१७ सङ्केताच्छब्दबोधसमर्थनानुवादः

प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि

सङ्केताच्छब्दबोधसमर्थनानुवादः

प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि

सुधा

नन्वयं सङ्केत एव केषाञ्चिच्छब्दानामसति स्वाभाविकार्थसम्बन्धे न शक्यः कर्तुम् । निर्दिश्य ह्यर्थं ब्रूयादयमस्माद्बोद्धव्य इति । न च निर्देशोऽसति स्वाभाविके सम्बन्धे केषाञ्चि-च्छब्दानां सिध्यति । सङ्केताधीने तु वाचकत्वे सर्वेषां शब्दानामकृतसमयत्वात्किं केन निर्दिशेत् । तस्मात्सङ्केतकरणमेव स्वाभाविकसम्बन्धं प्रतिपादयति शब्दानाम् ॥ मैवम् ॥ सर्गादिभुवां महर्षिदेवतानां परमेश्वरानुग्रहाद्धर्मज्ञानवैराग्यैश्वर्यसम्पन्नानां परमेश्वरस्य तावत्सुकर एव सङ्केतः कर्तुम् । तद्-व्यवहाराच्चास्मदादीनामपि सुग्रहः सङ्केतः । तथा हि । वृद्धवचनानन्तरं तच्छ्राविणो वृद्धान्तरस्य प्रवृत्तिहर्षशोकभयादिप्रतिपत्तेस्तद्धेतुं प्रति अयमनुमिमीते बालस्तस्य सत्स्वप्यन्येष्व-भूतस्य वाक्यश्रवणसमनन्तरं भवतो वाक्यश्रवणहेतुतामवगच्छति । तदवयवानां च पदानामा-वापोद्धारभेदेन तत्तदर्थप्रत्ययजननोपायत्वदर्शनात् । तेषु तेष्वर्थेषु तेषां पदानां वाचकत्वं च कल्पयति । एवं पदावयवेषु प्रकृत्यादिष्वपि द्रष्टव्यम् । स्वाभाविकीं शक्तिमभ्युपगच्छताऽप्येषा प्रक्रियाऽनुसरणीया । साऽपि न सत्तामात्रेणावगमाङ्गमित्युक्तम् ।

वाक्यार्थचन्द्रिका

स्वाभाविकसम्बन्धाभावे सङ्केतकरणस्यैवासम्भवाद्विपरीतमुपजीव्योप-जीवकत्वमिति शङ्कते ॥ नन्वयमिति ॥ निर्देशो हि शब्देनैव ॥ स च स्वाभाविकसम्बन्ध एव सम्भवति । तस्य पूर्वमपि सत्त्वात् । न तु सङ्केतेन । तस्य पूर्वमसत्त्वादित्याह ॥ न चेति ॥ अकृत-समयत्वादिति ॥ सृष्ट्यादाविति शेषः । तथा च प्रलये विच्छेद एवानुपपन्न इति भावः । सङ्केतकरणं किमस्मदादीनां परमेश्वरस्य वाऽस्मदादीन्प्रत्यशक्यमुत परमेश्वरस्यापि देवादीन्प्रत्यपीति । नाद्य इष्टापत्तेः । नापि द्वितीयः । महर्षिदेवादीनां धर्मादिसम्पत्त्या सर्गाद्यकालीनपदार्थान्परमेश्वरं च साक्षात्कर्तुं समर्थत्वात्तान्प्रति परमेश्वरेणाङ्गुल्यादिनैव तांस्तानर्थान्निर्दिश्य शब्दविशेषसङ्केतस्य स्वेच्छयैव कर्तुं शक्यत्वेन शब्देनैव तन्निर्देशानावश्यकतया स्वाभाविकसम्बन्धानपेक्षणात् । अस्मान्प्रति सङ्केतकरणं च नावश्यकम् । तद्व्यवहारसिद्धतत्सङ्केतज्ञानमात्रेणास्मादादिप्रयोगाद्युपपत्तेरित्याह ॥ सर्गादिभुवा-मित्यादिना ॥ तान्प्रति महेश्वरेणायमस्यार्थस्य वाचक इत्यस्मादयमर्थो बोद्धव्य इति वा गवादिपदानां सास्नादिमदर्थेषु सङ्केतः सुकर इत्यर्थः । कथमतीन्द्रियेश्वरप्रत्यक्षं तदुपदेशादिकं च तेषामित्यतः परमेश्वरानुग्रहादित्यादि विशेषणम् । प्राथमिकसङ्केतत्वज्ञापनाय सर्गादीति । ननु तर्हि शक्तिपक्ष एवास्तु । एतादृशप्रक्रियाया सङ्केतग्रहपक्षस्य गौरवकरत्वादित्यर्थः ॥ स्वाभाविकीमिति ॥ स्वाभाविक शक्तिवादिनाऽपि तद्ग्रहोपायत्वेन सङ्केतस्य तद्ग्रहोपायतया चास्याः प्रक्रियाया अवश्यानुसर्त-व्यत्वेनातिगौरवमिति भावः ।

