२५ प्रामाण्यस्वतस्त्वनिर्वचनम्

प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि

प्रामाण्यस्वतस्त्वनिर्वचनम्

प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि

सुधा

ननु किमिदं प्रमाणानां प्रामाण्यस्य स्वतस्त्वम् ॥ उच्यते ॥ प्रत्यक्षानुमानागमा-स्तज्जनितं विज्ञानं च प्रमाणम् ॥ तत्र ज्ञानस्य यद्याथार्थ्यलक्षणं प्रामाण्यं तस्य ज्ञानजनक-(सामग्री)मात्राधीनजन्मत्वं स्वतस्त्वम् ॥ करणानां च ज्ञानजननशक्त्यैव तद्याथार्थ्यजनकत्वं तस्त्वम् । तथा ज्ञानगतयाथार्थ्यस्य ज्ञानग्राहकमात्रग्राह्यत्वं स्वतस्त्वम् ॥ करणनां तु ज्ञप्तौ स्वतस्त्वं नाङ्गीक्रियते; तत्स्वरूपस्य यथायथं प्रत्यक्षादिवेद्यत्वात्, यथार्थज्ञानजनकत्वस्यानुमान-वेद्यत्वात् । अथवा तेषामपि ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयस्य ग्राह्यत्वं स्वतस्त्वमिति ॥

वाक्यार्थचन्द्रिका

ननु स्वतस्त्वमित्यत्र स्वशब्दस्य स्वपरत्वं वा स्वीयपरत्वं वा । आद्ये स्वजन्यत्वं तदित्युक्तं स्यात् । द्वितीयेऽपि स्वाश्रयज्ञानजन्यत्वं वा स्वाश्रयज्ञानसामग्रीजन्यत्वं वा ज्ञानसामग्रीजन्याश्रितत्वं वा ज्ञानसामग्रीमात्रजन्याश्रितत्वं वा । नाद्यः पौर्वापर्यासम्भवेन स्वस्य स्वहेतुत्वानुपपत्तेः । न द्वितीयः । ज्ञानस्य गुणत्वेन स्वप्रामाण्यं प्रति समवायिकारणत्वासम्भवात् । न तृतीयः । प्रामाण्यस्योपाधिरूपत्वे स्मृतित्वानधिकरणज्ञानस्य बाधात्यन्ताभावस्तत्त्वमिति वक्तव्यम् । तस्य चात्यन्ताभावरूपस्य न जन्म सम्भवति नापि जातिरूपत्वे तस्य जन्मसम्भवः । नापि चतुर्थः । अप्रामाण्यस्यापि स्वतस्त्वप्रसङ्गात् । पञ्चमेऽपि मात्रग्रहणेनाप्रमां व्यावर्तयताऽप्रमासामग्रीरूप-दोषासाहित्यद्वारेण तदभावसाहित्यमपि ज्ञानसामग्य्रां विवक्षितम् उत दोषासाहित्यमात्रम् । नाद्यः । परतः प्रामाण्यवादिमतानुप्रवेशापातात् । नापि द्वितीयः । विशेषदर्शनस्य भ्रमनिवृत्तिहेतुत्वेन तद्विपर्ययस्य भ्रमहेतुत्ववद्दोषासहकृतज्ञानसामग्रीजन्यं ज्ञानमप्रमेत्यङ्गीकुर्वता प्रमां प्रति दोषाभावस्य हेतुताया अनिराकार्यत्वात् । न चेश्वरप्रमायामिव दोषाभावस्यावर्जनीयसन्निधितया न प्रमात्व-प्रयोजकत्वमिति वाच्यम् । नित्यद्रव्येषु द्रव्यत्वस्य गुणवत्त्वप्रयुक्तत्ववद्दोषाभावगर्भसामाग्य्रजन्यत्वेऽ-पीश्वरज्ञानस्य तत्र प्रमात्वस्य दोषाभावप्रयुक्तत्वोपपत्तेः । न च दोषाभावस्याभावत्वादकारणत्वम् । विशेषदर्शनाभावस्य भ्रमहेतुत्ववद्विहिताकरणस्य प्रत्यवायहेतुत्ववच्च तदुपपत्तेः । तस्मान्न स्वतस्त्वं निर्वक्तुं शक्यमिति स्वत एवेत्यनुपपन्नमित्याशङ्कते ॥ नन्विति ॥ अत्र करणप्रामाण्ये प्रसक्तेऽपि तत्स्वतस्त्वस्य ज्ञानप्रामाण्यस्य ज्ञानसामग्य्रन्यगुणादिजन्यत्वेऽनुपपत्त्या तत्स्वतस्त्वाधीनतया ज्ञान-प्रामाण्यस्वतस्त्वव्युत्पादनेन करणप्रामाण्यस्वतस्त्वव्युत्पादने सौलभ्यमित्याशयेन करणप्रामाण्य-प्रसङ्गाज्ज्ञानप्रामाण्यमपि व्युत्पादयिष्यन्करणफलभेदेन प्रमाणद्वैविध्यं तावदाह ॥ प्रत्यक्षेति ॥ अत एव शङ्काग्रन्थोऽपि सामान्येन प्रवृत्त इति द्रष्टव्यम् ॥

