०७ चित्सुखोक्तप्रत्यक्षोदाहरणम्

अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने

चित्सुखोक्तप्रत्यक्षोदाहरणम्

अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने

सुधा

किञ्च न किञ्चिदवेदिषमिति परामर्शसिद्धसौषुप्तिकानुभवोऽप्यत्र प्रमाणम् । न च ज्ञानाभावविषयोऽयमनुभवः, अभावप्रतीतेर्धर्मिप्रतियोगिबोधपराधीनतया तदभावे तस्यानुभवितु-मयोग्यत्वस्योक्तत्वात् । न च नायं सुषुप्तिकालीनानुभवपरामर्शः, किन्तु तदुत्थितस्येदानीमेव सौषुप्तिकज्ञानाभावानुमानमिति वाच्यम्; तदनुमापकलिङ्गासिद्धेः । न च सामग्य्रभावो लिङ्गम्, तस्याप्यसिद्धेः । न च ज्ञानाभावेन तदनुमानम्, अन्योन्याश्रयतापत्तेः । न च स्मरणाभावो ज्ञानाभावे लिङ्गम्, व्यभिचारात् ।

वाक्यार्थचन्द्रिका

एवं विवरणोक्तं प्रत्यक्षमुदाहृत्य चित्सुखोक्तं तदुदाहरति ॥ किञ्चेति ॥ अननुभूते स्मरणायोगात्सुप्तोत्थितस्य न किञ्चिदहमवेदिषमिति जायमानस्मरणेनोन्नीतः सुषुप्ति-कालीनोऽज्ञानानुभवश्चाज्ञाने प्रमाणमित्यर्थः । सुषुप्तिकाले धर्मिप्रतियोगिज्ञानाभावेन ज्ञानाभावानु-भवासम्भवमाह ॥ अभावेति ॥ अनुभवपरामर्शोऽनुभवजन्यस्मरणमित्यर्थः ॥ अन्योन्येति ॥ सामग्य्र भावानुमानमित्यन्योन्याश्रयापत्तेरित्यर्थः ॥ व्यभिचारादिति ॥ अनुभूतानां बहूनामर्थानां स्मरणाभावस्य प्रसिद्धेर्विशेषतो व्यभिचारस्थलानुपादानमिति ज्ञेयम् ॥ अनुमानमपीति ॥ अनेनोक्तमावश्यकत्व-मुपपादितं भवति । धर्म्यंशस्याज्ञानानिवर्तकत्वात्तद्-व्यावृत्तये आद्यं विशेषणम् । साध्यविशेषोपादान-सिद्धधर्मिविशेषस्पष्टीकरणाय द्वितीयम् । साध्ये आत्मपूर्वकत्वेनार्थान्तरतानिरासाय वस्त्वन्तरेति । चक्षुराद्यदृष्टपूर्वज्ञानस्वप्रागभावव्यावृत्तये क्रमेण पूर्वपूर्वविशेषणानि । स्वविषयत्वविषयावरकान्धकार-विषयगताज्ञाततामिथ्याज्ञानव्यावृत्तये उत्तरोत्तरविशेषणानि । हेतौ धारावाहिकद्वितीयादिज्ञान-व्यावृत्तयेऽप्रकाशितेति । अर्थपदं स्पष्टार्थम् । दृष्टान्ते सौरालोकस्थदीपप्रभाव्यावृत्तयेऽन्धकारेति । द्वितीयादिप्रभाव्यावृत्तये प्रथमेति ।

परिमल

अन्योन्याश्रयतेति ॥ सिद्धे सौषुप्तिकज्ञानाभावे सौषुप्तिकसामग्य्रभावसिद्धिः सिद्धे च तस्मिन् तेन ज्ञानाभावसिद्धिरित्यन्योन्याश्रयतापत्तेरित्यर्थः ॥ व्यभिचारादिति ॥ पूर्वेद्युरनुभूतेषु मध्ये कस्यचिदस्मर्यमाणस्य संभवादिति भावः ।

यादुपत्यं

न च स्मरणाभाव इति ॥ तथा च नान्योन्याश्रय इति भावः ॥ व्यभिचारादिति ॥ उपेक्षणीये स्मरणाभावेऽपि ज्ञानसद्भावादिति भावः ।

