अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने
अज्ञानसाधकार्थापत्तिनिरासः
अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने
सुधा
त्वदुक्तमर्थं न जानामीति व्यवहारस्तु ज्ञानाभावविषयोऽपि भविष्यति ॥ अध्यास-कार्यानुपपत्तिस्तु नास्त्येव, ज्ञानस्यान्तःकरणोपादानतोपपत्तेः । सत्योपादानत्वे सत्यताप्रसङ्गस्त्विष्ट एव । न हि रजतवज्ज्ञानस्यापि बाधोऽस्ति । तथात्वे याथार्थ्यमपि स्यादिति चेन्न स्वरूपसतोऽपि विषयासत्त्वेनायथार्थत्वोपपत्तेः । न हि स्वरूपसतो विषयसत्तयाऽपि भाव्यमिति नियामकमस्ति, साक्षिचैतन्ये व्यभिचारात् । अर्थस्तु रजतादिरसत्त्वात्कारणमेव नापेक्षते ॥ ज्ञानाद्बन्धनिवृत्ति-स्त्वसिद्धैवेत्युक्तम् ॥ अतो नोक्तप्रमाणैर्भावरूपाज्ञानसिद्धिः ॥
वाक्यार्थचन्द्रिका
त्वदुक्तमिति ॥ न च सति ज्ञाने कथं तदभावव्यवहार इति वाच्यम् । प्रत्यक्षस्य ज्ञानाभावविषयकत्वप्रतिपादकन्यायेनोक्तोत्तरत्वात् । अज्ञानेऽप्यस्य पर्यनुयोगस्य साम्याच्च । न चाज्ञानस्य साक्षिवेद्यत्वेन प्रमाणाबोध्यत्वान्नानुपपत्तिरित्युक्तमिति वाच्यम् । ज्ञानाभावस्यापि साक्षि-वेद्यत्वोपगमेन परिहारसौलभ्यादित्याशयात् । अर्थज्ञानात्मकमध्यासं वदतो ज्ञानानुपपत्तिरभिमतार्थानु-पपत्तिर्वा । नाद्य इत्याह ॥ ज्ञानस्येति ॥ पराशयमुद्घाट्य निषेधति ॥ न हीति ॥ अर्थोऽप्यधिष्ठान-भूतात्मशक्त्यादिर्न तवाप्यनुपपद्यमानतयाऽभिमतः । रजतादिस्तु कार्यमेव नेति द्वितीयं निराह ॥ अर्थस्त्विति ॥ असतोऽपि प्रतीतिविषयत्वस्योपपादितत्वादिति भावः । न पूर्वार्थापत्तिवत्किञ्चेत्युक्तायां ज्ञानाद्बन्धनिवृत्तिश्रवणान्यथाऽनुपपत्तावन्यथोपपत्तिर्दोषः किन्त्वाक्षेपकस्याप्रमितत्वमेव दूरेऽन्यथोपपत्ति विचार इत्याशयेनाह ॥ ज्ञानादिति ॥ उक्तमिति ॥ बन्धमिथ्यात्वं नैव मुक्तिरपेक्षत इत्येतद्भाष्य-व्याख्यावसर उक्तमित्यर्थः । ननु प्रत्यक्षव्यवहारयोर्निर्विषयकत्वासम्भवात्तद्विषयेऽवश्यं वक्तव्ये विषयत्वेन त्वदुक्तमेवाज्ञानं मयोच्यत इत्याशङ्कां परिहरन्नुपसंहरति ॥ अत इति ॥ यद्वोपक्रमानुसारेणोप संहारेऽपि भावरूपेत्युक्तमिति ध्येयम् ।
परिमल
ज्ञानाभावविषयोपीति ॥ तत्रोक्तानुपपत्तिस्त्वयाऽपि समाधेया । अन्यथा त्वन्मतेऽपि ज्ञानाभावव्यवहारासिद्धिप्रसङ्गादिति भावः ॥ नास्त्येवेति ॥ कुत इत्यतस्तत्र किं भ्रान्तेरनुपपत्तिरुच्यते । उत रजतादिरूपार्थस्य वेति हृदि विकल्प्याद्यं निराह ॥ ज्ञानस्येति ॥ परमतेनाह ॥ साक्षिचैतन्य इति ॥ द्वितीयं निराह ॥ अर्थस्त्विति ॥ श्रुतार्थापत्तिं च निराह ॥ ज्ञानादिति ॥ उक्तमिति ॥ ‘इत्युक्तेर्बन्धमिथ्यात्वं नैवमुक्तिरपेक्षत’ इत्यत्रेति भावः । एतदपि सर्वं प्रपञ्चितमविद्यानुमानादि भङ्गेष्विति विस्तरस्तत्रैव ध्येयः ।
श्रीनिवासतीर्थीया
किञ्च विशुद्धब्रह्मात्मनीत्युक्ताध्यासान्यथाऽनुपपत्तिरूपं भावरूपज्ञान-साधकं प्रमाणमपाकरोति ॥ अध्यासकार्येति ॥ अध्यासरूपकार्येत्यर्थः ॥ ज्ञानस्येति ॥ रजताध्या-सस्येत्यर्थः । तथा च मिथ्याभूतमेव किञ्चिदुपादानमन्वेषणीयमित्युक्तमसदिति भावः । सत्योपादान-कत्व इत्यादिनोक्तं दूषयति ॥ सत्योपादानत्व इति ॥ सत्योपादानकत्व इत्यर्थः ॥ सत्यताप्रसङ्ग इति । अध्यासरूपकार्यस्येत्यर्थः । अर्थज्ञानात्मकोभयविधाध्यासाङ्गीकारात्सत्योपादानकत्वेन सत्यत्वं किं ज्ञानस्यापाद्यते उतार्थस्य रजतस्य । आद्ये इष्टापत्तिरित्याह ॥ न हीति ॥ एतावन्तं कालं रजतज्ञान-मासीत् । भ्रम आसीदित्यनुभवेन ज्ञानस्वरूपस्य सत्यत्वादिति भावः । तथात्वे ज्ञानस्वरूपस्या-नध्यस्तत्वेन सत्यत्वे । ननु स्वरूपसत्वे विषयत्वं नियतमिति चेत्तत्राह ॥ न हीति ॥ साक्षीति ॥ साक्षिचैतन्यस्य सत्यत्वेऽपि तद्विषयस्य दुःखादेर्मिथ्यात्वादिति भावः । द्वितीये त्वापादकभूतं सत्योपादानकत्वमेवासिद्ध मसत्त्वादित्याह ॥ अर्थस्त्विति ॥ कारणमेवेति ॥ सत्योपादानकत्वं तु दूरापास्तमिति भावः ॥ इत्युक्तमिति ॥ ‘‘जिज्ञासोऽत्थज्ञानजात्तत्प्रसादादेव मुच्यत’’ इत्यङ्गीकारादिति भावः ।