१३ चित्सुखोक्तप्रत्यक्षनिराकरणम्

अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने

चित्सुखोक्तप्रत्यक्षनिराकरणम्

अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने

सुधा

सौषुप्तिकज्ञानाभावानुमानेऽपि काऽनुपपत्तिः । पक्षाप्रतीतेर्नेति चेन्न । तस्याप्यनु-मानोपपत्तेः । न च ज्ञानाभावानुमाने लिङ्गाभावः । अवस्थाविशेषत्वस्यैव लिङ्गत्वसम्भवात् ।

वाक्यार्थचन्द्रिका

एवं विवरणोक्तप्रत्यक्षं निराकृत्य चित्सुखोक्तमपि तन्निराकरोति ॥ सौषुप्तिकेति ॥ यद्यपि न किञ्चिदित्यस्य परामर्शत्वमेवाभ्युपेत्य धर्म्यादिज्ञानभावाभावप्रयुक्तानु-पपत्तिर्विषय सामान्यविशेषितज्ञानस्य सुषुप्तावज्ञाननिरूपकत्वस्य त्वयेव मयाऽपि तादृशज्ञानस्यैव ज्ञानाभावनिरूपकत्वाभ्युपगमादिति समाधातुं शक्यते । अत एव मिथ्यात्वं यदि दुःखादेरिति वाक्य-व्याख्यावसरेऽहंप्रत्ययस्यात्मविषयकत्वोपपादनायैतत्समानन्यायस्य सुखमहमस्वाप्समित्यस्य परामर्शत्व मेवोक्तम् । तथाऽपि मम साक्षिणेत्याद्युक्तरीत्यैवास्य प्रकारस्य सुज्ञानत्वात्परेणाति यत्ननिरस्तानुमान प्रकार एव सूपपाद इत्याशयेनेदमिति द्रष्टव्यम् । ननु सुषुप्तिकालीन आत्मा ज्ञानाभाववानित्यनुमाने पक्षाप्रतीतेर्नानुमानसम्भव इत्याशङ्कते ॥ पक्षेति ॥ अनिद्राणस्योदयास्तमययोरन्तरालकालानुभवा-त्तद्दृष्टान्तेन निद्राकालात्पूर्वोत्तरास्तमयोदयकालयोरपि तत्कालत्वेन हेतुनाऽन्तरालकालवत्त्वमनुमाय तस्याप्यात्मवत्त्वं कालत्वेनेतरकालवदनुमातुं शक्यत एवेत्यनुमानेन सुषुप्तिकालीनात्मरूपधर्मिप्रतीति-र्युक्तेत्याह ॥ तस्यापीति ॥ अवस्थाविशेषस्यैवेति ॥ अन्यथा साक्षिवेद्येच्छादावज्ञानासम्भवेना-ज्ञानरूपलिङ्गेन सुप्तिकाले इच्छादिज्ञानाभावानुमानासम्भवाल्लिङ्गान्तरस्य चासम्भवात्सुषुप्ताविच्छादि-ज्ञानाभावानुमानं न स्यादिति भावः ॥

परिमल

पक्षेति ॥ सुप्तिकालं पक्षीकृत्य ज्ञानाभावोऽनुमेयः । सुप्तिकालस्य चाप्रतीते-र्नानुमानावकाश इत्यर्थः ॥ तस्यापीति ॥ जाग्रदाद्यवस्थाऽवस्थान्तरपूर्विकेत्यादिरूपेणेति भावः । विवृतमेतन्न्यायामृतेऽविद्याप्रत्यक्षभङ्गे ॥

यादुपत्यम्

पक्षाप्रतीतेरिति ॥ सुषुप्त्यवच्छिन्नात्मरूपपक्षाप्रतीतेरित्यर्थः ॥ तस्याप्यनुमानेति ॥ सम्प्रतिपन्नोदयास्तमयकालवद्विवादपदयोरप्युदयास्तमयकालयोरुदयास्तमयकालत्वेनान्तरालकाल- मनुमाय तत्र चात्मत्वस्य चोत्तरकालवत्कालत्वेनानुमानोपपत्तेरित्यर्थः ॥ अवस्थाविशेषत्वस्यैवेति ॥ बहुव्रीहितयाऽवस्थाविशेषवत्त्वस्यैवेत्यर्थः । ततश्च तत्कालीनोऽहं ज्ञानाभाववान् अवस्थाविशेष-वत्त्वाद्य्वतिरेकेण जाग्रदहमिवेत्यनुमानं द्रष्टव्यम् । न च ज्ञानाभावमन्तरेणान्योऽवस्था- विशेषो वक्तु-मशक्य इति वाच्यम् । श्रुतिसिद्धप्राज्ञपरिष्वङ्गरूपस्य वेदानीन्तनेन्द्रियप्रसादानुमितेन्द्रियोपरम रूपस्य वा तस्य सुवचत्वात् । यदा चोक्तरीत्याऽनुमितकालविशेषत्वस्यैव पक्षत्वं तदाऽवस्थाविशेषत्वस्यैव हेतुत्वमिति द्रष्टव्यम् ॥

श्रीनिवासतीर्थीया

तस्यापीति ॥ पक्षस्यापीत्यर्थः । सुषुप्तिप्राक्काल उदयकालत्वेन विवक्षित-स्तदनन्तरकालोऽस्तमयत्वेन विवक्षितः । तथा चोदयास्तमयकालौ आन्तरालिककालोपेतौ । उदयास्तमयकालत्त्वात्संप्रतिपन्नसूर्योदयास्तमयकालवदित्येवान्तरालिकं कालं सुषुप्तिरूपमनुमाय स काल आत्मवान् भवितुमर्हति कालत्वादितरकालवदित्यनुमानोपपत्तेरित्यर्थः ॥

वाक्यार्थरत्नमाला

सौषुप्तिकानुभवसाधकपरामर्शत्वत्यागेनानुमानत्वाङ्गीकारः परामर्श-त्वाङ्गीकारे अभावप्रतीतेर्धर्मिप्रतियोगिपराधीनतयेत्युक्तदोषस्योद्धारासम्भवेनेति प्रतीयते । तत्तथा न प्रत्येतव्यम् । तत्परिहारस्य सुज्ञानत्वाभिप्रायेण परामर्शत्वमङ्गीकृत्यैव परेण ज्ञानाभावानुमान-पक्षनिराकरणमतियत्नतः कृतमस्तीति तदनुमानपक्ष एव समर्थ्यत इत्याह यद्यपि न किञ्चिदित्यस्येति ।