विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्
विज्ञानबौद्धाख्यात्यनुवादनिरासौ
विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्
सुधा
अपरे पुना रजतं सदेव किन्त्वन्तरेवेति मन्यन्ते । तथा हि । न तावदसदेव रजतम्, प्रतीत्यनुपपत्तेः । नापि पुरत एव सत्; भ्रान्त्यनुपपत्तेः, बाधविरोधाच्च । न च देशान्तरे सत्, प्रमाणाभावात् । अतः परिशेषाज्ज्ञानाकारमेवावतिष्ठते । किञ्चेदं ज्ञानरूपम् इन्द्रियसंप्रयोगेऽ-सत्यपरोक्षत्वाज्ज्ञानवत् । न च सत्यत्वे भ्रान्त्यनुपपत्तिः, आन्तरस्यैव बाह्यतयाऽवभासो भ्रम इत्यङ्गीकारात् । तस्य नेदमिति बाह्यतानिषेधेनैव बाधकस्य बाधकत्वोपपत्तिरिति ॥ एतच्चानु-पपन्नम् । सत्त्वेऽसदेव रजतमित्यसत्त्वावेदकप्रत्ययविरोधस्योक्तत्वात् । असतः प्रतीत्यनुपपत्तौ च बहिष्ठताया अपि प्रतीत्यनुपपत्तिप्रसङ्गात् । तत्सत्त्वे भ्रान्तित्वानुपपत्तेः । बहिस्सत्त्वमेवासत्प्रत्ययेन निषिध्यत इति चेन्न । आन्तरत्वे प्रमाणाभावात् । इन्द्रियसंप्रयोगमन्तरेणापरोक्षत्वस्य हेतोर्बाह्य-तायामनैकान्त्यात् शुक्तिसंप्रयोगेणापरोक्षतायाः स्वीकारादसिद्धेश्च । दृष्टान्तश्च साधनविकलः । ज्ञानस्यापीन्द्रियसंप्रयोगादेवापरोक्षताऽङ्गीकारात् । किञ्च गुञ्जापुञ्जादौ दहनादिसमारोपे तस्यान्तः-सत्त्वे देहदाहादिप्रसङ्गः । अन्यथाऽन्तरपि तदसदित्यन्तासदेवापन्नमिति नात्मख्यातिपक्षोऽप्युप-पत्तिमान् ।
वाक्यार्थचन्द्रिका
एवं बहिस्सत्त्वपक्षं निराकृत्य तन्निरासाधीनसिद्धिकमन्तःसत्त्वपक्षं निरसितुमनुवदति ॥ अपर इति ॥ प्रभाणाभावात्तदसंभव इत्यतः प्रमाणं वक्तुं प्रतिजानीते ॥ तथा हीति ॥ देशान्तर इति ॥ बहिरिति शेषः । नन्वसत्प्रतीतेरुक्तवक्ष्यमाणन्यायसिद्धतयान्तरत्वे प्रमाणा-भावाद्बहिस्सत्त्वमेवेति देशान्तरसत्त्ववादिना परिशेषस्य कर्तुं शक्यत्वाच्च नायं प्रकारो युक्त इत्यतोऽनुमानमाह ॥ किं चेति ॥ इदमिति ॥ रजतमित्यर्थः । अत्र संप्रयोगः संबन्धमात्रमभिमतं न तु तद्विशेषः संयोगादिरतो रूपादिना नानैकान्त्यम् । न च विज्ञानवादिमते साध्यस्यापि तत्र सत्त्वान्ना-नैकान्त्यमिति वाच्यम् । प्रमाणाभावाद्बहिस्सत्त्वं नेति वदता भ्रमविषयस्यैव विज्ञानरूपताऽभ्युपगमे-नैतद्विशेषणोपादानात् । अन्यतरानैकान्तिकत्वपरिहारार्थत्वाच्च । अधिष्ठानादिनाऽऽध्यासिकसंबन्धेनैवा-परोक्षत्वाद्रजतस्य विशेषणासिद्धिपरिहारायेन्द्रियेति । तथा चेन्द्रियसन्निकर्षानधीनापरोक्षत्वादिति हेतुशरीरं सिद्धं भवति ॥ ज्ञानवदिति ॥ तस्य स्वतःसिद्धतया तत्र हेतुसद्भाव इति भावः ॥
