१० रामानुजाख्यातिनिरासः

विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्

रामानुजाख्यातिनिरासः

विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्

सुधा

तथा हि ॥ यानि तावच्छुक्तिकादिषु रजतादिसद्भावे श्रुतिपुराणसूत्राणि पठितानि तानि तेजोबन्नादीनां मिश्रतामभिदधति; न पुना रजतादीनां शुक्तिकादौ सद्भावम् । न हि कारणसद्भावे कार्यस्य सद्भावो नियतो येनोपपत्त्याऽपीममर्थं प्रतीमः । तथात्वे वा शुक्तौ रजत-वत्सर्वस्यापि प्रतीतिः प्रसज्येत । अदृष्टादिवशान्नैवमिति चेन्न कार्यनिश्चयोत्तरकालीनत्वादस्याः कल्पनायाः ॥ श्रुतार्थापत्तिस्त्वत्यन्तायुक्ता । तथा हि । पूतिकादौ सोमाद्यवयवा भूयांसः कल्प्यन्ते, उत समाः, अथाल्पीयांसः । आद्ये सोम एवासौ; तत्कथमनुकल्पः स्यात् । न हि सोमोऽपि केवलः सोमः; किन्तु सोमांशभूयस्त्ववान् । न द्वितीय उभयदर्शनप्रसङ्गात् । तृतीयं तु कथं सोमकार्यं कुर्यात् । अन्यथा शुक्तिकाऽपि कुतो रजतार्थक्रियां न कुर्यात् । श्रुतिप्रामाण्यात्तदर्थ-क्रियाकारिताऽवगम्यत इति चेत् । किं तर्हि सोमावयवकल्पनया । श्रुतिप्रामाण्यादत्यन्त-विविक्तानामेव वस्तूनामर्थक्रियासाम्यमुपगम्यताम् ॥ सादृश्यं च सामान्यं वा धर्मान्तरं वा नान्योन्यावयवसंयोग इति वक्ष्यामः । किञ्च घृततैलयोरन्योन्यसदृशयोरन्योन्यावयवसंयोगा-दन्योन्यार्थक्रियया भाव्यम् । न भाव्यं च विसदृशयोर्द्रव्ययोः । किञ्च मातृमातङ्गमदिराद्यतिसादृश्यं भार्यादिष्वप्यस्तीति तदुपभोगो प्रत्यवायः स्यात् । अल्पावयवसंयोगान्नैवमिति चेत् कथं तर्हि नीवारा व्रीहिकार्यं कुर्युः । श्रुतिप्रामाण्यादिति वदतो दत्तमुत्तरम् । अपरावयवसंयोग एव सादृश्यं चेत् कथं ककारखकारयोः सादृश्यमिति चिन्त्यम् ।

