१४ अज्ञानसाधकानुमाननिरासः

अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने

अज्ञानसाधकानुमाननिरासः

अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने

सुधा

अनुमानं त्वसम्बद्धमेव ॥ प्रकाशकत्वस्य ज्ञाने प्रदीपप्रभायां चैकस्याभावेना-सिद्ध्यादिप्रसङ्गात् । शब्दसाम्यमात्रेणानुमाने तु गोत्वेन वागादीनामपि ृङ्गित्वादिप्रसङ्गः । तमोविरोधित्वमेकमुभयत्रास्तीति चेन्न । तमोऽप्यविद्यान्धकारो वा । नाद्यः । दृष्टान्तस्य साधनविकलत्वात् । न द्वितीयः । असिद्धेः ॥ अभावमानागम्यत्वं त्वसिद्धमेव । अज्ञानं न मानगम्यं माननिवर्त्यत्वादिति चेन्न । तथा सति तत्र प्रमाणोपन्यासवैयर्थ्यापातात् । तदभावो व्यावर्त्यत इति चेन्न । अभावव्यावर्तनं भावसाधनमित्येकार्थत्वात् ॥ तृतीयानुमानं तु घटादेरपि तत्साधनसौलभ्येन परास्तम् ।

वाक्यार्थचन्द्रिका

॥ अनुमानं त्विति ॥ अत्रैवशब्देन बाधादेः स्पष्टतामाचष्टे । तथा हि । अत्र यथार्थज्ञानमात्रस्य पक्षत्वे साक्षिरूपसुखादिज्ञानस्याज्ञानानिवर्तकत्वेन तत्र बाधः । वृत्तेः पक्षत्वे च त्वन्मते परोक्षवृत्तौ बाध एव । अपरोक्षवृत्तेः पक्षत्वे च तत्रैव व्यभिचारः । परोक्षज्ञानान्यत्वेन हेतु-विशेषणे चाप्रयोजकत्वं धारावाहिकद्वितीयादिप्रमायां बाधोऽसिद्धिश्च । न चोत्तरोत्तरक्षणावच्छिन्न-तद्विषयाज्ञानं तत्रापि निवर्तत इति वाच्यम् । क्षणानामप्रत्यक्षत्वात् । तदन्यत्वेन पक्षविशेषणे वाऽऽत्मज्ञानस्य पक्षत्वेऽनात्मज्ञाने व्यभिचारः । तस्यापि पक्षत्वे त्वन्मते जडावरकाज्ञानाभावाद्बाध एव । न च तत्रापि तदवच्छिन्नचैतन्यं तत्प्रमाणविषय इति न बाध इति वाच्यम् । रूपादिहीनस्य चैतन्यस्य चाक्षुषत्वायोगात् । साध्ये चाद्यविशेषणविषय इति न बाध इति वाच्यम् । रूपादिहीनस्य चैतन्यस्य चाक्षुषत्वायोगात् । साध्ये चाद्यविशेषणवैयर्थ्यम् । ज्ञानस्यैव तन्निवृत्तित्वेन स्वनिवर्त्यपदेनैव स्वप्रागभावव्यावर्तनात् । अभावव्यनिरिक्तोत्येतावतैव पूर्तौ स्वप्राक्पदवैयर्थ्याच्च । जडावरकाज्ञानाभावाद् द्वितीयविशेषणमप्यसङ्गतम् । स्वोत्पादकादृष्टव्यावृत्तेरावरणपदेनैव सिद्ध्या स्वविषयेत्यंशवैयर्थ्यं च । वृत्तिश्चिदुपरागार्थेति मतेऽज्ञानस्य ज्ञाननिवर्त्यत्वाभावेन तृतीयमप्यसङ्गतम् । आवरणाभिभवार्था वृत्तिरिति मतान्तरेऽपि वृत्तिप्रतिबिम्बितचैतन्यघटयोराध्यासिकसम्बन्धाभावेन तस्य तदविषयतयाऽज्ञान निवर्तकत्वायोगात् । अज्ञानस्य चिन्मात्राश्रयत्वेन वृत्तेस्तत्प्रतिबिम्बितचैतन्यस्य वा तदनाधारतया चतुर्थमप्ययुक्तम् । इतरविशेषणव्यावर्त्यव्यावर्तनस्य स्वविषयावरणपूर्वकमित्यनेनैव सिद्धेरितरवैयर्थ्यं च । प्रमाप्रागभावप्रमोत्पत्तिप्रतिबन्धकादृष्टादेरज्ञानातिरिक्तस्यावरणत्वाभावात् । तथात्वे वा तेनैव स्वप्रकाश ब्रह्मावरणसम्भवाद्धेतोरप्रयोजकत्वम् । न च तमोव्युदासाय तृतीयम् । तस्य प्रमामात्रविषयावरणत्वा-भावात् । तस्मान्न प्रतिज्ञा युक्तेति ।

