११ विवरणकारोक्तप्रत्यक्षनिरासः

अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने

विवरणकारोक्तप्रत्यक्षनिरासः

अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने

सुधा

अत्रोच्यते ॥ यत्तावद्भावरूपाज्ञानसिद्धौ प्रत्यक्षमुपन्यस्तं तस्य ज्ञानाभावविषयत्वे को दोषः । अभावस्य षष्ठप्रमाणविषयत्वान्नेति चेन्न प्रत्यक्षत्वस्याङ्गीकर्तुमुचितत्वात् । धर्मिप्रति-योगिज्ञानभावाभावयोरनुपपत्तिरिति चेन्न तथा सति ज्ञानाभावस्य तव सर्वथाऽप्यप्रतीतिप्रसङ्गात् । ततश्च तन्निरासप्रयासानुपपत्तिः ।

वाक्यार्थचन्द्रिका

अत्र यत्परेणानादिभावत्वे सति ज्ञाननिवर्त्यत्वमज्ञानलक्षणमसूचि तस्यानादेर्निवर्त्यत्वासंभवस्य परमते व्युत्पादिततया निरस्तप्रायत्वादध्यासान्यथाऽनुपपत्तिसूचितस्य भ्रमोपादानत्वरूपलक्षणस्य तु वक्ष्यमाणरीत्याऽन्यथोपपत्तिप्रतिपादनेन सुनिरस्यत्वात्किं तदर्थं पृथक् प्रयत्नेनेत्याशयेन साक्षाद्विवरणकारोदितप्रमाणान्येव निरस्यन्प्रथमोपन्यस्तप्रत्यक्षं निराकरोति ॥ यत्तावदित्यादिना ॥ अभावस्य षष्ठप्रमाणगम्यत्वादिति सिद्धवदुक्तिपूर्वं प्रत्यक्षाभाववादिनोऽ-पीत्युक्त्याऽभावस्य षष्ठप्रमाणवेद्यत्वस्य तत्सिद्धान्तत्वं प्रत्यक्षदूषणं तु अभ्युच्चयेनेति गम्यतेऽतस्तदादौ बाधकत्वेन शङ्कते ॥ अभावस्येति ॥ अभावाख्यषष्ठप्रमाणं हि प्रातर्गजाद्यभावप्रत्ययस्य प्रमाणान्तरेणानुपपत्तेस्तदर्थं स्वीकर्तव्यं वा घटाद्यभावप्रत्ययार्थमेव वा । न तावदाद्यः । तत्र क्षणं ध्यात्वा नासीत्तत्र गज इति प्रतिपत्तेरभावस्याप्रत्यक्षत्वेऽपि स्मर्तुं योग्यस्मरणाभावलिङ्गानुमेया-नुपपलब्धिलिङ्गकानुमानेनैव तदुपपत्तेः । साक्षिग्राह्यबुद्धिसुखाद्यभावस्य नियमेन साक्षिवेद्यत्वात्स्मरणा-भावानुमापकानुपलब्ध्यन्तरानुसरणप्रयुक्तानवस्थाया अप्यप्रसक्तेः । नापि द्वितीयः । प्रतियोगि-स्मरणवतः पुरोवर्तिनि जायमानस्येन्द्रियान्वयव्यतिरेकानुविधायिनोऽभावप्रत्ययस्याप्रत्यक्षफलत्वानु-पपत्तेः । अपरोक्षाकारत्वस्यानुभवसिद्धत्वाद्बाधकाभावाच्चान्यत्रोपक्षयकल्पनाऽनुपपत्तेः । उपपादयिष्यते चैतत्स्फुटम् ‘अर्थापत्त्युपमाभावा अनुमान्तर्गताः क्वचित् । प्रत्यक्षान्तर्गतो भावः सुखादेर्नियमेन च’ इत्यनुव्याख्याव्याख्यावसरे । एवं च ज्ञानरूपप्रतियोगिन आत्मरूपधर्मिणश्च योग्यत्वात्तदभाव प्रत्यक्षमुचितमित्याशयेनाह ॥ प्रत्यक्षत्वस्येति ॥