वाक्यार्थचन्द्रिका

तथा हीति परोक्तसर्वयुक्तीनामयुक्तत्वविशदनं प्रतिज्ञाय प्रथमयुक्ते-स्तावदयुक्ततामुपपादयति ॥ यानीति ॥ आदिपदेन पुराणोक्तमहदादितत्त्वसंग्रहः । तथा चास्माकं तत्त्वे तत्त्वान्तरभ्रमस्य अभावात् । तत्त्वसाक्षात्कारवतां योगिनां च भ्रमस्यैवानुपपत्त्याऽस्मदादि-भ्रमविषयशुक्तिरजतादौ चैतत् श्रुत्यादेरप्रयोजकत्वात्तदुदाहरणमसङ्गतमिति भावः । ननु श्रुत्यादेः साक्षाच्छुक्त्यादौ रजतादिसद्भावनियमात्पार्थिवशुक्त्यादेरपि त्रिवृत्कृतपृथिवीकार्यतया शुक्त्यादौ तेजोंऽशस्य सत्त्वात्तैजसरजतसद्भावोऽपि तत एव सिध्द्यतीत्यत आह न हीति ॥ ननु पाञ्चभौतिकेष्वपि पार्थिवेषु किञ्चित्कार्यं केनचिद्भूतेन परिणामविशेषवताऽऽरब्धम् । तत्र यादृशपरिणामविशेषवद्यद्भूतप्रचुरं किञ्चित्कार्यं तादृशपरिणामविशेषवत्तद्भूतं कार्यान्तरेऽपि । यद्यपि त्रिवृत्करणदशायामवान्तरपरिणामविशेषो नास्ति तथाऽपि त्रिवृत्करणेन कार्यानुप्रविष्टस्य भूतस्य कार्यान्तरानुप्रविष्टसमानपरिणामसंभवात् । तथा च येन तेजोभूतेन प्रचुरेण परिणामविशेषवता रजतमारब्धं तत्परिणामविशेषवत्तेजोभूतं शुक्त्यादौ विद्यत इति शुक्त्यादौ रजतादिसद्भावसिद्धिः । तथा त्रिवृत्करणेन शुक्त्याद्यन्तर्गततेजोंशस्य शुक्लभास्वररूपेण परिणामवतो रजतसादृश्याद्रजतावयवत्वमुपपन्नम् । रजतावयवसदृशाकारत्वमेव हि रजतावयवत्वं न तु रजतादिभ्य आनीय निवेशितत्वम् । गेहस्थापणस्थरजतयोरपीदमेव सादृश्यम् । पूतिकादिषु प्रतीयमानसोमलताद्यवयवानां संप्रतिपन्नसोमलतावयवसदृशाकारत्वमेव सोमलताद्यवयवत्वम् । एवं च शुक्त्यादौ रजतावयवसिद्धिः । अयं च पक्षः शुक्त्यादौ रजतादिसद्भावप्रतिपादनप्रसङ्गात्कथितः प्रथमपक्ष एव च प्रथमयुक्तिदूषणावसरे सङ्गतः । तथा च कथं न शुक्त्यादौ रजतसद्भावसिद्धिरिति चेत्तर्हि त्रिवृत्कृतत्वादेव शुक्तौ नानापरिणामविशेषवदंशस्य नानापरिणामविशेषवत्सुवर्णादितेजोंऽशस्य नानापरिणामविशेषवत्पाषाणादिपृथिव्यंशस्य तत्तत्सदृशावयवानां च सत्त्वाच्छुक्तौ रजतस्येवान्यस्य सर्वस्य प्रतीतिप्रसङ्ग इत्याह ॥ तथात्वे वेति ॥ सिद्धे शुक्त्यादौ सर्वकार्यसद्भावे रजतादिप्रतीतिविशेष-नियामकतयाऽदृष्टकल्पना तस्यां च सत्यामतिप्रसङ्गाभावात्तसिद्धिरिति परस्पराश्रयतेत्याशयेनाह ॥ कार्येति ॥ एवमाद्यसाधकं निरस्य किञ्चेत्युक्तसाधकस्वरूपं दर्शयन्नेव तदनुपपत्तिं प्रतिजानीते ॥ श्रुतेति ॥ अदृष्टादिवशाच्छुक्तेरेव प्रतीतिरित्यादि समाधानाभासोत्प्रेक्षायाः पूर्वत्र संभावनावदत्र तथाभूतोत्प्रेक्षाया अप्यसंभव इत्याशयेनात्यन्तपदं वक्ष्यमाणरीत्या प्रसक्तप्रकारेष्वेकस्याप्यनुपपत्त्या श्रुत्यनुसारेण चावयवकल्पनारूपमूलस्यैव हानापत्त्या वैतत्साधकस्यात्यन्तायुक्तत्वम् । ननु पूतीकावयवानामपि सत्त्वाद्युक्तं सोमानुकल्पत्वमित्यत आह ॥ न हीति ॥ अनेनार्थापत्तावाक्षेपकासिद्धिरुक्ता भवति । उभयेत्यनेनानिष्टप्रसङ्ग उक्तो भवति ॥ तृतीये त्विति ॥ तदर्थक्रियाप्रयोजकतदंशभूयस्त्वस्या-भावादुपपादकमप्रयोजकमिति भावः ।