याथार्थ्यलक्षणमिति ॥ करणप्रामाण्यवैलक्षण्यप्रदर्शनायैतत् । याथार्थ्यं चार्थं ज्ञेयमनतिक्रम्य वर्तमानत्वं, ज्ञेयाव्यभिचारित्वं, विषयस्य ज्ञेयतायामुपाधित्वे सति ज्ञेयं यथाभूतं सत्तथाभूतं सदेकगोचरत्वमिति यावत् । एतादृशयाथार्थ्यरूपं ज्ञानप्रामाण्यमित्यर्थः ॥ ज्ञानेति ॥ जनकं सामग्री । क्वचित्सामग्रीशब्दोपेतपाठोऽपि । मात्रपदेन ज्ञानत्वावच्छिन्नकार्यता- निरूपितकारणताश्रयव्यतिरिक्त-गुणदोषाभावव्यवच्छेदः । एवं च ज्ञानजनकजन्यत्वे सति यत्तदतिरिक्तजन्यत्वं तदभावः स्वतस्त्वम् । तच्चाजन्येश्वरादिज्ञानप्रामाण्येऽपि संभवत्येव । यद्वा जन्यज्ञानप्रामाण्यस्वतस्त्वनिरुक्तिरेवेयमिति ज्ञेयम् । अथवा जनकादिशब्दस्योत्पत्त्यभिव्यक्ति साधारणप्रयोजकादिमात्रपरत्वमेवेति द्रष्टव्यम् । अप्रामाण्यं तथाऽन्यत इति वाक्यव्याख्यानावसरे दोषाभावकारणताया निरासान्न पूर्वोक्तपरतस्त्वापत्तिदोष इति भावः ॥ करणानां चेति ॥ याथार्थ्यजनकत्वं याथार्थ्यजननं ज्ञानजननशक्त्यैव न तु तदतिरिक्तशक्त्येति ज्ञानजननशक्त्यभिन्नतद्याथार्थ्यजननशक्तिमत्त्वं करणानां स्वतस्त्वमित्युक्तं भवति । यद्वा याथार्थ्य-जनकत्वं याथार्थ्यजननशक्तिः सा ज्ञानजननशक्त्यैवेति सहयोगे तृतीया । तथा च सा ज्ञानजनन-शक्त्या सहितैवेति तद्वत्सहजत्वं लभ्यते । एवं च ज्ञानजननशक्तिवत्सहजतद्याथार्थ्यजननशक्तिमत्त्वं स्वतस्त्वमित्युक्तं भवति । यद्यपि ज्ञानप्रामाण्यस्य ज्ञानजनकमात्रजन्यत्वं स्वतस्त्वमितिवत्करण-प्रामाण्यस्य यथार्थज्ञानजनकत्वस्य करणजनकमात्रजन्यत्वं स्वतस्त्वमित्येव वक्तुं युक्तम् । करण-जनकस्यैव तन्निष्ठज्ञानतद्याथार्थ्यजननशक्तिजनकत्वात् । अत एवोत्तरत्र करणस्वरूपतत्प्रामाण्य-ग्राहकयोर्भेदेन करणप्रामाण्यस्य ज्ञप्तौ परतस्त्वोक्तेरिव अत्रोत्पत्तौ तदुक्त्यभावस् तथाऽपि करण-जनकस्यैव