परिमल

शक्तिवादी शङ्कते ॥ नन्वयमिति ॥ केषांचिदिति ॥ इदमादिपदानाम् । सङ्केतवादी निराह ॥ मैवमिति ॥ सर्गादीति ॥ सर्गादौ जातान्महर्षिप्रभृतीन्प्रति प्रत्यक्षेण दृष्टार्थे सङ्केतः सुकर एव । तत्र शब्देन निर्देशानपेक्षणादिति भावः । विसंवादादिव्यवहाराभावसूचनाय धर्मज्ञानवैराग्य-सम्पन्नानामित्युक्तिः ।

यादुपत्यं

निर्दिश्य ह्यर्थं ब्रूयादिति ॥ न च सङ्केतस्येच्छारूपस्याशब्दात्मकत्वान्न निर्देषापेक्षेति वाच्यम् । अत्र परं प्रति सङ्केतकरणं नाम सङ्केतज्ञापको योऽस्माच्छब्दादयमर्थो बोद्धव्य इत्युपदेशस्तत्करणमेव विवक्षितम् । तस्य च शब्दत्वेन निर्देशापेक्षाऽस्त्येवेत्याशयात् । एवमग्रेऽपि सङ्केतकरणं यत्रोच्यते तत्र तज्ज्ञापकोपदेशकरणमेव विवक्षितम् । तेन सङ्केतस्येश्वरेच्छारूपस्य अनादित्वेन कथं करणमिति शङ्कानवकाशोऽपीति ध्येयम् ॥ सुकर एव सङ्केतः कर्तुमिति ॥ ऋष्यादीनां सर्वज्ञत्वेन भगवन्निष्ठसर्वशब्दसङ्केतग्रहणमुपदेशाभावकालेऽप्यस्तीति सर्वेषामकृतसमयत्वात्किं केन निर्दिशेदित्युक्तदोषाभावादिति भावः । न चैवं तान्प्रति सङ्केतकरणं व्यर्थम् । अदृष्टार्थत्वात्सम्प्रदाय- प्रवर्तनार्थत्वाच्च । अत्र सार्वज्ञोपपादनायैव धर्मवैराग्योपादानम् । योगजधर्मरूपप्रत्यासत्त्यभावे विषयविशेष रागरूपप्रतिबन्धकसद्भावे वा सर्वविषयकज्ञानोत्पत्त्ययोगात् । रागाभावोपपादक-मैश्वर्यमित्यवगन्तव्यम् । नन्वेवं तेषामपीश्वरसाम्यप्रसङ्ग इत्यत उक्तम् ॥ परमेश्वरानुग्रहादिति ॥ तद्-व्यवहाराच्चेति ॥ महामहर्ष्यादीनां प्रयोज्यवृद्धं प्रति व्यवहारादित्यर्थः । इदमुपलक्षणम् । तदुपदेशाच्चेत्यपि ग्राह्यम् । अत एवाग्रे उपदेशादिनैवेति वक्ष्यति । गामानयेत्यादौ प्रवृत्तिप्रतिपत्तिः । पुत्रस्ते जात इत्यादिषु हर्षप्रतिपत्तिः । पुत्रस्ते मृत इत्यादौ शोकप्रतिपत्तिः । सर्पोऽस्तीत्यादौ भयप्रतिपत्तिः । आदिपदात्तृणमस्तीत्यादावौदासीन्यप्रतिपत्तिर्ग्राह्या । वाचकत्वं सङ्केतम् । ननु कुत एषा प्रक्रिया तेनानुसरणीयेत्यत आह ॥ साऽपीति ॥ तदवगमोपायश्चोक्तरीत्या सङ्केत एव । तद्ग्रहणाय चोक्तप्रक्रिया तेनाप्यनुसरणीयेति भावः ॥