नन्वंशभूयस्त्वतदभावौ नार्थक्रियातदभावप्रयोजकावपि त्वनुकल्पबोधकश्रुतिरेवेति नीवारादौ तत्सद्भावाच्छुक्तिकादौ च तदभावान्नानुपपत्तिरिति शङ्कते ॥ श्रुतीति ॥ किं तर्हीति ॥ अनेनाक्षेपकान्यथा-सिद्धिरुक्ता भवति । अपि चेत्युक्तसाधकनिरासाय परोक्तसादृश्यस्वरूपं खण्डयति ॥ सादृश्यं चेति ॥ सामान्यादिरूपत्वोक्तिमात्रेणान्योन्यावयवसंयोगरूपतानिषेधलाभ इत्याशयेन वक्ष्याम इत्युक्तम् । सामान्य-परीक्षादाविति शेषः । अश्वादिवृत्तिरासभसादृश्यस्याश्वत्वात्परत्वे सर्वाश्वानां रासभसादृश्यापत्त्याऽपरत्वे च रासभेऽप्यश्वत्वापत्त्या जातिसङ्करप्रसङ्गात्कथं सादृश्यस्य सामान्यत्वम् । अश्वरासभादिद्रव्यगुणावयव-कर्मवृत्तिसामान्यानामेव सादृश्यत्वेऽश्वो रासभसदृश इत्यादिव्यवहाराणाममुख्यत्वापत्तिरिति बाधकं मनसि निधाय धर्मान्तरं वेत्युक्तम् । गौर्गवयसदृशीत्याद्यनुभवेन सादृश्यरूपधर्मान्तरस्य सिद्धत्वादित्याशयः । अस्तु वाऽन्योन्यावयवसंयोगरूपसादृश्यं तथाऽपि तत्कल्पनार्थक्रियोपयुक्ततया वाऽर्थक्रियोपयुक्तत्वमंशभूय-स्त्वस्यैव सादृश्यं तु तदवयवसद्भावमात्रकल्पकमित्याशयेन वा । नाद्य इत्याह ॥ किञ्चेति ॥ तैलघृतादावन्योन्यार्थक्रियाकारित्वमस्त्येवेति विप्रतिपद्यमानं प्रत्यलौकिकतया तादृग्विप्रतिपत्तिशङ्काशून्य-मतिप्रसङ्गमाह ॥ किञ्चेति ॥ द्वितीयं शङ्कते ॥ अल्पेति ॥ कथं तर्हीति ॥ नीवारेषु व्रीह्यवयवभूयस्त्वे तेषां व्रीहिस्वापत्तेरित्युक्तत्वादिति भावः । ननु नीवाराणां व्रीहिकार्यकारित्वे व्रीह्यवयवसंयोगरूपतत्सादृश्यं न प्रयोजकं येन घृतादावतिप्रसङ्गापत्तिः । नापि तदवयवभूयस्त्वं येन व्रीहित्वापत्तिः किन्तु तदवयव-भूयस्त्वशून्यानामपि तेषां केवलं श्रुतिबलादेव तत्कार्यकारित्वमतो नानुपपत्तिरिति चेत्तर्ह्यत्यन्तविविक्तानामेव तेषां श्रुतिबलात्तदर्थक्रियाकारितोपपत्तौ नान्योन्यावयवसंयोगरूपसादृश्यतदवभूयस्त्वादिकल्पना युक्तेत्याशये नाह ॥ श्रुतीति ॥ चिन्त्यमिति ॥ आलङ्कारिकादिशास्त्रसिद्धस्य तस्यापलापानर्हत्वादिति भावः ॥