तद्याथार्थ्याजनकत्वेऽपि न क्षतिः । करणनिष्ठज्ञानयाथार्थ्यजननशक्तेस्तन्निष्ठज्ञानजनन-शक्त्यभेदमात्रेण तद्वत्सहजत्वेनैव वा स्वतस्त्वोपपत्तेः । परन्तु करणजनकस्यैव तद्याथार्थ्यजनकत्वं प्रकृतेऽधिकं लब्धं, न तु तेन विना स्वतस्त्वहानिः । अत एवाथवेत्यादिना ज्ञप्तिप्रामाण्यस्वतस्त्वं करणग्राहकतत्प्रामाण्यग्राहकयोर्भेदेऽपि करणनिष्ठज्ञानजनकत्वतद्याथार्थ्यग्राहकयोरभेदमात्रेण व्युत्पाद-यिष्यते । ज्ञानप्रामाण्यस्य तु ज्ञानजनकातिरिक्तजन्यत्वे स्वतस्त्वहानिरेवेत्याशयेन ज्ञानप्रामाण्य-स्वतस्त्वविलक्षणतया करणप्रामाण्यस्वतस्त्वोक्तिर्युक्तैवेति ध्येयम् । तथेति ॥ ज्ञानग्राहकेत्यत्र ज्ञानपदेन याथार्थ्यस्येति सन्निधानाद् ग्राह्यप्रामाण्याश्रयो ज्ञानं विवक्ष्यते ग्राहकशब्देन तद्विषयीकरण-शक्तिमान्साक्ष्येव विवक्षितः । मात्रपदेन च साक्षिनिष्ठाप्रामाण्यग्रहणशक्तेस्तन्निष्ठज्ञानग्रहणशक्तिभिन्नत्वं वा भिन्नत्वेऽपि वाऽऽगन्तुककारणान्तरसापेक्षत्वं वा निवार्यते । ग्राह्यत्वं च विषयीक्रियमाणत्वम् । साक्षीति वक्तव्ये ज्ञानग्राहकेति वचनं साक्षिनिष्ठप्रामाण्यग्रहणशक्तेर्यद्भेदो वा यदपेक्षयाऽऽगन्तुकत्वं वा मात्रपदेन निरस्यं, तस्या ज्ञानविषयीकरणशक्तेर्लाभाय । एवं च स्वनिष्ठग्राह्यप्रामाण्याश्रय-ज्ञानविषयीकरणशक्त्यभिन्ना वा तद्वत्सहजा वा या प्रामाण्यग्रहणशक्तिस्तद्वत्साक्षिविषयत्वं स्वतस्त्व-मित्युक्तं भवति । अत एव ज्ञानं विषयीकुर्वता साक्षिणा प्रामाण्यविषयीकरणायान्यापेक्षामात्रनिरास-स्याभिप्रेतत्वादेव ज्ञानग्राहकेत्यत्र सामान्यविवक्षायां परतस्त्ववादिनाऽपि ज्ञानग्राहकेणैव प्रामाण्य-ग्रहणस्वीकारात्साक्षिरूपविशेषविवक्षायां च तदतिरिक्तानुमानादिनापि स्वतस्त्ववादिमतेऽपि प्रामाण्य-ग्रहान्मात्रपदानुपपत्तिरित्यादिदूषणमलग्नकं वेदितव्यम् ।