अत्राह नव्यः । विवादगोचरापन्नमित्यनेन जन्यसविकल्पकाजन्यचाक्षुषघटप्रमाणज्ञानमन्धकार-निवृत्त्यव्यवहितोत्तरकालीनचाक्षुषज्ञानं वा विवक्षितम् । परमते जन्यज्ञानमात्रस्य सविकल्पकजन्यत्वा-त्सविकल्पकस्य जन्यज्ञानजन्यत्वाच्च पक्षाप्रसिद्धिवारणाय जन्यसविकल्पकाजन्येत्युभयोपादानम् । अनेन धारावाहिकद्वितीयादिबुद्धिव्यावृत्तिः । अस्मन्मते तु धारावाहिकद्वितीयादिबुद्धिरेव नास्ति । अन्तःकरण-परिणामरूपज्ञानस्य द्रव्यतया घटादिवदेकस्यैव ज्ञानस्य तावत्समयस्थित्युपपत्तेर्न तस्य पक्षतापत्त्या बाधः । पराभिमतेश्वरज्ञानादिव्यावृत्तये चाक्षुषप्रमाणज्ञानेति । साध्ये च स्वशब्दः समभिव्याहृतपरः । स्वप्रागभावपदेन स्वसमानाधिकरणः प्रागभावः कथ्यते । स्वविषयावरणेति स्वजननायोग्यम् । स्वनिवर्त्येति स्वजन्यध्वंसप्रतियोगि । स्वदेशगतेति स्वाश्रये वर्तमानम् । एवं च पक्षीभूतज्ञानस्य घटपटादिसंयोगजनकत्व सम्भवात्तत्प्रागभावस्तन्निवर्त्य इति संयोगादिप्रागभावात्मत्वस्वजनका-दृष्टेच्छाप्रागभावपूर्वकत्वेनार्थान्तरव्यावृत्तये प्रातिलौम्येनैतानि विशेषणानि । अज्ञानं चैवं भूतमिति न बाधः । स्वप्रागभावान्यत्वं चाभावान्यत्वादन्यदेवेति नाखण्डाभावे वैयर्थ्यम् । अथवा प्रमाणज्ञान-प्रागभाव एव स्वप्रागभावः । स्वविषये संशयादिजनकतायोग्यमेव स्वविषयावरणं स्वसत्ताक्षणनियत-ध्वंसप्रतियोगि स्वनिवर्त्यम् । ततश्च प्रागभावोऽपि परमते विशेषादर्शनतया संशायादिजनक इति स्वप्रागभावस्वजनकादृष्टान्धकारादिव्यावृत्तये स्वप्रागभावेत्यादिविशेषणम् । परमते मनःसंयोग-पूर्वकत्वेनार्थान्तरनिवृत्तये स्वनिवर्त्येति । अथवा पराभिमतप्रागभावान्यत्वज्ञानसमानविषयकत्व-ज्ञाननिवर्त्यत्व ज्ञानसमानाश्रयत्वविशिष्टाज्ञानसिद्ध्यर्थं तानि विशेषणानीति न कस्यापि वैयर्थ्यम् । एतेनापि तेन विनोद्देश्यासिद्धेः । अज्ञानाश्रयघटावच्छिन्नचैतन्यमेवान्तःकरणावच्छिन्नमिति तन्निष्ठज्ञान-स्याप्य ज्ञानसमानाश्रयत्वमबाधितमेव । घटादिचाक्षुषज्ञानस्यापि तदवच्छिन्नचैतन्यविषयत्वादज्ञानस्य ज्ञानसमानविषयकत्वं चा बाधितम् । अनुभवबलादरूपस्याप्यहङ्कारस्य प्रत्यक्षत्वाभ्युपगमादरूप-स्याप्यात्मनश्चाक्षुषप्रत्यक्षत्वाङ्गीकारे बाधकाभावात् ।

