२२ प्रातितिकसत्वसद्भावदूषणम्

तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः

प्रातितिकसत्वसद्भावदूषणम्

तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः

सुधा

अपर आह । सदिदं रजतमिति प्रतीयमानं सत्त्वं नासत् । येनोक्तव्याप्तेर्भङ्गः स्यात् । किं नाम ब्रह्मणीव पारमार्थिकमम्बरादेरिव मायोपाधिकं व्यावहारिकं शुक्तिरजतादावप्या-विद्योपाधिकं प्रातिभासिकं सत्त्वमस्त्येवेति ॥ तदसत् । सत्त्रैविध्यस्यैव दूषितत्वात् । दूषणान्तरं चाह ॥ तस्येति ॥ तस्य सत्त्वस्यानिर्वचनीयत्वे प्रातीतिकत्वे तथैव प्रतीतौ स्वरूपमात्रप्रतीतौ वा स्यादेवानवस्थितिर् अव्यवस्थितिः । प्रवृत्तेरिति शेषः । व्यावहारिकत्वाद्याकारेण प्रतीतौ पूर्ववदनवस्थितिः स्यादेवेति । तस्मान्न वियदादिप्रपञ्चस्यानिर्वचनीयत्वमिति सिद्धम् ।

वाक्यार्थचन्द्रिका

अधिष्ठानसत्त्वसंसर्गारोपपक्षनिराकरणपरत्वेन तस्येति भाष्यं योजयित्वा प्रातीतिकसत्त्वसद्भावपक्षदूषणान्तरपरत्वेन तद्योजयितुं तं पक्षमुपन्यस्य पूर्वदूषणं च स्मारयति ॥ अपर आहेत्यादिना ॥ अधिष्ठानसत्तासंसर्गस्य सदसद्विलक्षणत्वे तत्सत्त्वानुभवविरोधतादवस्थ्यमित्याशङ्का- परिहाराय सत्त्वत्रैविध्यपक्षस्य विवरणे उपन्यासात्तस्य पश्चादुपादानमिति द्रष्टव्यम् । पारमार्थिकं नाम कालत्रयबाधाभावोपलक्षितं स्वरूपं मायाशब्देन व्यावहारिकसत्त्वसम्पादिन्यविद्याविद्याशब्देन प्रातिभासिकसत्त्वनिर्वाहकमज्ञानमुच्यते । यद्यपि तन्मतेऽपि मायाऽविद्ययोर्न भेदस्तथाऽप्येकस्मिन्नेव वस्तुनि विक्षेपजनकत्वावरकत्वोपाधिना वा स्वेच्छाधीनत्वतन्नियमाभावोपाधिना वा तद्भेदाभ्युपगमादेव मुक्तिरिति ध्येयम् । इदं च हेयं मायामतेनैव सह शून्यमतं बुधैरित्यनुव्याख्यावसरे स्वयमेव वक्ष्यति । प्रातिभासिकत्वपक्षं मूलारूढं कृत्वोक्तविकल्पनिरासकत्वेन स्यादेव ह्यनवस्थितिरित्येतदावृत्त्या योजयति ॥ तस्येत्यादिना ॥ ननु निर्विशेष इत्यादिरज्ञानानुपपत्तिप्रतिपादको ग्रन्थोऽसङ्गत इत्यतो विषय-प्रयोजनोपयुक्ततया परेणोक्तस्य बन्धाध्यासवर्णनस्य तदनुपयुक्ततां बन्धमिथ्यात्वं नैव मुक्तिरपेक्षत इत्यनेनाभिधाय मिथ्यात्वमपि बन्धस्येत्यादिनैतत्पर्यन्तेन ग्रन्थेन तस्यायुक्ततोपपादिता । अधुनो-पादानान्तरासम्भवप्रतिपादनपूर्वमज्ञानोपदानकतायास्त्वया बन्धाध्यासस्योपपादिता । तदसम्भवा-च्चाध्यासानुपपत्तेर् विषयप्रयोजनानुपपत्तेः शास्त्रवैयर्थ्यमेवेत्यज्ञानाभावत इत्यादिना वक्तुमज्ञानानु-पपत्तेरनेन प्रतिपादनान्नानुपपत्तिरित्याह ॥ एवमिति ॥ निर्विशेष इत्याद्यव्यवहितग्रन्थेनैवा-ज्ञानोपादानकत्वानुपपत्तेः कण्ठतोऽनुक्तिरित्याशयवानित्युक्तम् ।

परिमल

दूषितत्वादिति ॥ सत्त्रैविध्यं चेत्यत्रेति भावः ॥

यादुपत्यम्

ब्रह्मणि वेत्यत्र ब्रह्मणि पारमर्थिकमिवाम्बरादेर्मायोपाधिकं व्यावहारिकमिवेतीव-शब्दयोजना द्रष्टव्या ॥