तस्येति ॥ इदन्तानिषेधकत्वेनैव बाधकत्वोपपत्तौ रजतनिषेधकत्वस्यापि कल्पने गौरवमित्याशयः । अत एवाह ॥ निषेधेनैवेति ॥ परिशेषं विघटयितुमनुभवविरोधं स्मारयति ॥ सत्त्व इति ॥ एवं परिशिष्यमाणे बाधात्परिशेषानुपपत्तिमभिधायोक्तरीत्या सत्त्वोपपत्तौ प्रसक्तप्रतिषेधासंभवेनापि तदनुप-पत्तिमाह ॥ असत इति ॥ अनुभवविरोधं परिहर्तुं शङ्कते ॥ बहिरिति ॥ नेति ॥ अन्यथाऽन्योन्याश्रयः स्यादिति भावः स्वनिष्ठत्वेनेन्द्रियसन्निकर्षो विशिष्यते न वा । आद्य आह ॥ इन्द्रियेति ॥ अन्त्य आह ॥ शुक्तीति ॥ दृष्टान्तश्चेति ॥ वृत्तिज्ञाने स्वप्रकाशताया निराकरिष्यमाणत्वादिति भावः । अङ्गीकारादित्यनेन साक्षिण इन्द्रियत्वानङ्गीकारिण एतद्दोषप्रसरेऽपि मां प्रति तदप्रसर इति सूचयति ॥ आरोपविशेषे दोषमाह ॥ किं चेति ॥ अन्यथा बुद्धावपि तस्यातात्त्विकत्वादन्तरसत्त्वे । अत्र शुक्तिसंप्रयोगेणेत्युक्त्येदन्ताया अनिषेधान्न कल्पनागौरवमिति । असदेव रजतमित्यनुभवोक्त्या च रजतनिषेधकत्वमेव बाधकप्रत्ययस्य युक्तमिति सूचयति ।
परिमल
अपर इति ॥ बौद्धैकदेशिनो विज्ञानात्मतत्त्ववादिन इत्यर्थः । परिशेषमुक्त्वाऽनुमानं चाह ॥ किं चेति ॥ इदमितिपक्षः शुक्तौ प्रतीयमानं रजतमित्यर्थः । ज्ञानरूपमिति साध्यम् । इन्द्रियसंप्रयोगेऽसति अपरोक्षत्वादिति ॥ प्रतीयमानरजतस्येन्द्रियसन्निकर्षाजन्यप्रत्यक्षविषयत्वादित्यर्थः ॥ उक्तत्वादिति ॥ पूर्वमतनिरासप्रस्ताव उक्तत्वादित्यर्थः । तथा चासत्त्वेनोपपत्त्या न परिशेषावतार इति भावः । तत्सत्त्वे बहिष्ठतायास्सत्त्वे । असत्त्वेऽसदेव रजतमित्यादिनोक्तदोषोद्धारमाशङ्कते ॥ बहिस्सत्त्वमेवेति ॥ कल्पकाभावादिति भावेनाह ॥ आन्तरत्व इति ॥ अनुमानं च निरसितुं किं प्रतीयमानरजतादिसन्निकर्षमन्तरेणापरोक्षत्वमभिमतमुत सन्निकर्षमात्रं विनेति हृदि कृत्वाऽऽद्य आह ॥ इन्द्रियेति ॥ अन्त्येऽसिद्धिरिति भावेनाह ॥ शुक्तीति ॥ ज्ञानस्यापीति ॥ स्वरूपेन्द्रियसंप्रयोगाभि-व्यक्तसाक्षिरूपापरोक्षज्ञानविषयत्वस्य ज्ञानेऽपि स्वीकारादिति भावः ।
यादुपत्यम्
आत्माख्यातिपक्ष इत्यत्रात्मशब्देन स्वपर्यायेण ज्ञानं विवक्षितम् ॥
श्रीनिवासतीर्थीया