वस्तुतोऽस्मदभिमतात्मनः पराभिमतविलक्षणत्वात्सत्तातुल्यतैवेति घटः सन्नित्यादिप्रत्यक्षस्य सर्वानुभवसिद्धत्वाच्चाक्षुषत्वमविरुद्धम् । न चान्तःकरणवृत्त्यादौ विषयस्याध्यासिक सम्बन्धाभावाद्घटा-देर्विषयत्वानुपपत्तिरिति वाच्यम् । घटाद्यधिष्ठानचैतन्यस्यान्तःकरण वृत्त्यवच्छिन्नत्वेनान्तःकरणा वच्छिन्नसाक्ष्यभेदात्तदाध्यासिकसम्बन्धस्यैव साक्षिसम्बन्धत्वात् । तस्मान्नात्रानुमाने काऽप्यनुपपत्तिः । घटध्वंसाजनकघटापरोक्षप्रमाणज्ञानं घटं न जानामीत्यनुभवविषयनिवर्तकं घटापरोक्षप्रमाणज्ञानत्वा-द्घटध्वंसजनकप्रत्यक्षवत् । विषयनिवर्तकतयाऽर्थान्तरवारणाय पक्षे ध्वंसाजनकेति विशेषणम् । आत्मनश्चानिवर्त्यत्वात्तन्निवर्त्यं भावरूपाज्ञानमेव । घटादिप्रत्यक्षे परोक्षज्ञाने घटभ्रमे च व्यभिचार-वारणाय क्रमेण हेतुविशेषणानि । अनुद्दिष्टघटादिध्वंसे ईश्वरस्य प्रतियोगिप्रत्यक्षसम्भवादतीन्द्रिय-स्यैन्द्रियकस्याप्यज्ञानदशायां घटादेरस्मदादितो ध्वंसाभावादन्वयव्यतिरेकाभ्यां प्रतियोगिप्रत्यक्षं ध्वंसे कारणमिति न साध्यवैकल्यम् । नापि प्रागभावनिवर्तकतयाऽर्थान्तरता । तस्य सत्त्वेऽपि ज्ञानस्य तन्निवृत्तितया तदनिवर्तकत्वात् । निवर्तकयोग्यतासाध्येति न धारावाहिकप्रत्यक्षे बाधो व्यभिचारो वेति वा भावरूपाज्ञानसिद्धिः ।