श्रीनिवासतीर्थीया

ये स्वाभाविकसम्बन्धमास्थिषत शब्दार्थयोस्तेषामपि तज्ज्ञाने उक्तरूपः सङ्केत एवोपाय इत्युक्तं दूषयितुं सिद्धान्ती शङ्कते ॥ नन्वयमिति ॥ यदर्थमेतदुक्तं तदाह ॥ सङ्केताधीने त्विति ॥ अकृतसमयत्वादकृतसङ्केतत्वात् । सर्गादिभुवामित्यादि कर्मणि षष्ठी । तस्य तद्धेतुप्रत्ययस्य । पदानामावापेन तत्तदर्थप्रत्ययस्य जननदर्शनात् । उद्धापेन तत्तदर्थप्रत्ययस्यापायदर्शनादिति योज्यम् ।

वाक्यार्थरत्नमाला

विच्छेद एवेति । वृद्धव्यवहारस्येति शेषः । स्वाभाविकसम्बन्धानभ्युपगमे सृष्ट्यादावकृतसमयतया निर्देशानुपपत्त्या सङ्केतकरणं न सम्भवतीत्यतो वृद्धव्यवहारस्यानादितैव प्रागाशङ्किता स्वीकार्या । न च प्रलये विच्छेदानुपपत्तिः । सङ्केतकरणपक्षानुपपत्त्या स्वाभाविक-सम्बन्धानभ्युपगमे तदा व्यवहारविच्छेदाभावस्यैव न्याय्यत्वादिति भावः । वाचस्पतौ हि परमेश्वरेण हि यः सृष्ट्यादौ गवादिशब्दानामर्थे सङ्केतः कृतः सोऽधुनेत्यादिनाऽविदितसङ्गतिर् बालानां सङ्केतग्रहं प्रतिज्ञाय तथाहि वृद्धव्यवहारानन्तरमित्यादिना मूलेऽनूदितप्रकारेण तदुपपादनं च कृत्वा सर्गादिभुवां त्वित्यादिना महर्षिदेवतादीन्प्रति परमेश्वरस्य सङ्केतकरणं सम्भवतीति प्रतिपाद्यापि तद्व्यवहाराच्चा-स्मदादीनामपि सुग्रहः सङ्केत इत्यादिना पुनरस्मदादीनां सङ्केतग्रहोपपादनं सङ्कोचेन कृतम् । तथापि एकत्रैव सर्गादीत्येतदपेक्षया पूर्वोत्तरग्रन्थप्रमेययोर्निवेशसम्भवे गौरवप्रापकप्रस्थानभेदो नाश्रयणीय इत्याशयेन स्वयं लाघवमाश्रित्य सर्गादिषु ऋष्यादिक्रमेणैव सङ्केतग्रहमुपपादयति सर्गादिभुवां हीति मूलम् । तत्रास्मदादीन्प्रति सङ्केतकरणानुपपत्तिरूपपक्षान्तरनिराकरणं सर्गादिभुवामित्याद्युक्तयैव सूचितमिति न तन्निराकरणाभावप्रयुक्तन्यूनतेति दर्शयन्पक्षद्वयं विकल्प्य तन्निराकरणपरतया तन्मूलं योजयति सङ्केतकरणं किमित्यादिना ।

