११ न्यायकल्पतरुक्ताख्यात्यनुवादनिरासौ

विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्

न्यायकल्पतरुक्ताख्यात्यनुवादनिरासौ

विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्

सुधा

अन्यस्तु मन्यते । गृह्यमाणयोर्भेदाग्राहिसविकल्पकमेकमेव विज्ञानं भ्रमः । तथा हि । रजतसंस्कारदोषसचिवमिन्द्रियं शुक्तिशकलसन्निकृष्टं रजतशुक्तीदमंशविषयं तत्संसर्गासंसर्गा-वनवगाहमानमेकमेव सविकल्पकज्ञानमुत्पादयति । तथा च तयोरेकविज्ञानोपारोहिणोर्भेदा-ग्रहादयथार्थव्यवहारः । तन्निरासादेव विवेकज्ञानं बाधकमित्युच्यते । न पुनरन्यदन्यात्मना प्रतीयत इति ॥ तदिदमनुपपन्नम् ॥ विवेकाग्रहः किं सर्वत्र प्रवृत्तिहेतुरुतात्रैवेति प्रागुक्तदोषाणा-मशेषाणामविशेषात् । किञ्च प्राभाकराणां वेदप्रामाण्यसिध्द्यङ्गतयाऽस्त्यख्यातिस्वीकारे प्रयोजनमिति विद्यते भ्रमः; कणभक्षाक्षचरणपक्षपातिना त्वतस्मिंस्तदिति प्रत्ययोविपर्यय इति पूर्वाचार्यवचनमनादृत्य परमतप्रमोषः कस्मादिष्यते । असत्ख्यातिपरिहारार्थमिति चेन्न तथा सत्ययथार्थव्यवहारस्यापि परिहारप्रसङ्गात् । न ह्यसत्प्रत्येतुमशक्यं शक्यं तु व्यवहर्तुमित्यत्र कारणविशेषोऽस्ति । व्यवहारः प्रतीतिसिद्ध इति चेत्तत्किं विशिष्टप्रत्ययो न प्रतीतिसिद्ध इत्यलम् ॥ ननु विपर्ययाभ्युपगमे कथं वेदप्रामाण्यसिद्धिः । वेदजनितप्रत्ययेऽपि विपर्ययशङ्काप्रसरात् । सर्वस्यापि विज्ञानस्य याथार्थ्ये तु नेयं शङ्कावकाशमासादयतीति । मैवम् । तथा सति विवेकाग्रहस्याप्य-नङ्गीकार्यत्वापातात् । तथा हि । न तावद्वेदवाक्यं पदार्थेषु प्रमाणम्, तेषामन्यतोऽधिगतत्वात् । नापि संसर्गे; विनाऽपि संसर्गग्रहमसंसर्गाग्रहेणैव व्यवहारान्पश्यतो वेदजनितविज्ञानेऽपि शङ्काप्रसरात् । अपौरुषेयत्वादिना सा निरसिष्यत इति चेत्; किं तर्हि; सकललोकावसितविपर्यासनिरासेन तच्छङ्काया अपि तत एव निराकर्तुं शक्यत्वात्; इति सिद्धमेतच्छुक्ती रजतत्वेनावभासत इति ।

