०८ शब्दाप्रामाण्योपपादनानुवादः

अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि

शब्दाप्रामाण्योपपादनानुवादः

अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि

सुधा

ननु शब्दस्यैव तावत्प्रामाण्यं दुर्लभम् । तथा हि । प्रमाकरणं हि प्रमाणम् । प्रमाकरणं च तदुच्यते यस्मिन्सति प्रमा भवत्येव नासति । सत्यपि शब्दे न प्रमा ज्ञायते । तत्कथं प्रमाकरणं स्यात् । किञ्च प्रमाणं हि विषयसद्भावेन व्याप्तम् । विषयश्च द्वेधा । अपरोक्षः परोक्षश्च । तत्रापरोक्षः प्रत्यक्षसिद्धः । परोक्षस्त्वनुमानवेद्य इति विषयाभावान्न प्रमाणं शब्दः ॥ अपि च यत्प्रमाणं तद्विज्ञानात्मकं दृष्टम् । यथा धूमज्ञानम् । अविज्ञानात्मकश्च शब्दोऽतो न प्रमाणम् । एवं बाह्यकरणप्रत्यक्षत्वादात्मन्यनाश्रितत्वाच्च; घटवत् । आकाशगुणत्वाच्च तत्परिमाणवत् । किञ्च किं शब्दोऽर्थेन संबद्धस्तं बोधयति उतासंबद्धः । आद्ये संबन्धस्तादात्म्यं, संयोगः समवायो वा । न प्रथमः । (वन्ह्या)अग्न्यादिशब्दोच्चारणे सति मुखदाहादिप्रसङ्गात् । वर्तमानस्य शब्दस्यातीतादि-नार्थेन तादात्म्येऽर्थस्यापि वर्तमानतापत्तिः । शब्दस्य वाऽतीतत्वादिप्राप्तिः । न द्वितीयः गुणत्वात् । द्रव्यत्वेऽपि मूर्तस्य क्रिययाऽर्थसंयोगेऽन्तरावस्थितार्थविषयात्वापत्तिः । सर्वगतत्वे तु सर्वार्थ-प्रतिपादकत्वप्रसङ्गः । सर्वथाऽतीतादिना संयोगानुपपत्तौ तदप्रतिपादकत्वं स्यात् । न तृतीयः । आकाशगुणस्यान्यत्र समवायायोगात् । सर्वशब्दानामाकाशार्थतापत्तेश्च । द्रव्यस्यापि, मूर्तस्य वा अमूर्तस्य वा न घटादिना समवायो युज्यते । असंबद्धस्य च बोधकत्वे नियामकाभावात्सर्वोऽपि सर्वं बोधयेत् ॥ किञ्च आप्तानाप्तयोर्नद्यास्तीरे पञ्चफलानि सन्तीति वाक्ययोरस्ति कश्चिद्विशेषो न वा । नाद्यः । अनुपलम्भात् । पुरुषे विशेषोऽस्तीति चेन्न तस्य वाक्योच्चारण एवोपक्षीणत्वेन तदुत्पाद्यज्ञानेऽनुपयोगात् । द्वितीये तु कथमेकस्यार्थविसंवादोऽपरस्य तु संवादः । अतः संभावनामात्रेण शब्दात्कृष्यादाविव प्रवृत्तिः ।

