्याहुस्तन्मतं निराकरोति ॥ गौरवमिति ॥ अन्यथा कल्पने निरवयवं वाक्यं वाक्यार्थस्य बोधकमिति कल्पने; गौरवं स्यात् । वाक्यमेव खल्वेवंविधं विना प्रमाणेन कल्पनीयम् । तस्य च वाक्यार्थप्रत्यायनशक्तिरपि कल्पनीयेति ।

वाक्यार्थचन्द्रिका

ननूत्तरत्रान्यथाकल्पने गौरवाभिधानमनुपपन्नम् । उपायान्तरेण वाक्यार्थ-बोधं वदन्तं प्रति तत्संभवेऽप्यनियतनिमित्तकत्वादौत्प्रेक्षिको वाक्यार्थबोध इत्यप्रामाण्यं वेदस्येति ब्रुवाणं मां प्रत्यन्विताभिधानानङ्गीकारेऽपि गौरवाप्रसरादित्यतो नेदं गौरवाभिधानं पूर्वपक्षिणं प्रति येनोक्तदोषः स्यादपि तूपायान्तरवादिनो वादिनः प्रतीत्याशयेनोत्तरवाक्यमवतारयति ॥ एवमिति ॥ यद्यपि परमते वर्णपदवाक्याखण्डपदवाक्यस्फोटभेदेन पञ्चव्यक्तिस्फोटा वर्णपदवाक्यस्फोटभेदेन त्रयो जातिस्फोटा इत्यष्टौ स्फोटाः । अत एवोत्तरत्र पदार्थेत्यादिना पदस्फोटमपि व्युत्पादयिष्यति तथाऽपि वाक्यार्थ-प्रतिपत्तिहेतोरेव प्रस्तुततया वाक्यस्फोटस्यैव तादृशत्वात्तस्यैवोपादानमुत्तरत्र पदस्फोटव्युत्पादनं च प्रसङ्गादित्यवधेयम् । यद्यपि ताल्वादिस्थानोद्भववायवीयध्वनिविशेषाभिव्यक्तवर्णात्मकपदैः स्वसमवेत-वाक्यस्फोटोऽभिव्यज्यते । स च व्यक्तौ वाक्यार्थं प्रत्यापयतीति खण्डवाक्यस्फोटोऽपि पराभिमत-स्तथाऽप्यखण्डवाक्यस्फोटपक्षस्य मुख्यतया तदभिमतत्वात्तदुपादानम् । प्रत्यस्तमितेत्यारोपितवर्ण-पदविभागं निरवयवमिति यावत् । यथा चैतत्तथा वक्ष्यते ॥

परिमल

प्रत्यस्तमितेत्यादिबहुव्रीहिः । गगनवदखण्डमिति यावत् । वाक्यशब्दितं स्फोटाख्यं विभुद्रव्यं पदाभिव्यङ्ग्यमिति ज्ञेयम् ॥ वाक्यमेवेति ॥ वाक्यशब्दितं स्फोटरूपद्रव्यमेव धर्मि कल्पनीयमित्यर्थः ।

यादुपत्यम्

प्रत्यस्तमितेति ॥ अपगतवर्णपदविभागमित्यर्थः । अखण्डमिति यावत् । वर्णपदविभागस्तु तत्राविद्यया कल्पित एवावभासत इत्याशयः ॥ वाक्यमेवेति ॥ पदसमुदायाभिव्यङ्ग्यं वाक्यरूपं स्फोटाख्यं तत्त्वमेकमस्ति । तदेव वाक्यार्थप्रतिपादकमित्याशयः ॥

