विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्
मायावाद्यख्यातिनिरासः
विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्
सुधा
सदसत्त्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वाद्रूपरसवदित्यनिर्धारितधर्मि-निष्ठतया सामान्यतः सिद्धस्य सदसद्वैलक्षण्यस्य केवलव्यतिरेकिणा रजतधर्मिनिष्ठतयोपसंहारान्ना-प्रसिद्धविशेषणतेति चेन्न । सत्त्वासत्त्वयोरत्यन्ताभावप्रतियोगितासाधने घटादावपि सत्ताद्यभाव-प्रसङ्गेन बाधितविषयत्वात् । यदि सकलदेशकालासत्तदत्यन्ताभावप्रतियोगीत्युच्यते । यथा शश-विषाणादिकम् । घटादौ च सत्त्वमभावप्रतियोगित्वलक्षणमसत्त्वं च प्रत्यक्षादिसिद्धमिति कथं न बाधितविषयत्वम् । अभावप्रतियोगितामात्रसाधनेऽप्यन्योन्याभावमुपादायार्थान्तरत्वापातः । एकस्मिन्न स्त इति साध्यत इति चेत् । किमिदं सत्त्वं नाम । सत्तासामान्यं वा स्वरूपसत्त्वं वा । नाद्य आश्रयासिद्धेः । अस्माभिरप्यनुगतसत्ताया अनभ्युपगमात् । तदभ्युपगमवादिनां च सामान्यादित्रये सत्त्वासत्त्वयोरभावादर्थान्तरतादवस्थ्यात् । न द्वितीयः यत्किञ्चित्स्वरूपसत्त्व-पक्षीकारे घटादौ पटादिस्वरूपसत्त्वस्यासत्त्वविशेषस्य चाभावेनार्थान्तरतानिस्तारात् । सर्वाणि स्वरूपसत्त्वानि सर्वाणि चासत्त्वान्येकधर्मिनिष्ठसंसर्गाभावप्रतियोगीनीति साधनेऽपि स्वरूप-सत्त्वस्य धर्मत्वाभावेनासिद्धिः स्यात् ॥ विशेषणत्वं धर्मत्वम् । तच्च वस्त्वन्तरापेक्षया सर्व-स्याप्यस्तीति चेत् । तथा सति वस्तुत्वमात्रं हेतुरित्युक्तं स्यात् । तच्चात्मन्यभावप्रतियोगित्व-रहितेऽप्यस्तीति व्यभिचारः ।
अपि च प्रमेयत्वादिनाऽनैकान्तिकं धर्मत्वम् । प्रमेयत्वादीनामपि सकलधर्मरहिते ब्रह्मण्यवृत्तेः सपक्षतैवेति चेत्तर्हि तस्मिन्नेव सत्त्वासत्त्वयोरभावेन प्रकृतप्रतिज्ञातार्थपर्यवसानादर्थान्तरता स्यात् । एकशब्देनैकत्वगुणवतो विवक्षितत्वाद्ब्रह्मणो गुणाभावान्नेति चेत् । तथाप्येकत्वगुणव-द्विभिन्नाधिकरणसंसर्गराहित्येन प्रतिज्ञातार्थसम्भवादर्थान्तरताऽपरिहारात् । सत्वमसत्वा-नधिकरणानात्मनिष्ठसंसर्गाभावप्रतियोगिति प्रतिज्ञाने न दोष इति चेन्न । प्रमेयत्वादिषु व्यभिचारात् । असत्वं सत्वानधिकरणानात्मनिष्ठसंसर्गाभावप्रतियोगी अनात्मनिष्ठसंसर्गाभाव-प्रतियोगिधर्मत्वाद्रूपवदित्यनुमीयत इति चेत् । किमिदमसत्त्वं नाम । अभावप्रतियोगित्वमात्रं चेत् । तदनात्मनि सर्वत्रास्तीति परेणाङ्गीकृतत्वादसिद्धो हेतुः । अत्यन्ताभावप्रतियोगित्वं चेत् । तदाऽपि वक्तव्यम् । किं प्रतिज्ञाहेत्वोरनात्मपदेनात्मव्यतिरिक्तमात्रं विवक्षितम् । उतात्मव्यतिरिक्तं वस्तु । आद्ये शशविषाणादावनात्मनि निर्धर्मके सत्त्वासत्त्वयोरभावेनार्थान्तरत्वापातः । द्वितीये दृष्टान्तस्य साध्यविकलता । रूपादीनां सत्त्वानधिकरणानात्मवस्तुनिष्ठसंसर्गाभावप्रतियोगित्वस्यासम्प्रतिपत्तेः ॥ स्यादेतत् । सद्विलक्षणत्वमसत्यसद्विलक्षणत्वं च सति प्रसिद्धमेव । अतः कथमप्रसिद्ध-विशेषणतेति । मैवम् । विशिष्टस्याप्रसिद्धत्वात् । अन्यथा शशविषाणोल्लेखिता भूरित्याद्य-प्रसिद्धविशेषणोदाहरणेऽप्येकैकदेश प्रसिद्धिव्युत्पादनसम्भवेन तदभावप्रसङ्गात् ॥ सद्विलक्षणत्वा-सद्विलक्षणत्वे स्वतन्त्रे साध्ये इति चेन्न । सिद्धसाधनस्योक्तत्वात् । तर्ह्यसद्वैलक्षण्यमात्रं साध्य-मस्त्विति चेन्न । जगद्ब्रह्मणोरसद्विलक्षणयोरवृत्तेर्बाध्यत्वस्यासाधारण्यापातात् । प्रतीतत्वस्य चासत्यपि वृत्तेर्वक्ष्यमाणत्वात् । बाध्यत्वविकल्पदूषणानि चोक्तवक्ष्यमाणान्यनुसन्धेयानीति नानुमानाच्छुक्तिरजतादेरनिर्वाच्यतासिद्धिः ॥ ख्यातिबाधान्यथाऽनुपपत्तिश्चानेनैव निराकृता वेदितव्या ॥
वाक्यार्थचन्द्रिका
तदुक्तमप्रसिद्धविशेषणतापरिहारं शङ्कते ॥ सदसत्त्वे इति ॥ अत्र च भावत्वाभावत्वे सत्त्वासत्त्वे सदसत्त्वे एकधर्मिनिष्ठौ यावत्यन्ताभावौ तत्प्रतियोगिनी धर्मत्वाद्यौ धर्मौ तावेकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनौ यथा रूपरसौ भिन्नाधिकरणनिष्ठात्यन्ताभावप्रतियोगितया अर्थान्तरनिरासायैकधर्मीति । न चैवं बाध्यत्वानुमानवैयर्थ्यमित्यतोऽनिर्धारितेत्याद्युक्तम् । ननु घटादौ सत्त्वाद्यभावोन ममानिष्ट इत्यतो घटादेरनिर्वचनीयताया अद्याप्यसिद्ध्या तत्र सत्त्वाद्यभावाभ्युपगमः प्रमाणविरुद्ध एवेत्याशयेनाह ॥ घटादाविति ॥ असत्त्वस्य धर्मिसत्तानिरपेक्षतासाधनसापेक्षेण शशशृङ्गाद्यसत्त्वप्रामाणिकत्वोदाहरणेन किं फलम् । घटादावेव तदुदाहरणेन प्रकृतसिद्धेरित्याशयेनाभाव प्रतियोगित्वलक्षणमित्युक्तम् । यद्वा सत्त्वासत्त्वयोः स्वरूपेण प्रामाणिकत्वेऽप्येकस्मिन्धर्मिण्य-प्रामाणिकत्वादेकधर्मिनिष्ठात्यन्ताभावप्रतियोगिसाधने न बाध इत्यत एकस्मिन्नपि तयोः प्रामाणिकत्वं दर्शयितुमभावप्रतियोगित्वलक्षणमित्युक्तम् । अत्यन्तपदपरित्यागेन साध्यनिर्देशे दूषणमाह ॥ अभावेति ॥ एकस्मिन्निति ॥ एवं च संसर्गाभावसाधनान्न सत्त्वाभावप्रसङ्ग इति भावः । अभ्युच्चयेन सत्ताऽभ्युपगमवादिमतेनापि दूषणमाह ॥ तदिति ॥ उभयथाऽपि सत्त्वासत्त्वे इति निर्देशसंभवाद्विकल्पं मनसि निधाय क्रमेण दूषयति ॥ यत्किञ्चिदित्यादिना ॥ ननु धर्मत्वं विशेषणताविशेषोऽनुभवैक-वेद्योऽतो नासिद्धिर्नापि वस्तुत्वतुल्यतेत्यत आह ॥ अपि चेति ॥ तहीति ॥ न च निर्धर्मकत्वादेव सत्त्वासत्त्ववत्तदभावोऽपि ब्रह्मणि नास्तीति वाच्यम् । सत्त्वाद्यभावाभावे सत्त्वाद्यापातेनोभयाभावस्य विरुद्धत्वाच्छतिप्रतिपन्ने न विरोधशङ्केत्यस्य निर्धर्मकत्वस्य श्रुत्यर्थतासिद्ध्यधीनतयाऽन्योन्याश्रया-पातेनावक्तव्यत्वात् । अन्यथा मीमांसाऽनवतारप्रसङ्गात् । सत्त्वादितदभावयोरिव प्रमेयत्वादि-तदभावयोरुभयोरपि ब्रह्मण्यभावापत्त्या प्रमेयत्वादेरन्यनिष्ठाभावप्रतियोगित्वाभावात् । ब्रह्मनिष्ठा-भावप्रतियोगित्वस्याप्यभावे प्रमेयत्वादौ धर्मे साध्याभावेनानैकान्त्यतादवस्थ्याच्च । न चात्माश्रयत् प्रमेयत्वादेः स्वनिष्ठाभावप्रतियोगित्वमेवेति वाच्यम् । सद्वैलक्षण्यमिथ्यात्वदृश्यत्वादिवदनन्यथा-सिद्धप्रतीतिबलेन स्ववृत्तितायास्तस्यावश्याङ्गीकार्यत्वादिति भावः ॥ तथाऽपीति ॥ एकशब्द-स्यैक्यार्थकत्वे एकस्मिन्नुभयाभावसिद्धावपि सङ्ख्यार्थकत्वेऽभावद्वयस्य भिन्नाधिकरणनिष्ठतयोभयाभाव सिद्ध्याऽपि साध्योपपत्तेरित्याशयः ।
यद्यप्यत्र वक्ष्यमाणानुमान एव पूर्वानुमान एवैकशब्दस्यैक्यैकत्वसङ्ख्यावत्त्वरूपार्थद्वयस्वीकारेऽप्य- व्यवहितपूर्वदोषनिवृत्तेः प्रमेयत्वादौ व्यभिचारस्य च वक्ष्यमाणप्रयोगेऽप्यनिवृत्तेः प्रयोगान्तरोपादानं नावश्यकं तथाऽपि सत्त्वासत्त्वयोर्द्वयोः पक्षत्वे रूपरसयोरुभयोरपि दृष्टान्तत्वेन निर्देष्टव्यतया गौरवा-पातेन यत्परेण लघुप्रयोगशरीरं प्रदर्शितं तन्निरासस्यापि सूचनाय तदनुवदति ॥ सत्त्वमिति ॥ भिन्नाधिकरणनिष्ठतया ब्रह्मनिष्ठतया वा भावद्वयसिद्ध्याऽर्थान्तरवारणाय क्रमेणासत्त्वानधिकरणा-नात्मेति साध्यविशेषणे । प्रमेयत्वाद्यव्यभिचाराय वक्ष्यमाणहेतुविशेषणस्य सत्त्वपक्षकानुमाने हेत्वसिद्ध्यापादकत्वेनानुपपत्त्याऽसत्त्वपक्षकानुमानमाह ॥ असत्त्वमिति ॥ दूषणानां व्यवस्थितत्वात्पक्षं विकल्पयति ॥ किमिदमिति ॥ द्वितीयेऽपि व्यवस्थितदूषणं वक्तुं विकल्पयति ॥ किमिति ॥ असंप्रतिपत्तेरिति ॥ रूपादिसंसर्गाभावाधिकरणानात्मवस्तुनः सत्त्वानधिकरणत्वस्य तदनिवर्चनीयता-सिद्ध्यधीनत्वादिति भावः । अप्रसिद्धविशेषणश्च पक्ष इति सामान्येनोक्तत्वाद्विशिष्टस्य साध्यत्वे-ऽप्रसिद्धविशेषणतोक्तेत्यजानानो वैकदेशप्रसिद्धिमात्रेण विशिष्टस्याप्रसिद्धत्वेऽपि तत्साधनेन तस्या-दोषत्वमित्यभिमानेन वा शङ्कते ॥ स्यादेतदिति ॥ एवं प्रसिद्धिमुपपादयतो विशिष्टस्य साध्यत्वमभिप्रेतं स्वतन्त्रयोर्वा । नाद्य इत्याह ॥ विशिष्टस्येति ॥ द्वितीयं शङ्कते ॥ सदिति ॥ जगदिति ॥ जगतो बाध्यत्वस्याद्याप्यसिद्धेरिति भावः । माऽस्तु बाध्यत्वं हेतुः प्रतीतत्वमेव हेतुर्भविष्यतीत्यत आह ॥ प्रतीतत्वस्य चेति ॥ ख्यातिबाधान्यथाऽनुपपत्तेर्भाष्यकारेणैवोत्तरत्रातिविशदं निराकरिष्यमाणत्वा-त्प्रतीतेरसत्यपि वक्ष्यमाणत्वादित्यादिदूषणान्येव सामान्येन तत्रातिदिशति ॥ ख्यातीति ॥
नन्वस्तु सदन्यत्वमनिर्वचनीयत्वं तत्र प्रमाणं तु रजतं सदिति प्रत्यक्षम् । तथा हि । रजतमेव सद्बुद्धिविषयो वा सत्तारूपस्तद्धर्मो वा । नाद्यः । तथात्वे सद्रजतशब्दयोः पर्यायत्वापत्त्या सहप्रयोगानुपपत्तेः । प्रपञ्चमात्रानुगतसद्बुद्धे रजतमात्रविषयकत्वानुपपत्तेश्च । नापि द्वितीयः । सर्वत्र सद्बुद्धेरधिष्ठानचैतन्यविषयत्वेनोपपत्त्याऽतिरिक्तसत्तारूपधर्मे प्रमाणाभावात् । धर्मोऽपि भवन्सत्ता-जातिरूपो वा बाधायोग्यत्वं वा । नाद्यः । सामान्यादौ तदसम्भवात् । नान्त्यः । उक्तरीत्या प्रसञ्चे सद्बुद्धेरधिष्ठानचैतन्यविषयत्वेन लाघवेनैकविषयत्वसंभवेऽनेकविषयत्वकल्पनाऽयोगेनान्यत्र बाधा-योग्यत्वाभावात् । तस्मादधिष्ठानसद्य्वक्तितादात्म्यविषयत्वमेव