परिमल

प्रमाणमिति ॥ इह विवक्षितमिति योज्यम् ॥ याथार्थ्यलक्षणमिति ॥ तत्स्वरूपं च युक्तिपादे विवरिष्याम इति भावः । उत्पत्तौ स्वतस्त्वं निर्वक्ति ॥ ज्ञानजनकेति ॥ न चेदं नित्यज्ञान-प्रामाण्येऽव्याप्तमिति वाच्यम् । तज्जनितं च ज्ञानं प्रमाणमिह विवक्षितमिति प्रागुक्ततया जन्यज्ञान-प्रामाण्यस्यैवेह लक्ष्यत्वात् । न चैवमपीदं रजतमिति भ्रमरूपज्ञाने ज्ञानजनके सत्यपि प्रामाण्यानुत्पत्ते-रन्वयव्यभिचारान्न ज्ञानजनकमात्राधीनजन्मत्वमिति वाच्यम् । ज्ञानजनकमात्राधीनजन्मत्वमित्यस्य तदधीनजननयोग्यत्वमित्यर्थात् । फलोपधानविवक्षायामपि केवलं जनकं जनकमात्रं प्रामाण्यविरोधि-सामग्य्रसमवहितज्ञानजनकाधीनजन्मत्वमिति मात्रपदव्याख्यानात् । नन्वेवं यत्किञ्चिज्ज्ञानजनके विरोधिसामग्य्रसमवहिते सत्यपि प्रामाण्यजन्मनोऽभावाद् अन्वयव्यभिचारान्न तदधीनजन्मत्वं तस्येति वाच्यम् । ज्ञानजनकेत्यत्र ज्ञानजन्मरूपफलोपधानस्य वा मात्रपदेन कात्स्न्यार्थत्वस्यापि वाऽभिपे्रतत्वेन ज्ञानसामग्य्रधीनेत्यर्थस्य लाभात् । न चैवमपि परं प्रति साधने सिद्धसाधनतैव प्राप्नोति । परेण गुणजन्यत्ववादिनापि विरोधिसामग्य्रसमवहितज्ञानसामग्य्रधीनत्वस्याप्यङ्गीकारादिति वाच्यम् । कैवल्यार्थेन मात्रपदेन तदेकाधीनजन्मत्वस्य लाभादिति भावः । ज्ञप्तावाह ॥ तथेति ॥ ज्ञानग्राहक-मात्रेत्यादि ॥ व्याख्यातं चैतद्वाक्यं त्रेधा तर्कताण्डवे । पद्धत्युक्तदिशा करणस्वरूपतत्प्रामाण्य-ग्राहकयोर्भेदविवक्षया परतस्त्वमुक्त्वा विवक्षाभेदेन स्वतस्त्वमप्यस्तीत्याह ॥ अथवेति ॥

