विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्
प्राचीनतार्किकाख्यात्यनुवादनिरासौ
विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्
सुधा
तत्रारोप्यमाणं रजतं सदेवेति केचिदातिष्ठन्ते । तथा हि । यद्धि यथावभासते तत्तथेत्यौत्सर्गिको न्यायः । अपवादस्तु बलवद्बाधकोपनिपातात् । तथा चेदं च रजतं च तत्तादात्म्यं चेति त्रितयमिहावभासते । इदं च रजतत्वं च तत्संसर्गश्चेति वा । तत्र रजतरजतत्वयोरिदंकारा-स्पदस्य च बाधकाभावान्नासत्त्वमुपपद्यते, संवादसद्भावाच्च ॥ तत्तादात्म्यस्य संसर्गस्य वा बाधकाद्विसंवादाच्चासत्त्वमस्तु । यथोक्तम् । ‘असंभवि च यावत्तु तावत्संपरिहीयतामि’ति । न च नेदं रजतमिति बाधबोधो रजतस्याप्यसत्त्वमावेदयतीति वाच्यम्; तस्य तादात्म्यमात्रगोचरत्वेनो-पपत्तौ रजतगोचरत्वकल्पनायां गौरवप्रसङ्गात् । यथाहुः ‘एकदेशापवादेन कल्प्यमाने च बाधके । न सर्वबाधनं युक्तमिति न्यायविदः स्थिताः’ इति ॥ किञ्च रजतस्यात्यन्तासत्त्वे प्रतिभासो नोपपद्यते । स्थिते चैवं सत्त्वे बाधसमये पुरोऽदर्शनाद्देशान्तरे सत्त्वमास्थीयते । दोषदूषितं चक्षुः शुक्तिशकल-मात्रसन्निकृष्टमपि विप्रकृष्टरजतात्मना तदा दर्शयतीति को दोष इति ॥ एतदप्ययुक्तम् ॥ सत्त्वेऽपि रजतस्यासदेव रजतं प्रत्यभादित्यनुभवविरोधात् । अत्रासत्त्वेऽप्यन्यत्र सत्त्वमङ्गीक्रियत इति चेन्न । अत्र प्रतीतस्यैवान्यत्र सत्त्वे मानाभावात् ।
वाक्यार्थचन्द्रिका
तत्रासतः सज्ज्ञानाधीनत्वात्सत्पक्षस्य तत्रापि बहिःसत्त्वनिरासाधीन-तयाऽन्तःसत्त्वसिद्धेर्हैतुकपरिगृहीततया च बलवत्त्वाद्बहिःसत्त्वपक्षस्य प्रथमोपस्थिततया प्रथमनिरसनं युक्तमित्याशयेनाह ॥ तत्रेति ॥ ननु न तावद्रजतं पुरोदेशे सत् । अदर्शनात् । नापि देशान्तरे । प्रमाणाभावादित्यतो विमतं रजतं देशान्तरे सत्पुरोऽसत्त्वे सति सत्त्वात्संमतवदिति विवक्षितं परिशेषानुमानं स्थिते चैवमित्यादिना वक्तुं तत्र विशेष्यासिद्धिशङ्कायां विमतं सत्तथा प्रतीयमानत्वादिति विवक्षितानुमाने शुक्तिरजततादात्म्यादौ व्यभिचारशङ्कायामुत्सर्गापवादविषये व्यभिचारचोदनमतिप्रसङ्गकरमित्युपोद्घातेनाह ॥ यद्धीति ॥ यद्वा प्रमाणाभावात्कथं सत्त्वमित्यतो विमतं सत्तथा प्रतीयमानत्वादिति विवक्षितानुमाने उक्तरीत्या व्यभिचारशङ्कानिरासकत्वेन यद्धीत्यादिग्रन्थं योजयित्वा तर्हि प्रवृत्तस्य कथं रजताप्राप्तिः कथं वा भ्रमत्वाद्युपपत्तिरित्याशङ्कानिरासकत्वेन स्थिते चेत्यादिग्रन्थो योजनीयः । ननु तर्हि बाधक-सद्भावाद्रजतमप्यपवादविषय एवास्त्वित्यतो बाधकस्य तादात्म्यसंसर्गविषयकत्वेनान्यथासिद्धिं वक्तुं तादात्म्यसंसर्गारोपभेदेन भ्रमविषयं तावन्निरूपयति ॥ तथा चेति ॥ नन्वेवं विषयव्यवस्था न युक्ता नियामकाभावादित्यतो नियामकोक्तिपूर्वं तामाह ॥ तत्रेति ॥ इदंकारास्पदस्य चेति दृष्टान्ततयोपात्तं संवादेति ॥ बाधोत्तरमपि पुरोवर्तिप्राप्तेरिव देशान्तरे रजतस्यापि प्राप्तेरित्यर्थः ॥
विसंवादाच्चेति ॥ शुक्तिरजततादात्म्यसंसर्गयोः कदाऽपि कुत्राप्यप्राप्तेरित्यर्थः । बाधक-सत्त्वासत्त्वयोर्विषयसत्त्वासत्त्वप्रयोजकत्वे संमतिमाह ॥ यथोक्तमिति ॥ यावत्तावदित्यवधारणे । ननु बाधाभावोऽसिद्धो नेदं रजतमित्यस्यैव रजतबाधत्वादित्याशङ्कते ॥ न चेति ॥ तादात्म्येत्यतःपूर्व-मसत्त्वेनोभयसंमतेति शेषः । बाधकस्यैकदेशविषयत्वकल्पना युक्तेत्यत्राभियुक्तसंमतिमाह ॥ यथाऽऽहुरिति ॥ न्यायविदो लाघवगौरवन्यायविदः । न चैवं बाधकस्य रजतमात्रविषयकत्वमस्तु लाघवस्यैवमप्यनु-ग्रहादिति वाच्यम् । रजतस्य सत्त्वे तत्तादात्म्यासत्त्वोपपत्तावपि रजतस्यैवासत्त्वे तत्तादात्म्यसत्त्वस्य कथमप्यनुपपत्त्या बाधकस्योभयविषयकत्वावश्यंभावेन गौरवापरिहारात् । संवादविसंवादसद्भावस्योक्त-त्वाच्च । अत्रैव युक्त्यन्तरमप्याह ॥ किञ्चेति ॥ रजतस्य सत्त्वे तद्धर्मभूतस्यासतोऽपि तादात्म्यस्य सदुपरक्ततया भानोपपत्तावपि धर्मिभूतरजतस्यैवासत्त्वे न कथमपि प्रतिभासोपपत्तिरिति भावः । ननु तर्हि प्रथाप्रतिभासं पुरोदेश एव रजतस्य सत्त्वापत्त्या बाधाद्यनुपपत्तिरित्यत आह ॥ स्थिते चैवमिति ॥ नन्वेवं रजतज्ञानस्यापरोक्षत्वानुपपत्तिः । विप्रकृष्टेन सन्निकर्षासंभवेन रजतसन्निकर्षाजन्यत्वात् । न च शुक्तिसन्निकर्षजन्यतया तस्यापरोक्षत्वमिति वाच्यम् । तथा सति तज्ज्ञाने रजतप्रतिभासानुपपत्तेरित्यत आह ॥ दोषेति ॥ भाष्यकारेण स्थलान्तरे स्फुटोदितम् । अन्यथा विज्ञानमित्यत्रापि सूचितं दोषं रजतस्य सत्त्वाङ्गीकारे दर्शयति ॥ सत्त्वे सतीति ॥ अनुभवेऽन्यथासिद्धिमाशङ्कते ॥ अत्रेति ॥ मानाभावादिति ॥ न च पुरोदेशेऽसत्त्वेऽपीति सत्त्वं तस्यान्यत्र सत्त्वे प्रमाणमुपन्यस्तमिति वाच्यम् । तत्रैव हेतुविशेष्यासिध्द्यर्थमनुभवविरोधोपन्यासात् । तद्बलेनानुभवसङ्कोचे च विरोधाभावात्पुरोऽ-सत्त्वेनान्यत्र सत्त्वसिद्धिस्तत्सिद्धौ चैतत्सङ्कोचसिद्धिरिति परस्पराश्रयापत्त्याऽनुभवसङ्कोचाय प्रमाणान्तरमेव वक्तव्यम् । तच्च नोपपद्यत इति भावः । अत एव प्रमाणान्तरनिरासानन्तरमनुभवविरोधेन तदप्यतिदेशेन निरस्यतीति द्रष्टव्यम् ।
परिमल
तत्रेति ॥ एवं सिद्धे सतीत्यर्थः । केचित् प्राचीनतार्किकाः ॥ इदंकारेति ॥ इदंत्वास्पदस्येत्यर्थः । परिहीयतां परित्यज्यताम् । सत्त्वेन नाङ्गीकार्यमित्यर्थः । न केवलं बाधस्यान्यथो-पपत्त्या रजतासत्त्वे मानाभावात्सत्त्वमुपेयम् । किन्तु प्रतीत्यन्यथोपपत्त्या चेत्याह ॥ किं चेति ॥ तावता देशान्तरे सदिति कुत इत्यत आह ॥ स्थिते चैवमिति ॥ अदर्शनादिति भावः ॥ तदिति ॥ शुक्तिशकलमादर्शयतीत्यर्थः ॥
यादुपत्यम्
आरोप्यस्य रजतादेरन्यत्र सत्त्वे पुरोदेशेऽसत्त्वे सति सत्त्वादिति परिशेषं प्रमाणं विवक्षुस्तत्र विशेष्यासिद्धिवारणाय तस्य सत्त्वं तावत्साधयति ॥ यद्धि यथेत्यादिना ॥ संवादसद्भावाच्चेति ॥ रजतमिति सामान्याकारेण प्रतीत्यन्तरसद्भावादित्यर्थः । देशान्तरे रजतप्राप्तिरूपसंवादसद्भावादित्यर्थ इत्यप्याहुः । आरोप्यस्य सत्त्वेऽर्थापत्तिमप्याह ॥ किं चेति ॥ अनुभवविरोधादिति ॥ तथा च सत्त्वसाधकानुमानार्थापत्त्योर्बाधितविषयत्वमिति भावः ॥ मानाभावादिति ॥ तथा च नासत्त्वप्रतीतेः सङ्कोचो युक्त इति भावः ।
श्रीनिवासतीर्थीया
असंभवि च यावत्त्विति ॥ रजततादात्म्यस्य रजतत्वसंसर्गस्य च सत्वं न संभवतीति । तावत्तावतः । सत्त्वं संपरिहीयतां त्यज्यतामित्यर्थः ॥ एकदेशेति ॥ तादात्म्यमात्रेत्यर्थः । अनुभवस्य सङ्कोचमाशङ्कते ॥ अत्रेति ॥ पुरोदेश इत्यर्थः ।
वाक्यार्थरत्नमाला
तत्रेत्यस्य शुक्ते रजतत्वेनावभासवादिष्वपीत्यर्थं मनसि कृत्वा केचि-दारोप्यमाणं रजतं सदेवातिष्ठन्त इत्युक्ते तेष्वित्यनेन वक्ष्यमाणमतद्वयस्यापि समुपस्थितत्वात् तेषु मध्ये सत्त्वपक्षस्यैव प्रथमतो निराकरणं कुत इत्याशङ्कोदेति तां परिहर्तुं समत्वपक्षात्सत्त्वपक्षस्य प्राथम्ये हेतुं वदन् प्रसङ्गाल्लाघवाय च सत्त्वमतद्वयेऽपि पूर्वानन्तर्ये हेतुं वदन्नवतारयति तत्रेति । सदसत्पक्षद्वयमध्य इत्यर्थः । अधीनेति । अभावस्य भावनिरूप्यत्वादिति भावः । सत्पक्षस्येत्यस्य प्रथमोपस्थिततया प्रथमं