परिमल

ननु तेजोऽबन्नरूपकारणानां मेलनेन सर्वकार्येषु तेजोऽबन्नकारणसत्त्वे तत्कार्याणामपि सर्वत्र सत्त्वमनुमीयत इत्यत आह ॥ कारणसद्भाव इति ॥ कार्येति ॥ सर्वत्र सर्वावयवसत्त्वरूप-कार्यनिश्चयेत्यर्थः ॥ अनुकल्प इति ॥ ‘कस्यचिन्मुख्यस्याभावेऽमुख्यस्यान्यस्योपादानमनुकल्प’ इति मीमांसकैः परिभाष्यते । ननु सोमलाभे समग्रसोमावयवलाभोऽस्ति । भूयः सोमावयववतोऽन्यस्योपादाने तु सकलसोमावयवालाभेनामुख्यत्वादनुकल्प एवायमित्यत आह ॥ न हीति ॥ सोमेऽपि त्वदुक्तत्रिवृत्करणप्रक्रियया द्रव्यान्तरावयवसत्त्वादिति भावः ॥ श्रुतीति ॥ ‘सोमाभावे पूतिकानभिषुणु-यादि’ति श्रुतिप्राभाण्यादित्यर्थः । यद्यपि चेत्यादिना प्रत्यक्षमुक्तं तदपि निराह ॥ सादृश्यं चेति ॥ न्यायमतेनाह ॥ सामान्यं वेति ॥ स्वमतेनाह ॥ धर्मान्तरं वेति ॥ वक्ष्याम इति ॥ वैशेषिकाधिकरणे । ‘न सर्वधर्म एकोऽस्ति समुदायस्तु भिन्नगः । एतादृशं च सादृश्यं पदार्थेषु पृथक्पृथक्’ इत्याद्यनु-व्याख्यानव्याख्यावसर इति भावः ॥ भार्यादिष्विति ॥ भार्यायां मातृसादृश्यम् । पितृगुरुप्रभृतिषु मातङ्गशब्दितचण्डालसादृश्यम् । घृतक्षीरादौ मदिराशब्दितमद्यसादृश्यमस्तीत्यर्थः ॥ ककारखकारयोरिति ॥ निरवयवत्वात्तयोरिति भावः । न च तत्र सादृश्यमेव नेति वाच्यम् । ‘वर्ग्यो वर्गेण सवर्ण’ इति शीक्षाग्रन्थविरोधादिति भावः ॥

यादुपत्यं

ननु पाञ्चभौतिकेष्वपि पदार्थेषु किञ्चित्कार्यं केनचित्प्रचुरेण भूतेन परिणामविशेषवता आरब्ध तत्कार्यं यादृशपरिणामयुक्तं यद्भूतप्रचुरं तादृशपरिणामवतो भूतस्य कार्यान्तरेष्वपि विद्यमानत्वात्तेषु तथाविधतत्तद्भूतप्रचुरतत्कार्यविषयबुद्धिरुपपद्यते । अतो रजतादीनां शुक्तिकादौ सद्भावस् त्रिवृत्करण-पञ्चीकरणाभिधायिश्रुत्यादिप्राप्त एव । यथोक्तम् । ‘शुक्त्यादौ रजतादेश्च भावः श्रुत्यैव बोधित’ इति । अतः कथमेतदित्यत आह ॥ न हीति ॥ नियत इति ॥ कारणान्तराभावेन कार्याभावसंभवादिति भावः ॥ अदृष्टादीति ॥ अत्रादिपदेन साधारणाकारग्रहणभेदाग्रहणदोषा गृह्यन्ते ॥ कार्यनिश्चयेति ॥ अदृष्टदोषादेः कार्यैकोन्नेयत्वात्कार्यस्वरूपस्य चेदानीमप्यनिर्धारितत्वान्नादृष्टादिकल्पकमत्रास्तीत्युक्ताति-प्रसङ्गस्तदवस्थ एवेति भावः ॥ धर्मान्तरं चेति ॥ अन्याघटितं जातिवदखण्डरूपमिति समयपादे वक्ष्याम इति भावः ॥ न भाव्यं चेति ॥ भारनयनरूपबलीवर्दार्थक्रियारूपविशेषेणापि भवति । सा न स्याद् इत्यर्थः ॥ ककारेति ॥ वर्णानां निरवयवत्वादित्यर्थः ।