श्रीनिवासतीर्थीया

शुक्तिरजतादौ सत्त्वेन प्रतीतिरेव सत्त्वं नार्थगतं सत्त्वमस्तीत्येकं मतम् । शुक्तिरजतादावविद्योपाधिकं प्रातिभासिकं सत्त्वमस्तीत्यपरं मतम् । तत्र द्वितीयमतानुसारेण शङ्कते ॥ अतर आहेति ॥ अनिर्वचनीयत्व इत्यनूद्य प्रातीतिकत्व इति व्याख्यातम् ॥ स्वरूपमात्रप्रतीताविति ॥ प्रातिभासिकत्वव्यावहारिकत्वौदासीन्येन रजतस्वरूपमात्रप्रतीतावित्यर्थः । अत्र प्रसिद्धानवस्थाया असम्भवेनानवस्थितपदं व्याचष्टे ॥ अव्यवस्थितिरिति ॥ तथाच प्रातिभासिकत्वेन प्रतीतौ प्रवृत्त्य-व्यवस्थितिः । रजतस्वरूपमात्रप्रतीतौ च तत्र व्यावहारिकत्वाप्रतीत्येष्टाभ्युपायत्वानुमानासम्भवेन प्रवृत्त्यव्यवस्थितिरेवेत्यर्थः ॥

वाक्यार्थरत्नमाला

अपरपक्षेऽपि रजतादौ सत्त्वारोपसाम्यात् किमिति मतान्तरत्वेन तदाशङ्का-निरासपरतया तस्येति भाष्ययोजनेत्यतः पूर्वोत्तरमतयोर्भेदं वदंस्तन्निरासकतया भाष्ययोजनासार्थक्यं प्रतिपादयन्नुत्तरग्रन्थतात्पर्यमाह अधिष्ठानेति । अधिष्ठानं शुक्तिः । तद्गतसत्त्वस्य संसर्गो रजते आरोप्यत इति पक्षेत्यर्थः । प्रातीतिकेति । सत्त्वं त्रिविधम् । पारमार्थिकं व्यावहारिकं प्रातिभासिकं चेति । तत्र रजतेऽपि स्वतन्त्रं प्रातिभासिकं सत्त्वमस्ति । नत्वन्यगतस्य तत्रारोप इति पक्षेत्यर्थः । इति पक्षे यद्दूषणान्तरं तत्परत्वेनेत्यर्थः । पूर्वेति । यदपेक्षया दूषणान्तरत्वं तत्पूर्वमुक्तदूषणमित्यर्थः । ननु स्वतन्त्रसत्त्वपक्षदूषणानन्तरमधिष्ठानसत्त्वसंसर्गारोपपक्षनिराकरणे कर्तव्ये कुतो व्युत्क्रम इत्यतस्तत्र निमित्तमाह अधिष्ठानसत्तेति । रजत इति शेषः । रजते शुक्तिगतसत्त्वसंसर्गो न सन्नाप्यसन् किन्तु सदसद्विलक्षणरूपानिर्वचनीय इत्यङ्गीकारे रजते सर्वथा सत्त्वं नेति वाच्यम् । तथा च रजतं सदिति तत्सत्त्वानुभवविरोध इति योज्यम् । तथा च सत्तारोपपक्षे प्राप्तानुपपत्तिपरिहारकत्वेन रजते स्वतन्त्रसत्त्वोपपादकप्रकारस्य विवरणे उपन्यासात्तत्क्रमेणैव पक्षान्तरमिहोपन्यस्तमित्यर्थः । ब्रह्मणी-वेत्यादि मूले ब्रह्मणि पारमार्थिकमिवाम्बरादेर्मायोपाधिकमिवेति योज्यम् । ब्रह्मणीवेत्यनेन ब्रह्मगतं सत्त्वं परेणाङ्गीकृतमिति प्रतीयते । निर्विशेषवादिना तु तथा नाङ्गीकृतमित्यत आह पारमार्थिकं नामेति । स्वरूपमित्युक्तयाऽतिरिक्तधर्मोक्तयभावान्नासदनुवाद इत्याह । मायाविद्ययोर्भेदाप्रतीतेराह मायेति ।

उक्तभेदो नाश्रद्धेय इत्याशयेन वक्ष्यमाणमूलसंमतिमाह इदं चेति । मूलारूढमिति । अनिर्वचनीय-त्वस्य व्यावहारिकत्वरूपत्वपक्षे तत्पक्षस्य मूलारूढता नायातीत्यतः प्रातीतिकत्वम् इत्यनेनानिर्वचनीयत्वं व्याख्यातमिति भावः ॥ प्रकृतानुपयुक्तमित्यभिधायेति मूलस्यार्थः । विषयप्रयोजनेत्यादिरभिधायेत्यन्तः । अयुक्तत्वं चेत्यभिधायेति मूलस्यार्थो मिथ्यात्वमपीत्यादिरुपपादितेत्यन्तः । अध्यासस्योपपादितेति । अध्यासभाष्यादाविति शेषः । मिथ्या च तदज्ञानं च मिथ्याज्ञानम् । मिथ्येत्यनिर्वचनीयतोच्यतेऽ-ज्ञानमिति जडात्मिकाविद्याशक्तिर्ज्ञानपर्युदासेनोच्यते । तन्निमित्तस्तदुपादानक इति मूलोदाहृत-तद्वाक्यार्थः । टीकायां त्वयेत्यस्य तु परेणेत्यर्थः । एवंविधोक्तयूपपादनं च प्रागेव कृतम् । तदसम्भवाद् अज्ञानासम्भवात् । अध्यासेति । उपादानाभावे तदनुपपत्त्या अध्यासाधीनविषयप्रयोजनयोरनु-पपत्तेरित्यर्थः । इत्यादिना भाष्येण । अनेन निर्विशेष इत्यादिभाष्येण । कण्ठत इति । अज्ञान-स्यासम्भव एव तत्र प्रतिपाद्य इति भावः ।