सद्बुद्धेर्वक्तव्यम् । तादात्म्यं च भिन्नत्वे सत्यभिन्नसत्ताकत्वमेव । गुणगुण्यादावप्येवंभावस्यैव युक्तत्वात् । एवं च तादात्म्यस्य भेदघटिततया सदधिष्ठानतादात्म्यविषयकप्रत्यक्षेण सदन्यत्वरूपानिर्वचनीयत्वसिद्धिः । अनुमानं चात्र मानम् । विमतं सदन्यद्बाध्यत्वाद्यन्नैवं तन्नैवं यथाऽऽत्मेति । यद्वा । एकावच्छेदेन स्वसंसृज्यमानाधिकरण-निष्ठात्यन्ताभावप्रतियोगित्वमनिर्वचनीयत्वम् । तत्रानुमानं तु अव्याप्यवृत्त्यत्यन्ताभावप्रतियोगिशुक्तिरजतं स्वसमानाधिकरणनिष्ठात्यन्ताभावप्रतियोगि दृश्यत्वात्संयोगवदिति । अत्र चोक्तविशेषणवति रजते स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वसिद्धावेकावच्छेदेन स्वसंसृज्यमानाधिकरणावृत्त्यत्यन्ताभाव-प्रतियोगित्वरूपविशिष्टसाध्यसिद्धिः ।
यद्वा । न प्रपञ्चाभावो ब्रह्मातिरिक्तः । एवं च स्वानधिकरणात्यन्ताभावप्रतियोगित्व-मनिर्वचनीयत्वम् । तत्रानुमानं तु । स्वसमानाधिकरणात्यन्ताभावाप्रतियोगि शुक्तिरजतं स्वानधिकरण-मात्रावृत्त्यन्ताभावप्रतियोगि दृश्यत्वात्संयोगादिवदिति । अत्रापि विशिष्टसाध्यसिद्धिः पूर्ववदेव । अत्यन्ताभावस्य स्वानधिकरणमात्रावृत्तित्वं च स्वाधिकरणवृत्तित्वेन वा सर्वत्रावृत्तित्वेन वा । तत्र संयोगात्यन्ताभावस्य प्रतियोग्यधिकरणवृत्तित्वात्संयोगे साध्यपर्यवसानम् । स्वसमानाधिकरणात्यन्ता-भावाप्रतियोगित्वेन पक्षविशेषणात्स्वाधिकरणवृत्तित्वेन पक्षे सन्ध्यपर्यवसानस्य बाधितत्वात्सर्वत्रा-वृत्तित्वेन सिद्ध्यत्स्वाभिमतं साध्यमादाय सिद्ध्यतीति । साध्ये मात्रपदं विना साध्याप्रसिद्धेर्न विवक्षितसाध्यसिद्धिरिति तदुपादानम् । व्यधिकरणप्रकारकत्वादेरसंभवात् । अनिर्वचनीयार्थ-विषयकत्वेनैव भ्रान्तिज्ञानत्वस्य वक्तव्यतया भ्रान्तिज्ञानत्वप्रसिद्ध्यन्यथाऽनुपपत्तिरपि तदनिर्वचनीयत्वे मानम् । एवं ख्यातिबाधान्यथाऽनुपपत्तिरपीत्याह तत्सर्वमनेनैवापहस्तितं भवति । तथा हि । सदिति प्रत्यक्षस्य सदन्यत्वविषयकत्वं तावद्विरुद्धम् । सद्बुद्धे रजतमात्रविषयकत्वसत्ताजातिविषयत्वासंभवेऽपि बाधायोग्यत्वविषयकत्वसंभवात् । तत्प्रपञ्चप्रतीतिविषयभूतं सच्छुक्तिरजतादिप्रतीतिविषयीभूतं त्वसदित्येव विशेषः । न च तत्प्रतीतेश्चैतन्यविषयकत्वोपपत्तौ ब्रह्मणोऽन्यत्र न तदित्युक्तमिति वाच्यम् । तर्हि नीलो घट इत्यादौ प्रतीयमाननैल्यादेरपि ब्रह्मरूपत्वापत्त्या घटादौ नैल्याद्यपि न स्यात् । घटादौ नैल्याद्यस्ति सत्त्वं तु नेत्यस्यारोपितत्वसिद्ध्यधीनतयान्योन्याश्रयात् । अन्यथा ब्रह्मैव सदन्यदसदित्य-स्याद्याप्यसिद्ध्या सत्यं ज्ञानमित्यत्राप्यधिष्ठानपरत्वाभ्युपगमप्रसङ्गात् । अधिष्ठानसत्ताया एव प्रपञ्चादि-निष्ठत्वे । प्रपञ्चादेः पारमार्थिकत्वापत्तेश्च । आरोपितत्वे च नाधिष्ठाननिष्ठत्वं कल्प्यम् । न ह्यन्यथा-ख्यातिवादिवदनिर्वचनीयख्यातिवादिनोऽप्यारोपितस्यान्यत्र सत्त्वमावश्यकमिति वक्ष्यमाणत्वा-त्पारमार्थिकसत्ताया अपि प्रतीतिः पारमार्थिकत्वेन वा व्यावहारिकत्वेन वेत्याद्यनुपदवक्ष्यमाण-दूषणग्रासाच्च । तादात्म्यविषयकत्वेऽपि तस्याभेदरूपत्वेन भेदघटितत्वाभावाद्गुणादावप्यभेदस्य वैशेषिकपरीक्षायामुपपादयिष्यमाणत्त्वाच्च । तस्मान्न प्रत्यक्षं तत्र मानम् ।
अनुमानेऽपि सदन्यत्वं सत्त्वाभावमात्रं साध्यमुत सत्प्रतियोगिकान्योन्याभाववत्त्वम् । नोभयमपि । उक्तरीत्या सिद्धसाधनत्वात् । द्वितीये बाध्यत्वं हेतूकृतं किमन्यथाविज्ञातस्येत्याद्यस्मदुक्तरूपमुत विनाश्यत्वमाहोस्वित्त्रैकालिकनिषेधप्रतियोगित्वरूपम् । आद्ये आत्मनि व्यतिरेकदृष्टान्ते साधना-व्यावृत्तिः । द्वितीये तु न हि नाशोऽसतो भवेदिति वक्ष्यमाणरीत्या नाश्यत्वस्य सत्त्वव्याप्ततया विरुद्धत्वम् । तृतीये तु तादृशबाध्यत्वस्यासत्यपि सत्त्वादसतो निःस्वरूपत्वेन सदन्योन्याभावाद्यभावस्य त्वयैवोपपादनादनैकान्त्यापत्तेः । अन्यथा सदन्यत्वरूपानिर्वाच्यत्वलक्षणस्य तत्रैवातिव्याप्त्यापत्तेः । द्वितीयानुमानेऽसदेवेदं रजतमित्याद्यनुभवेन रजतस्यासत्त्वेन निरधिकरणत्वात्स्वसमानाधिकरणात्यन्ता-भावप्रतियोगित्वसाधने बाधः । हेतूकृतं दृश्यत्वं च वृत्तिविषयत्वं चेत् । ब्रह्मण्यनैकान्तिकत्वम् । चैतन्य विषयत्वं चेत् । शुक्तिरजतादेरपि वृत्तिविषयत्वस्यैवोपपादयिष्य- माणत्वादसिद्धिः । संयोगतदत्यन्ता-भावयोरपि भिन्नाधिकरणनिष्ठतया दृष्टान्ते साध्यवैकल्यं च । दृश्यत्वेनैव संयोगवदेव