अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः
मिथ्याभेदोनाङ्गीकारार्हः
अनुव्याख्यानम्
अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः ॥
सुधा
ननु भेदश्रुतिरपि सावकाशा मिथ्याभेदपरत्वादिति चेत् । कोऽयं मिथ्याभेदो नाम । किमसन् उतानिर्वचनीयः । नाद्यो ऽनङ्गीकारात् । द्वितीये दोषमाह ॥ अज्ञानेति ॥ अज्ञानाति-रिक्तमनिर्वचनीयमज्ञानकार्यमिति हि परसम्मतम् । न चाज्ञानं तन्मते सम्भवतीत्युक्तम् । ततो मिथ्याभेदासम्भवान्न तदर्थत्वं भेदश्रुतेरिति ॥ ननु भेदश्रुतिरनुवादिनीत्युक्तम् । यथा नानुवादिनी तथा वक्ष्यते ॥ किञ्च प्रमितस्यानुवादो भ्रान्तिसिद्धस्य वा ।नाद्यो ऽनभ्युपगमात् । अभ्युपगमे वा तत्प्रमाणप्रतिरोधोऽद्वैतश्रुतेः । न द्वितीयः । अज्ञानासम्भवेन निरस्तत्वात् । एतेनापूर्वता-विरहाद्दुर्बला भेदश्रुतिरिति निरस्तम् ।
वाक्यार्थचन्द्रिका
मिथ्यात्वस्यासत्त्वरूपत्वेऽज्ञानासम्भवेनेत्यस्य मिथ्याभेदनिरासे हेतुत्वानु-पपत्तेस्तं पक्षमुपर्येव निरस्य पक्षान्तरदूषणपरतया मूलं संयोजयितुं विकल्पयति ॥ कोऽयमिति ॥ नन्वस्मिन्पक्षेऽप्य्रयोजकतया हेतुहेतुमद्भावासम्भव एवेत्यत आह ॥ अज्ञानेति ॥ प्रकारान्तरेण सावकाशत्वं शङ्कते ॥ नन्विति ॥ वक्ष्यत इति ॥ ‘न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचिदि’ति वक्ष्यत इत्यर्थः । ‘येन मानेन चोपेयं भेदस्तेनावगम्यत’ इत्यनुव्याख्यानं ‘अज्ञानासम्भवादेवे’त्येतदनुव्याख्यानं च मनसि निधाय व्यवस्थितदूषणेनानुवादत्वपक्षे सम्भावितकल्पद्वयं निराह ॥ किञ्चेति ॥ एतेनेति ॥ अनुवादासम्भवव्युत्पादनाय प्रमाणान्तराद्यसिद्धिव्युत्पादनेनेत्यर्थः ।
परिमल
अनुवादिनीत्युक्तमिति ॥ औतवादिभिरिति योज्यम् ॥ वक्ष्यत इति ॥ पृथगुपदेशादित्यत्र द्वितीये । ‘न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचिदि’त्यादिना वक्ष्यत इत्यर्थः । एतेन अनुवादिनी नेति वक्ष्यत इति कथनेन किञ्चेति विकल्पपूर्वं दूषणकथनेन चेत्यर्थः ॥
यादुपत्यं
तथा च वक्ष्यत इति ॥ ‘न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचिदि’त्यत्रेति शेषः । ननु भेदश्रुतिरनुवादिनीत्युक्तशङ्कापरिहारायापि मूलं व्याचष्टे ॥ किञ्चेति ॥ एतेनेति ॥ भेदस्य प्रमाणान्तराप्राप्तत्वकथनेनेत्यर्थः ।
श्रीनिवासतीर्थीया
तत्प्रमाणेति ॥ येन प्रमाणेन प्रमितस्तत्प्रमाणेत्यर्थः ॥ निरस्तत्वादिति ॥ अज्ञानस्यैवासम्भवेन तत्कार्यभ्रान्तेरेव त्वन्मतेऽसम्भवादित्यर्थः ॥ एतेनेति ॥ भेदस्य प्रमाणान्तरा प्राप्तत्वेनैवेत्यर्थः ॥
वाक्यार्थरत्नमाला
मिथ्याभेदेति । असत्त्वरूपमिथ्यात्वोपेतभेदेत्यर्थः । अनुपपत्तेः । अज्ञानकल्पितत्वाङ्गीकाराप्राप्त्याऽज्ञानासम्भवस्याबाधकत्वादित्यर्थः ।
‘सच्छब्द उत्तमं ब्रूयादि’ति मानं मनसि निधाय सन् उत्तम इत्युक्तम् ।