यादुपत्यं

ननु वेदस्य प्रामाण्यं कुत इति प्रश्ने स्वत एवेत्युत्तरमयुक्तम् । स्वशब्दस्य स्वरूपार्थत्वे प्रामाण्यपरत्वे च प्रामाण्यादेवेत्यर्थलाभेनात्माश्रयत्वप्रसङ्गात् । स्वीयार्थत्वे तु अन्यस्यादर्शनेन प्रामाण्ये कारणं तज्ज्ञापकं वा स्वीयं वाच्यम् । एवं च प्रामाण्यं स्वकारणादुत्पद्यते स्वज्ञापकाच्च ज्ञायत इत्युक्तं स्यात् । न चेदं संभवति । कुत इत्यनेन तयोरेव कारणज्ञापकयोरेव पृष्टत्वादित्यभिप्रेत्य शङ्कते ॥ ननु किमिदमिति ॥ नात्र स्वशब्दः प्रामाण्यपरः स्वरूपार्थश्च येनोक्तदोषः किन्तु तदाश्रयपरः स्वीयार्थश्चेत्यभिप्रेत्योत्तरं वक्तुमाह ॥ उच्यत इत्यादिना ॥ तज्जनितं च विज्ञानमिति ॥ अत्र यद्यपि प्रकृतत्वात्करणप्रामाण्यमेव विचार्यतया ग्राह्यं न ज्ञानप्रामाण्यं तथापि ज्ञानगतयाथार्थ्यरूपप्रामाण्यानिर्णये तद्घटितकरणप्रामाण्यस्यैवाभावेन धर्म्यलाभे प्रकृतविचार-स्यैवानुत्थानाद्वा प्रसङ्गाद्वा ज्ञानप्रामाण्यमपि विचार्यतया गृहीतमित्यवगन्तव्यम् ॥ ज्ञानजनकसामग्री-मात्रेति ॥ स्वाश्रयज्ञानसामान्यसामग्रीमात्रप्रयोज्यत्वमुत्पत्तौ स्वतस्त्वमित्यर्थः ॥ करणानां चेति ॥ यद्याथार्थ्यलक्षणं प्रामाण्यं तस्येत्यन्वयः । यथार्थज्ञानसाधनत्वरूपस्य करणप्रामाण्यस्य स्वाश्रयनिष्ठ-ज्ञानजननशक्त्यभिन्नत्वमेवोत्पत्तौ स्वतस्त्वमित्यर्थः ॥

