प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि
सङ्केतत्वाद्यभिमतचोद्यम्
प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि
सुधा
ननु ये स्वाभाविकं सम्बन्धमास्थिषत शब्दार्थयोस्तेषामपि नैष सत्तामात्रेणाव-गमाङ्गम् । अपि तु विज्ञातस्सन् । विज्ञाने चास्यायमर्थस्य वाचक इति वाऽस्मादयं बोद्धव्य इति वा सङ्केत एवोपायः । वृद्धव्यवहारोऽपि गवादिशब्दानां देवदत्तादिशब्दवत्सङ्केतपूर्वक एव । तद्वरमस्तु सङ्केत एव । कृतमत्र स्वाभाविकेन सम्बन्धेन । तन्मात्रादेव प्रयोगप्रतिपत्तिव्यवहाराणामुपपत्तेः ।
वाक्यार्थचन्द्रिका
स्वाभाविकसम्बन्धमभ्युपगच्छता तद्ग्रहोपायत्वेन सङ्केतस्यैव वक्तव्य-त्वात्तेनैव प्रयोगाद्युपपत्तौ तदर्थतया स्वाभाविकसम्बन्धकल्पने गौरवमित्याशङ्कते ॥ नन्विति ॥ नन्वस्तु तावत्सामयिकेषु देवदत्तादिशब्देष्वेवम् । ये पुनरिदंप्रथमव्यवहारप्रवृत्तास्तेषु कथं समयापेक्षेत्यत आह ॥ वृद्धव्यवहारोऽपीति ॥ गवादिशब्दा अपि समयाधीनवृत्तयः पदत्वाद्देवदत्तादिपदवदित्यर्थः । न चानादितयाऽप्येतदुपपत्स्यते प्रलये विच्छेदादिति भावः ।
परिमल
सङ्केतवाद्यभिमतचोद्यमनुवदति ॥ ननु ये स्वाभाविकमित्यादिना अत्र ब्रूम इत्यन्तेन ॥ इति वा सङ्केत इति ॥ परमेश्वरेच्छाधीनो यः सङ्केतस् तज्ज्ञानमेवोपाय इत्यर्थः । वृद्धव्यवहार एव शक्तिज्ञानोपायोऽस्त्वित्यत आह ॥ वृद्धेति ॥
यादुपत्यं
सङ्केत एवोपाय इति ॥ अस्माच्छब्दादयमर्थो बोद्धव्य इत्यादिवाक्यादवगत इति शेषः । स्वाभाविकसम्बन्धस्य शक्तिरूपत्वेन प्रत्यक्षादिना ज्ञातुमशक्यत्वादिति भावः । ननु स्वाभाविक सम्बन्धविज्ञानं वृद्धव्यवहारादेव भविष्यति । अतो न सङ्केतस्य तत्रोपजीव्यतेत्यत आह ॥ वृद्धव्यवहारोऽपीति ॥ यथा पिण्डविशेषे देवदत्तादिशब्दसङ्केते पित्रादिना कृते सति पश्चात्प्रयोजक-वृद्धादिव्यवहारस्तज्ज्ञापकः प्रवर्तते तथा गवादिशब्देष्वपि कस्यचित्सङ्केतानन्तरमेव वृद्धव्यवहारस्त-ज्ज्ञापनाय प्रवर्तत इत्यर्थः । तथा च गवादिशब्दाः साङ्केतिकाः शब्दत्वाद्देवदत्तादि शब्दवदित्यनुमान सिद्धसङ्केतज्ञापक एव सर्वत्र वृद्धव्यवहारो न क्वापि स्वाभाविकसम्बन्धज्ञापक इति भावः ॥
श्रीनिवासतीर्थीया
सत्तामात्रेणेति ॥ अज्ञात एवेत्यर्थः । अस्मात् शब्दात् । अयम् अर्थः ।
वाक्यार्थरत्नमाला
स्वाभाविकसम्बन्धग्रहोपायत्वेनैव सङ्केतोऽङ्गीक्रियते । न तु तेनैव प्रयोगाद्युपपत्तिरपि । सङ्केतावगतस्वाभाविकसम्बन्धेन तु प्रयोगादिनिर्वाह इत्यङ्गीक्रियत इत्याशङ्का-परिहाराय मूलतात्पर्यं वदन् निष्कृष्टमूलार्थं दर्शयन्नवतारयति स्वाभाविकसम्बन्धमिति । सम्बन्ध-वादिनापि नायमवर्जनीय इत्यादिवात्स्यायनभाष्यव्याख्यानवार्तिकमयं च वाच्यवाचकभावलक्षणसम्बन्धः स्वाभाविकशब्दार्थसम्बन्धवादिनाऽप्यभ्यनुज्ञेयः । न हि स्वाभाविकसम्बन्धवादिनोऽनुपयुक्तशब्दार्थ-सम्बन्धस्य शब्दग्रहणाद्विशेषप्रत्ययो भवतीत्यादि तद्व्याख्यानरूपन्यायवाचस्पतिग्रन्थः । येऽपि मीमांसका वैयाकरणा वा स्वाभाविकशब्दार्थयोः सम्बन्धमास्थिषत तेषामपि नैष सत्तामात्रेणाव-गमाङ्गमपि तु ज्ञातः सन्नित्यादिः । सङ्गृह्योपयुक्ततदनुवादरूपश्चायम् । ननु ये स्वाभाविकसम्बन्ध-विशेषमित्यादि मूलग्रन्थ इति ज्ञेयम् । उक्तवाचस्पतिनिबन्धानुसारेण वृद्धेतिवाक्यमवतारयति नन्वस्त्विति । तदनुसारेणैवोपपादयति गवादिशब्दा इति । तथैवाह न चेत्यादि । तत्र इदंप्रथम-तयेत्युक्तस्यानादितयेत्यर्थानुवादः । व्यवहारस्येति शेषः । इतःपरमकृतसमयत्वादित्येतद्वाक्ये निबन्धोऽस्ति । तदन्यत्र निबन्धो नास्ति शब्देनैवेति । अनेन प्रकारान्तरेण निर्देशाभ्युपगमात् स्वाभाविकसम्बन्धाभावेऽपि निर्देशसिद्धिरिति निराकृतं भवति ।