श्रीनिवासतीर्थीया

परामर्शः स्मृतिः ॥ ज्ञानाभावेति ॥ न भावरूपज्ञानविषयक इत्यर्थः । तस्य ज्ञानाभावस्य ॥ नायमिति ॥ न किञ्चिदवेदिषमित्ययमित्यर्थः । अनुभवपरामर्शो भावरूपा-ज्ञानानुभवजन्यः परामर्शः स्मरणं नेत्यर्थः । येनाननुभूतस्य स्मरणायोगात्तदन्यथाऽनुपपत्त्या सुषुप्ति-काले भावरूपाज्ञानानुभवः कल्पनीयः स्यादिति भावः ॥ उत्थितस्येति ॥ सुषुप्तेः सकाशादित्यर्थः । इदानीमेव जाग्रदवस्थायामेव तथा च न सुषुप्तिकाले भावरूपाज्ञानानुभव इति भावः ॥ तदनुमापकेति ॥ ज्ञानाभावानुमापकेत्यर्थः । सामग्य्रभाव इति ॥ सुषुप्तिकालीनोऽहं ज्ञानाभाववान् ज्ञानसामग्री-शून्यत्वादिति सामग्य्रभावो लिङ्गमित्यर्थः ॥ ज्ञानाभावेनेति ॥ ज्ञानरूपकार्याभावेन ज्ञानसामग्य्र-भावानुमानमित्यर्थः ॥ अन्योन्याश्रयेति ॥ ज्ञानाभावेन ज्ञानसामग्य्रभावानुमानम् । तेन ज्ञानाभावानु-मानमित्यन्योन्याश्रय इत्यर्थः । ननु ज्ञानाभावेन ज्ञानसामग्य्रभावानुमानमङ्गीक्रियते । न ज्ञानसामग्य्र-भावेनज्ञानाभावानुमानं येनान्योन्याश्रयः स्यात् । किन्नाम स्मरणाभावरूपलिङ्गेनैवातो नान्योन्याश्रय इति भावेन शङ्कते ॥ न च स्मरणाभाव इति ॥ पदार्थः सुषुप्तौ नानुभूतः । इदानीमस्मर्यमाणत्वात् ॥ यन्न स्मर्यते तन्नानुभूतमिति व्याप्तेरित्यर्थः । ज्ञानाभावे सुषुप्तौ पदार्थज्ञानाभावे ॥ व्यभिचारादिति ॥ उपेक्षणीये स्मरणाभावेऽपि ज्ञानसद्भावाद्य्वभिचार इत्यर्थः ॥

वाक्यार्थरत्नमाला

नयनप्रसादिन्यनुसारेण व्याचष्टे अननुभूत इति । स्वमतानुसारेण व्याख्याति अनुभवजन्यमिति । अत्र प्रकरणे तत्त्वदीपनानुसारेण पाठः शोध्यः । व्याख्येयं चास्ति । व्यभिचारादितीति प्रतीकोपादानानन्तरमनुभूतानामिति वाक्यपाठः । उक्तप्रतीकोपादानाभावे तु तल्लेखः कार्यः । उक्तमावश्यकत्वमिति । अवश्यं तावदिति प्रक्रमे उक्तमित्यर्थः । बहुप्रमाणसिद्ध-स्यावश्याङ्गीकार्यत्वादिति भावः । धर्म्यंशस्येति । धर्म्यंशप्रमाणवृत्तेरिदमित्याकाराया इत्यर्थः । यत्तु विवादगोचरापन्नमिति विवरणपाठानुसारेण प्रमाणज्ञानमित्येव न्यायामृते उक्तावपि विवादेति विशेषणं पठनीयमित्युक्तवा रूप्यादिज्ञानव्यावृत्त्यर्थं प्रमाणपदमिति कृत्यकथनं तरङ्गिण्यां कृतं तत्पूर्वविशेषणेनैव तद्व्यावृत्त्या प्रमाणपदवैयर्थ्यं स्यादिति दूषणयुक्तत्वादयुक्तमेवेत्याशयेन तत्त्वदीपनानुसारेण स्वयं तत्प्रयोजनमाह साध्यविशेषेति । पूर्वपूर्वेति । वस्त्वन्तरपूर्वकम् इत्येवोक्तं चक्षुरादिपूर्वकत्वमादाय अर्थान्तरतेति तद्वारणाय स्वदेशगतेति तत्पूर्वविशेषणम् । तादृशादृष्टमादाय तन्निवृत्तये स्वनिवर्त्येति तत्पूर्वं विशेषणम् । एवं तादृशपूर्वज्ञानादिकमादाय तन्निवृत्तये स्वविषयावरणेत्यादितत्पूर्वविशेषणमित्येव पूर्वपूर्वविशेषणमित्यर्थः । उत्तरोत्तरेति । स्वप्रागभावव्यतिरिक्तपूर्वकमित्येवोक्ते स्वविषयमादायार्थान्तरता तन्निवृत्तये स्वविषयावरणेति विशेषणेऽपि स्वविषयावरकान्धकारमादाय सा । तन्निवृत्तये स्वनिवर्त्येति विशेषणमित्यादिप्रकारेण उत्तरोत्तरविशेषणानीत्यर्थः । वस्तुपूर्वकमित्युक्ते आत्मवस्तुपूर्वकतयेत्यादि तत्त्वदीपने आरोहावरोहाभ्यां पदकृत्यकथनानुसारेणोभयथाऽप्यत्र कृत्यकथनं तेन न्यायामृते त्वारोह-क्रमेणैव कृत्यकथनम् उपलक्षणमिति सूचितं भवति ।