वाक्यार्थचन्द्रिका

न्यायकल्पतरूदितमख्यातिमतान्तरमुत्थापयति ॥ अन्यस्त्विति ॥ एकज्ञानत्वोक्त्या प्राभाकरमताद्भेदसिद्धिः । निर्विकल्पकेऽनतिव्याप्तये सविकल्पकमिति । नेदं रजतमित्यतो व्यावृत्तये भेदाग्राहीति । घट इत्याद्येकवस्तुग्राहिविज्ञानव्यावृत्तये गृह्यमाणयोरिति । ननु शुक्तिसन्निकर्षजन्य ज्ञानस्य रजतेनेन्द्रियस्य सन्निकर्षाभावेन तदजन्यत्वात्कथं तद्विषयता । न च संस्कारतस्तथा । तथात्वे रजतज्ञानस्य स्मृतित्वापातेन नैकज्ञानता । संस्कारस्येन्द्रियसहकारित्वे च प्रत्यभिज्ञावदेकत्वादन्यथा-ख्यात्यापत्तिरित्यत आह ॥ तथा हीति ॥ संसर्गाविषयकत्वे कथं संसर्गविषयकव्यवहार इत्यत आह ॥ तथा चेति ॥ एवं व्यवहारान्यथाऽनुपपत्तिं निरस्य बाधकत्वान्यथाऽनुपपत्तिमन्यथाख्यातौ प्रमाणत्वेनोक्तं विघटयति ॥ तदिति ॥ विवादविषयं स्पष्टमुद्घाटयति ॥ न पुनरिति ॥ ज्ञानस्वप्रकाशत्वस्याभावस्य धर्म्यात्मकतायाश्चानभ्युपगमेन कोऽयं भेदो नामेत्यादिविकल्पदोषाप्राप्तेर्विकल्पं विशिनष्टि ॥ विवेकाग्रह इति ॥ एतन्मतासाधारणं दोषमाह ॥ किञ्चेति ॥ वेदप्रामाण्यसिध्यङ्गत्वं च नन्वित्यादिवक्ष्यमाणशङ्काग्रन्थे स्पष्टम् । भ्रमत्वोक्तिस्तु तथा सतीत्यादितत्परिहाराभिप्रायेण । दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानाना-मुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति द्वितीयसूत्रस्थवार्तिकवचनमतस्मिंस्तदिति । मिथ्याज्ञान-मनेकप्रकारकम् । तद्यथा नित्येऽनित्यमिति निर्भये सभयमिति भाष्यमादिपदेनोपादत्ते । अपसिद्धान्त इत्यनुक्त्वा परमतप्रमोष इति वदता ‘वध्यतां वध्यतां बालो नानेनार्थोऽस्ति जीवता । स्वपक्षहानकर्तृत्वाद्यः कुलाङ्गारतां गत’ इति न्यायविषयतासूचनमुखेनापसिद्धान्तः सूचितो भवति । न तावत्पूर्वाचार्यवचनानादरो विशिष्टप्रत्यये साधकाभावात्तस्यानुभवसिद्धताया उपपादितत्वादिति व्यवहारप्रतिबन्दीमुखेन वक्तुं शङ्कामुत्थापयति ॥ असदिति ॥ तर्हि व्यवहारस्यापि परिहर्तव्यत्वात्तद्गतिकथनाय भेदाग्रहोक्त्यनुपपत्तिरित्याह ॥ नेति ॥ नापि बाधकसद्भावात्तदनादरस्तदभावादित्याशयेन बाधकं शङ्कते ॥ नन्विति ॥ अख्यातिमतत्रयेऽप्यस्यान्यथाख्यातिबाधकत्वेनाभिमतत्वात्सर्वशेषताज्ञापनाय मतत्रयनिरासान्ते तदभिमतं बाधकमाशङ्क्य निराकृतमिति ध्येयम् । एवञ्च पक्षद्वये सत्यपि साम्येऽर्धजरतीयं कुर्वता न केवलं पूर्वाचार्यवचनविरोधः सकललोकानुभवविरोधश्चाधिकः संपादितो न तु लाघवमित्याशयेनोक्तं सकलेति । आरोप्यमाणसत्त्वासत्त्वविचारस्यारोपसिध्यधीनत्वादवसर-सङ्गत्योत्तरविचाराम्भ इत्याशयेनाख्यातिमतत्रय- निराससिद्धं फलमाह ॥ सिद्धमिति ॥