निरसनं युक्तमित्युत्तरेण सम्बन्धः । अनेनैवोभयविधसत्त्वपक्षनिरासानन्तर्यवक्ष्यमाणासत्त्वपक्ष-निरासस्योपपादितं भवति । अत एवोत्तरत्र सत्पक्षनिरासानन्तरमित्येव तृतीयमतनिरासोपक्रमेऽव-तारयिष्यति । एवमसत्त्वपक्षापेक्षया सत्त्वपक्षद्वयस्य प्रथमोपस्थितिमुपपाद्य सत्त्वपक्षद्वयेऽपि बहिःसत्त्व पक्षस्य प्रथमोपस्थितत्वे हेतुद्वयमाह तत्रापीति । निरसनं युक्तमिति । अन्तःसत्त्वपक्षापेक्षया बहिःसत्त्वपक्षस्य प्रथमोपस्थितत्वादित्यादिनैव बहिःसत्त्वनिराकरणानन्तरमन्तःसत्त्वनिराकरणं तदनन्तरं चासत्त्वपक्षनिराकरणमिति क्रमश्च सूचित इति ज्ञेयम् । संमतवदिति । देशान्तरस्थघटादिवदित्यर्थः । सत्तथेति । अनेन यथेत्यस्य सत्त्वेनेत्यर्थः सूचितः । शङ्कायां तत्परिहाराय विवक्षितं वक्तुमिष्टं यदनुमानं सत्त्वरूपविशेष्यसाधकं तत्रानुमान इति योज्यम् । उपोद्घातेनेति । अनेन तदनुमानानन्तरमेव तादात्म्यादौ व्यभिचारशङ्कायाः परिहर्तव्यतेति शङ्का निराकृता भवति । स्थिते चेत्यादिग्रन्थस्य बाधकान्तरपरिहारपरत्वेन योजनायां स्वारस्यमिति मत्वा यद्धीत्यादिग्रन्थोक्तानुमानमेव सत्त्वसाधकत्वेन प्रवर्तयन् बाधकान्तरानुवादपूर्वकं तन्निरासार्थत्वमुत्तरग्रन्थस्येति योजनीयमित्याह यद्वेति । अनेन रजतस्य सत्त्वं कुत इत्याशङ्कापरिहारकमनुमानं बहिरेव विवक्षितम् । तत्र व्यभिचारपरिहाराय यद्धीत्यादिग्रन्थ इति योजितं भवति । एवमुत्तरग्रन्थयोजनापि द्रष्टव्या ।
तादात्म्यसंसर्गेति । तादात्म्यं च संसर्गश्च तादात्म्यसंसर्गौ तयोरन्यतरविषयत्वेनेत्यर्थः । तादात्म्यसंसर्गारोपेति । तादात्म्यारोपः संसर्गारोपश्चेत्यारोपभेदानुसारेण द्विप्रकारतया प्राप्तं भ्रमविषयमित्यर्थः । एवमिति । भ्रमविषयेषु मध्ये तादात्म्यसंसर्गयोरेवापवादविषयत्वं रजतरजत-त्वेदंकारास्पदानां तु न तदित्येवं वक्ष्यमाणतया बुद्धिस्था व्यवस्थेत्यर्थः । तां विषयव्यवस्थाम् । इदंकारास्पदस्य सत्त्वं सर्वसंमतत्वान्नोपपादनमर्हतीत्यत आह इदंकारेति । संवादस्याप्रतीतेस्तं व्याचष्टे बाधोत्तरमपीति । यथा सत्यरजतस्थले इदं रजतमिति ज्ञानस्य पुरोवर्तिरजतप्राप्तिरूपः संवादोऽस्ति
