अतोऽधिकारिविषयफलयोगादिवर्जितम्
मायामतनिरासोपसंहारः
अनुव्याख्यानम्
अतोऽधिकारिविषयफलयोगादिवर्जितम् ।
अनन्तदोषदुष्टं च हेयं मायामतं शुभैः ॥
सुधा
निर्विशेष इत्यादिनोक्तमुपसंहरति ॥ अत इति । परमतेऽविद्यानुपपत्तेरित्यर्थः । योगो विषयप्रयोजनयोः परस्परं शास्त्रेण च सम्बन्धः । आदिग्रहणेन स्वपक्षसाधकं प्रमाणं गृह्यते । अनन्तदोषा उक्ता वक्ष्यमाणाश्च । सति खल्वज्ञाने । अज्ञो विप्रतिपन्नः सन्दिग्धो वा शास्त्रेऽधिकारी स्यात् । अज्ञातश्च विषयो भवेत् । अज्ञाननिवृत्तिश्च फलम् । न च विषयाद्यभावे सम्बन्धः सम्भवी । अधिकार्यादिवर्जितत्वादनादरणीयं दुष्टत्वाद्धेयं च । अज्ञानमित्युपक्रम्य मायेत्युपसंहारोऽज्ञानस्यै- वावस्थाभेदेन संज्ञाद्वयं न तु वस्तुभेद इति परमताविष्करणार्थः ॥ उपपादितं चैतत्परेणैवेति ।
वाक्यार्थचन्द्रिका
उत्तरत्रापि तन्मतानुपपत्तेर्वक्ष्यमाणत्वेन तन्मतनिरासोपसंहारत्वानुपपत्तेराह ॥ निर्विशेष इत्यादिनेति ॥ उक्तोपसंहारत्वं मूलारूढं कर्तुमाह ॥ परमत इति ॥ स्वभावाज्ञान-वादस्येत्युक्तसूचनायेदं विशेषणम् । अयं चाविद्यानुपपत्तिलक्षणो हेतुरनुबन्धचतुष्टयाभाव एव न तु स्वपक्षसाधकाभावादौ तदुक्तिश्चात्र प्रसङ्गात्तन्मतस्थातिक्षुद्रताख्यापनायेत्यवधेयम् । योगशब्दस्योपाय-संबन्धमात्रपरतायाः प्रकृतानुपयोगाद्विवक्षितमर्थमाह ॥ योग इति ॥ अत्रानुबन्धचतुष्टयस्यापि स्वशब्देनोपात्तत्वेन तत्परत्वासंभवादनन्तेत्यादिना तत्पक्षे बाधकस्योक्ततया साधकाभावस्याप्यवश्य-वक्तव्यत्वात्साधकपरतयाऽऽदिशब्दं व्याचष्टे ॥ आदीति ॥ दोषाणामानन्त्यानुपपत्त्या बहुत्वार्थ-कतयाऽनन्तशब्दं व्याचष्टे ॥ अनन्तेति ॥ बहुत्वेऽतिशयद्योतनायामुख्यप्रयोग इत्याशयेनोक्तमुक्ता इत्यादि । उदासीनत्वस्यापि संभवेनोपादेयताप्रयोजकाधिकार्याद्यभावस्य कार्याद्यभावस्य हेयताहेतुत्वा-संभवाच्चशब्दं हेयं चेत्यनेन संयोज्य तत्समुच्चितं साध्यमध्याहृत्य वर्जितं दुष्टमिति श्रुतहेतोर्यथायोग्यं हेतुहेतुमद्भावं दर्शयति ॥ अधिकार्यादीति ॥ अवस्थाभेदेनेति ॥ आवरणविक्षेपत्वरूपेण स्वातन्त्र्य-कर्त्रिच्छाधीनत्वरूपेण वेत्यर्थः ।
ननु स्वाश्रयव्यामोहकत्वतद्वैपरीत्यरूपलक्षणभेदाल्लोके मायानिर्मितहस्त्यश्वादौ मायाशब्दप्रयोगवद विद्याशब्दप्रयोगाभावात्कथं न वस्तुभेद इत्यत आह ॥ उपपादितं चेति ॥ अनिर्वचनीयत्वे सति तत्त्वावभासप्रतिबन्धविपर्ययावभासहेतुत्वस्य तल्लक्षणत्वात्तस्य चोभयत्राविशेषात्तयोरभेद एव । न च सत्यभूतमन्त्रौषधादेरेव मायाशब्दार्थतया नेदं तत्र लक्षणमिति वाच्यम् । तत्र मायाशब्दाप्रयोगात् । द्रष्टारो हि दृष्टमिन्द्रजालमेव मायां वदन्ति न त्वदृष्टं मन्त्रादिकम् । मन्त्रान्वयव्यतिरेकौ तु काचादिवन्निमित्तकारणत्वेनाप्युपपन्नौ । अनिर्वचनीयेन्द्रजालादेः सत्यमन्त्राद्युपादानकत्वानुपपत्ते-श्चानाद्यनिर्वचनीयमेव किञ्चित्तदुपादानं कल्पनीयम् । तस्य च मायाशब्दवाच्यत्वमुपादानोपादेययोर- भेदादेवोपपन्नमिति न तत्र लक्षणानुपपत्तिः । स्वाश्रयव्यामोहकत्वतदभावाभ्यां भेदस्त्वसिद्धः । ईश्वरस्याप्यवतारेषु मायया व्यामोहदर्शनात् । नाप्यविद्यायाः स्वाश्रयव्यामोहनियमः । जलमध्येऽधो-मुखत्वेन वृक्षेष्वध्यस्तेष्वपि तदूर्ध्वमुखतायां द्रष्टुरव्यामोहात् । अथात्र तीरस्थवृक्षदर्शनजन्यविवेक-वशादव्यामोहोऽविद्यास्वभावस्तु व्यामोहक एवेति चेत् । तर्ह्यैन्द्रजालिकस्यापि प्रतीकारज्ञानादव्यामोहो माया तु स्वाभाव्यान्मोहिकैव । ऐन्द्रजालद्रष्टॄणां व्यामोहदर्शनात् । सति तु प्रतीकारज्ञाने तेऽपि न मुह्यन्त्येवेत्यज्ञानाश्रयत्वं न व्यामोहप्रयोजकम् । न च मायाकर्तुरिच्छामनुसरति । मन्त्रौषधादिनिमित्त-कारण एव कर्तुःस्वातन्त्र्यात् । तादृशं चेच्छानुसारित्वमविद्याया अपि दृष्टम् । नेत्रस्याङ्गुल्यवष्टम्भेन द्विचन्द्रभ्रमोत्पत्तेः । अविद्यास्वरूपे कर्ता न व्याक्रियत इति चेत् । सममितरत्रापि । प्रसिद्धिरपि शास्त्रीया तावदस्त्येव । भूयश्चान्ते विश्वमायानिवृत्तिरिति सम्यग्ज्ञाननिवृत्ताविद्यायां मायाशब्दप्रयोगात् ।
‘तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते ।
योगी मायासमेयाय तस्मै विद्यात्मने नमः ॥’
इति स्मृतौ मायाविद्ययोः सामानाधिकरण्येनैकत्वसिद्धेश्चेत्यादिना विवरणकारेणैतदुपपादित-मित्यर्थः । परमताविष्करणं चाविद्यानिरासेन मायानिरासोऽपि सिद्ध इति सूचनायेति द्रष्टव्यम् ।
यादुपत्यम्
अवस्थाभेदेनेति ॥ प्राधान्येन विक्षेपाच्छादनयोर्भेदेन वा इच्छाधीनत्व-तदधीनत्वयोर्भेदेन वा संज्ञाद्वयमित्यर्थः । उक्तं हि विवरणे । एकस्मिन्नपि वस्तुनि विक्षेपप्राधान्येन मायाच्छादनप्राधान्येन अविद्येति व्यवहारभेद इच्छाधीनत्वतद्वैपरीत्येन व्यवहारभेद इति ॥ उपपादितं चैतदिति ॥ अत्र केचिदाहुर् अतोऽविद्यायामपीति वक्तव्यमित्यादिना पूर्वपक्षयित्वाऽनिर्वचनीयतया तत्त्वावभासप्रतिबन्धविपर्ययावभासलक्षणस्याविशेषान्न लक्षणभेदात्तयोर्भेदः । तस्याभिध्यानाद्योजना-त्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिरित्यादिश्रुतौ सम्यग्ज्ञाननिवर्त्याविद्यायां मायाशब्दप्रयोगात् ।
‘तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते ।
योगी मायाममेयाय तस्मै विद्यात्मने नमः’