साध्याभावस्यापि सुसाधत्वात्प्रतिपक्षश्च । एवमन्यदप्यूह्यम् । तृतीयानुमानेऽपि ब्रह्मणोऽत्यन्ताभावरूपत्वासम्भवेन बाधितत्वम् । हेतुदृष्टान्तदूषणं च पूर्ववज्ज्ञेयम् । भ्रान्तिज्ञानत्वसिद्धेश्चासद्विषयकत्वेनाप्युपपत्तेः । सतो बाधस्यासतोऽपि प्रतीतेश्चोपपादयिष्यमाणत्वान्नार्थापत्तिरपि अनिर्वचनीयतायां प्रमाणमिति युक्तमुक्तं प्रमाणाभावादिति । यद्वा । अनिर्वचनीयं चेत्कथं सदिति प्रतीतिः । अनिर्वचनीयमित्येव प्रतीतिः स्यादिति वक्ष्यमाणतर्के सदिति प्रतीतेरेवानिर्वचनीयप्रतीतित्वादितीष्टापादनशङ्काप्रापकतया परोदीरित-प्रत्यक्षोपपादनप्रकारमुपन्यस्यानिर्वचनीयमिति कोऽर्थो व्यावहारिकमिति वा प्रातिभासिकमिति वेति विकल्पपूर्वकवक्ष्यमाणदूषणैरनुपदमस्मदुक्तदूषणैश्च तन्निरासो बोद्धव्यः ।
परिमल
अप्रसिद्धतां परिहर्तुं सामान्यप्रसिद्धिं साधयति ॥ सदसत्वेति ॥ सत्त्वासत्त्वे इत्यर्थः । सिद्धान्तिना सदसदात्मकत्वस्य क्वाप्यनङ्गीकारात् । सदात्मकमसदात्मकं चेति द्वैविध्यस्योपगमेन तं प्रत्येकस्मिन्वस्तुनि सत्त्वासत्त्वरूपधर्मराहित्यरूपमेवानिर्वाच्यत्वमिति भावेन धर्मद्वयमेव पक्षत्वेनो-पात्तम् । न तु सदसदात्मकत्वरूपधर्मोऽपि । यद्वा सत्त्वासत्त्वराहित्यस्य क्वचिद्धर्मिणि साधने सदसत्त्वराहित्यमपि स्वत एव सेत्स्यतीतिभावेन द्वयोरेवोपपादनमिति ध्येयम् ॥ एकेति ॥ एकधर्मिनिष्ठौ यावत्यन्ताभावौ तत्प्रतियोगिनी इत्यर्थः । सत्त्वं विद्यमानत्वम् असत्त्वमभावप्रतियोगित्व-मित्यर्थमुपेत्य दोषमाह ॥ घटादावपि सत्त्वाद्यभावप्रसङ्गेनेति ॥ कुत एवमित्यत एवं साधने सत्त्वा-सत्त्वयोरलीकतापत्तेरिति भावेन तद्-व्यनक्ति ॥ यद्धीति ॥ नन्वत्यन्ताभावप्रतियोगिनी इत्यत्रात्यन्तपदं परित्यज्यत इत्यत आह ॥ अभावप्रतियोगितामात्रेति ॥ सत्त्वासत्त्ववत्यपि वस्तुनि तदन्योन्या-भावसम्भवेन त्वदभिमतोभयराहित्यासिद्धेरर्थान्तरतेत्यर्थः ।
नन्वत्यन्ताभावप्रतियोगिनी इत्येव साध्यार्थः । न चैवमुक्तरूपसत्त्वासत्त्वयोर्नृृङ्गवदलीकता । यथा गोत्वमश्वे नास्तीत्युक्तौ गोत्वस्य नालीकत्वमपि तु गोत्वाश्वसंसर्गस्यैवात्यन्ताभावप्राप्त्या संसर्ग-स्यालीकत्वम् । एवं सत्त्वासत्त्वयोरेकधर्मिसंसर्गस्यैव निषेधो न सत्त्वासत्त्वयोर्येन तयोरलीकत्वप्राप्त्या घटादौ तद्ग्राहकप्रत्यक्षबाध इति भावेन शङ्कते ॥ एकस्मिन्न स्त इति साध्यत इति चेदिति ॥ इयता ग्रन्थेन ‘वैलक्षण्यं सतश्चापी’ति श्लोकस्य जगतोऽनिर्वाच्यत्वानुमानदूषणपरतयोक्तयोजनारीत्या शुक्तिरूप्यानिर्वाच्यत्वानुमानदूषणेऽपि योजना सूचिता । एवं ‘यद्युच्यतेऽपि सर्वस्मादि’त्यादेरपि शुक्तिरूप्यादेरनिर्वाच्यत्वसाधकदूषणपरतयाऽपि योजनां सूचयन्पक्षीकृतसत्त्वं विकल्प्य निराह ॥ किमिदमिति ॥ असत्त्वं च निःस्वरूपत्वमिति भावः ॥ आश्रयेति ॥ एकांश इति ध्येयम् । ‘वैलक्षण्यं सतश्चापी’त्यत्र सदसच्छब्दयोः स्वरूपसत्त्वासत्त्वविशेषपरत्वं मत्वा तस्यार्थान्तरपरत्वपरयोजनां सूचयन्नाह यत्किञ्चिदिति ॥ असत्त्वविशेषस्य निःस्वरूपत्वरूपस्येत्यर्थः । ‘यद्युच्यतेपी’त्यर्धस्य योजनान्तरं सूचयन्नाह ॥ सर्वाणीत्यादिना ॥ बस्त्वन्तरापेक्षयेति ॥ घटसत्वस्य धीरित्यादिप्रयोगे सत्त्वस्य विशेषणत्वादिति भावः । ‘सन्मात्रत्वं ब्रह्मणोपी’त्यस्य वस्तुत्वमात्रत्वमित्यर्थान्तरं सूचयन्नाह ॥ तच्चात्मनीत्यादिना ॥ प्रमेयत्वादिनेति ॥ तस्य केवलान्वयिधर्मत्वेनाभावाप्रतियोगित्वादिति परैरुपगमादिति भावः ॥ एकत्वगुणेति ॥ एकधर्मिनिष्ठेत्यादेर्हि एकत्वगुणयुक्तधर्मिनिष्ठेत्यादिरर्थः । तथाच एकत्वगुणवती एकत्वगुणयुक्ते ये अन्योन्यभिन्ने अधिकरणे तन्निष्ठौ यावत्यन्ताभावौ एकत्र सत्त्वसंसर्गाभावो परत्रासत्त्वसंसर्गाभाव इत्येवं रूपौ तत्प्रतियोगिनी इत्यर्थसम्भवेन त्वदभिमतोभय-राहित्यस्यैकत्रासिध्द्याऽर्थान्तरतेत्यर्थः । अत्यन्ताभावेत्यस्य एकस्मिन्न स्त इति साध्यत इतिपूर्वग्रन्थे अप्रामाणिकसंसर्गप्रतियोगिकाभावपरत्वस्योक्ततया संसर्गराहित्येनेत्युक्तम् । नत्वत्यन्ताभावेनेति ॥ असत्वेति ॥ असत्त्वानधिकरणं यदनात्म तन्निष्ठेत्यर्थः ॥ नदोष इति ॥ अर्थान्तरतादोषो नेत्यर्थः । प्रमेयत्वादावव्यभिचाराय सत्त्वपक्षकं प्रयोगमाह ॥ असत्वमिति ॥ शशनृश्रुङ्गनिष्ठाभावप्रतियोगित्वेन प्रमेयत्वादौ साध्यमस्तीति भावः । हेत्वभावाच्च न व्यभिचार इतिभावेन हेतुं विशिनष्टि । अनात्मनिष्ठ-संसर्गाभावप्रतियोगिधर्मत्वादिति । सत्त्वपक्षकेऽसत्त्वपक्षके चोभयत्र दोषमाह ॥ आद्य इति ॥ असंप्रतिपत्तेरिति ॥ अनात्मवस्तुमात्रस्य सत्त्वाधिकरणत्वादिति भावः । अप्रसिद्धिवारकसामान्यानु-मानस्य खण्डितत्वात् । विमतमनिर्वचनीयं बाध्यत्वादित्यत्राप्रसिद्धिनिवारणाय प्रकारान्तरेण साध्यमा-शङ्कते ॥ स्यादेतदित्यादिना ॥ सिद्धसाधनस्येति ॥ सद्वैलक्षण्याद्यंशे सिद्धसाधनस्य शुक्तिरजतादेः सत्त्वस्य सदसत्त्वस्य चास्माभिरनङ्गीकृतत्वेन सिद्धसाधनत्वादिति ग्रन्थेनोक्तत्वादिति भावः ॥ बाध्यत्वस्येति ॥ ब्रह्मज्ञानेतरनिवर्त्यत्वरूपस्येत्यर्थः ।