मूलाज्ञाने तु सर्गाद्यकालीनं कार्यं जडोपादानकं कार्यत्वात्सम्मतवत् । तच्च लाघवादेव-मित्यणुव्यतिरिक्त जडोपादानसिद्धावनादित्वे सति जडोपादानत्वं भावत्वं वा ज्ञाननिवर्त्यवृत्तिजडवृत्ति-त्वारद्घटत्वादिवदिति जीवत्वादेरनाविद्यकत्वे ज्ञानान्निवृत्त्यनुपपत्तेर्न तदादायार्थान्तरत्वमित्यनुमानमिति । तत्तुच्छम् । मन्मते जन्यज्ञानमात्रस्य बुद्धिमदीश्वरजन्यत्वेऽपि तज्ज्ञानजन्यत्वाभावात् । तज्जन्यत्वेऽपि वा निर्विकल्पकानङ्गीकारेण सविकल्पकस्य जन्यज्ञानजन्यत्वाभावेन पक्षाप्रसिद्धेरभावेन जन्यसविकल्पका-जन्येत्युभयोपादानस्यायुक्तत्वात् । मन्मते विशेषणज्ञानस्य विशिष्टज्ञानाजनकत्वाद्धारावाहिकद्वितीया-दिबुद्धौ पूर्वपूर्वज्ञानानामजनकत्वेन तस्या अपि जन्यसविकल्पकाजन्यत्वेन पक्षत्वापत्तौ मन्मतेन बाधतादवस्थ्यात् । धारावाहिकबुद्धावपि साक्ष्युपनीततत्तत्क्षणभानसम्भवेन तत्तत्क्षणविशिष्टाज्ञान-निवर्तकत्वेन तस्याः पक्षत्वेऽपि बाधाप्रसक्त्या तद्-व्यावृत्तये विशेषणोपादानानौचित्याच्च धारावाहिक-बुध्यभावपक्षस्त्वनुपपन्नः । ज्ञानमेव पुनः पुनर्ज्ञायत इत्यनुभवेन तत्सिद्धेः । तदपलापे चोभय-सम्प्रतिपन्नसकृज्ज्ञान इव धारावाहिकस्थलेऽप्याशु(तर)विनाशाभ्युपगमापत्त्या तावत्कालस्थितेर-कल्पनीयत्वात् । साध्ये च व्यधिकरणघटपटसंयोगादिसमानाधिकरणेच्छादिप्रागभावव्यावृत्तये विशेषणोपादानं प्रागभावानभ्युपगन्तुरयुक्तमेव । न च परमतेनार्थान्तरादिव्यावृत्त्यर्थं तदिति वाच्यम् । तथा सति तन्मतेनैवाप्रकाशितार्थप्रकाशकत्वहेतोर्विशिष्टसाध्याभावेऽपि प्रागभावादिपूर्वकत्वेना-प्युपपत्त्याऽऽप्रयोजकत्वात् । वस्तुतस्तदभावेनाप्रयोजकत्वपरिहारेऽर्थान्तरस्यापि तत एवाभावा-द्विशेषणवैयर्थ्यमेव । विशिष्टसाध्योपादानेऽपि पटज्ञानानन्तरभाविचाक्षुषघटज्ञाने पटज्ञानस्य घटज्ञान-समानाधिकरणप्रागभावव्यतिरिक्ततया घटज्ञानजननायोग्यतयोत्तरघटज्ञानजन्यध्वंसप्रतियोगितया घट-ज्ञानाश्रयगततया तत्पूर्वकत्वेनार्थान्तरतादवस्थ्यात् । अन्धकारकालीनत्वगिन्द्रिय जन्यघटज्ञानोत्तर-भाविनोऽन्धकारनिवृत्त्यव्यवहितोत्तरभाविचाक्षुषज्ञानस्योक्ततादृशघटज्ञानपूर्वकत्वेनोपपत्त्याऽर्थान्तरतैव ।