ज्ञानगतयाथार्थ्यस्येति ॥ तद्वति तत्प्रकारकत्वरूपस्येत्यर्थः ॥ ज्ञानग्राहकमात्रेति ॥ अत्र ज्ञानग्राहकशब्देन ग्राह्यप्रामाण्याश्रयतत्तज्ञानविषयकसाक्षिज्ज्ञानविषयत्वयोग्यत्वं ज्ञप्तौ स्वतस्त्वमित्युक्तं भवति । अत्र साक्षीत्युक्त्या घटज्ञानमस्तीत्यादिशब्दजन्यमप्रतिबद्धघटज्ञानविषयं ज्ञानं प्रति घटज्ञान-प्रामाण्यस्याविषयत्वाद् बाध इति शङ्का ग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानविषयकेत्युक्त्या घटज्ञानं गृह्णता साक्षिणा पटज्ञानप्रामाण्यस्याग्रहणाद्बाध इति शङ्का निरस्ता । प्रतिबन्धकदशायामपि करतलादौ दाहजननयोग्यतावत् प्रामाण्ये साक्षिग्रहणयोग्यतायाः सत्त्वात् । यथोक्तम् । साक्ष्येव ज्ञानं तत्प्रामाण्यं च विषयीकर्तुं क्षमः किन्तु प्रतिबद्धो ज्ञानमात्रं गृहीत्वा प्रामाण्यग्रहणस्य नेष्ट इति । नन्वेवं मात्रपदं व्यर्थमापन्नमिति चेन्न । अवधारणपरस्य तस्य साक्षिणि ज्ञानत्वग्रहणशक्तिवत्प्रमात्वग्रहणशक्तिरपि सहजेति प्रदर्शनार्थत्वात् । यद्वा ज्ञानग्राहकशब्देन साक्षितदितरसाधारणज्ञानं विवक्षितम् । मात्रशब्दे-नावधारणार्थेनोभयसिद्धप्रामाण्यविषयकव्यदच्छेदः कार्स्न्यार्थेनाप्रतिबद्धसर्वानुव्यवसायसङ्ग्रहश्च विवक्षितः । तेनोभयसिद्धप्रामाण्याविषयकज्ञानभिन्नज्ञानविषयत्वनैयत्यं स्वतस्त्वमिति लभ्यते । अत्र प्रामाण्याविषयकज्ञानभिन्नेत्युक्त्या घटोऽयमिति घटादिविषयकप्रत्यक्षज्ञानं प्रति ज्ञानं गुण इत्यादिशब्देन घटज्ञानमित्यादिशब्देन जन्यं ज्ञानविषयकज्ञानं प्रति प्रतिबद्धानुव्यवसायं प्रति च स्वतस्त्वपक्षेऽपि प्रामाण्यस्याविषयत्वेन विषयत्वनैयत्यसाधने बाध इति शङ्का निरस्ता । उक्तस्य त्रिविधस्यापि ज्ञानस्य प्रामाण्याविषयकत्वेन तद्भिन्नत्वाभावादुभयसिद्धेत्युक्त्या न्यायमतेऽप्रतिबद्धस्याप्यनुव्यवसायस्य प्रामाण्याविषयकत्वेन तद्भिन्नत्वाभावात् । सिद्धान्त्यभिप्रेतस्याप्रतिबद्धानुव्यवसायं प्रति विषयत्व-स्यासिद्ध्याऽर्थान्तरमिति शङ्का निरस्ता । अप्रतिबद्धानुव्यवसायस्य न्यायमते प्रामाण्याविषयकत्वेऽपि मन्मते तदभावेनोभयसिद्धात्प्रामाण्याविषयकाद्भिन्नत्वसंभवात् । नैयत्यमित्युक्त्या न्यायमतेऽपि प्रामाण्यस्यैवंविधां प्रामाण्यानुमितिं प्रति क्वचिदनुव्यवसायं प्रति च विषयत्वात्सिद्धसाधनमिति शङ्का व्युदस्तेति ध्येयम् ॥ प्रत्यक्षादिवेद्यत्वादिति ॥ इन्द्रियाणामतीन्द्रियत्वेनानुमानवेद्यत्वाल्लिङ्गशब्दयो-स्तज्ज्ञानयोर्वा प्रत्यक्षवेद्यत्वादित्यर्थः ॥ अनुमानवेद्यत्वादिति ॥ कारणत्वस्यान्वयव्यतिरेक-गम्यत्वादिति भावः । नन्वेवं ज्ञानकरणस्य सतोऽप्रामाण्ये निरस्ते स्वत एवेति ब्रूम इति पूर्वोक्त-सिद्धान्तविरोध इत्यत आह ॥ अथवेति ॥ ज्ञानप्रामाण्यवत्करणप्रामाण्यस्य स्वाश्रयग्राहकग्राह्यत्वरूपं स्वतस्त्वं नेत्येव पूर्वमुक्तं न तु सर्वथा करणप्रामाण्यस्य स्वतस्त्वं नेति । स्वाश्रयनिष्ठज्ञानजनकत्व-ग्राहकमात्रग्राह्यत्वरूपस्य ज्ञप्तौ स्वतस्त्वाङ्गीकारात् । अतो न पूर्वोक्तविरोधः, नापि पद्धतिविरोध इति द्रष्टव्यम् । तत्रापि करणप्रामाण्यस्य स्वाश्रयग्राहकग्राह्यत्वरूपं स्वतस्त्वं नेत्येव तात्पर्यात् ॥

वाक्यार्थरत्नमाला

तत्त्वप्रदीपिकातट्टीकानुसारेण स्वतस्त्वनिर्वचनमाक्षिप्य तत्परत्वेनोत्तरमूलं योजयति ननु स्वतस्त्वमित्यत्रेति । ज्ञानस्य गुणत्वेनेति । ज्ञानस्य स्वाश्रितप्रामाण्यजनकत्वाङ्गीकारे समवायीकारणत्वापत्त्या द्रव्यत्वं स्यादिति भावः । स्वतस्त्वलक्षणनिरूपणं तत्त्वप्रदीपिका-तर्कताण्डवानुसारेण । मध्ये तट्टीका चानुश्रियते तत्तदनुसारेण स्पष्टनीयमस्ति ।