नन्वेवं प्रतीतत्वं हेतुरस्तु । जगद्ब्रह्मणोश्च दृश्यत्वेन नासाधारण्यमित्यत आह ॥ प्रतीतत्वस्य चेति ॥ वक्ष्यमाणत्वादिति ॥ असद्विलक्षणेत्याद्युत्तरग्रन्थ इति भावः । असतीत्युपलक्षणम् । ईक्षतिनयादौ ब्रह्मणोऽपीति ज्ञेयम् । तथाच तत्र व्यभिचार इत्याकूतम् । नन्वेवं बाध्यत्वमेवहेतुरस्तु । न चासाधारण्यम् । तस्य दशाविशेष एव दोषत्वेनानुकूलतर्के सत्यदोषत्वादित्यत आह ॥ बाध्यत्वेति ॥ ‘ज्ञानबाध्यत्वमपि त्वित्यत्रोक्तानि । ‘कश्चायं बाध उद्दिष्टो न हि नाशोऽसतो भवेदि’त्यादिना द्वितीये ‘पृथगुपदेशादि’त्येतदनुव्याख्यानादौ वक्ष्यमाणानीत्यर्थः । विवृतानि चानिर्वाच्यत्वानुमानदूषणानि न्यायामृते प्रथमपरिच्छेदेऽनिर्वाच्यत्वानुमानभङ्गे तदर्थापत्तिभङ्गे च ॥ ख्यातीति ॥ असच्चेन्न ख्यायेत सच्चेन्न बाध्येत ख्यायते च शुक्तिरूप्यं बाध्यते च तेन तदुभयान्यथानुपपत्तिश्च शुक्तिरूप्यादेः सदसद्वि-लक्षणत्वे मानमिति निरस्तमित्यर्थः ॥ अनेनेति ॥ असतोऽपि ख्यातेर्वक्ष्यमाणत्वात् । सतोऽपि ब्रह्मणो विज्ञातस्यान्यथासम्यगित्युक्तबाध्यत्वसत्त्वेन व्यभिचारः कश्चायं बाध इत्यादिवक्ष्यमाणदिशा ज्ञान-निवर्त्यत्वरूपबाधस्य शुक्तिरूप्यादावभावात्त्रैकालिकनिषेधप्रतियोगित्वेऽसत्त्वापत्त्याऽसद्विलक्षणत्वपक्षे बाध्यते चेति विपर्ययपर्यवसानायोगादित्याद्युक्तवक्ष्यमाणबाध्यत्वादिदूषणगणेनेत्यर्थः ॥
यादुपत्यं
सत्त्वासत्त्वे इति ॥ धर्मद्वयस्य पक्षतयोक्तत्वाद्रूपरसवदिति धर्मद्वयं दृष्टान्तयंत-योक्तमिति मन्तव्यम् । एकधर्मिनिष्ठौ यावत्यन्ताभावौ तत्प्रतियोगिनी इति द्वित्वावच्छिन्नाभाव-प्रतियोगित्वं साध्यतया विवक्षितम् । धर्मद्वयनिष्ठं धर्मत्वमेव हेतुतया विवक्षितम् । अन्यथैकस्मिन् व्यभिचारापत्तेः । तत्र च दृष्टान्ततया धर्मद्वयप्रदर्शनं युक्तमेवेत्याहुः । भिन्नाधिकरणनिष्ठात्यन्ताभाव-प्रतियोगित्वस्यास्माकं सिद्धतया सिद्धसाधनतावारणायैकधर्मीति साध्ये विशेषणमिति ज्ञातव्यम् । साध्येऽत्यन्तपदस्य विवक्षायां बाधः । अविवक्षायामर्थान्तरतेत्याह ॥ सत्त्वासत्त्वयोरित्यादिना ॥ घटादाविति ॥ अत्रादिपदेन शशृङ्गादिकं ग्राह्यम् । एवमग्रेऽपि । नन्वसत्त्वस्य धर्म्यभावात्कुत्र प्रत्यक्षादिसिद्धत्वमित्यत उक्तम् ॥ अभावप्रतियोगित्वलक्षणमिति ॥ तथाच प्रतियोगित्वस्य रूपादिवद्धर्मिसत्तासापेक्षत्वाभावेन धर्म्यभावेऽपि प्रत्यक्षादिसिद्धत्वमिति भावः । ननु नात्यन्ताभाव-प्रतियोगित्वं साध्यते येन बाधो नाप्यन्योन्याभावप्रतियोगित्वं येनार्थान्तरता । किं त्वेकधर्मिनिष्ठ-संसर्गाभावप्रतियोगित्वमेवातो नोक्तदोष इत्याशयेन शङ्कते ॥ एतस्मिन्न स्त इतीति ॥ तथा सतीति ॥ विशेषणत्वरूपधर्मत्वस्य धर्मिसाधारणत्वे धर्मधर्मिसाधारणं वस्तुत्वमेव धर्मत्वमित्युक्तं स्यादित्यर्थः ॥ अभावप्रतियोगित्वरहित इति ॥ तस्य पारमार्थिकत्वान्निर्धर्मकत्वाच्चेति भावः । ननु निर्विशेषे वस्तुत्वमपि नेति कथं व्यभिचार इत्यरुचेराह ॥ अपि चेति ॥ तथाऽप्येकत्वेति ॥ एकत्वगुणवन्ति यानि भिन्नानि घटपटादीनि तत्र प्रत्येकं सत्त्वासत्त्वयोः संसर्गनिषेधेत्यर्थः । निषेधाधिकरणयो-र्भिन्नत्वेऽपि प्रत्येकमेकत्वगुणवत्त्वसम्भवेन त्वदभिलषितमुभयनिषेधधर्म्यैक्यं न सिध्यतीति भावः ॥ सत्त्वमिति ॥ अत्रात्मभिन्नशशविषाणाद्यसन्निकृष्टसंसर्गाभावप्रतियोगित्वेनार्थान्तरत्ववारणायासत्त्वा-नधिकरणेत्यनात्मविशेषणम् । निर्धर्मकात्मनिष्ठसंसर्गाभावप्रतियोगित्वेन अर्थान्तरत्वपरिहाराय अनात्मेति ॥ असत्त्वमिति ॥ अत्राप्यनात्मपदकृत्यं पूर्ववदेव सिद्धसाधनतावारणाय सत्त्वानधिकरणे-त्यनात्मविशेषणम् । हेतौ च प्रमेयत्वादौ व्यभिचारवारणायानात्मनिष्ठसंसर्गाभावप्रतियोगीति धर्म-विशेषणम् । तथाच व्यतिरेकिधर्मत्वं हेतुरित्युक्तं भवति ॥ परेणेति ॥ त्वत्प्रतिवादिनेत्यर्थः ॥ शश-विषाणादाविति यथा सद्रूपेऽपि ब्रह्मणि निर्धर्मकत्वेन सत्त्वासत्त्वाभाव एवमसद्रूपेऽपि शशविषाणादौ निर्धर्मकत्वेनासत्त्वाभाव इत्यर्थः ॥ रूपादीनामिति ॥ रूपादिप्रतियोगिकसंसर्गाभावाधिकरण-स्यानात्मनो गुणक्रिययोः सत्त्वाधिकरणत्वादिति भावः । किं विशिष्टस्य साध्यत्वमङ्गीकृत्य तस्यैवं विशकलितप्रसिद्धिरुच्यते उत स्वतन्त्रं साध्यद्वयमिति विकल्पं मनसि निधायाद्यं दूषयति ॥ विशिष्टस्येति ॥ द्वितीयं शङ्कते ॥ सद्विलक्षणत्वेति ॥ सिद्धसाधनत्वस्येति ॥ सद्वैलक्षण्यलक्षसाध्य इति शेषः ॥ बाध्यत्वस्येति ॥ पराभिप्रेतस्य प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपस्येति शेषः ॥
