१० अज्ञानसाधनोपसंहार

अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने

अज्ञानसाधनोपसंहार

अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने

सुधा

तदेवं प्रत्यक्षादिप्रमाणतः सिद्धमज्ञानं न तावदनात्मनि सम्भवति । प्रमाणप्रयोजनयोर भावात् । अतः परिशेषादात्मन्येवाज्ञानमङ्गीकरणीयम् । तत्कथमुच्यतेऽज्ञानाभावत इति ।

वाक्यार्थचन्द्रिका

यदर्थं प्रमाणसिद्धत्वोपपादनं तदिदानीं वदति ॥ तदेवमिति ॥ प्रमाणेति ॥ इदं नीलमनेनावृतमिति हि प्रत्यक्षेण ग्रहीतव्यम् । तच्च नीले गृहीते विरोधादनवगते च सुतरामे-तादृशावरणानुभवायोगः । न च नीलावगमकालेऽज्ञानावरणासंभवेऽपि विमतं नीलं पूर्वमावृत-मिदानीमवगतत्वात्सम्मतवदित्यनुमानात्पूर्वकालीनावरणसिद्धिरिति वाच्यम् । इदानीमवगतत्वमात्रस्य हेतुत्वे धारावाहिकद्वितीयादिज्ञानावगते इदानीमवगतत्वसत्त्वेऽपि पूर्वकालावृतत्वाभावेन व्यभिचारात् । इदानीमेवावगतत्वस्य हेतुत्वे चेदानीमेवावगतत्वेन प्रागनवगतत्वसिद्धिस्तत्सिद्धौ चैतत्सिद्धिरितीतरे-तराश्रयेणासिद्ध्यापत्तेः । न च तर्हि पूर्वापरकालसम्बन्धिविषयकप्रत्यभिज्ञाया मध्येऽनवगतिमन्तरेणानु-पपत्त्या मध्ये आवृतत्वसिद्धिरिति वाच्यम् । सदा स्फुरत्यप्यात्मनि सोहमिति प्रत्यभिज्ञाया दर्शनेन तस्या मध्येऽनवगत्यसाधकत्वात् । न च तर्ह्यभिज्ञाप्रत्यभिज्ञयोर्मध्येऽर्थावगमे तदवगमस्य स्मृतिप्राप्ते-स्तदभावेन मध्ये आवृतत्वसिद्धिरिति वाच्यम् । अनुभूयमाने स्मृतिनियमाभावेन मध्ये उत्पन्नज्ञाना-नामस्मरणोपपत्तेः । न च त्वदुक्तमर्थं न जानामीति विषयसंबन्ध्यज्ञानानुभवात्संबन्धस्य चावरकत्व-रूपस्यैवात्मनि दृष्टतयाऽज्ञानस्यापि विषयेण स एव संबन्ध इति कथं तदपलाप इति वाच्यम् । साक्षिचैतन्येन स्वस्मिन्नध्यस्तानामज्ञानविषयतत्संबन्धानामनुभवाङ्गीकारात्संबन्धश्चाज्ञानविषययोः कार्यकारणभावो नावरणाव्रियमाणत्वरूपोऽध्यस्तस्यावरणायोगात् । प्रतीतकाले तावदावरणं व्याहत-मप्रतीतकाले स्वयमेव नास्ति द्विचन्द्रादिवदध्यस्तस्य प्रतीतिमात्रशरीरत्वात् । यद्यध्यस्तमप्याव्रियते तर्हि तस्य मानागोचरत्वेन तदावरणानिवृत्तेस्तत्प्रतिभास एव न स्यात् । प्रमाणगम्यं हि वस्तु परमार्थत्वाद-प्रतीयमानमपि तिष्ठतीति कथञ्चिदाव्रियेत माननिवर्त्यमध्यस्तं तु कथं नामाव्रियेत । तस्मान्नास्त्य-नात्मावरणे प्रमाणम् । नापि प्रयोजनम् । प्रसक्तप्रकाशप्रतिबन्धकस्यैव सर्वत्रावरणप्रयोजनत्वात् । अनात्मनि च स्वतो वा प्रमाणबलाद्वा चैतन्यबलाद्वा प्रकाशप्रसक्तेर्वक्तव्यतया जडत्वेनाद्यस्य प्रकारस्य माननिवर्त्यस्यावरणस्य तत्प्रतिबन्धकत्वायोगेन द्वितीयस्य चैतन्यावरणादेव कार्योपपत्तावनात्मनि पृथगावरणकल्पनावैयर्थ्येन तृतीयस्य च निरस्ततया प्रकाशप्रसक्तेरभावान्न तत्प्रतिबन्धः प्रयोजनमिति प्रमाणप्रयोजनयोरभावान्नानात्मन्यज्ञानं संभवतीति भावः । एवं च प्रमाणसिद्धाज्ञानापलापायोगा-दनात्मपक्षस्य चोक्तरीत्याऽनुपपन्नत्वादात्माश्रितत्वतद्विषयकत्वपक्षमङ्गीकृत्य तद्दूषणमविद्याविचित्र-शक्त्या स्वप्रकाशस्याप्यावरणमिति कथञ्चित्परिहर्तव्यमित्याह ॥ अत इति ॥ अनेनाक्षेप्यं मूलं दर्शयति ॥ तदिति ॥

