दृष्ठ्या ज्ञातपदार्थस्य स्यादाकाङ्क्षा भविष्यति
कालत्रयव्युत्पत्तिक्रमः
अनुव्याख्यानम्
दृष्ठ्या ज्ञातपदार्थस्य स्यादाकाङ्क्षा भविष्यति ॥
व्युत्पत्तिः प्रथमा तस्माद्वर्तमाने(ऽ)गते ततः ॥
सुधा
यदप्युक्तं वर्तमानार्थक्रियादिशब्दव्युत्पत्त्यनन्तरभाविनी भविष्यदर्थक्रियाशब्दव्युत्पत्ति-रिति । तदयुक्तम् । व्युत्पत्तिसम्भवे प्राथमिकत्वस्यैवोपपत्तावानन्तरिकत्वकल्पनायां नियामका-भावादित्यत आह ॥ दृष्ट्येति ॥ प्रथमत एवानागतार्थे जिज्ञासाप्रतीक्षयोरसम्भवान्न व्युत्पत्ति-रित्युक्तम् । वर्तमानार्थस्य तु दृष्टिसम्भवेन जिज्ञासोपपत्तौ प्रतीक्षाऽऽयासासम्भवाच्च प्रथमं व्युत्पत्ति-स्ततो ज्ञातः पदस्यार्थो येन तस्य वर्तमानक्रियायां तदन्वितेषु चार्थेषु व्युत्पन्नस्य पश्चाद्भविष्यत्यतीते चाकाङ्क्षा स्यात् । देवदत्तो गामानयतीत्यादिपदानां वर्तमानक्रियायां तदन्वितेषु व्युत्पत्तौ जातायां देवदत्त गामानयेत्युक्ते गवादिपदानामानयतेश्च ज्ञातार्थत्वेनोर्वरितप्रत्ययार्थमात्रे जिज्ञासाप्रतीक्षा च स्यात् । तस्माद्वर्तमानार्थव्युत्पत्तेराकाङ्क्षादिजननद्वारेण कारणत्वेन भविष्यदाद्यर्थव्युत्पत्तेश्च कार्यत्वात्पौर्वापर्योपपत्तिरिति ॥ अगतेऽनागत इत्यर्थः ।
वाक्यार्थचन्द्रिका
ननूत्तरवाक्ये आन्तरिकत्वं कार्यव्युत्पन्नेर्न व्युत्पादनीयम् अधुनैव कार्ये व्युत्पत्त्यभावप्रतिपादनात् । प्राथमिकत्वे नियामकाभावे आनन्तरिकत्वस्यैव सिद्धेश्चेत्यतस्तद्-व्यावर्त्य-शङ्कामुत्थापयति ॥ यदुक्तमिति ॥ आनन्तरिकत्वं व्युत्पादयताऽनन्तरं कार्यजिज्ञासादि भवतीतिवत्प्रथमं न भवतीत्यापि वक्तव्यतया तदनुक्त्या भाष्ये न्यूनतेत्यत एष्यदानयनायायं कुत एव प्रतीक्षत इत्युक्त्या तत्सिद्धेर्न न्यूनतेत्याशयेन पूर्वसिद्धमनुवदति ॥ प्रथमत एवेति ॥ दृष्ट्येत्यनेन सूचितं वर्तमानार्थे व्युत्पत्तेः प्राथमिकत्वे हेतुं दर्शयति ॥ जिज्ञासेति ॥ पदार्थज्ञानस्य कार्यव्युत्पत्तौ हेतुत्वलाभेऽपि किमागतं वर्तमानार्थव्युत्पत्तेरित्यत आह ॥ ततो ज्ञात इति ॥ भाष्योक्तं हेतुहेतुमद्भावं विशदयति ॥ देवदत्त इति ॥ नन्वस्तु तर्ह्याकाङ्क्षायां तस्याः कारणत्वं कार्यव्युत्पत्तौ किमायातमित्यत आह ॥ तस्मादिति ॥ वर्तमानार्थव्युत्पत्तेरित्यर्थः । अगतशब्दस्यातीतव्यावर्तकत्वभ्रान्तिं निराकरोति ॥ अगत इति ॥
परिमल
अगते गत इति च द्वेधा पदविभागमुपेत्यार्थमाह ॥ भविष्यत्यतीति चेति ॥ नन्वत्र भविष्यतीत्येतस्य कथं लाभ इत्यत आह ॥ अगते अनागत इति ॥
वाक्यार्थरत्नमाला
इत्युक्तया तत्सिद्धेरिति । अनेनेत्युक्तमिति मूलमेष्यदानयनायेत्यादिभाष्ये उक्तमिति व्याख्यातं भवति । मूले भविष्यतीत्यनुसारेण भविष्यत्यर्थ इत्येव पाठः । अतीतेऽपि व्युत्पत्तिश्चेत्यधिकं तथा भविष्यदर्थव्युत्पत्तेश्चेति पाठः । आदिपदमधिकम् । तथा पाठपक्षे तु न केवलं परोक्ता कार्ये व्युत्पत्तिरानन्तरिकी किन्त्वतीतेऽपि व्युत्पत्तिरप्यानन्तरिकीति वस्तुस्थितिकथ-नायातीतेत्यादि ग्रहणम् । तथा चोपलक्षणयाऽतीतग्रहणं ज्ञेयम् । ततो ज्ञात इत्यत्र तत इत्यस्य वर्तमानार्थव्युत्पत्तित इति व्युत्पत्तेः पदार्थज्ञानं प्रति हेतुत्ववचनस्य फलं दर्शयन्नवतारयति पदार्थज्ञानस्येति । मूले आकाङ्क्षा स्यादित्यनन्तरं ततोऽगते व्युत्पत्तिरपि स्यादिति योज्यम् । तस्मादिति भाष्यपदस्य योजना तस्मादित्येतन्मूले कृतेऽपि प्रतीयते शोध्यम् । भ्रान्तिमिति । गतमतीतं तन्न भवतीत्युक्तेऽतीतातिरिक्तत्वेनानागतोपस्थापकताप्राप्त्या वर्तमानेऽपीति भ्रान्तिः स्यादिति भावः । इदं च भविष्यतीत्यनुसारेण पदार्थकथनम् । उपलक्षणयाऽतीतं चेत्यपि ज्ञेयम् ।