श्रीनिवासतीर्थीया
रूपरसवदिति ॥ अत्र सत्त्वासत्त्वयोरुभयोः पक्षत्वात्तदनुसारेण दृष्टान्तद्वयमित्येतन्न स्वरसम् । तथात्वेऽनित्ये वाङ्मनसे मूर्त्तत्वाद्घटवदित्यत्रापि दृष्टान्तद्वयं वाच्यं स्यात् । तस्माद् दृष्टान्तद्वयस्य प्रयोजनमिदं द्रष्टव्यम् । तथाहि । अत्रैकधर्मिनिष्ठो योऽत्यन्ताभावस्तत्प्रतियोगित्वे साध्ये पक्षीभूतयोः । सत्त्वासत्त्वयोरेकात्यन्ताभावप्रतियोगित्वाभावेन बाधापत्त्याऽत्यन्ताभावद्वय-प्रतियोगित्वे साध्यतयावश्यं वक्तव्ये तत्र रूपस्यैकस्यैव दृष्टान्तत्वे तत्रात्यन्ताभावद्वयप्रतियोगित्वाभावेन साध्यवैकल्यापत्त्या दृष्टान्तद्वयग्रहणमिति द्रष्टव्यम् ॥ केवलव्यतिरेकिणेति ॥ विमतमनिर्वचनीयं बाध्यत्वाद्य्वतिरेकेणात्मवदित्यनुमानेनेत्यर्थः । तदुपपादयति ॥ यद्धीति ॥ घटादावित्यादिपदेन शश-विषाणं ग्राह्यम् ॥ कथं नेति ॥ तथाच घटाद्येकधर्मिनिष्ठात्यन्ताभावप्रतियोगित्वाभावाद्बाधितविषयत्व-मित्यर्थः । ननु नात्यन्ताभावप्रतियोगित्वं साध्यते । येन सत्त्वासत्त्वयोरप्रामाणिकत्वापत्त्याऽनुमानस्य प्रत्यक्षबाधः स्यात् । किं नामात्यन्तपदपरित्यागेनाभावप्रतियोगित्वमात्रमेवातो नोक्तदोष इति चेत्तत्राह ॥ अभावेति ॥ सामान्यादित्रय इति ॥ तथा चैकस्मिन्सामान्यादित्रये न स्त इत्यपि प्राप्त्याऽर्थान्तर-तेत्यर्थः । जातिश्चैतत्त्रयाश्रयेति वचनात्सामान्यादित्रये सत्तासामान्यं नास्तीति द्रष्टव्यम् । असत्त्वविशेषस्य निःस्वरूपत्वस्य ॥ अनैकान्तिकमिति ॥ केवलान्वयित्वेनात्यन्ताभावप्रतियोगित्वा-भावादिति भावः । साध्यस्यापि सत्त्वान्न व्यभिचार इत्याशङ्कते ॥ प्रमेयत्वादेरपीति ॥ तस्मिन्नेवेति ॥ सकलधर्मरहिते ब्रह्मण्येवेत्यर्थः ॥ भिन्नाधिकरणेति ॥ प्रत्येकं सदसद्रूपभिन्नाधिकरणेत्यर्थः । तथा चैकत्वगुणवत्सद्रूपधर्मिनिष्ठसंसर्गाभावप्रतियोगित्वस्यासत्त्वे सद्भावात्तथैकत्वगुणवदसद्रूपधर्मिनिष्ठ-संसर्गाभावप्रतियोगित्वस्य सत्त्वे सद्भावेनार्थान्तरतेति भावः । एकत्वस्य प्रतियोगित्वादिवदसत्यपि सद्भावाङ्गीकारेणेदमुक्तमित्यवगन्तव्यम् ॥ सत्त्वमिति ॥ अत्रानुमाने धर्मत्वमेव हेतुरिति भावः ॥ असत्त्वानधिकरणेनात्मनि सत्त्वं नास्तीत्युक्त्या तस्यानात्मनः सदसत्त्वानधिकरणत्वं प्राप्तमिति ज्ञातव्यम् । एवमेवोत्तरानुमानेऽपि बोध्यम् ॥ रूपवदिति ॥ अनात्मभूतगुणकर्मवाय्वादिनिष्ठत्वभावाद् दृष्टान्ते हेतुर्द्रष्टव्यः । सत्त्वानधिकरणानात्मभूतशशविषाणादिनिष्ठत्वाभावेन रूपादौ साध्यं चास्तीति द्रष्टव्यम् । अनात्मनि घटादावभावात्पक्षे हेतुरस्तीति द्रष्टव्यम् ॥ असिद्धो हेतुरिति ॥ पक्षीभूतेऽभाव-प्रतियोगित्वरूपेऽसत्त्वेऽनात्मनिष्ठसंसर्गाभावप्रतियोगित्वरूपो हेतुर्नास्ति । अनात्मन्यविद्यमानत्वं तदर्थः । अभावप्रतियोगित्वस्य चानात्मनि घटादौ सत्त्वादिति भावः । वस्त्विति शशविषाणादि-व्यावृत्तिः ॥ शशविषाणादाविति ॥ पक्षीभूतेऽत्यन्ताभावप्रतियोगित्वरूपासत्त्वे सत्त्वानधिकरण-मात्मभिन्नं यत् शशविषाणादिकं तन्निष्ठसंसर्गाभावप्रतियोगित्वमस्ति । अत्यन्ताभावप्रतियोगित्व-रूपमसत्त्वं निर्धर्मके शशविषाणादौ नास्तीति सत्त्वासत्त्वानधिकरणत्वं शशविषाणादावेव प्राप्तं न रजते इत्यर्थान्तरतेत्यर्थः । तामुपपादयति ॥ रूपादीनामिति ॥ रूपे आत्मभिन्नगुणकर्मादिनिष्ठसंसर्गाभाव-प्रतियोगित्वे सत्यपि रूपादिप्रतियोगिकसंसर्गाभावाधिकरणस्यात्मभिन्नस्य गुणकर्मादेर्वस्तुनः सत्त्वेन सत्त्वानधिकरणत्वाभावात्सत्त्वानधिकरणानात्मनिष्ठसंसर्गाभावप्रतियोगित्वं नास्तीति साध्यवैकल्य-मित्यर्थः ॥ अतः कथमिति ॥ विमतमनिर्वचनीयं बाध्यत्वादित्यनुमान इत्यर्थः । नन्वसद्विलक्षणत्वं बाध्यत्वहेतुना न साध्यते । येनासाधारण्यं स्यात् । किं नाम प्रतीतत्त्वहेतुनैवातो नोक्तदोष इत्यत आह ॥ प्रतीतत्वस्य चेति ॥ वृत्तेरिति ॥ तथा चासति व्यभिचार इति भावः ।