द्वितीयपक्षेऽपि संशयविशेषदर्शनप्रागभावयोः प्रमाणज्ञानप्रागभावान्यतया तद्विषये संशयादि-जननयोग्यतया प्रमाणज्ञानसत्ताक्षणनियतध्वंसप्रतियोगितया स्वाश्रयगततया च तत्पूर्वकत्वेनार्थान्तर-तैव । त्वन्मतेऽपि विशेषणभेदेन विशिष्टभेदस्यावश्यकत्वाद्घटावच्छिन्न चैतन्यान्तःकरणावच्छिन्न-चैतन्ययोर्भेदस्यैव वक्तव्यत्वात् । अभेदेऽपि वा घटावच्छिन्नस्याज्ञानकल्पितत्वेनान्योन्याश्रयेणा ज्ञाना-नाश्रयत्वादज्ञानाश्रयचिन्मात्रस्य वृत्त्यादिरूप ज्ञानानाश्रयत्वात्स्वाश्रयगतत्वमज्ञाने बाधितमेव । न च तथाऽप्यज्ञानाश्रयचिन्मात्रस्य ज्ञानाश्रयान्तःकरणावच्छिन्नाभेदाज्ज्ञानसमानाश्रयत्वमज्ञानस्योपपन्न-मेवेति वाच्यम् । अवच्छिन्नगतमिथ्यात्वसंसारादेरप्यवच्छेद्यगतत्वापत्त्या तयोरपि भेदस्यावश्यकत्वात् । अनुभवबलादरूपस्याप्यहङ्कारस्य प्रत्यक्षत्वाभ्युपगमेऽपि सन्घट इत्यादिघटादिसत्तानुभवस्यात्मविषय- कत्वाभावेऽपि विश्वसत्ताया उपपादितत्त्वादुपपादयिष्यमाणत्वाच्च घटादिमात्रविषयकत्वेनोपपत्त्या द्रव्यचाक्षुषतायां रूपवत्त्वस्य प्रयोजकताया विनैव बाधकं त्यागायोगाद्घटादिचाक्षुषज्ञानस्य तदवच्छिन्न-चैतन्यविषयकत्वानुपपत्त्याऽज्ञानस्य ज्ञानसमानविषयकत्वमपि बाधितमेव । अन्तःकरणवृत्त्यादौ विषयताप्रयोजकाध्यासिकसम्बन्धाभावात्तद्वति च वृत्तिप्रतिबिम्बितविषयाधिष्ठानचैतन्येऽज्ञान निवर्तकत्वाभावाद्बाध एव । न च घटाद्यधिष्ठानचैतन्यस्यान्तःकरणवृत्त्यवच्छिन्नत्वेनान्तःकरणावच्छिन्न साक्ष्यभेदात्तदध्यासिकसम्बन्धस्यैव तत्सम्बन्धत्वमिति वाच्यम् । अधिष्ठानचैतन्यस्यावच्छिन्नाभेदा सम्भवस्योक्तत्वात् । अभेदेऽवच्छिन्नवदवच्छेद्यस्यापि मिथ्यात्वेनाध्यासाधिष्ठानत्वासम्भवाच्च । तथात्वे वाऽध्यासाधिष्ठानत्वेन ब्रह्मणः पारमार्थिकत्वसाधनानुपपत्तेः । यच्चोद्देश्यसिद्ध्यर्थतया विशेषणसार्थक्य-मुक्तम् । तन्न । यत्राविशेषितसाध्यं प्रति हेतोरप्रयोजकता । यथा विमतं भिन्नाभिन्नं समानाधि-कृतत्वादित्यादौ । यद्विशेषणं विनाऽर्थान्तरादि वा । यथेश्वरानुमानेऽदृष्टप्रागभावव्याप्य प्रागभावा-प्रतियोगीति । तत्रैवोद्देश्यसिद्ध्यर्थत्वं वाच्यम् । न चात्रार्थान्तरादिनिवारकत्वम् । तदसम्भव-स्योक्तत्वात् । न च तद्विषयावरणसमयवर्तित्वे सति तन्निवर्तकत्वरूपस्याप्रकाशितार्थ प्रकाशकत्व-हेतोर्विशिष्टसाध्येन विनाऽनुपपत्तिरेव । अज्ञानातिरिक्तस्य ज्ञाननिवर्त्यस्य विषयावरणस्याभावात् । प्रागभावस्याप्रसिद्धत्वादन्यस्य चासम्भवादिति वाच्यम् । प्रागभावस्य व्युत्पादितत्वात् । तस्य चावरणत्वाभावे स्वविषयावरणपूर्वकमित्येतावतैवोपपत्तौ शेषवैयर्थ्यस्य वज्रलेपत्वात् । अन्यथाऽ-नादित्वभ्रमोपादानत्वादिविशेषणानि प्रक्षिप्योद्देश्यसिद्ध्यर्थतया वैयर्थ्यसमाधानापातात् । तस्मान्नेद-मनुमानमुपपन्नं तदेतदाह ॥ असम्बद्धमेवेति ॥ तत्र बाधादेरपरिहार्यत्वादित्याशयः ।