किं चेदमिति ॥ रजतमित्यर्थः ॥ ज्ञानवदिति ॥ ज्ञानेऽनुव्यवसायरूपा-परोक्षज्ञानविषयत्वमस्तीति द्रष्टव्यम् ॥ आन्तरस्येति ॥ ज्ञानरूपत्वेनान्तरपदार्थस्येत्यर्थः । ननु बाह्यतावभासस्य भ्रमत्वे नेदंरजतमिति बाधकज्ञानस्य रजतनिषेधरूपत्वेन बाह्यतानिषेधरूपत्वाभावा-द्बाधकत्वं नोपपद्यते । तथात्वे नेदं बाह्यमिति बाधोदयः स्यादिति चेत्तत्राह ॥ तस्येति ॥ तस्य बाधकस्येत्यन्वयः । तथाच नेदमिति रजतस्य बाह्यत्वमेव निषेध्यतयाऽभिप्रेतमिति नोक्तदोष इति भावः । सत्त्वे ज्ञानाकारस्य रजतस्यान्तःसत्त्वाङ्गीकारे । ननु न तावदसदेव रजतं प्रतीत्यनुपपत्ते-रित्युक्तमिति चेत्तत्राह ॥ असत इति ॥ रजतस्येत्यर्थः ॥ बहिष्ठताया अपीति ॥ असत्त्वाविशेषादिति भावः । बहिष्ठतायाः सत्त्वात्तत्प्रतीतिः संभवतीति चेत्तत्राह ॥ तत्सत्त्व इति ॥ ननु रजतस्य सत्त्वाङ्गीकारेऽसदेव रजतं प्रत्यभादिति प्रत्ययविरोधो नास्तीति शङ्कते ॥ बहिः सत्त्वमेवेति ॥ रजतस्येत्यर्थः ॥ स्यादिदं यदि रजतस्यान्तरत्वं स्यात्तदेव न संभवतीत्याह ॥ आन्तरत्व इति ॥ ज्ञानरूपत्व इत्यर्थः । शुक्तिसंप्रयोगेण शुक्तिसन्निकृष्टदुष्टेन्द्रियजन्यज्ञानविषयत्वेनैवेत्यर्थः । तदुपपादयति ॥ ज्ञानस्येति ॥ इन्द्रियार्थसन्निकर्षजन्यत्वेनैव ज्ञानस्यापरोक्षत्वमित्यर्थः । तथाच विशेषणा-भावप्रयुक्तविशिष्टाभावसद्भावात्साधनवैकल्यमित्यवगन्तव्यम् । तस्यारोपितस्य । अन्तःसत्त्वे ज्ञान-रूपत्वेनान्तरत्वादिति भावः ॥ अन्यथेति ॥ देहदाहापत्त्यान्तरत्वानङ्गीकार इत्यर्थः ॥ अन्तरपीति ॥ पुरोदेशे देशान्तरे च सत्त्वस्य भ्रान्त्यनुपपत्तिप्रमाणाभावाभ्यामुक्तरीत्याऽसंभवेन बहिः सत्त्वं नास्त्येवेति भावः ॥ आत्मख्यातिपक्ष इति ॥ आत्मज्ञानस्वरूपमेव रजतं ख्यायत इति पक्ष इत्यर्थः ॥
वाक्यार्थरत्नमाला
तन्निरासाधीनेति । बहिःसत्त्वासम्भव एवान्तःसत्त्वस्य कल्पनार्हत्वादिति भावः । यद्वा येनान्तःसत्त्वमुच्यते तेन बहिःसत्त्वं निराकृत्यैव तदुच्यते । अतस्तन्निरासाधीन-सिद्धिकत्वमन्तःसत्त्वस्येत्यर्थः । तन्निराकरणं च विस्तरेण कार्यम् । तत्तु पूर्वमतनिरासे सिद्धं भवतीत्ये-तन्मतोपन्यासावसरे प्रमाणनिराकरणायासौ नास्तीत्येवमभिप्रेत्य मूले प्रमाणाभावादित्येवोक्तमिति ज्ञेयम् । तदसम्भव इति । अन्तःसत्त्वे प्रमाणाभावादन्तःसत्त्वासम्भव इत्यर्थः । उक्तवक्ष्यमाणेति । असत्ख्यातिमनङ्गीकुर्वतः प्राभाकरस्य निरासावसरे उक्तन्यायेनासदेव रजतमित्युत्तरमतोपन्यासावसरे वक्ष्यमाणेन न्यायेन च सिद्धतयेत्यर्थः । सिद्धतयाऽसत्त्वस्यैवाङ्गीकर्तुमुचितत्वेनेति पूरणीयम् । अस्य च नायं प्रकारो युक्त इत्युत्तरेण सम्बन्धः । उक्तप्रकारायोगे