प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि
सङ्केतपक्षनिरासः
प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि
सुधा
अत्र ब्रूमः ॥ परस्यापि मते किमीश्वरसङ्केत एवावगमाङ्गमुतास्मदादीनामपि ॥ आद्ये कथमृष्यार्यम्लेच्छानामनियताः प्रयोगप्रत्ययव्यवहाराः ॥ किञ्चेश्वरसङ्केतोऽपि गृहीत एवावगमाङ्गं न स्वरूपेण । व्युत्पन्नवदव्युत्पन्नस्यापि प्रतिपत्तिप्रसङ्गात् । तद्ग्रहश्च त्वदुक्तरीत्योपदेशादिनैव । तथा चास्त्वस्मदाद्युपदेश एव । किमदृष्टेश्वरसङ्केतकल्पनयेति समानम् । अस्मदादिभिरपि पूर्वतनस्सङ्केतो ज्ञाप्यत एव न तु क्रियत इति चेत् । तर्ह्यस्मन्मतेऽपि वृद्धेन स्वाभाविकी शक्तिर्ज्ञाप्यत एव । न त्वपूर्वसङ्केतः क्रियत इति तुल्यम् ॥ द्वितीये तु व्याकरणादिवैयर्थ्यम् । व्यवहारमात्रं हि शब्द-प्रयोजनम् । तच्चेश्वरानीश्वरसङ्केतयोः समानम् अदृष्टार्थमिति चेन्न । प्रमाणाभावात् । श्रुत्यादेः सङ्केतशक्तिपक्षोदासीनत्वात् । किञ्च चरमभाविनं सहकारिणमुपदेशादिकमुपादाय शक्ति-प्रत्याख्यानेऽतिप्रसङ्गः ।
वाक्यार्थचन्द्रिका
ऋष्यादिप्रयोगादीनामनियमानुपपत्तिप्रसङ्गं व्याकरणादिवैयर्थ्यं च सङ्केत-पक्षेऽपि प्रतिपादयितुं विकल्पयति ॥ परस्यापीति ॥ आद्य इति ॥ ईश्वरसङ्केतस्यैकमात्रविषयकत्वेन सर्वविषयकत्वाभावादेकत्रैव ऋष्यादीनां सर्वेषां प्रयोगापत्त्याऽनियतप्रयोगाद्यनुपपत्तिः । ईश्वरसङ्केतस्य सर्वविषयकत्वेनेश्वरोपदेशपूर्वकवृद्धव्यवहारादिना सैन्धवादिशब्दवदनेकत्र सर्वेषामपि प्रयोगापत्त्याऽनियत प्रयोगाद्यनुपपत्तिरेव । तेषां तदन्यत्र सङ्केताज्ञानकल्पने च तदन्यत्र व्यवहारादि पश्यतामपि तथाऽ प्रयोगाद्यनुपपत्तिरेवेति भावः ।
ननु केषाञ्चित्सङ्केतान्तराज्ञानादन्येषां चाज्ञानपूर्वकस्वपूर्वपूर्वव्यवहाराद्याग्रहेणान्यत्र सङ्केताभाव ज्ञानाद्वाऽन्यत्राप्रयोग इत्यतो दूषणान्तरमाह ॥ किञ्चेति ॥ तथा चेति ॥ शक्तिज्ञापकसङ्केतमादाय शक्त्यपलापे सङ्केतज्ञापकास्मदाद्युपदेशादिना सङ्केतापलापोऽपि स्यादित्यर्थः । ननु नास्मदादीनां सङ्केतकारकत्वं येनास्मदाद्युपदेश एवायमस्मात्पदाद्बोद्धव्य इत्याद्याकारकोऽवगमाङ्गं स्यादपि तु पूर्वतनतज्ज्ञापकत्वमेवातः सङ्केत ईश्वरीय एक एव कल्प्यत इत्याशङ्कते ॥ अस्मदादिभिरपीति ॥ तर्हीश्वरस्य वृद्धानामपि न सङ्केतकारकत्वमपि तु ईश्वरज्ञापितस्वाभाविक शक्तिज्ञापकत्वमेवेति न सङ्केतेनापि शक्तयपलाप इति तुल्यमित्याह ॥ तर्हीति ॥ द्वितीये त्विति ॥ अस्मदादिसङ्केतस्याप्यव-गमाङ्गत्वे तेनापि प्रयोगाद्युपपत्त्या शब्दप्रयोजनसिद्ध्या तेषामपि साधुत्वेनेश्वरसङ्केतितानामेव साधुत्व-नियमाभावेन साध्वसाधुविभागाभावेन पारमेश्वरसमयपरिपालनस्यानावश्यकतया साध्वसाधुविभागपर-व्याकरणवैयर्थ्यमेवेति भावः । ननु प्रयोगप्रत्ययादिजनकत्वेनैव न शब्दस्य साधुत्वमपि त्वदृष्टजनक-त्वेन । तच्चेश्वरसङ्केतितानामेवेति तदन्येषामसाधुत्वात्तद्विभागाय व्याकरणमित्याशङ्कते ॥ अदृष्टार्थमिति चेदिति ॥ ईश्वरसङ्केतितानामेवादृष्टजनकत्वेन साधुत्वमित्यत्र प्रमाणाभावान्नैवमित्याह ॥ प्रमाण-भावादिति ॥ ननु साधुभिर्भाषितव्यम् । साधूनेव प्रयुञ्जीत न म्लेञ्छित वै नापभाषत वै म्लेच्छो ह वा एष यदपशब्द इत्यादिश्रुत्यादिकं तावत्साधूनामेव प्रयोज्यत्वमसाधूनां तदभावं बोधयति । तच्च शब्दस्य प्रयोगप्रत्ययादिजनकत्वेनैव साधुत्वे सर्वेषामपि प्रयोगादिजनकत्वादनुपपन्नमित्यदृष्टजनकतयैव वाच्यम् । तच्चानीश्वरसङ्केतितानां न हि कल्पयितुं युक्तम् । न च प्रकारान्तरेण साधुत्वं शक्यव्युत्पादनमिति तादृशश्रुत्यादिकमेवेश्वरसङ्केतितानामेवादृष्टजनकतया साधुत्वकल्पकमित्यतः स्वाभाविकशक्तिमतामेवा-दृष्टजनकत्वेन साधुत्वं तदन्येषामसाधुत्वमित्यभिप्रायेणापि श्रुत्याद्युपपत्तिर्न तेनेश्वरसङ्केतितानामेव साधुत्वसिद्धिरित्याह ॥ श्रुत्यादेरिति ॥ किञ्च स्वाभाविकशक्तौ व्युत्पन्नवदव्युत्पन्नस्यापि शब्दार्थावगमे प्राप्ते पश्चाज्ज्ञापकतया सहकारित्वेन कल्पितोपदेशादिना शक्तेरेवापलापे सन्निकर्षव्याप्त्युपदेशादि-नेन्द्रियव्याप्त्यादेरप्यपलापप्रसङ्ग इत्याह ॥ किञ्चेति ।
परिमल
अदृष्टार्थमिति चेदिति ॥ व्याकरणनिगमनिघण्ट्वादिकमिति योज्यम् । ईश्वरर्ष्यार्य कृतसङ्केतज्ञानेन व्यवहारेऽदृष्टमस्तीति तत्प्रतिपालनपरव्याकरणादिकमप्यदृष्टार्थं भविष्यतीति भावः । ईश्वरादिसङ्केतज्ञानस्यैवादृष्टार्थत्वमप्रामाणिकं येन तत्परिपालनद्वारा व्याकरणाद्यपि तथा स्यादिति भावेनाह ॥ प्रमाणाभावादिति ॥ ननु ‘एकः शब्दः सम्यग्ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग् भवतीति ब्राह्मणेन । न म्लेञ्छित वै नापभाषित वै म्लेञ्च्छो ह वा एष यदपशब्द’ इत्यादिश्रुत्या । ‘यस्तु प्रयुङ्क्ते कुशलो विशेषैः शब्दान्यथावद्य्ववहारकाले । सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद्दुष्यति चापशब्दैरित्यादिस्मृत्या च साध्वसाधुशब्दज्ञानप्रयोगयोरर्थानर्थयोरुक्त्या परमेश्वरसङ्केतज्ञानपूर्वकं व्यवहारेऽदृष्टं नान्यथेति परिकल्प्यत इत्यत आह ॥ श्रुत्यादेरिति ॥ चरमभाविनं सहकारिण-मुपदेशादिकमिति ॥ तथा हि वृद्धव्यवहारानन्तरमित्यादिनोक्तवृद्धव्यवहाररूपोपदेशमित्यर्थः ॥ अतिप्रसङ्ग इति ॥ दण्डचक्रादिसहकारिसम्पत्तिमादाय घटादिकार्यापलापोऽपि स्यात् । क्षितिसलिलादि सहकारिसम्पत्तिमादाय बीजस्याङ्कुरजननसामर्थ्यापलापप्रसङ्गात् । अन्त्यतन्तु संयोगसहकार्युपादाय पटापलापोऽपि स्यादित्यर्थः ।
यादुपत्यम्
उतास्मदादीनामिति ॥ ईश्वरव्यतिरिक्तानामपीत्यर्थः ॥ त्वदुक्तरीत्येति ॥ सर्गादिभुवां महर्षिदेवतानामुपदेशादिनैवेत्यर्थः ॥ अस्मदाद्युपदेश एवेति ॥ अस्मदादिकृतसङ्केतज्ञापक इति शेषः । देवदत्तपित्रादिवदीश्वरातिरिक्ता महर्ष्यादयः स्वकृतमेव सङ्केतमुपदेशादिना ज्ञापयन्ती-त्यस्त्विति भावः ॥ अस्मदादिभिरिति ॥ ईश्वरव्यतिरिक्तैर्महर्ष्यादिभिरित्यर्थः ॥ वृद्धेनेति ॥ अत्र वृद्धशब्देन प्रथममुपदेशादिना शक्तिज्ञापको भगवानेव विवक्षित इति ज्ञेयम् । ननु साधुभिर्भाषितव्यमिति श्रुत्यादेः का गतिरित्यत आह ॥ श्रुत्यादेरिति ॥ उपदेशादिकमुपादायेति ॥ अत्र यद्यपि चरमभाविनं सङ्केतमुपादायेत्येव वक्तव्यं पूर्वं तथैवाशङ्कितत्वात् । तथाऽप्यनवगतस्य सङ्केतस्यागमकत्वात्तदव-गमकमुपदेशादिकमावश्यकमित्यभिप्रेत्यैवमुक्तमिति दृष्टव्यम् ॥ अतिप्रसङ्ग इति ॥ चरमकारणा-नामन्त्यतन्तुसंयोगादीनामेव पटादिजनकत्वोपपत्तौ तज्जनकतन्त्वादौ पटादिजनकत्वमपि न कल्पनीयं स्यादित्यतिप्रसङ्ग इत्यर्थः ॥
श्रीनिवासतीर्थीया
ये स्वाभाविकसम्बन्धमास्थिषत शब्दार्थयोस्तैरपि तदवगमाय सङ्केतोऽङ्गीकार्यः । तथा च तेनैव प्रयोगादेरुपपत्तौ किं स्वाभाविकसम्बन्धेनेति पूर्वपक्षिणा यथोक्तं तन्न्यायेनैव परमेश्वरसङ्केतस्यैवावगमाङ्गत्वं यैरङ्गीक्रियते तैरपि तदवगमायेश्वरातिरिक्तानामुप-देशोऽङ्गीकार्यः । तथा च तेनैव सर्वत्र प्रयोगादेरुपपत्तौ किमीश्वरसङ्केतकल्पनयेति वक्तुमाह ॥ अत्र ब्रूम इत्यादिना ॥ अवगमोऽर्थावगमः ॥ अस्मदादीनामिति ॥ अत्रास्मदादिशब्द ईश्वरातिरिक्त-महर्ष्यादिपरः । एवमुत्तरत्रापि ॥ कथमिति ॥ ईश्वरसङ्केतस्य सर्वान्प्रत्यविशिष्टत्वादित्यर्थः ॥ स्वरूपे-णेति ॥ अगृहीत एवेत्यर्थः ॥ अगृहीतस्यैवेश्वरसङ्केतस्यार्थावगमाङ्गत्वे बाधकमाह ॥ व्युत्पन्नवदिति ॥ अन्यथेति शेषः । ईश्वरसङ्केतस्य स्वरूपसतः सत्त्वादित्यर्थः ॥ उपदेशादिनैवेति ॥ सर्गादिभुवामृष्या-दीनामुपदेशादिनैवेत्यर्थः ॥ समानमिति ॥ ननु ये स्वाभाविकसम्बन्धमास्थिषतेत्यादिना स्वाभाविक-सम्बन्धपक्षे यद्दूषणमुक्तं तत्परमेश्वरसङ्केतपक्षेऽपि समानमित्यर्थः । शङ्कते ॥ अस्मदादिभिरिति ॥ पूर्वतन ईश्वरकृतः ॥
द्वितीय इति ॥ न केवलमीश्वरसङ्केत एवावगमाङ्गं किं त्वीश्वरातिरिक्तानामपीति पक्ष इत्यर्थः । तदुपपादयति ॥ व्यवहारमात्रं हीति ॥ साधुभिर्भाषितव्यमिति वचनात्साधुशब्दव्यवहारमात्रमित्यर्थः ॥ तच्चेति ॥ व्याकरणशास्त्रप्रयोजनभूतं व्यवहारमात्रमित्यर्थः ॥ समानमिति ॥ ईश्वरतदतिरिक्तकृत-योरुभयोरपि सङ्केतयोर्व्यवहारमात्रस्यैव प्रयोजनत्वेन व्याकरणशास्त्रस्येश्वरातिरिक्तकृतसङ्केत-परिपालनार्थत्वस्यापि प्राप्त्या येषां पदानां येष्वर्थेषु परमेश्वरकृतः समयस्तानि तत्र साधून्यसाधूनि चेतरत्रेति भागाय व्याकरणमर्थवदिति यत्परमेश्वरमात्रकृतपरिपालनार्थत्वं व्याकरणशास्त्रस्योक्तं तदयुक्तमित्यर्थः । नन्वस्तु अस्मदाद्युपदेश एव, किमदृष्टेश्वरसङ्केतकल्पनयेति समानमिति यदुक्तं तदयुक्तम् । परमेश्वरसङ्केतकरणस्यादृष्टार्थत्वेन स्वाभाविकशक्तिज्ञापकत्वाभावादित्यभिप्रेत्य शङ्कते ॥ अदृष्टार्थमिति चेदिति ॥ वृद्धव्यवहारोऽपि गवादिपदानां देवदत्तादिशब्दवत्सङ्केतपूर्वक एव । तद्वरमस्तु सङ्केत एव कृतमत्र स्वाभाविकसम्बन्धेनेति यदुक्तं तद्दूषयति ॥ किञ्चेति ॥ चरमभाविनमिति ॥ अयं सङ्केत एव केषाञ्चिच्छब्दानामसति स्वाभाविकेऽर्थसम्बन्धे न शक्यः, ‘निर्दिश्य ह्यर्थं ब्रूयादस्मा-च्छब्दादयमर्थो बोद्धव्य इति । न च निर्देशोऽसति केषाञ्चिच्छब्दानां स्वाभाविकसम्बन्धे सिध्यती’-त्युक्तत्वात्, सङ्केतः स्वाभाविकशक्त्यपेक्षया चरमभावीत्यर्थः ॥ उपदेशादिकमिति ॥ सहकारि-भूतोपदेशादिसिद्धं सङ्केतमित्यर्थः । अज्ञातस्य सङ्केतस्यार्थावगमकत्वादुपदेशादेरेव तद्ग्राहकतया सर्गादिभुवामित्यादिना परेणोक्तत्वादुपदेशादिकमित्युक्तम् । वस्तुतस्तु चरमभाविनं सङ्केतमित्येव वाच्यमिति द्रष्टव्यम् ।