वाक्यार्थरत्नमाला
तदुक्तमिति । तत्त्वप्रदीपिकोक्तमित्यर्थः । अत्र चेति । द्वन्द्वान्ते श्रूयमाणत्वप्रत्ययः प्रत्येकमभिसम्बध्यत इत्याशयेन सदसत्त्व इत्येतद् व्याख्यातं भावत्वाभावत्व इत्यादिना । अत्र च वैलक्षण्यं सतश्चेत्येतन्मूलस्थकिमत्र सदसच्छब्दौ भावाभाववचनावित्याद्युक्ति-मनुसृत्य यौगिकार्थविद्यमानाविद्यमानयोरिव भावाभावयोरप्यर्थता अभिप्रेता मूल इति दर्शयितुं भावत्वाभावत्व इत्यप्युक्तम् । अत एवात्र टीकायां सत्त्वासत्त्वेति चेच्चशब्दयुक्तपाठः स्वरसः । चशब्दा-भावे वा तदर्थान्तर्भावेन व्याख्येयम् । यद्यप्यभावप्रतियोगित्वेत्याद्युत्तरानुसारेण विद्यमानत्वा-विद्यमानत्वपक्षनिरासपरमेवोत्तरमूलमिति प्रतीयते । तथाप्युपलक्षणया भावाभावत्वपक्षनिराकरणमपि व्याख्यातव्यमेव । अत एव बाधितविषयत्वप्रतिज्ञात्वमुभयसाधारणम् । भावाभावविलक्षणमिति तत्त्वोद्योतटीकाऽप्यनुकूलिता स्यादिति भावः । योऽत्यन्ताभाव इत्युक्ते एकमभावं प्रत्युभयोः प्रतियोगित्वाभाव इत्याद्यनुपपत्तिं मनसि कृत्वा व्याख्याति एकधर्मिनिष्ठाविति । साध्येऽभावद्वय-विवक्षणादेवाभावद्वयं प्रत्येकस्य रूपस्य रसस्य वा प्रतियोगित्वायोगेन दृष्टान्ततयोभयोपादानम् । वक्ष्यति च द्वयोः पक्षत्वे रूपरसयोरुभयोरपि दृष्टान्तत्वेन निर्देष्टव्यतया गौरवेत्यादीति ज्ञेयम् । अत्रानुमाने विशेषविचारस् तत्त्वोद्योतटीकाव्याख्याने गुरुराजकृतस्तत्प्रपञ्चेऽस्माभिः कृतश्च द्रष्टव्यः । अत्रोपयुक्तं लेख्यमस्ति । वैयर्थ्यमिति । एतदनुमानेनैव सत्त्वासत्त्वाभावाधिकरणत्वसिद्धेरिति भावः । घटादौ चेतीति प्रतीकोपादानम् । असत्त्वस्य धर्मिसत्तेत्याद्यनिर्वाच्यत्वसाधकनिषेधप्रतियोगित्वा-न्यथानुपपत्तिभङ्गीयन्यायामृतानुसारेणैतत्प्रमेयमुपपाद्यम् । परित्यागेनेति । बाधितविषयत्वपरिहारायेति शेषः । संसर्गाभावेति । सत्त्वसंसर्गाभावेत्यर्थः । न सत्त्वाभावेति । सत्त्वान्योन्याभावेत्यर्थः । संसर्गा-वच्छिन्नप्रतियोगिकाभावस्यान्योन्याभावभिन्नत्वादिति भावः । सत्ताभ्युपगमवादिरीत्या दूषणकथनं सङ्गमयति अभ्युच्चयेनेति । उभयथाऽपीति । सत्त्वासत्त्वयोर्यत्किञ्चित्वेन सर्वत्वेन च सम्भवः । सामान्योक्तेरुभयथाप्युपपत्तेरित्याशयः । विकल्पमिति । सत्त्वासत्त्वे इत्यत्र यत्किञ्चित्सत्त्वं यत्किञ्चिदसत्त्वं च पक्षो वा सत्त्वासत्त्वशब्दयोः सत्त्वावच्छिन्नादिपरतया सर्वाणि सत्त्वानि सर्वाण्यसत्त्वानि च पक्षो वेति विकल्पमित्यर्थः ।
विशेषणत्वमिति मूले विशेषणत्वं व्यावर्तकत्वं वस्त्वन्तरापेक्षया विशेषणत्वं सर्वस्याप्यस्तीति वाक्यार्थस्तथा सति वस्तुत्वमात्रमित्युत्तरं चानुभवारूढं कार्यम् । व्याख्येयमस्ति । न्यायामृता-द्यनुसारेणाह । न च निर्धर्मकत्वादेवेत्यादि भाव इत्यन्तं व्याख्येयमस्ति । तत्र निर्धर्मकत्वस्य श्रुत्यर्थतेति । अङ्गीकृत्य चैतदुक्तं व्याघातेन धर्ममात्रनिषेधायोगादिति ज्ञेयम् । सङ्ख्यार्थकत्व इति । एकत्वसङ्ख्यारूपगुणविशिष्टपरत्व इत्यर्थः । भिन्नाधिकरणेति । एकत्वसङ्ख्यायाः सर्वत्रेदमेक-मित्यनुगतप्रत्ययसिद्धत्वात् तद्विशिष्टधर्मिपदेनानेकतत्तद्धर्मिणोः प्राप्तौ सत्त्वमसद्रूपैकधर्मिणि नास्तीति असत्त्वं च सद्रूपैकधर्मिणि नास्तीत्येवं सत्त्वासत्त्वाभावयोर्भिन्नाधिकरणनिष्ठतामादायापि सत्त्वासत्त्वे एकस्मिन्न स्त इति प्रतिज्ञातार्थोपपत्त्यैकव्यक्तावुभयाभावप्राप्त्यभावादित्यर्थः । ननु सत्त्वासत्त्वा-नधिकरणेत्युत्तरानुमानशङ्कनमयुक्तम् । तद्धि सत्त्वासत्त्वे एकस्मिन्न स्त इत्येतत्साधनपक्षे प्राप्तानु-पपत्तिप्रसक्तिशून्यतया कृतमिति वाच्यम् । अन्यथा तच्छङ्कनस्यासङ्गतत्वप्रसङ्गात् । न चास्मिन् पूर्वानुमानीयार्थान्तरताया वा प्रमेयत्वादिना व्यभिचारस्य वा प्रसक्तिर्नेत्यस्ति । तदुभयाविशेषात् । अतः कुतोऽनुमानान्तरं प्रवर्तितम् । ततश्च तन्निरासोऽप्ययुक्त इत्याशङ्क्यानुमानान्तरप्रवृत्त्युपपादनेनोत्तर-ग्रन्थसार्थक्यमाह यद्यप्यत्रेत्यादिना । वक्ष्यमाणेति । सत्त्वमसत्त्वानधिकरणेति वक्ष्यमाणेत्यर्थः । उत्तरानुमान इवेति तात्पर्यात् पूर्वपदार्थः स्वरस इति ज्ञेयम् । एवमुत्तरत्रापि । पूर्वेति । सत्त्वासत्त्वे एकस्मिन्न स्त इति पूर्वानुमान इत्यर्थः । उत्तरानुमानेऽव्यवहितपूर्वदोषनिवृत्तिवत् पूर्वानुमानेऽपि तन्निवृत्तिरिति सम्बन्धः ।