इत्यादिस्मृतौ मायाविद्ययोः सामानाधिकरण्येन तत्त्वज्ञानेन तर्तव्यत्वाभिधानाच्च न तयोर्भेद इत्यादिना महता प्रबन्धेनोपपादितमित्यर्थः । तथा च नास्माभिरेतदुपपादनीयमिति भावः ।
श्रीनिवासतीर्थीया
विप्रतिपन्नो विपरीतज्ञानी ॥ संभवीति ॥ संबन्धिनामेवाभावादिति भावः । यथोक्तम् । तदभावादेव संबन्धोऽपीति । योगः शशनृशङ्गयोरिति च ॥ संज्ञाद्वयमिति ॥ स्वाश्रयव्यामोहकत्वतद्-व्यामोहकत्वरूपावस्थाभेदेन मायाऽविद्येति संज्ञाद्वयमित्यर्थः ॥
वाक्यार्थरत्नमाला
उत्तरत्रापीति । जीवब्रह्मैक्यनिराकरणावसर इत्यर्थः ।
मूले फलयोगादीत्यादिपदेन स्वपक्षसाधकपरामर्शेऽज्ञानासम्भवस्य तत्र हेतुता तथा अनन्तदोष
दुष्टत्वेऽपि सा वाच्या । न चासावस्तीत्यत आह अयं चेति । यदि स्वपक्षसाधकाभावादौ न तद्धेतुतानर्थज्ञाननिरासोपसंहारे तदुक्तिरसंमतेत्यत उक्तं प्रसङ्गादित्यादि । उपायसम्बन्धेति । उपायः सम्बन्धमात्रं चेत्येतदुभयान्यतरमात्रपरताया इत्यर्थः । यद्यपि सम्बन्धार्थता प्रकृतोपयोगिन्येव । तथापि यत्किञ्चित्सम्बन्धार्थताया अनुपयोग इत्यभिप्रायेणोक्तं सम्बन्धमात्रेति । अनुबन्धचतुष्टये तस्यानुबध्यते सम्बध्यत इत्यनुबन्धः । विषयादिस्तच्चतुष्टयस्येत्यर्थः । स्वशब्देनाधिकारीत्यादिरूपाधिकार्यादि-शब्देनेत्यर्थः । बहुत्वार्थकतयाऽनन्तशब्दमिति । उक्ता वक्ष्यमाणा इत्युक्तया बहुत्व एव पर्यवसानस्य मूले सूचनादिति भावः । तर्ह्युक्ता इत्येव वा वक्ष्यमाणा इत्येव वा वक्तव्ये उभयोपादानं व्यर्थमित्यतस्तत् प्रयोजनमाह बहुत्व इति । अयमर्थः । यद्यनन्तत्वं न मुख्यं तर्ह्यवाचकप्रयोगे प्रयोजनाभावः बहव इत्येव वक्तव्यत्वापातादित्यतो बहुत्वेऽप्यतिशयस्य त्रिचतुरादिव्यावृत्तस्य सङ्ख्याविशेषस्य विवक्षया बहव इत्यनुक्तवा अनन्तेत्यमुख्यप्रयोग इति । अज्ञो विप्रतिपन्न इति मूले ज्ञानावश्यकत्वप्रतिपादनादज्ञो यो विप्रतिपन्नो ऽज्ञो यः सन्दिग्ध इति योज्यम् । हेयताहेतुत्वेति । हेयतामात्रहेतुत्वेत्यर्थः । साध्यमिति अनारम्भणीयत्वरूपसाध्यमित्यर्थः । अध्याहृत्येत्यनन्तरं तत्साध्यद्वयेनेति शेषः । हेयं चेत्यत्रत्यच-शब्देनोपेक्षणीयत्वरूपानारम्भणीयत्वसमुच्चयस्वीकारेऽपि न यथाक्रमं सम्बन्ध इत्याह यथायोग्यमिति । अज्ञानासम्भवस्य शास्त्रीयविषयाद्यभावोपपादकत्वेन प्रकृतत्वात्तेन मायावादिशास्त्रानारम्भणीयत्व-प्रतिपादनं कथम् । हेयत्वसमुच्चयश्च कथमित्यादि विचार्यम् ।
आवरणेति । स्वरूपप्रकाशप्रतिबन्ध आवरणम् । अतदाकारप्रतिभासो विक्षेप इति कार्यद्वय-मज्ञानमाययोः क्रमेणेति तद्भेदात्तयोर्भेद इत्यर्थः । स्वातन्त्र्येति । अज्ञानं स्वतन्त्रं पुरुषानधीनं माया तु स्वाश्रयपुरुषाधीनेति स्वातन्त्र्यादिना वाऽज्ञानमाययोः सञ्ज्ञाभेद इत्यर्थः ।