वाक्यार्थचन्द्रिका

ननु वेदप्रामाण्यप्रतिपादनमुत्तरवाक्येऽयुक्तमसङ्गतेः । शब्दप्रामाण्ये च सति विशिष्य वेदाप्रामाण्यप्रापकाभावाच्च । न च शब्दप्रामाण्यप्रतिपादनमेवेतदिति वाच्यम् । असङ्गत्यपरिहारात् । तदप्रामाण्यप्रापकाभावाच्चेत्यतस्तत्सङ्गमयितुं शब्दाप्रामाण्ये प्रापकं वक्तुं प्रतिजानीते ॥ नन्विति ॥ नन्वेतादृशबाधकस्य सर्वत्र संभवात्करणमात्रोच्छेदप्रसङ्ग इत्यत आह ॥ किञ्चेति ॥ विषयेति ॥ न च विषयाभावेऽप्यतीतानागतगोचरानुमानयोगिप्रत्यक्षयोः प्रामाण्येन विषयसद्भावस्य प्रामाण्याव्यापकत्वान्न तन्निवृत्त्या प्रामाण्यनिवृत्तिरिति वाच्यम् । अत्र विषयशब्देना-लम्बनस्य विवक्षितत्वात्तस्य च तत्रापि सत्त्वादिति भावः ॥ परोक्षस्त्विति ॥ न चानुमानवदागमस्यापि परोक्षार्थविषयकत्वमेवास्त्वन्यथाऽऽगमप्रामाण्यमभ्युपगम्यानुमानेऽप्येतादृशप्रत्यवस्थानं सुलभमिति वाच्यम् । परचित्तवृत्त्याद्यसङ्कीर्णविषयसद्भावेनानुमानप्रामाण्यस्यावश्यकत्वे सकलपरोक्षार्थसंवेदनस्य तेनैवोपपत्तावसङ्कीर्णविषयाभावेन नागमप्रामाण्यमिति भावः । ननु शब्दस्यापि बोधकत्वादसङ्कीर्णो विषयोऽपि कल्पनीय इत्यतः स्वयमप्रकाशात्मकस्यान्यप्रकाशकत्वमेवानुपपन्नमित्याशयेनाह ॥ अपि चेति ॥ विज्ञानमेव प्रमाणं प्रत्यक्षस्थलेऽपीन्द्रियजन्यज्ञानस्यैव प्रामाण्यं नत्विन्द्रियादेरिति मतेनेदम् । अत एव न्यायवार्तिके यत्प्रमाणं तद्विज्ञानात्मकं यथा प्रत्यक्षमित्युदाहृतम् । अत एव च परिहार-दशायामत्रापि यथेन्द्रिमिन्द्रियसन्निकर्षो वा प्रत्यक्षं, विज्ञानकरणत्वादविज्ञानात्मकमपि प्रमाणमिति दृष्टान्तकथनावसरे विज्ञानकरणत्वादिति हेतूपादानम् । एवं चात्रापि यथा प्रत्यक्षमिति वक्तव्ये करण-प्रसङ्गाद्यथा धूमज्ञानमित्येवोक्तमिति ध्येयम् । मानसप्रत्यक्षलिङ्गज्ञानव्यावृत्त्यै बाह्येति । घटवदित्युक्त्याऽन्यथा घटस्यापि प्रमाणत्वं स्यादित्युक्तं भवति । अविज्ञानात्मकत्वेनाप्रामाण्येऽपि घट एवान्वयदृष्टान्तः । आकाशो महत्प्रत्ययविषयो महत्त्वपरिमाणवत्त्वादित्यादौ लिङ्गतयाऽऽकाश-परिमाणस्य प्रमाणत्वेऽपि लिङ्गतानाक्रान्तस्य तस्य न प्रमाणत्वमिति न तत्रानैकान्तिकता । अन्यथा सङ्ख्याया अपि क्वचिल्लिङ्गत्वोपपत्त्या तस्या अपि दृष्टान्तत्वं न स्यात् । तथा च सङ्ख्यां दृष्टान्त-तयोपादाय परिमाणेऽनैकान्तिकत्वोद्भावनं केषाञ्चिद्वार्तिककारादीनामनुचितमिति दर्शयितुं सङ्ख्याया आदित्वेऽपि तामनुपादाय परिमाणं दृष्टान्ततयोपादत्ते ॥ तत्परिमाणवदिति ॥ उक्तहेतूनां विपक्षे बाधकाभावादप्रयोजकताशङ्काक्रान्ततया तच्छङ्कानास्पदं हेतुमाह ॥ किञ्चेति ॥ वन्ह्यादीत्यादिशब्देन शस्त्रादि । दाहादीत्यत्र मुखपाटनादि ग्राह्यम् । दूषणान्तरमाह ॥ वर्तमानस्येति ॥ ननु शब्दो द्रव्यं साक्षादिन्द्रियसंबन्धवत्वात्सङ्ख्यावत्त्वाच्च घटवत् । श्रोत्रं नित्यद्रव्यग्राहकं निरवयवेन्द्रियत्वान्मनोव-दित्यादिना शब्दस्य द्रव्यत्वस्थितेर्गुणत्वमसिद्धमित्यत आह ॥ द्रव्यत्वेऽपीति ॥ एवं मूर्तत्वामूर्तत्व-पक्षयोः पृथग्दूषणमभिधाय पक्षद्वयेऽप्येकं दूषणमाह ॥ सर्वथेति ॥ मूर्तत्वपक्षेऽमूर्तत्वपक्षेऽपीत्यर्थः । प्रथमे द्वितीयकल्पं निषेधति ॥ असम्बद्धेति ॥ ननु संबन्धाभावेन शब्दस्याबोधकत्वे तद्बोधात् प्रवृत्तिसंवादो न स्यादित्यतोऽस्य बोधकत्वं वदताऽपि संवादविसंवादहेतोर्निरूपयितुमशक्यत्वात्प्रवृत्तेः संभावनामात्रहेतुकत्वं क्वचित्संवादस्य काकतालीयत्वमकामेनापि स्वीकर्तव्यमित्याशयेनाह ॥ किञ्चेति ॥ तस्येति ॥ पुरुषस्य वाक्योत्पाद्यज्ञानेऽप्युपयोगाङ्गीकारे त्वन्मतेनापौरुषेयवाक्ये पुरुषाभावेन तस्य बोधकत्वं न स्यादिति भावः ॥