यच्च घटध्वंसाजनकेत्यनुमानं तदपि न । अतीन्द्रियस्यापि दुरितादेः प्रायश्चित्तादिना ध्वंसस्या-स्मदादितो जायमानत्वात्तत्रैश्वरज्ञानकल्पकाभावेनानुद्दिष्टघटादिध्वंसे च व्यभिचारेण प्रतियोगिप्रत्यक्षस्य ध्वंसाजनकत्वात् । अर्थान्तरासम्भवाद्घटध्वंसाजनकेति पक्षविशेषणवैयर्थ्यम् । परोक्षज्ञानस्याप्य-ज्ञाननिवर्तकताया उपपादितत्वेन बाधप्रसक्तेरभावेनापरोक्षविशेषवैयर्थ्यं च । प्रागभावनिवर्तकत्वेनाप्युप-पत्त्या अर्थान्तरता च । तस्य न जानामीत्यनुभवविषयत्वानुपपत्तेः परिहृतत्वात् । न च प्रमाणज्ञानस्य प्रागभावनिवृत्तिरूपतया न निवर्तकत्वम् । अज्ञानेऽपि तुल्यत्वात् । न चाज्ञाननिवित्तिर्भावनिवृत्तित्वा-दतिरिक्तैवेति वाच्यम् । धर्मिकल्पनान्यायेन क्लृप्तप्रागभावनिवृत्तावेवातिरिक्तत्व कल्पनौचित्येव भावत्वविशेषणस्याप्रयोजकतयाऽनुपादेयत्वात् । न चानवस्थादि तत्प्रयोजकतया कल्पकम् । अक्लृप्ता-ज्ञानकल्पनापेक्षया क्लृप्तप्रागभावादिपरम्परासिद्धविषयत्वादिकल्पनोपपत्तेः । त्वदभिमताज्ञानस्या-नादित्वेन ज्ञाननिवर्त्यत्वासम्भवस्योक्ततया बाधश्च । भ्रमपरोक्षज्ञानयोरज्ञाननिवर्तकत्वेन हेतावपरोक्ष-प्रमाणपदवैयर्थ्याच्च । अनुभवविरोधस्योभयस्य तुल्यतया परोक्षज्ञानस्येवापरोक्ष ज्ञानस्याप्यज्ञान-निवर्तकत्वाभावेऽपि हेतोरुपपत्त्याऽप्रयोजकत्वं च । मूलाविद्यानुमाने च प्रकृत्युपादानकत्वे-नोपपत्त्याऽर्थान्तरता । न च तत्र प्रमाणाभावः। चतुर्थपादे व्युत्पादयिष्यमाणत्वात् ।