परिमल

तार्किकैकदेशिमतमनूद्य निराह ॥ अन्यस्त्विति ॥ गृह्यमाणयोरिति ॥ ज्ञायमानयोरित्यर्थः । तेन स्मर्यमाणारोपस्य संग्रहः । नत्वनुभवविषययोरित्यर्थः । रजतसंस्कारेत्यग्रेतन-ग्रन्थविरोधात् ॥ तत्संसर्गासंसर्गाविति ॥ रजतस्य शुक्तीदमंशस्य च तादात्म्यभेदावविषयीकुर्वदित्यर्थः ॥ अयथार्थव्यवहार इति ॥ अन्यार्थिनोऽन्यत्र प्रवृत्तिरन्यस्यान्यात्मनाभिलपनं चेत्यर्थः । तन्निरासादेव भेदाग्रहनिरासादेव ॥ सर्वत्रेति ॥ सत्यस्थलेऽपीत्यर्थः ॥ अत्रैवेति ॥ भ्रमत्वेन विमतस्थल एवेत्यर्थः ॥ प्रागुक्तेति ॥ प्राभाकरमतदूषणोक्तिप्रस्तावे किमयमेव व्यवहारो भेदाग्रहादन्यस्त्वभेदग्रहात् । उत सर्वोऽपि भेदाग्रहात् । नाद्यः । अनियतकारणतापातादित्यादिनोक्ताद्यपक्षदोषाणां नन्वस्तु तर्हि द्वितीयः पक्ष इत्यादिनाऽनूद्योक्तद्वितीयपक्षदोषाणां चाशेषाणामविशेषादित्यर्थः ॥ कणभक्षाक्षचरणेति ॥ कणादाक्षपादपक्षपातिनेत्यर्थः ॥ प्राभाकराणां वेदप्रामाण्यसिध्द्यङ्गतयाऽस्त्यख्यातिस्वीकारे प्रयोजनमिति विद्यते भ्रम इति प्रागुक्तं शङ्कोत्तराभ्यां व्यनक्ति नन्वित्यादिति शक्यत्वादिनीत्यन्तेन ॥ अन्यत इति ॥ प्रत्यक्षादितोऽधिगतत्वादित्यर्थः । इह खलु केचिद्यथार्थं सर्वं विज्ञानमिति मन्यमाना नान्यथाख्यातिं सहन्त इत्यादिनैतावत्पर्यन्तेन ग्रन्थेन सिद्धार्थमनुवदति ॥ सिद्धमेतमिति ॥ किं तदित्यत आह ॥ शुक्तिरिति ॥ अन्यदन्यात्मनाऽवभासत इत्यस्योपलक्षणमेतत् । उक्तं प्रमेयं क्वचित्स्थलविशेषे प्रतिपादयितुं शुक्ती रजतत्वेनेति विशिष्योक्तिः ॥

यादुपत्यं

तार्किकैकदेशिमतमपाकर्तुमनुवदति ॥ अन्यस्त्विति ॥ गृह्यमाणयोरिति ॥ अत्रैकं विज्ञानं विभ्रम इत्यन्यथाख्यातिमतवैलक्षण्यसूचनायोक्तम् । निर्विकल्पकव्यावृत्तये सविकल्पकमिति । नेदं रजतमिति बाधव्यावृत्तये भेदाग्राहीति । अयं घट इति ज्ञानमपि पटादिप्रतियोग्यनुपस्थितिदशायां ततो भेदाग्राहि भवत्येव । अतस्तद्-व्यावृत्तये गृह्यमाणयोरिति ।