परिमल

सिद्धार्थपरत्वरूपं तृतीयमतःशब्दव्याख्यानम् । शब्दाप्रामाण्यवादिबौद्धमतमनुवदति ॥ नन्वित्यादिना ॥ एवकारतात्पर्यमुपसंहारे व्यक्तम् । प्रकृताभिप्रायमाह ॥ प्रमाकरणं हीति ॥ शब्द इति योज्यम् । अन्वयव्यभिचारान्न प्रमाकरणत्वमिति भावेन बौद्धमतरीत्या व्यतिरेकव्याप्त्युपनय-रूपावयवद्वयोक्तिपूर्वं निगमयति ॥ प्रमाकरणं चेति ॥ निर्विषयत्वाच्च न प्रमाणं शब्द इत्याह ॥ किञ्चेति ॥ अविज्ञानात्मकत्वाच्च न प्रमाणं शब्द इति व्यतिरेकोदाहरणोपनयपूर्वमाह ॥ अपि चेति ॥ एवमिति ॥ वक्ष्यमाणहेतुत्रयेणापि शब्दो न प्रमाणमित्यर्थः । हेतूनाह ॥ बाह्येति ॥ हेतुद्वये दृष्टान्तः घटवदिति ॥ उक्ताप्रामाण्यसाधकषढ्ढेतूनामप्रयोजकत्वनिरासाय प्रामाण्यपक्षे बाधकमाह ॥ किं शब्द इत्यादिना ॥ गुणत्वादिति ॥ शब्दस्येति योज्यम् । द्रव्यत्वेऽपीत्यत्राप्येवं योज्यम् । किं मूर्त उत सर्वगतः शब्दः । आद्ये आह ॥ मूर्तस्येति ॥ अन्त्ये आह ॥ सर्वगतत्वे त्विति ॥ आकाशार्थतेति ॥ सर्वशब्दानामाकाशसमवेतत्वेन समवायस्य सत्त्वादाकाशमात्रार्थत्वं स्यादित्यर्थः । तृतीयपक्षे दोषान्तरमाह द्रव्यस्यापीति ॥ घटादिनेति ॥ अयुतसिद्धत्वाभावात् । तथा चाकाशेतरसर्वपदार्था-प्रतिभास एव शब्दात्स्यादिति भावः । प्राग्विकल्पितासंबन्धपक्षं निराह ॥ असंबद्धस्येति ॥ प्रामाण्यपक्षे बाधकान्तरं चाह ॥ किञ्चाप्तेति ॥ पुरुषे विशेष इति ॥ आप्तत्वानाप्तत्वे इति भावः ॥ तदिति ॥ शब्दोत्पाद्यज्ञान इत्यर्थः ॥ संभावनेति ॥ उत्कटकोटिकसंदेहेत्यर्थः ॥

यादुपत्यं

यस्मिन्सतीति ॥ अविलम्बेनोत्पादकत्वं करणत्वमभिप्रेत्येदमुक्तमिति ज्ञातव्यम् ॥ न प्रमा जायत इति ॥ व्युत्पत्तिविधुराणामिति शेषः ॥ तत्कथमिति ॥ अनेन शब्दो न प्रमाणमिति व्यवहर्तव्यः प्रमित्यजनकत्वादिति प्रयोगः सूचितो भवति । अन्यथा साध्याविशिष्टता स्यादिति ध्येयम् । यद्यपि बौद्धमतेऽविसंवादिविज्ञानमेव प्रमाणं न करणं तथाऽपि पररीत्येदमुक्तमिति द्रष्टव्यम् । अत एव स्वमतेनाह ॥ यत्प्रमाणं तद्विज्ञानात्मकमिति ॥ सर्वशब्दानामिति ॥ समवायेन तद्बोधक-त्वाङ्गीकारादिति भावः । द्वितीयं दूषयति ॥ असम्बद्धेति ॥ ततः किमित्यत आह ॥ अत इति ॥ अनियतसंवादित्वादित्यर्थः । तथा च निष्कम्पप्रवृत्त्यजनकत्वान्न शब्दः प्रमाणमिति भावः ।