तर्हि प्रत्यक्षाभाववादिनं प्रत्युक्तानुपपत्तिः स्यादेवेत्याशङ्कते ॥ धर्मीति ॥ सामान्यविशेषविषयेण प्रत्यक्षेण वा फललिङ्गाभावानुमानेन वा चित्सुखोक्तरीत्या ज्ञानरूपलिङ्गेन वा षष्ठप्रमाणेन वा ज्ञानाभावावगमस्योक्तानुपपत्त्या त्वयैव निरस्तत्वेन साधकाभावात्तव ज्ञानाभावप्रतीत्यभावापत्तेरित्याह ॥ तथा सतीति ॥ न चेष्टापत्तिः । स्वयं क्वचिज्ज्ञानाभावं प्रतीत्य प्रतीत्यन्तरे प्रसक्तस्य ज्ञानाभावविषयकत्वस्य निराकर्तव्यतया तदप्रतीतौ प्रसक्तेरेवाभावेनाहमज्ञ इत्यादेस्तद्विषयकत्वनिरासानु पपत्तिरित्याह ॥ ततश्चेति ॥ न च मम स्वत एव ज्ञानाभावज्ञानाभावेऽपि प्रतिवादिवाक्य-प्रसक्ततन्निरासाय यत्नोऽयमिति वाच्यम् । धर्मिप्रतियोगिप्रतीत्यप्रतीत्योस्तवेव प्रतिवादिनोऽपि ज्ञानाभावप्रतीत्यनुपपत्त्या तत्पूर्वकवाक्यप्रयोगानुपपत्तौ ततोऽप्यप्रसक्तेः । व्याहतादिस्थले सत्यपि व्याहत्यादौ तदज्ञानेन विपरीतज्ञानेन च वाक्यप्रयोगोपपत्तावपि सति ज्ञानज्ञाने तदभावज्ञानोत्पत्तेः सर्वथाऽनुपपन्नत्वात् । न च सत्यपि ज्ञानादिरूपधर्म्यादिज्ञाने ज्ञानाभावभ्रान्त्या तथा प्रसक्तिरिति वाच्यम् । ज्ञानरूपधर्म्यादौ ज्ञायमाने तदभावभ्रान्तेरप्यनुपपत्तेः । अन्यथा तन्निवृत्तिरेव न स्यात् । किञ्च न तावज्ज्ञानाभावस्वरूपमङ्गीकृत्याहमज्ञ इत्यादेस्तद्विषयकत्वनिराकरणम् । तत्साधकप्रतीतेरनेन तुल्य-योगक्षेमत्वादन्यथा वक्ष्यमाणरीत्याऽस्यैव तद्विषयकत्वस्याङ्गीकर्तव्यतापातात् । नाहि ज्ञानाभाव-स्वरूपमेवानङ्गीकृत्य । साधकसद्भावेन बाधकाभावेन च तत्स्वरूपापलापायोगात् । तथा हि । ज्ञानाभावस्वरूपमनभ्युपगच्छता कुत्रापि प्रागभावादित्रितयमपि नाभ्युपगम्यते । उत ज्ञान एव वा तत्रापि त्रितयं वा प्रागभाव एव वा । नाद्यः । पारमार्थिकत्वाकारेण प्रपञ्चे त्रैकालिकनिषेधप्रतियोगित्वं स्वरूपेण विनाशं चाङ्गीकुर्वतोऽपसिद्धान्तापत्तेः । नापि द्वितीये प्रथमद्वितीयौ । विशेषहेत्वभावात् । न च साधकाभावात्प्रागभावः कुत्रापि नाभ्युपेयत इति वाच्यम् । उत्पन्नमात्रतन्तुषु पटो नास्तीत्यादि प्रतीतेरेव तत्साधकत्वात् । न च पटादिविशेषकार्यस्य विशेषप्रागभावकार्यत्वेन पटादिसामान्यरूप-कार्याभावेनात्यन्ताभाववत्प्राग भावस्य सामान्याभावत्वाभावात्पटत्वावच्छिन्नप्रतियोगिताकाभाव-विषयिण्यास्तस्याः कथं प्रागभावविषयकत्वमिति वाच्यम् । कार्याभावेऽप्यत्यन्ताभावस्येवाबाधित प्रतीतिसिद्धस्य तस्यापह्नोतुमशक्यत्वात् । माऽस्तु वा प्रागभावसामान्याभावस्तथाऽपि नानुपपत्तिः । तत्तत्पटत्वावच्छिन्नप्रतियोगिकपटविशेषप्रागभावस्यैव प्रतीत्या विषयीकृतत्वेन सामान्यस्य तदव-च्छेदकत्वेनाविषयीकरणात्प्रतीतस्य सर्वस्य व्यवहर्तव्यतानियमाभावेन पटो नास्तीति व्यवहारस्यैक-देशविषयकत्वेनाप्युपपत्तेः । न चोत्पत्त्यनन्तरं प्रागभावस्यैवाभावात्पूर्वं च तत्तत्पटत्वादिरूपप्रतियोगिता वच्छेदकविशेषाप्रतीत्या न तदवच्छिन्नाभावप्रतीतिरिति वाच्यम् । सामग्य्रादिरूपलिङ्गेन कार्यविशेष-प्रतीत्युपपत्तेर् एतेन प्रागभावज्ञानानुपपत्तिरपि परोक्ता समाहिता वेदितव्या ।