वाक्यार्थरत्नमाला

तत्सम्भवेऽपीति । गौरवाभिधानसम्भवेऽपीत्यर्थः । यद्वा गौरवसम्भवेऽपि तत्प्रसरेऽपीत्यर्थः । वक्ष्यति च गौरवाप्रसरादिति । ब्रुवाणं वादिनं प्रतीति पाठः स्वरस एव । मां प्रतीति पाठे प्राचीनपूर्वपक्षिण एवासङ्गतिशङ्कितृत्वेन मां प्रतीति तदुक्तिरियम् । अत्र पाठे पूर्वपक्षिणं प्रतीत्यत्र त्वां प्रतीति योज्यम् । औत्प्रेक्षिको वाक्यार्थ इति वादी पूर्वपक्षितयाऽभिप्रेतः । उपायान्तरेति । उपायान्तरं वदन्तीति उपायान्तरवादिनो नैकयोजनास्तादृशवादिनः प्रतीति योज्यम् । वर्णपद-वाक्याखण्डपदवाक्येति । एतत्तर्कपादशास्त्रदीपिकादौ । अथशब्दानुशासनमिति भाष्यवाक्यं स्वयमेव व्याकुर्वता भाष्यकारेण गौरित्यत्र कः शब्द इत्यादिना गौरिति विज्ञाते प्रतिभासमानवस्तुषु कः शब्द इति प्रश्नपूर्वकं सास्नादिपदार्थानां द्रव्यत्वाद् इङ्गितचेष्टितादेश्च क्रियात्वात् । शुक्लो नील इत्यादेश्चाकृतित्वान्न द्रव्यादिकं शब्द इत्युक्तवा कस्तर्हि शब्दः । येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणानां संप्रत्ययो भवति सशब्द इत्यनेन येन व्यञ्जकैः प्रकाशितेन सास्नादिप्रत्ययो भवतीत्युक्तयार्थप्रत्यायकः स्फोटोऽभिहितः । अथ प्रतीतपदार्थको लोके ध्वनिः शब्द उच्यत इति मतान्तरं चोक्तम् । तत्कैयटे च वैयाकरणा वर्णव्यतिरिक्तस्य पदस्य वाक्यस्य वा वाचकत्वमिच्छन्तीत्याद्युपक्रम्य तद्व्यतिरिक्तस्फोटो नादाभिव्यङ्ग्यो वाचको विस्तरेण वाक्यपदीये व्यवस्थापितत्वेत्यादिकमुक्तम् । तथा किं पुनर्नित्यः शब्द आहोस्वित्कार्य इत्येतद्भाष्यकैयटे विप्रतिपत्त्या संशयः । केचिद् ध्वनिव्यङ्ग्यं वर्णात्मकं शब्दं नित्यमाहुः । अन्ये वर्णव्यतिरिक्तं पदस्फोटमिच्छन्ति । वाक्यस्फोटमपरे सङ्गिरन्त इति चोक्तम् । मञ्जरीकुसुमविकासादावुक्तिश्चास्ति तदेतन्मनसि निधाय प्रत्यस्तमितेत्यादिकं मूलं प्रवृत्तम् । तत्र स्फोटानां वैयाकरणरीत्या अनेकत्वात्कोऽत्रानूदित इति न ज्ञायत इत्यतो विवेकमाह यद्यपि परमत इति । वैयाकरणोऽत्र परः ।

पदवाक्यस्फोटावित्यादि । उक्तं च किं पुनराकृतिः पदार्थ आहोस्विद् द्रव्यमुभय-मित्याहेत्यादिभाष्यकैयटे केचिद् ध्वनिव्यङ्ग्यं वर्णात्मकं शब्दं नित्यमाहुः । अन्ये वर्णव्यतिरिक्तं पदस्फोटमिच्छन्ति । वाक्यस्फोटमपरे सङ्गिरन्त इत्यादि । तथा तत्र नित्यः शब्दः जातिस्फोटलक्षणो व्यक्तिस्फोटलक्षणो वेत्यादि । उक्तं च तद्व्याख्याने । अन्य इति वैयाकरणाः । अपर इति त एवेति केचिदितीति । गूढार्थदीपिकायां त्वपरे प्राचीनवैयाकरणा इत्युक्तम् । पाणिनिनाप्यवङ्स्फोटायनस्येत्यत्र स्फोटो ऽयनं परायणं यस्य सः स्फोटायनः स्फोटप्रतिपादनपरो वैयाकरण इत्येवं स्फोटस्य सूचनं कृतमस्ति । शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्करस्तत्परिभागसङ्गमात्सर्वं भूतज्ञानमिति पातञ्जल-सूत्रव्याख्यावसरे वृत्तिकारेण यदि वा क्रमरहितः स्फोटात्मा ध्वनिसंस्कृतबुद्धिग्राह्य इत्यादिना महता प्रबन्धेन स्फोट उपपादित इति विश्वकर्म्यामुक्तमित्यादि द्रष्टव्यम् । अत्र प्रकृतवाक्यस्फोटातिरिक्तः स्फोटो मूलेऽपि संमत इति स्फोटान्तरसिद्धिरिति भावेनाह अत एवोत्तरत्रेति । इदमत्र ज्ञेयम् । सत्स्वप्यनेक-स्फोटेषु पदार्थप्रत्ययान्यथानुपपत्त्या पदस्फोटस्य वाक्यार्थप्रत्ययान्यथानुपपत्त्या वाक्यस्फोटस्य च सर्वैरुपपादनादुदाहृतकैयटादौ पदस्फोटं केचिदिच्छन्ति । वाक्यस्फोटमपर इत्यादि प्रतिपादनाच्चेह मूले द्वयोरेव प्राधान्याप्राधान्याभ्यामुपन्यास इति । अत एव पदस्फोटमपि व्युत्पादयिष्यतीत्येकमात्रांशे मूले संमतिरुक्तेति मुख्यतयेति । निरवयवाखण्डब्रह्मतुल्यतया नित्यनिरवयवाखण्डस्फोटस्योत्तरत्र मूलेऽपि स्पष्टत्वादिति भावः ।