श्रीनिवासतीर्थीया

बाह्यकरणप्रत्यक्षत्वादिति ॥ बाह्यकरणजन्यज्ञानविषयत्वादित्यर्थः । न प्रमाणमित्यनुवर्तते । यत्प्रमाणं तद्बाह्यकरणप्रत्यक्षं न भवति । यथा विज्ञानम् । शब्दस्तु न तथाऽतो घटादिवदप्रमाणमित्यर्थः ॥ आकाशार्थतेति ॥ येन समवायस्तद्बोधकत्वाङ्गीकारात्सर्वेषामपि शब्दा-नामाकाशार्थतापत्तेर् आकाशविषयकतापत्तेः । आकाशबोधजनकतापत्तेरिति यावदित्यर्थः । अतःशब्दात् सम्भावनामात्रेणेत्यन्वयः । उत्कटकोटिकः संशयः सम्भावना । तथा च शब्देन संभावनैव जायते । तन्मात्रेणैव प्रवर्तते इत्येवं शब्दस्य संशयजनकत्वेन प्रमाजनकत्वाभावान्न शब्दः प्रमाणमित्यर्थः ॥

वाक्यार्थरत्नमाला

उत्तरवाक्य इति । प्रत्यक्षवच्च प्रामाण्यमित्यस्यागम्यत इति व्युत्पत्त्या-द्याश्रयणेन वेदप्रामाण्यप्रतिपादकतयापि योजनाया करिष्यमाणत्वादिति भावः । न च शब्देति । तथा च शब्दाप्रामाण्यप्रयुक्तं वेदस्याप्रामाण्यं प्रसक्तमिति भावः । शब्दाप्रामाण्य इति लौकिकवैदिकसाधारण्येन शब्दाप्रामाण्य इत्यर्थः । तथा च सकलशब्दाप्रामाण्यशङ्कावारकतया प्रत्यक्षवच्चेत्युत्तरवाक्यं सङ्गतमिति भावः । एतादृशेति । सत्यपि शब्दे प्रमानुत्पत्तेरित्युक्तबाधकसदृशस्येत्यर्थः । सर्वत्रापीति । यावद्धि प्रमाकरणत्वेन संप्रतिपन्नं यच्च क्रियाकरणत्वेन संप्रतिपन्नं तत्र सर्वत्रापि तस्मिन्सति तत्कार्यं भवत्येवेत्येवं नास्ति । सामग्रीविरहदशायां करणत्वाभिमतेन कार्यानुत्पत्तेः । तथा च तेषां तत्करण-त्वायोगे करणमात्रोच्छेदप्रसङ्ग इत्यर्थः । यद्यपि प्रत्यक्षानुमानयोरेव प्रमाणयोः प्रत्यक्षवच्चेत्युत्तरानुसारेण प्रमाणतया प्रसक्तशब्दस्य प्रमाकरणत्वनिराकरणप्रसङ्गेन च शीघ्रोपस्थित्या तदुच्छेद एवाशङ्कनीयस् तथापि तस्मिन्सत्यपीत्याद्युक्तबाधकस्य करणमात्रेऽपि प्रसरोऽस्तीति ज्ञापनाय करणमात्रेत्युक्त

मिति ज्ञेयम् । अतीतेति । अतीतानागतगोचरेत्यनुमानयोगिप्रत्यक्षयोर्विशेषणम् । न तदिति । व्यापकनिवृत्तावेव व्याप्यनिवृत्तिप्राप्तेरिति भावः । आलम्बनस्येति । उल्लेख्यत्वरूपत्वादालम्बनत्व-स्याऽतीतानागतयोश्चोल्लेख्यत्वसद्भावेनोक्तविधविषयस्याऽनुमानयोगिप्रत्यक्षयोरपि सत्त्वादित्यर्थः । उक्तरीत्याऽनुमानागमप्रामाण्यप्रत्यवस्थानसाम्येऽप्यनुमानप्रामाण्यस्य असङ्कीर्णविषयसद्भावेन क्लृप्त-त्वात्तदेव स्वीकृत्या सङ्कीर्णविषयशून्यशब्दप्रामाण्यमेव त्याज्यमित्याह परचित्तवृत्यादीति ।