ननु सत्त्वमात्रपक्षीकारेण प्रवृत्तेऽसत्त्वानधिकरणेत्यादिसाध्यकरणादुत्तरानुमानेऽभावद्वयस्य भिन्नाधिकरणनिष्ठतयाऽर्थान्तरताया अप्रसरेऽपि पूर्वानुमाने तत्प्रसरोऽवर्जनीय इति कथं तन्निवृत्तिरित्यत उक्तम् एवैकशब्दस्येत्यादि । अव्यवहितदोषनिवृत्त्यर्थं किल प्रयोगान्तरम् । तन्निवृत्तिश्च पूर्वानुमान एवैकशब्दस्यैक्यमेकत्वसङ्ख्यावत्वं चेत्येवमर्थद्वयस्वीकारेऽपि भवति । एकत्वसङ्ख्यावत्वेन ब्रह्मव्यावृत्तौ सिद्धायां भिन्नाधिकरणव्यावृत्त्यर्थमैक्यस्याप्युपादानेन ब्रह्माधिकरणतया वा भिन्नाधिकरणतया वा अर्थान्तराप्रसरात् । ततश्चैकपदार्थान्तराश्रयणमात्रेण पूर्वदोषनिवृत्त्युपपत्तावसत्त्वानधिकरणानात्मेति विशेषणद्वयप्रयोगान्तराश्रयणं व्यर्थम् । अत एव न साम्यं प्रयोगद्वयस्य । पूर्वस्मिन्नुपपन्ने सति पश्चात्तनस्य प्रयोजनेन विना स्वीकारायोगात् । तदेतदाह पूर्वानुमान एवेति । अनेनैव पूर्वानु-मानेऽर्थान्तरतैकशब्दार्थान्तरेण निरसितुं शक्येति सूचितम् । यस्तु प्रमेयत्वादौ व्यभिचारः पूर्वानुमाने प्रागुक्तः स चात्रापि समानः । अत एव मूले तद्व्यभिचारेणैवानुमानदूषणम् । तथा च तत्प्रसक्ति-शून्यत्वरूपात्पूर्वापेक्षया विशेषादनुमानान्तरप्रवृत्तिरित्यपि न वक्तुं शक्यते । तस्मात्पूर्वानुमानसमान-मुत्तरानुमानं वृथा प्रवर्तितमित्यर्थः । अनेन पूर्वानुमानीयव्यभिचाररूपदूषणं त्वनुद्धार्यमेवेति सूचयति ।
पूर्वानुमानेऽव्यवहितार्थान्तरतारूपदोषपरिहारासम्भावाद्वा व्यभिचारस्योत्तरानुमानेऽभावाद्वा तदनु-मानं प्रवर्तितमिति न ब्रूमः । किन्तु यत्परेण स्वयमेव लाघवन्यायमनुसरताऽनुमानान्तरमुक्तं तददूषणे तददुष्टमेवेति भ्रान्तिर्मन्दानां स्यात्तामपाकर्तुं तदनुमानमपि दूष्यत इत्याह तथापीति । सत्त्वमितीति । अत्र च मूले सर्वस्वरूपसत्त्वानां प्रकृतत्त्वासत्त्वमित्यस्य सर्वस्वरूपसत्त्वानीत्यर्थः । एकवचनं च जाताविति ज्ञेयम् । नन्वनात्मनिष्ठसंसर्गाभावप्रतियोगीति हेतुविशेषणं कृत्वा प्रमेयत्वादौ व्यभिचार-परिहारमभिप्रेत्य न दोषसत्त्वपक्षकानुमानं प्रवर्त्यते । तत्कुतः साध्ये विशेषाभावात् । सत्त्वपक्षकानु-मानोक्तव्यभिचारपरिहारोपायस्य चासत्त्वपक्षकानुमान इव सत्त्वपक्षकेऽप्याश्रयितुं शक्यत्वादित्याशङ्कां परिहर्तुं वैषम्यं वदन्नुत्तरानुमानमवतारयति प्रमेयत्वादीति । हेत्वसिद्धीति । असत्त्वस्य शशविषाणा-दावनात्मनि निर्धर्मक इति वक्ष्यमाणमूलानुसारेणानात्मनि कुत्राप्यभावेनानात्मेति हेतुविशेषणस्या-सिध्यप्राप्तावपि सत्त्वस्यानात्मवियदादिगततयाऽनात्मनिष्ठसंसर्गाभावप्रतियोगित्वविशेषणस्यासिद्धिस्तु प्राप्नोति । तथा चोक्तासिध्यापादकतया तद्विशेषणस्य प्रमेयत्वाद्यव्यभिचाराय पूर्वानुमाने विवक्षाया अनुपपत्त्या तद्विवक्षया प्रमेयत्वादिव्यभिचारपरिहारोपपत्तिमदसत्त्वपक्षकानुमानमाहेत्यर्थः । व्यवस्थित-त्वादिति । पक्षभेदेनैव प्राप्तुं योग्यत्वादित्यर्थः । व्यवस्थितेत्यस्यापि पक्षभेदेन प्राप्तुं योग्येत्यर्थः । विवादपदमनिर्वचनीयं बाध्यत्वादिति तत्त्वप्रदीपिकोक्तानुमानेऽप्रसिद्धविशेषणतायामुक्तायां तत्राशङ्का-रूपस्य स्यादेतदिति ग्रन्थस्याप्रवृत्तिशङ्कां सूचयंस्तत्परिहारपूर्वकं तत्प्रवृत्तिमाह अप्रसिद्धेति । तस्या इति । अप्रसिद्धविशेषणताया इत्यर्थः । स्वतन्त्रयोर्वेति । तथा च साध्यतावच्छेदकनानात्वेन तत्त-दवच्छिन्नसाध्यस्य प्रत्येकं प्रसिद्धेर्नाप्रसिद्धविशेषणत्वमित्याशयः । विशिष्टस्येतीति । सद्विलक्षणत्वे सत्यसद्विलक्षणत्वरूपविशिष्टस्यैकाधिकरणे प्रसिध्यभावादिति मूलार्थः । यद्येकैकदेशप्रसिद्धिमात्रेण विशिष्टस्य अप्रसिद्धविशेषणता न दूषणमिति ब्रूयात्तत्राह मूले अन्यथेति । उक्तत्वादिति मूलम् । सत्त्व स्यास्माभिरनङ्गीकृतत्वेन सिद्धसाधनत्वादित्यनेन सद्विलक्षणत्वांशे सिद्धसाधनत्वस्योक्तप्रायत्वा-दित्यर्थः । मूले तर्हीति । यदि सद्विलक्षणत्वांशे सिद्धसाधनतोक्ता तर्हि तदंशस्य साध्यत्वायोगेऽप्य सद्विलक्षणत्वांशस्य साध्यता तु युक्तैव । तत्र दोषानुक्तेरित्यर्थः । तथा च तत्त्वप्रदीपिकोक्तानुमानेऽ-निर्वचनीयत्वं नामासद्विलक्षणत्वमात्रं विवक्षितमित्याशयः । जगतो बाध्यत्वाङ्गीकारात्तत्र प्रवेशेना-साधारण्याभाव इत्याह जगत इति । प्रतीतत्वस्य चेतीति प्रतीकोपादानपाठः । प्रतीतत्वमिति प्रथमान्तं लेखकागतम् । वक्ष्यमाणत्वादिति मूलम् । अनुपदमेव वक्ष्यमाणतया तत्र प्रतीतत्वस्य व्यभिचार इति भावः ।