अस्तु वाऽत्र विशेषस्यावच्छेदकत्वेनाविषयीकरणम् । तथाऽपि सामान्यधर्माक्रान्तविशेष-प्रतियोगिकाभावप्रतीतिरियं न तु सामान्यस्य प्रतियोगितावच्छेदकत्वविषयिणीति नानुपपत्तिः । न च सामान्यस्य प्रतियोगितानवच्छेदकत्वे प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिज्ञानरूपकारणाभावान्न तदभावज्ञानमिति वाच्यम् । अनन्यथासिद्धप्रतीतिबलेन सामान्यधर्माक्रान्तप्रतियोगिविशेषज्ञानमात्रस्यैव क्वचित्तद्धेतुतया कल्पनीयत्वात् । अन्यथा गौरस्तीत्यादावपि सामान्यरूपेण विशेषप्रतीत्यभावापत्तेः । सामान्यज्ञानमात्रस्य क्वचिदपि विदेषावच्छिन्नप्रतीत्यनुपयोगे विशेषज्ञानाज्ञानयोस्तदवच्छिन्नाज्ञान-प्रतीत्यनुपपत्तेर्वक्ष्यमाणत्वाच्च । अस्तु वा सामान्यस्यैव विशेषाभावप्रतियोगितावच्छेदकत्वम् । घटत्वावच्छिन्नप्रतियोगिताधिकरणमात्रवृत्तिकम्बुग्रीवत्वादिसाधारणतयाऽनतिरिक्तवृत्तित्वादेरवच्छेदक-पदार्थत्वाभावेन स्वरूपसम्बन्धविशेषरूपस्य तस्यानन्यथासिद्धप्रतीतिबलेन कल्पनोपपत्तेः । न च भूतले घटो नास्तीति प्रतीतिवत्तन्तुषु पटो नास्तीति प्रतीतेरत्यन्ताभावविषयत्वेनोपपत्तेः सर्वमेतदनुपपन्न मिति वाच्यम् । भूतले घटसंसर्गस्य भावित्वे तत्प्रागभावस्य भूतत्वे तद्ध्वंसस्य सर्वथाऽसत्त्वे तदत्यन्ताभावस्य भूतले घटो नास्तीति प्रतीतिविषयत्वेन तत्रात्यन्ताभावमात्रविषयकत्वाभावात्प्रकृते पटस्य भावितया तदत्यन्ताभावविषयकत्वानुपपत्तेश्च । प्रामाणिकप्रतियोगिकात्यन्ताभावस्यानु-पपन्नत्वात्पटोत्पत्तिपूर्वसमये सतोऽभावस्य चात्यन्ताभावत्वे प्रागभावस्यैव नामान्तरं कृतं स्यात् । सार्वकालिकसार्वदैशिकनिषेधस्यैवात्यन्ताभावत्वात् । न च तत्समयसंसृष्टः पटोऽप्यप्रामाणिक एवेति वाच्यम् । कालान्तरभाविपटस्यैव तत्र प्रतियोगितया भावेन तादृशसंसृष्टस्य तत्त्वेनाभावात् । कार्य-कारणयोरभेदेन संसर्गाप्रसक्तेश्च । भूतले घटो नास्तीत्यत्र तु प्रामाणिकघटाभावविषयकत्वानुपपत्त्या तत्संसर्गाभावविषयकत्वकल्पनम् । तस्मात्प्रतीतेरन्यथाऽनुपपत्तेः सर्वमुपपन्नम् । घटो भविष्यतीति बुद्धेश्च प्रागभावसिद्धिः । न च तस्या