अत एव न्यायेति । एतत्प्रकरणं न्यायवार्तिकतद्वाचस्पत्यादिकं कुसुमाञ्जलिसूत्रोपस्कारादिकं चाऽवलोक्य विशदीकार्यमस्ति । यत्प्रमाणं तद्विज्ञानात्मकमिति वार्तिके इन्द्रियजन्यज्ञानविवक्षयेव यथा प्रत्यक्षमिति दृष्टान्तीकरणाद्विज्ञानमेव प्रमाणमिति मतस्यात्रानुसृतस्य उक्तवार्तिकसंमतत्वमिति भावः । हेतूपादानमिति । तत्करणमित्यर्थः । तथा हेतूकरणेन विज्ञानरूपतया प्रमाणत्वाभावेऽपि तत्करणतया प्रमाणत्वमिति प्रतिपादनं लभ्यते । अत एवाविज्ञानात्मकमपि इत्युक्तम् । एवं च प्रत्यक्षमपि विज्ञानात्मकं प्रमाणमस्तीति सिद्धान्तेऽपि प्राप्नोतीत्यर्थः । तावतापि किमित्यतः दृष्टान्ततया वक्ष्यमाणपरिहारोपात्तस्य प्रथमप्राप्तप्रत्यक्षस्य परित्यागेनाऽनुमानरूपधूमज्ञानोपादानाऽयोग इति फलं दर्शयंस्तत्परिहारं च करोति एवं चात्रापीति । मानसेति । करणप्रत्यक्षत्वादित्येवोक्ते मानसप्रत्यक्षविषये लिङ्गज्ञाने प्रमाणीभूते व्यभिचारस्तन्निवृत्त्यै बाह्यपदमित्यर्थः । विपक्षे बाधकानुक्तिर्नास्तीति घटवदिति दृष्टान्तीकरणेनैव सिद्धमित्याह घटवदित्युक्तयेति । शब्दो न प्रमाणमविज्ञानात्मकत्वादिति प्रागुक्तानुमाने दृष्टान्तानुक्तिर्न मन्तव्येत्याह अविज्ञानेति । अत्र प्रथमप्राप्तामपि सङ्ख्यां परित्यज्य परिमाणस्यैव दृष्टान्ततयोपादानेन सङ्ख्याया दृष्टान्तत्वं न सम्भवतीति प्रतीयते । तथा न मन्तव्यं परिमाणस्य महत्प्रत्ययविषयत्वानुमापकत्ववत्सङ्ख्याया अपि दशधा गणनीयत्वाद्यनुमापकतया तयोस्तदर्थद्वये प्रमाणत्वस्य तदतिरिक्तार्थे तयोर्लिङ्गत्वाभावेनाप्रमाणत्वस्य चाऽविशेषात् । एतेनाकाशपरिमाणे लिङ्गताक्रान्ते आकाशगुणत्वस्य व्यभिचारोऽपि परास्तः । तदनाक्रान्तपरिमाणस्यैव दृष्टान्तीकरणात् । तर्हि सङ्ख्याया एवोपादानं कार्यम् । प्राथमिकत्वादिति चेत्सत्यम् । कैश्चिद्वृत्तिकारैः सङ्ख्यामेव दृष्टान्तीकृत्यानुमानप्रवृत्तिमुपवर्ण्य तत्परिमाणे तु दृष्टान्तीकृते लिङ्गताक्रान्ते आकाशगुणत्वस्यानैकान्तिक त्वोद्भावनं कृतमस्ति । तदुक्तरीत्या सङ्ख्यापरिमाणयोरविशेषादयुक्तमिति सूचनस्य आदितयाऽ-प्राप्तपरित्यागेन परिमाणोपादानेन विनाऽनुपपत्त्या तदर्थं पश्चात्प्राप्तस्यापि तत्परिमाणस्य दृष्टान्ती-करणमिति मूलाभिप्रायं दर्शयन्नवतारयति आकाश इत्यादिना । अत्र च टीकायामनैकान्तिकत्वं नाम साध्यवैकल्यमेवाभिप्रेतम् । दृष्टान्तदोषस्य वक्तव्यत्वात् । अत एव दृष्टान्तत्वं न स्यादिति मध्ये उक्तमिति ज्ञेयम् । परिमाण इति । तद्दृष्टान्तत्वपक्ष इति पूरणीयम् ।

विपक्षे बाधकेति । घटवदिति दृष्टान्तीकरणादिनाऽप्राप्तस्यान्यथा घटादेरपि प्रमाणत्वं स्यादित्येवं रूपस्य बाधकस्य सर्वत्र वक्तुं शक्यत्वेनानुकूलतर्कादेरवक्तव्यत्वापत्त्या तस्य बाधकत्वायोगादिति भावः । व्यवधानाच्छब्दोऽर्थेन सम्बद्धस्तं बोधयत्युतासम्बद्ध इति प्रथमविकल्पीयद्वितीयदूषणमेतदित्याह प्रथम इति ।

कुतो वाक्योत्पाद्यज्ञाने पुरुषस्योपयोगो नेत्यतस्तत्र हेतुमाह पुरुषस्येति ।