तथा अत्र प्रतीतस्य रजतस्य देशान्तरस्थतया तत्र रजते तद्देशान्तरे प्रवृत्तिरूपो विजातीयः संवादोऽस्तीत्यर्थः । विसंवादो नाम संवादाभावः । संवादश्च पुरोवर्तिदेशे वा देशान्तरे वा नोभयथापि तादात्म्यसंसर्गयोः सोऽस्तीत्याह शुक्तिरजतेति । अवधारण इति । यावदेवासम्भवि तावदेव परिहीयतामिति योज्यम् । एतच्च यावदित्यवधारणकार्त्स्न्यार्थमित्याव्रत्त्वनिर्वचनस्थलीयोक्तिव्याख्यावसरे प्रागेवोपपादितमस्माभिः । प्रकृतानुगुणतया कारिकास्थं न्यायविद इत्येतदनूद्य व्याचष्टे न्यायविद इति । लाघवमूलकन्यायबलेन रजतं विहाय तत्तादात्म्यमात्रविषयकबाधकप्रत्ययस्येत्यङ्गीकारे लाघवस्यैवमपि सम्भवाद्रजतमात्रविषयकत्वं बाधकप्रत्ययस्येत्यङ्गीकृत्य तत्तादात्म्यविषयकत्वं नेत्यपि स्वीक्रियता-मित्याशङ्कते न चैवमिति । रजतस्येति । अयमर्थः । तादात्म्यमात्रासत्त्ववादिना मम मते युक्तं लाघवम् । तादात्म्यासत्त्वस्य रजतसत्त्वेऽप्युपपत्त्या तदसत्त्वार्थं रजतासत्त्वस्यानपेक्षणात् । रजतमात्रा-सत्त्वपक्षे तु न लाघवम् । रजतस्यैवासत्त्वे तत्तादात्म्यस्यासत्त्वानुपपत्त्योभयोरपि सत्त्वप्राप्त्या गौरव प्राप्तेरिति । संवादेति । रजतांशे देशान्तरीयतत्प्राप्तिरूपविजातीयसंवादसत्त्वेन तदंशे भ्रमत्वानुपपत्त्या विजातीयसंवादशून्यतादात्म्यसंसर्गांश एव भ्रमत्वमित्युक्तत्वादित्यर्थः । अत्रैवेति । रजततादात्म्य-मात्रस्यासत्त्व एवेत्यर्थः । प्रतिभासो नामासतः सदुपरक्ततया भानं विवक्षितम् । तच्चासतस्तादात्म्यस्य रजतरूपसदुपरक्ततया वाच्यम् । तच्च रजतस्य सत्त्वपक्ष एव सम्भवति । धर्मिणः सत्त्वे सति धर्मस्या-सतोऽपि कथञ्चिद्भानसम्भवात् । धर्मिणस्त्वसतो भानमेव न सम्भवति । धर्मित्वादेवासदन्तराभावेन तदुपरक्ततया भानायोगाच्चेत्याशयमाह रजतस्येति । स्थलान्तर इति । असदेव रजतं प्रत्यभादित्यनु-भवादिति तत्त्वनिर्णय इत्यर्थः । अन्यथासिद्धिमिति । अन्यथाघटनामित्यर्थः । उपन्यस्तमिति । तन्मतोपन्यासावसरे स्थिते चैवमित्यनेनेत्यर्थः । विशेष्येति । सत्त्वरूपेति योज्यम् । अनुभवः सदेव रजतमित्येवंरूपः । उक्तानुमानविरोधेन नानुभवसङ्कोचः पुरोदेशेऽसदिति स्वीक्रियतेऽतो न तद्विरोध इत्यत आह तद्बलेनेति । अनेनोक्तानुमानातिरिक्तप्रमाणाभावादिति मूलं व्याख्यातं भवति । उक्तानुमान-स्यानुभवविरोधेन दूषणं मूलसंमतमित्याह अत एवेति । प्रमाणान्तरं भ्रान्त्यनुभवादिरूपम् । तदपीति । देशान्तरे सत्त्वसाधकमनुमानमपि विशेष्यासिध्यैतेन यद्यथावभासत इत्यादिना निरसिष्यतीत्यर्थः ।