श्रीनिवासतीर्थीया

गृह्यमाणयो रजतेदमंशयोः । तयो रजतशुक्तीदमंशयोः । उपारोहिणोरूपारूढयोः । विषययोरिति यावत् । अन्यथा व्यवहारो रजतार्थिनः शुक्तिकायां प्रवृत्तिरित्यर्थः । इदमुक्तं भवति । एतन्मते पुरतः प्रतीयमानं रजतमिदंपदार्थवत्सदेव । तदुभयविषयकं ज्ञानमप्येकमेव । एकज्ञानविषययोरिदंपदार्थरजतयोर्भेदाग्रहादयथार्थव्यवहारोऽयतार्थप्रवृत्तिर्भवति । एकज्ञानविषययोर्भेदाग्रहप्रसञ्जितायथार्थव्यवहारनिरासकत्वादेव नेदं रजतमिति विवेकज्ञानं बाधकमित्युच्यते । बाधकत्वप्रसिध्द्या चैकज्ञानविषययोरिदंपदार्थरजतयोर्विवेकाग्रहादेव तदुभयविषयकैकज्ञानस्य भ्रान्तित्वमिति लोकप्रवादः । तथा च प्राभाकरमते ज्ञानद्वयमेतन्मते तु ज्ञानमेकमित्येव भेदः । तज्जन्यप्रवृत्तेरयथार्थत्वादेव तज्जनकमेकमिदं ज्ञानं भ्रमरूपमित्युच्यते । वस्तुतस्तु न भ्रमरूपं ज्ञानमस्तीत्येवं पूर्वमतैतन्मतयोर्ज्ञान-द्वित्वज्ञानैकत्वाभ्यामेव विशेष इति द्रष्टव्यम् ॥ प्रागुक्तविकल्पदोषाणामिति ॥ सविकल्पकोच्छेदा-दृष्टकल्पनादिदोषाणामित्यर्थः ॥ वेदप्रामाण्यसिद्धीति ॥ अहो बत महानेष प्रमादो धीमतामपि । ज्ञानस्य व्यभिचारित्वे विश्वासः किं निबन्धन इति तद्वचनादिदं रजतमिति ज्ञानस्याप्रामाण्ये वेदजन्यज्ञानेऽपि अप्रामाण्यशङ्का स्यादतस्तत्परिहाराय ज्ञानमात्रं यथार्थमित्यङ्गीकृत्यान्यथाख्यातिर्न स्वीकृतेत्यर्थः । भ्रम आग्रहविशेषः । कणभक्षः कणादः । अक्षचरणोऽक्षपादः । परमतप्रमोषोऽख्याति-स्वीकारेण प्राभाकरमतचौर्यम् ॥ असत्ख्यातीति ॥ रजतस्यासत्त्वाङ्गीकारेऽसतोऽपि ख्यातिः प्रतीतिः प्रसज्यते । सा च न युक्ता । यदसत्तन्न प्रतीयत इति नियमादसतः प्रतीत्यन्यथाऽनुपपत्त्या रजतस्य सत्त्वमङ्गीकृतमित्यर्थः ॥ नन्वसत्ख्यात्यभावेऽसद्विषयकप्रवृत्त्यभावः कुत इत्यत आह ॥ न हीति ॥ तत्किमिति ॥ एतावन्तं कालं शुक्तिकाशकलमेव रजतत्वेनाज्ञासिषमित्युत्तरकालीनानुभव-बलेनात्यन्तासद्रजतात्मकतया शुक्त्यवगाहिभ्रमरूपविशिष्टज्ञानमप्यनुभवसिद्धमेवेत्यर्थः ॥ पदार्थेष्विति ॥ पदार्थविषयकप्रमाजनकमित्यर्थः । अन्यतः प्रत्यक्षानुमानाच्च । तथा चानधिगतार्थगन्तृत्वाभावाद-प्रामाण्यमिति भावः । संसर्गे संसर्गविषयकप्रमाजनकमित्यर्थः । व्यवहारान् इदं रजतमित्यादीन् ॥ शङ्केति ॥ वेदजन्यज्ञानात्प्रवृत्तिस्तावद्भवति । सा प्रवृत्तिरपि भ्रमस्थल इवासंसर्गाग्रहादेव भवतु । न विशिष्टज्ञानादित्येवं तत्रापि शङ्का स्यादित्यर्थः ॥ सेति ॥ वेदजन्यज्ञानादपि प्रवृत्तिरसंसर्गाग्रहादेव भवतु न विशिष्टज्ञानादिति शङ्केत्यर्थः ॥ तच्छङ्काया अपीति ॥ विपर्ययाङ्गीकारपक्षेऽपि वेदजनितविज्ञाने विपर्ययशङ्काया अपौरुषेयत्वेन निराकर्तुं शक्यत्वादिति भावः ॥ रजतत्वेनेति ॥ अत्यन्ता-सद्रजतात्मकत्वेनेत्यर्थः ॥

वाक्यार्थरत्नमाला

न्यायकल्पतर्विति । अनेन सविकल्पकरूपैकज्ञानत्वादित्वेऽपि ज्ञान-स्वप्रकाशत्वाद्यनङ्गीकारेऽपि च न्यायमतादवान्तरविशेषादुत्तरत्र न्यायमतनिरासेऽपि प्राभाकराद्यख्याति-मतेन समानदूषणत्वादिहैवातिदेशेन तद्दूषणे सौकर्यमित्याशयेनात्रैव निराकरणम् । अन्यथा नैयायिक-मतनिराकरणानन्तरं तदेकदेशिमतनिरासः स्यादिति सूचितं भवति । तदुक्तविभ्रमलक्षणे पदकृत्यमाह एकज्ञानत्वोक्तयेत्यादिना । भेदसिद्धिरिति । एकपदत्यागे प्राभाकराभिमतज्ञानद्वयेऽतिव्याप्तिः स्यात्तत्परिहारायैकपदमित्यर्थः । शिष्टं स्पष्टम् । तथेति । रजतेनेन्द्रियस्य सन्निकर्ष इत्यर्थः । नैकज्ञानता स्यादिति शेषः । प्रत्यभिज्ञावदिति । सोऽयं देवदत्त इत्यादि प्रत्यभिज्ञावदित्यर्थः । विवादविषयमिति । एवंविधाख्यातिमतस्यैकसविकल्पकज्ञानरूपान्यथाख्यातिमतेऽपि सत्त्वात्कृतं विवादेनेत्यत इति शेषः ।