यच्चानुमानं जडोपादानत्वमित्यादि तत्र जीवत्वादिकमादायार्थान्तरता । न च तस्यानाविद्यकत्वे न ज्ञाननिवर्त्यत्वमिति वाच्यम् । सत्यस्यापि ज्ञानेन निवृत्तेरुक्तत्वादप्रयोजकत्वं च । अज्ञानकल्पितत्व-स्याद्याप्य सिद्ध्या दृष्टान्ते साध्यवैकल्यं च । जडोपादानत्वादिकं सादिमात्रवृत्ति जडवृत्तित्वाद्घटत्वादि-वदित्याभाससाम्यं च । तदेतदाह ॥ अनुमानं त्वसंबद्धमेवेति ॥ तुशब्दो विशेषार्थः । परोत्प्रेक्षितो अनुमानविशेषोऽप्यसम्बद्ध एवेत्यर्थः । हेत्वनुपपत्त्या चानुमानस्याभासतामुपपादयति ॥ अनुमानं त्विति ॥ प्रदीपप्रभात्वरूपस्य ज्ञानहेतुत्वरूपस्य वा तस्य दृष्टान्ते सत्त्वेऽपि पक्षेऽभावात् । ज्ञानत्व-रूपस्य च तस्य पक्षे सत्त्वेऽपि दृष्टान्तेऽभावात् । असिद्धिसाधनवैकल्यप्राप्तिरित्याह ॥ प्रकाशक-त्वस्येति ॥ एकस्याभावेनेति वदतोऽयमाशयः । स्वविषयावरणनिवर्तकत्वाज्ञानान्धकारान्यतर-निवर्तकत्वादिरूपस्यानुगतत्वेऽपि साध्यावैशिष्ट्यापादकतया न हेतुशरीरान्तःप्रविष्ट प्रकाशकत्व-शब्दार्थतया विवक्षा युक्ता । साध्यावैशिष्ट्यानापादकस्य ज्ञानत्वादेश्च नानुगतत्वम् । एवं व्यवहार-हेतुत्वमात्रस्येन्द्रियादौ व्यभिचारित्वेन तदर्थतयाऽविवक्षणीयत्वात् । साक्षाद्य्वावहारहेतुत्वस्य दृष्टान्ते परम्परया तस्य च पक्षेऽसत्त्वेनासिद्ध्यादितादवस्थ्यमिति । प्रकाशशब्दवाच्यत्वं प्रकाशकत्वमतो नोक्तदोष इत्यत आह ॥ शब्देति ॥ एकार्थत्वादिति ॥ उपलक्षणं चैतत् । अज्ञानाविषयकस्य तदभावव्यावर्तकत्वानुपपत्तेश्चेत्यपि द्रष्टव्यम् । आभाससाम्योक्तौ तद्दूषणानां बाधादीनामपि लाभात्किं विशिष्य तदुक्त्येत्यपि तुच्छताज्ञापनायाभाससाम्यमेव तत्त्वप्रदीपिकोक्तानुमानस्याह ॥ तृतीयेति ॥ अयं घटः स्वप्रागभावातिरिक्तानादिनिवर्तको घटत्वाद्घटान्तरवदित्यपि प्रयोगस्य सुलभत्वादिति भावः ॥

परिमल

अनुमानं त्विति ॥ अप्रकाशितार्थप्रकाशकत्वादित्यनुमानमित्यर्थः ॥ असिध्यादीति ॥ ज्ञापकाप्यायकत्वरूपत्वेऽसिद्धिः । ज्ञापकत्वरूपत्वे चक्षुरादौ व्यभिचारः । ज्ञानत्वरूपत्वे साधनवैकल्यं दृष्टान्तस्येति भावः । प्रागुक्तानुमानान्तरं च निराह ॥ अभावेति ॥ घटादेरिति ॥ घटोऽयमेतद्घटप्रागभावातिरिक्तानादेर्निवर्तको घटत्वाद्घटान्तरवदिति वादावल्युक्तदिशेति भावः ॥