बहिःसत्त्ववादिनोद्भाव्यविपरीतोक्तिं च हेतुत्वेनाह आन्तरत्व इति । ननु संयोगसमवायौ हि संप्रयोगौ तथा चोक्तसंप्रयोगाभावेऽप्यपरोक्षे घटादिगतरूपादौ ज्ञानरूपत्वाभावाद्व्यभिचार इत्यत आह अत्र संप्रयोग इति । तथा चेन्द्रियेण सम्बन्धमात्राभावे सत्यपरोक्षत्वं हेतुतया प्राप्तमिति न रूपादौ व्यभिचारः । इन्द्रियार्थयोः सम्बन्धस्य षड्विधत्वेन तत्र संयुक्तसमवायादिरूपसम्बन्धसत्त्वादिति भावः । तत्र सत्त्वादिति । आन्तरे विज्ञाने सर्वं कल्पितमिति वदतो मते ‘असच्चेत्संविदो नीलं न तद्भासेत संविदी’त्याद्यङ्गीकारेण रूपादौ ज्ञानाभिन्नत्वसत्त्वादिति भावः ।
प्रमाणेति । अत्र भ्रमविषयविचारे प्रवृत्तेन बहिःसत्त्वे प्रमाणाभावान्न भ्रमविषयस्य बहिःसत्त्वमिति विशेषाशङ्कानुसारेण बहिःसत्त्वप्रमाणशून्यभ्रमविषय एव ज्ञानत्वाङ्गीकारप्राप्त्या तत्रोपन्यस्तानुमानेऽ-प्युक्तहेतुकरणेन प्रमाणोपेतपदार्थेषु ज्ञानत्वाभावाभ्युपगमस्यापि सिध्या तथाविधे रूपादावनैकान्त्यो-पपत्त्या तद्वारणाय सम्बन्धमात्रार्थकत्ववर्णनस्यावश्यकत्वादिति भावः । एतत्प्रकरणानुसारेण भ्रमविषयरजतादिमात्रविषयत्वप्राप्तावपि तन्मते सर्वस्यापि संविदन्यत्वाभावेन रूपादौ व्यभिचारा-नवकाश इत्यपरितोषात्पक्षान्तरमाह अन्यतरेति । न्यायादिमतरीत्येत्यर्थः । अधिष्ठानादिनेति । आदिपदेन…………परिग्रहः । अयमर्थः । सम्बन्धमन्तरेणापरोक्षत्वादित्येवोक्ते यद्यपि रूपादौ न व्यभिचारस्तथापि रजतेऽसिद्धिः । रजतस्याधिष्ठानेन सहाध्यासिकसम्बन्धसद्भाव एव तस्या अपरोक्ष-त्वेनोक्तहेतुविशेषणस्य पक्षेऽभावादिति । एवमिन्द्रियपदस्यावश्यकत्वे संप्रयोगपदस्य च सम्बन्ध-मात्रार्थत्वे इतरेणेत्यस्य विवक्षितमर्थं दर्शयन् हेतुशरीरं निष्कृष्याह तथा चेति । स्वत इति । स्वप्रकाश-तयेत्यर्थः । इदन्तेति । बाह्यपदार्थकथनमिदम् । एवकारार्थकथनं रजतेत्यादि । तदेव स्पष्टयति अत एवेति । परिशेषमिति । परिशिष्यमाणे बुद्धिरूपपरिशेषमित्यर्थः । अन्तरत्वं नामान्तःसत्त्वं वाच्यम् । तच्चासत्त्वानुभवबाधितमिति तत्परिशेषानुपपत्तिरिति भावः । एवमेवोत्तरवाक्यावतारे तात्पर्यस्याभि-धानात् । अनुभवविरोधस्य बहुधोक्तत्वादुक्तपदतात्पर्यं कथितं स्मारयतीति । अभिधायेति । परिशेष-शरीरे हि प्रसक्तप्रतिषेधः । अन्यत्राप्रसङ्गश्चेत्येतौ प्रयोजकांशौ परिशिष्यमाणे बुद्धिरिति तु फलांशः । तत्र फलांशमनुभवबाधेन निराकृत्य प्रसक्तप्रतिषेधरूपप्रयोजकांशस्यापि अनुपपत्त्या परिशेषासम्भवमा-हेत्यर्थः । परिहर्तुमिति । बहिःसत्त्वनिषेधपरत्वेनान्यथासिद्धत्वादनुभवस्य तद्विरोधो नेति परिहर्तु-मित्यर्थः । अन्योन्याश्रय इति । सिद्धे ह्यान्तरत्वेऽनुभवस्य बहिःसत्त्वनिषेधपरत्वेनान्यथासिद्धिकल्पनम् । तत्कल्पने चानुभवविरोधाभावे अन्तःसत्त्वकल्पनमित्यन्योन्याश्रय इत्यर्थः । स्वनिष्ठत्वेनेति । यदपरोक्ष-मित्युच्यते तन्निष्ठत्वेनेत्यर्थः । इन्द्रियसन्निकर्षमन्तरेणेत्यस्यापरोक्षत्वेनाभिमतरजतस्य य इन्द्रिय-सन्निकर्षस्तमन्तरेणेति वा यस्य कस्यापीन्द्रियसन्निकर्षमन्तरेणेति वा अर्थ इति विकल्पार्थः । बाह्य-तयेति मूलम् । स्वनिष्ठेन्द्रियसन्निकर्षमन्तरेणापरोक्षत्वस्य बाह्यतायां सत्त्वात् । न हि बाह्यताया इन्द्रियसन्निकर्षोऽस्तीति भावः । अन्त्य इति । यत्किञ्चिन्निष्ठेन्द्रियसन्निकर्षमन्तरेणेति द्वितीय इत्यर्थः । कुतो ज्ञानस्येन्द्रियसंप्रयोगादेवापरोक्षत्वम् । स्वप्रकाशत्वाभ्युपगमेन तदभावोपपत्तेरित्यत आह वृत्तिज्ञान इति । अनेन दृष्टान्तधर्मी व्याख्यातः ।
निराकरिष्यमाणत्वादिति । ज्ञानपादीयज्ञानदृष्टिमात्रेऽप्यप्रामाण्यं तस्येत्यनुभाष्यव्याख्यान-रूपमूल इति योजना । ननु तथापि ज्ञानस्य मानसवेद्यतानङ्गीकारात्साक्षिणश्च वेदान्तिभिरिन्द्रिय- त्वानङ्गीकारात्कथं ज्ञाने स्वनिष्ठेन्द्रियसन्निकर्षसत्त्वमित्यतः स्वमते साक्षिण इन्द्रियत्वाद्युक्त इन्द्रिय-सन्निकर्ष इत्युपपादनायैवाङ्गीकारादिति मूले उक्तमित्याशयं दर्शयति अङ्गीकारादित्यनेनेति । आरोपविशेष इति । दहनरूपार्थस्यान्तःसत्त्वे वक्ष्यमाणबाधकस्येवेतररजतादिरूपार्थाङ्गीकारे तादृश-बाधकस्याभावादिति भावः । मूले प्रथमादिपदेन रज्जुवल्मीकादिद्वितीयादिपदेन च भुजङ्गपुरुषादि गृह्यते । दंशनादि तु तृतीयेनेति ज्ञेयम् । नन्वन्तःसत्त्वं नाम बुद्धावारोपमात्रम् । एवं च वस्तुतोऽन्तर्दहनाद्यभावान्न दाहादिप्रसङ्ग इत्यतो मूले अन्यथेत्याद्युक्तम् । तत्रान्यथेत्यस्यार्थोऽ-प्रतीतेरन्यथेत्यनूद्य तदर्थमाह अन्यथेति । आन्तरस्य बाह्यतावभासो भ्रम इत्यङ्गीकारे बाधकस्य बाधकत्वानुपपत्तिस्तेन रजतनिषेधादित्याशङ्कापरिहाराय तस्य नेदमिति बाह्यतानिषेधेनैवेत्यादिग्रन्थेन रजतनिषेधकल्पनागौरवमुक्तं परेण । तन्निरासो मूले न प्रतीयतेऽतो मूलोक्तकार्यान्तरार्थोक्तयैव तन्निराससिद्धेर्न न्यूनतेत्याशयेन मूलकारीयोक्तिविप्रोषाश्रयणेन बाधानुपपत्तिमपि परपक्षे दर्शयति अत्रेति । गौरवमितीतिशब्दस्य सूचयतीत्युत्तरेण सम्बन्धः ।