अस्मदादीनामिति । अयमत्र विकल्पक्रमोऽभिप्रेतः । सङ्केतकरणं किमस्मदादीनामशक्यम् उत परमेश्वरस्यापि । द्वितीयेऽपि परमेश्वरस्य शक्यमप्यस्मदादीन्प्रत्यशक्यम् अथवा देवादीन्प्रत्यपीति । अत एव परमेश्वरस्य वेति परमेश्वरस्यापीति देवादीन् प्रत्यपीति चोक्तम् । तत्र सङ्केतकरणमस्मदादीना-मस्मदादीन्प्रत्यशक्यं परमेश्वरस्याप्यस्मदादीन्प्रत्यशक्यमिति कल्पद्वयं मिलित्वा शक्यमित्यत आद्यः कल्पः । द्वितीयद्वितीयस्तु परमेश्वरस्यापीत्यनेनोक्तः । एतत्कल्पद्वयनिराकरणेनैवोक्तकल्पत्रयनिराकरण-सिद्धिरिति ज्ञेयम् । नाद्य इष्टापत्तेरिति । इदं चाद्यकल्पीयप्रथमस्येव द्वितीयाद्यस्यापि दूषणम् । तथाहि । अस्मदादीनामस्मदादीन्प्रति सङ्केतकरणमशक्यमित्याद्योऽनङ्गीकारपराहतः । सर्गाद्यकालीन अनेकपदार्थसाक्षात्कारस्यास्मास्वसम्भवेन तान्पदार्थान्यङ्गुल्यादिना निर्दिश्य शब्दविशेषसङ्केतस्य अस्माभिरस्मदादीन्प्रति कर्तुमशक्यत्वस्य मयाऽप्यङ्गीकारात् । तथा परमेश्वरस्यास्मदादीन्प्रति सङ्केतकरणमशक्यमिति द्वितीयोऽप्यनङ्गीकारपराहतः । परमेश्वरस्य सर्गाद्यकालीनपदार्थसाक्षात्कार-सम्भवेऽप्यस्मदादीनां तदसम्भवेन तान् पदार्थान् परमेश्वरं च साक्षात्कर्तुमसमर्थानस्मदादीन्प्रति परमेश्वरेणाङ्गुल्यादिनैव तांस्तानर्थान्निर्दिश्य शब्दविशेषसङ्केतकरणस्यासम्भव इत्यस्य मयाऽप्यङ्गी-कारादिष्टापत्तिरिति । परमेश्वरस्यापि देवादीन्प्रत्यपि सङ्केतकरणमशक्यमित्येतद् द्वितीयद्वितीयं निराकरोति नापि द्वितीय इति । मूले परमेश्वरानुग्रहादिकथनस्य सङ्केतकरणोपायताऽभिप्रेतेति दर्शयंस्तदुपायताप्रकारं दर्शयति संपत्त्येत्यादिना । उत्तरत्र व्यवहारस्य सङ्केतग्रहणोपायत्वाच्छब्दे-नैवार्थस्य निर्देष्टव्यत्वदर्शनादिकालेऽपि व्यवहारं परित्यज्य कुतोऽङ्गुल्यादिनैव निर्देश ईश्वरेण क्रियत इत्यत उक्तं स्वेच्छयैवेति । अस्मदादीनां देशादिव्यवहारात्तत्सङ्केतज्ञाने सति किं स्यादित्यतो मूले पूरितमस्मदादिप्रयोगाद्युपपत्तेरिति । एतत्प्रक्रियानुसरणमात्रं न दोष इत्यतोऽभ्युपगच्छताऽपीत्यपि-पदसूचितं दूषणमाह स्वाभाविकशक्तीति ।