यादुपत्यम्

प्रमाणप्रयोजनयोरिति ॥ तथा हि । न तावदज्ञानस्यानात्मावरकत्वे प्रमाणमस्ति । तत्किं प्रत्यक्षमुतानुमानमाहोस्विदर्थापत्तिः । आद्येऽपि किमनात्मन्यधिगते आवरणमधि-गम्यतेऽथवाऽनधिगते । नाद्यः । नीलार्थेऽवगते तदवगमविरोधादेव तत्रावरणस्यावगन्तुमशक्यत्वात् । न द्वितीयः । नीलप्रत्ययाभावे तदावरणस्य सुतरां प्रत्येतुमशक्यत्वात् । नापि द्वितीयः । तत्प्रतिबद्ध-लिङ्गाभावात् । न च विमतं पूर्वमावृतमिदानीमवगतत्वात्सम्मतवदित्यनुमानमस्तीति वाच्यम् । धारावाहिकविज्ञानगम्ये इदानीमवगतत्वसत्त्वेऽपि पूर्वमावृतत्वाभावेन व्यभिचारित्वात् । न च तत्राप्युत्तर कालवैशिष्ट्यस्य पूर्वमज्ञातत्वान्न व्यभिचार इति वाच्यम् । तथाऽपि विशेष्यभूतार्थे व्यभिचारात् । इदानीमेवावगतत्वं हेतुरस्त्विति चेन्न । इदानीमेवावगतत्वे सिद्धे प्रागनधिगतत्वसिद्धिस्तत्सिद्धौ चेदानीमेवावगतत्वसिद्धिरितीतरेतराश्रयत्वप्रसङ्गात् । नापि तृतीयः । अनात्मन्यज्ञानं विना कस्याप्यनु-पपत्त्यभावात् । ननु पूर्वापरकालसम्बन्धिविषयिणी तावत्प्रत्यभिज्ञा दृष्टा । सा च मध्येऽनवगतिमन्तरेण नोपपद्यते । अन्यथा तत्रापि प्रत्यभिज्ञाप्रसङ्गादिति चेन्न । प्रत्यभिज्ञाया धारावाहिकज्ञानगम्येऽनात्मनि च सदावगते आत्मनि च दर्शनेनानवगत्यनापेक्षकत्वात् । ननु तथाऽपि पूर्वमवगत्यङ्गीकृतौ तद्विनाशे संस्कारस्यावश्यम्भावात्तन्मूला स्मृतिः स्यान्न च साऽस्तीत्यस्मरणमेवानवगतिकल्पकमस्त्विति चेन्न । अवगतेऽप्युपलब्धतृणादिवदस्मरणसंभवात् । न चाज्ञातो घट इत्यनुभवात्साक्षिणैवानात्मन्यज्ञानसिद्धिः। तत्र साक्षिणा स्वाध्यास्ताज्ञानस्यैव प्रतीयमानत्वाङ्गीकारात् । यथा लौहित्यमुखयोः स्फटिकप्रति-बिम्बितयोः परस्परसम्बन्धः प्रतिभासते लोहितं मुखमिति, तथा ज्ञानात्मनोरात्मन्यध्यासात्परस्पर-सम्बन्धप्रतिभासोपपत्तेः । तस्मान्नास्त्यनात्मन्यावरणे प्रमाणम् । नापि प्रयोजनम् । स्वयमेव प्रकाश-विहीनत्वाज्जडस्य । निष्पादितक्रिये च कर्मण्यविशेषाधायिनः साधनस्य साधनन्यायातिपातन्यायादावृत-रूपेऽनात्मन्यज्ञानावरणलक्षणमतिशयं कथमादध्यादिति विवरणोक्तरीत्या प्रमाणप्रयोजनयोर-भावादित्याशयः ॥

श्रीनिवासतीर्थीया

प्रमाणेति ॥ जडेऽज्ञानसद्भावे प्रमाणस्य प्राप्तप्रकाशप्रतिबन्धरूप-प्रयोजनस्य चाभावादित्यर्थः ।

वाक्यार्थरत्नमाला

सा च न जडेषु वस्तुस्वरूपावभासं प्रतिबध्नातीत्येतत्पञ्चपादिका-व्याख्यानाय प्रवृत्तेन विवरणकारेण ननु येन यस्यातिशय उत्पद्यते इत्यादिशङ्काव्याजेनानात्म-न्यावरणाङ्गीकारे प्रत्यक्षादिप्रमाणनिराकरणात्तत्प्रयोजननिराकरणाच्च तदनुसारेणोभयाभावमुपपादयति इदं नीलमनेनेत्यादिना । तत्त्वदीपनविवरणोपन्यासानुसारेणाधिकोक्तिस्तत्रतत्रेति ज्ञेयम् । प्रत्येकं वाक्यव्याख्यानं कर्तव्यमस्ति । आत्मन्यज्ञानाङ्गीकारे दूषणस्य प्रागभिधानात्कथं परिशेष इत्यत-स्तदभिप्रायमाह एवं चेति ।