यादुपत्यम्

प्रकाशकत्वस्येति ॥ अत्र कश्चित् । प्रकाशशब्देन तज्जन्यव्यवहारलक्षणयाऽ-प्रकाशितव्यवहारहेतुत्वं हेत्वर्थः । तच्चोभयत्रानुगतमिति नासिद्धिरित्याह । तत्तुच्छम् । साक्षाद्धेतुत्व-विवक्षायां ज्ञानस्यैव तथा व्यवहारहेतुत्वेन साधनवैकल्यात् । प्रयोजकत्वविवक्षायां तु चक्षुरादौ व्यभिचारादिति ॥ तृतीयानुमानं त्विति ॥ देवदत्तघटो देवदत्तघटाभावातिरिक्तानादेर्निवर्तको घटत्वाद्यज्ञदत्तघटवदित्यनुमानेन घटाभावातिरिक्तं किञ्चिदनादिभावरूपं घटनिवर्त्यमपि सिद्ध्येदित्यति प्रसङ्गपराहतमित्यर्थः ॥

श्रीनिवासतीर्थीया

असिध्यादीति ॥ पक्षीभूते ज्ञानेऽर्थप्रकाशकत्वं नामार्थप्रकाशात्मक-बुद्धित्वमेव नान्यत् । प्रदीपप्रभायां चार्थप्रकाशकत्वं नामार्थप्रकाशजनकत्वमेव । एवं चार्थप्रकाशजनकत्व विवक्षायामसिद्धिः । अर्थप्रकाशात्मकबुद्धित्वविवक्षायां दृष्टान्ते साधनवैकल्यमित्यर्थः । पक्षदृष्टान्तानुगतं प्रकाशकत्वं न विद्यते । शब्दसाम्येन चेद्वाचो गोत्वाच्छृङ्गं समापतेदित्याह ॥ शब्दसाम्यमात्रेणेति ॥ तत्रेति ॥ अज्ञान इत्यर्थः ॥ वैयर्थ्येति ॥ तस्य साध्यज्ञप्त्यर्थत्वादिति भावः । अतद्-व्यावृत्ति-पक्षाङ्गीकारेण शङ्कते ॥ तदभाव इति पूर्वोक्तप्रमाणैरिति शेषः ।

वाक्यार्थरत्नमाला

नन्वत्र यथार्थज्ञानमात्रपक्षत्व इत्यादिना नृसिंहाश्रमेण शङ्कितप्रकारमेव न्यायामृतीयतदनुमानदूषणानुवादरूपत्वाद् एवेत्युक्तबाधाद्युपपादकतयाह तथाहि अत्र यथार्थ-ज्ञानमात्रस्येत्यादिना । न्यायामृते जडावरकेत्याद्युक्तेरनात्मावरकेति वाक्ये जडावरकेति व्यवहृतम् । एवं तत्र तत्रानुवादो व्याख्यानतया युज्यत इति बोध्यम् । अज्ञाननिवर्तकत्वायोगादित्यत्र तद्विषयाज्ञानेति योज्यम् । परमते जन्यज्ञानमात्रस्येति । सविकल्पकाजन्यं चाक्षुषप्रमाणज्ञानमित्युक्ते ईश्वरीय-सविकल्पकजन्यतया पक्षाप्रसिद्धिः । ईश्वरज्ञानवारणाय जन्यज्ञानाजन्येति विवक्षणेऽपीश्वरज्ञानजन्य-निर्विकल्पकरूपज्ञानजन्यतया पक्षाप्रसिद्धेरित्यतो विशेषणद्वयोपादानमित्यर्थः । एकेनापि तेन विनोद्देश्यासिद्धेरित्यन्तग्रन्थानन्तरं खण्डश उपयुक्तस्यैवानुवाद इति ज्ञेयम् । तत्तुच्छमित्यादिग्रन्थे दूषणव्याजेन कतिपयस्यानुवादो भविष्यति । कण्टकोद्धारकृतैतद्दूषणमपि मध्ये मध्ये अवलोक्यम् । सर्वं चेदं विशेषतो व्याख्येयमस्ति । न्यायामृतानुवादरूपनृसिंहाश्रमोक्तयनुसारेणाह प्रदीपप्रभात्वरूप-स्येत्यादिना । तस्य प्रकाशकत्वस्य ।