विवेकाग्रहपक्षे प्रागुक्तयावद्दूषणातिदेशमकृत्वा कतिपयदूषणातिदेशे निमित्तं वदन्नुत्तरवाक्य-मवतारयति ज्ञानस्वप्रकाशत्वस्येति । कोऽयं भेदः स्वरूपमित्यादिनाऽनेकधा विकल्पान्कृत्वा दूषणा-न्युक्तानि । तत्र यदि प्रागुक्तविकल्पदोषाणामित्येव ब्रूयात्तर्हि स्वप्रकाशत्वाद्याश्रयणेनापि निराकृत-विकल्पानां तद्दोषाणां चातिदेशो विज्ञायेत । न चासौ तदनङ्गीकारिणं प्रति युज्यते । अतोऽत्रैतन्मतानु-सारेणैव प्रवर्तनीयविकल्पस्य तद्दोषस्य चातिदेश इति वाच्यम् । तदर्थं च विकल्पपदेन विकल्प-विशेषोपस्थित्यर्थं विवेकाग्रहः । किं सर्वत्र प्रवृत्तिहेतुरुतात्रैवेति विकल्प इति विकल्पस्य विशेषणं कृतमित्यर्थः । प्रागुक्तदूषणातिदेशमात्रेण तन्मतनिरासाभिप्राये तावन्मात्रमेव दूषणमेतन्मते आयाति । यच्चापि दूषणान्तरमायाति तत्प्राभाकरमतेऽपि सम्भवतीति भ्रान्तिद्वयनिराकरणायैतन्मते असाधारण-दूषणं कथयन्तीत्याह एतन्मतेति । वक्ष्यमाणेति । अनुपदमेव वक्ष्यमाणेत्यर्थः । अख्यातिस्वीकारे प्रयोजनमिति कुतो भ्रम इत्यत आह भ्रमत्वोक्तिस्त्विति । तत्परिहारेति । नन्वित्यादिशङ्कापरिहारेत्यर्थः। अतस्मिंस्तदिति प्रत्ययो विपर्यय इत्युक्तिः । कस्य पूर्वाचार्यस्येत्यत आह दुःखजन्मेति । आदिपदोक्तां मुक्तिं तत्पूर्वाचार्ये चाह मिथ्याज्ञानमिति । न्यायविषयतेति । अपसिद्धान्तस्य दूषणतां स्फोरयितुं न्यायविषयत्वसूचनमिति भावः । वध्यतां वध्यतामिति वचनं तु हिरण्यकशिपोः प्रह्लादविषये दूतान्प्रति वचनम् । न तावदिति । विद्यमानमपि पूर्वाचार्यवचनमनादृत्य मतान्तरमाद्रियत इत्यत इति शेषः ।

अवसरेति । प्रतिबन्धकजिज्ञासात्वेनाख्यात्यादिमतानुसारेणारोपाभावसिद्धेः कथमारोप इति जिज्ञासा अभूत् । तन्मतनिराकरणेन तस्य जिज्ञासायां निवृत्तायां प्र्रतिबन्धकजिज्ञासापगमरूपावसर-सङ्गत्येत्यर्थः । इत्याशयेनेति । तदभावं वक्तुमिति शेषः । ननु वेदप्रामाण्यानुपपत्तिरूपं बाधकं विपर्ययाङ्गीकारे प्राभाकरेण रामानुजेन च वक्तुं शक्यमिति तन्मतयोरेतच्छङ्कातत्परिहारौ मूले कुतो न प्रवर्तितावित्यत आह अख्यातिमतत्रयेऽपीति । एवंप्रकारेण दूषणदानस्य तत्रतत्रोपलम्भात् । अत एवानेकविकल्पनिराकरणस्थले चरमविकल्पनिराकरणावसरे सर्वपक्षसाधारणदूषणदानं कुर्वन्ति । …………………………….दृष्टत्वात् ।