गन्धानाधारसमयानाधाराभावत्वरूपप्रागभावविषयकत्वं तदा मुक्त्युपस्थापकप्रमाणाभावादनुपपन्नमिति वाच्यम् । उत्तरैकावध्यभावत्वरूपस्य तस्य तद्विषयत्वो-पपत्तेः । न च प्रतियोग्युत्पत्त्युत्तरकालेऽसत्त्वे सति तत्पूर्वकाले सत्त्वरूपस्योत्तरैकावधित्वस्य सामयिकात्यन्ताभावेनाप्युपपत्तेर्न तद्विषयकभविष्यत्वबुध्या प्रागभावसिद्धिरिति वाच्यम् । सामयि-कात्यन्ताभावस्योक्तरीत्या निरस्तत्वात् । अत एवायं पाकानन्तरं रक्तो भविष्यतीति बुध्द्या घटे रक्तताश्रितत्वसंशयो न निवर्तेतेति प्रत्युक्तम् । भविष्यतीति बुद्धेः रक्तत्वं नास्तीतिविषयकत्वस्योक्त-रीत्योपपन्नत्वात् । प्रागभावकालस्यैव प्राक्कालतया प्राक्काल इति व्यवहारश्च प्रागभावे मानम् । न च तर्हि घटप्रागभावः प्राक्कालेऽस्तीति व्यवहारानुपपत्तिरिति वाच्यम् । घटः स्वकालेऽस्तीतिवत्प्रागभावः स्वकालेऽस्तीत्यस्योपपत्तेः । अन्यथा भूतले घट इत्यत्रापि घटवति तदभाववति वेति विकल्पदूषण-प्रसङ्गात् । प्रकारान्तरेण प्राक्कालीनत्वस्यानुपपत्तेश्च । न च प्रतियोगिध्वंसानाधारकाल एव प्राक्काल इति वाच्यम् । प्रतियोगितत्प्रागभावानाधारसमयस्यैव ध्वंसप्रतीतिविषयत्वोपपत्त्या प्रागभावमङ्गीकृत्य ध्वंसस्यापि निवारणप्रसङ्गात् । उत्पन्नस्य पुनरुत्पत्त्यभावस्य सामग्रीविरहप्रयुक्तत्वात्कारणान्तरस्य सदा सत्त्वेन प्रागभावविरहादेव तस्य वक्तव्यत्वाच्च प्रागभावसिद्धिः । अत्यन्ताभावेनोपपत्तेर्निरस्तत्वात् । उत्पन्नप्रतिबन्धकताकल्पनायाश्च दण्डाभावप्रतिबन्धकत्वकल्पनातुल्ययोगक्षेमत्वेनानुपपत्तेः । पाकजरूप रसादिभेदस्य कारणान्तराभावेन प्रागभावभेदादेव वक्तव्यतया च प्रागभावसिद्धिः । न च युगपदुत्पत्तौ प्रमाणाभावेन क्रमभावितेजःसंयोगात्पूर्वरूपादिध्वंसाद्वा तदुपपत्तिरिति वाच्यम् । रूपोत्पत्ति-प्रयोजकाग्निसंयोगादधिकाग्निसंयोगस्य रसोत्पत्तिप्रयोजकत्वे नियामकाभावादेव युगपदुत्पत्तिसिद्धेः । पूर्वरूपादिध्वंसभेदस्य प्रयोजकत्वकल्पनायाश्च प्रागभावमनङ्गीकुर्वता तुल्यन्यायतया ध्वंसस्याप्य-नङ्गीकार्यत्वेनानुपपत्तेः । तस्मान्न प्रागभावे साधकाभावः ।

ननु तथाऽपि प्रागभावाभ्युपगमे तत्त्वज्ञानाय शास्त्रानारम्भप्रसङ्गः । दुःखप्रागभावानामपरिमितत्वे तेषामनन्तैर्जन्मभिर्दुरुच्छेदतया स्पष्टमेव शास्त्रारम्भवैफल्यम् । परिमितत्वे च सत्यपि शास्त्रजन्य-ज्ञाननिवर्त्ये मिथ्याज्ञाने सत्यपि च देहेन्द्रियादौ दुःखप्रागभावाभावे मोक्षप्रसङ्गात्तद्वैफल्यमेव । किञ्चैवं चीर्णप्रायश्चित्तस्य निरतिशयदुःखप्रागभावमात्मनि निश्चिन्वतो मुमुक्षा न भवेत् । मुमुक्षोर्वा मुक्त्युद्देशेन ब्रह्मवधे प्रवृत्तिः स्यादिति बाधकमिति चेन्न । दुःखप्रागभावानां परिमितत्वेऽपि तत्त्वज्ञानस्य मोक्ष-साधनताप्रतिपादकप्रमाणानुरोधेन मिथ्याज्ञानस्य मोक्षप्रतिबन्धकत्वसिद्धेरप्रतिबद्धसामग्य्रा एव कार्य-जनकत्वस्य च प्रसिद्धत्वात् । तत्त्वज्ञानेन निवृत्तमिथ्याज्ञानस्यैव दुःखप्रागभावाभावे मोक्षो नान्यस्येति कल्पनात् । न च दुःखप्रागभावस्य दुःखकारणत्वात्कारणाभावे च स्वत एव कार्याभावेन दुःखाभावे स्वत एव सिद्धे का प्रतिबन्धकल्पनेति वाच्यम् । कारणाभावातिरिक्तकार्यस्थले तदभावमात्रस्य कार्याभावप्रयोजकत्वेऽपि कारणनिवृत्तिरूपकार्यस्थले कारणाभावस्य कार्याभावप्रयोजकत्वासंभवेन दुःखप्रागभावनिवृत्तिरूपदुःखाभावरूपमोक्षे प्रतिबन्धकाभावादेः प्रयोजकत्वकल्पनौचित्यात् । दुःखात्यन्ताभावस्य सिद्धस्यापि त्वन्मते आनन्दाभिव्यक्त्यादेरिव तत्त्वज्ञानसाध्यत्वसंभवाच्च । अपरिमितत्वेऽपि वा तेषामुक्तप्रमाणानुरोधेन मिथ्याज्ञानादिसहकृतानामेव दुःखजनकतया सहकारि-विघटकत्वज्ञानाय शास्त्रारम्भोपपत्तेश्च । कृतप्रायश्चित्तस्य ब्रह्महत्यादिफलनरकाद्यभावबोधक- प्रमाणानु रोधेन तस्य दुःखाभावनिश्चयवद्दुःखप्रागभावाभावनिश्चयस्यापि कार्यैकोन्नेयतया तदनिश्चयेऽपि कृत-प्रायश्चित्तस्य दुःखाभावनिश्चयेन वा मुमुक्षा ब्रह्मवधे प्रवृत्तिश्च युज्यत एव । न चैतत्कल्पनापेक्षया प्रागभावस्वरूपमनङ्गीकृत्य तत्कारणत्वमेव कुतो न परित्यज्यत इति वाच्यम् । अन्यथासिध्द्या त्वदुक्तस्याबाधकत्वेनोच्यमानत्वात्साधकानामुक्तत्वाच्च । प्रागभावानभ्युपगमे त्वद्ग्रन्थस्वारस्यविरोधाच्च । तस्मात्प्रागभावादित्रितयमप्यन्यत्र ज्ञाने चावश्यमङ्गीकर्तव्यमिति तदेतज्ज्ञानाभावप्रतीत्यभावं प्रसञ्जयता तस्यानिष्टत्वसूचनात्सूचितमिति द्रष्टव्यम् ।

परिमल

परोक्तं सर्वं ज्ञानाभावविषयतयोपपन्नमिति सिद्धान्तयति ॥ अत्रोच्यत इत्यादिना ॥ उचितत्वादिति ॥ उन्मीलितनेत्रस्य खडित्यभावबुद्धेरुत्पत्तेरिति भावः । ज्ञानस्य प्रत्यक्षत्वेन तदभावस्य तथात्वौचित्यादिति वाऽभिप्रायः । वक्ष्यते चैतत् ‘प्रत्यक्षान्तर्गतोऽभावः सुखादेर्नियमेन तु ॥ अन्यत्र खडितिप्राप्त’ इति भक्तिपादे ॥

श्रीनिवासतीर्थीया

या भावरूपाज्ञानप्रतीतिः सा ज्ञानाभावविषयैवेत्यानेतुमाह ॥ तथा सतीति ॥ लोक इति शेषः । धर्मिप्रतियोगिप्रतिपत्तिविकल्पेन ज्ञानाभावस्य त्वन्मतेऽपि प्रतिपत्तु-मशक्यत्वादिति भावः । इष्टापत्तिरिति चेत्तत्राह ॥ ततश्चेति ॥ ज्ञानाभावस्य सर्वथा प्रतीत्यभावाङ्गीकारे त्वदुक्तमर्थं न जानामीति व्यवहारो न ज्ञानाभावविषयक इति ज्ञानाभावविषयकत्वनिराकरणप्रयास एवानुपपन्नः स्यात्प्रतियोगिज्ञानाभावादिति भावः ।

वाक्यार्थरत्नमाला

लक्षणानिराकरणाभावे निमित्तं वदन्नुत्तरग्रन्थमवतारयति अत्र यदिति । अनादेर्निवर्त्यत्वस्य स्वमते प्रागुपपादनान्निरासानुपपत्तिरित्यत उक्तं परमत इति । अध्यासान्यथाऽनु-पपत्तिसूचितस्येति । अनेन किञ्च विशुद्धेति प्राचीनग्रन्थे भ्रमोपादानत्वलक्षणमनेन सूचितमिति तात्पर्यं वर्णनीयमित्युक्तं भवति । विवरणकारेति । उपलक्षणं चैतत् । तत्त्वप्रदीपिकादिकारेत्यपि द्रष्टव्यम् । भावरूपाज्ञानप्रत्यक्षभङ्गीयन्यायामृते औतसिद्धिकारादिभिरुद्भावितप्रागभावाद्यनङ्गीकारेण दूषणानां प्रागभावाद्यनङ्गीकारसाधकतयोदाहृतयुक्तीनां च निराकरणाय शिरोमणिकृततत्खण्डनस्यार्थान्निराकृत्यै च किञ्च प्रागभाव एव नास्ति तन्मात्रे प्रमाणाभावात् । न तावदुत्पन्नमात्रतन्तुषु परो नास्तीति बुद्धिस्तत्प्रमाणमित्यादिनृसिंहाश्रमीयप्रागभावखण्डनेन ज्ञानाभावविषयत्वानुपपत्तिप्रतिपादनं निराकर्तुं तत्प्रसञ्जकतया अर्थान्तरमाशङ्क्य निराकरोति न च मम स्वत एवेति । अयं ग्रन्थो विशिष्य तत्र तत्र व्याख्येयोऽस्ति । हस्तिकेशवाचार्यादिकृतं प्रागभावसमर्थनं च विचार्यमस्ति ।