श्रीनिवासतीर्थीया

ननु तेजोऽबन्नानां कारणानां मिश्रत्वात्तत्कार्ये शुक्त्यादावपि रजतावयव-मिश्रता प्राप्तैवेत्यत आह ॥ न हीति ॥ कारणसद्भावे कारणे मिश्रतासद्भावे । कार्यसद्भावः कार्ये मिश्रतासद्भावः । निमित्तान्तराभावेन कार्येऽभावसंभवादित्याशयः । श्रुतार्थापत्तिः सोमाभावे पूतिकं गृह्णीयादिति श्रुतार्थापत्तिरित्यर्थः । आनुकूल्यः प्रतिनिधिः । सोमांशानां भूयस्त्वे कुतः सोमत्वमित्य-तस्तदुपपादयति ॥ न हीति ॥ केवलः सोमांशभूयस्त्वरहितः ॥ किं त्विति ॥ तथा च तत्सोमांश-भूयस्त्वं पूतिकेऽपि चेदङ्गीकृतं तर्हि पूतिकस्यापि सोमत्वमेव प्राप्तं न तु तत्प्रतिनिधित्वमिति भावः ॥ उभयेति ॥ शुक्त्यवयवानां रजतावयवानां च दर्शनप्रसङ्ग इत्यर्थः ॥ अन्यथेति ॥ सोमांशा-नामल्पीयस्त्वेऽपि पूतिकस्य यदि सोमकार्यकारित्वमुच्यते तर्हि शुक्तिकायां रजतांशानामल्पीयस्त्वेऽपि रजतकार्यकारित्वं स्यादित्यर्थः ॥ श्रुतीति ॥ सोमाभावे पूतिकं गृह्णीयादिति श्रुतीत्यर्थः ॥ तदर्थक्रियेति ॥ सोमोचितार्थक्रियाकारित्वं पूतिकस्यावगम्यत इत्यर्थः । शुक्तिकायास्तु न रजतोचितार्थक्रियाकारित्वम् । तत्र श्रुत्यभावादिति भावः । अत्यन्तविविक्तानां परस्परवयवसंबन्धशून्यानाम् । वस्तूनां सोमपूतिकादीनाम् । यदपि चेत्यादिना प्रत्यक्षमुक्तं तन्निरासायाह ॥ सादृश्यं चेति ॥ अन्योन्यावयवसंयोगात् त्वन्मतेऽन्योन्यावयवसंयोग सद्भावादित्यर्थः । मातृसादृश्यं भार्यायां मातङ्गश्चण्डालस्तत्सादृश्यं पितरि मदिरासादृश्यं क्षीर इति द्रष्टव्यम् ॥ अल्पेति ॥ भार्यादौ मात्राद्यवयवा अल्पा एव सन्तीति न तदुपभोगे प्रत्यवाय इत्यर्थः ॥ नीवारा इति ॥ तेष्वपि सोमावयवानामल्पीयसामेव सत्त्वादित्यर्थः । बहूनां समानां वा सद्भावे दोषस्योक्तत्वादिति भावः । पूतिके सोमावयवानामल्पानां सद्भावेऽपि तत्कार्यकारित्वं श्रुतिप्रामाण्यात्संभवतीति चेत्तत्राह ॥ श्रुतीति ॥ दत्तमिति ॥ अत्यन्तविविक्तानामेवेत्यादिनेत्यर्थः ॥ अपरावयवसंयोग एवेति ॥ नान्योन्यावयवसंयोगोऽतः किञ्च घृतेत्यादिनोक्तातिप्रसङ्गो नेति भावः ॥ ककारेति ॥ स्पर्शाक्षरत्वेन सादृश्यसद्भावादिति भावः ॥

वाक्यार्थरत्नमाला

तथा हीतीति । तथा रामानुजोक्तयुक्तीनामयुक्तत्वं हि प्रसिद्धमित्यर्थकेन तथा हीत्यनेनेत्यर्थः । अनेन परोक्तसर्वयुक्तीनामयुक्तत्वप्रसिद्धिं प्रतिजानीते तथाहीत्यवतारं सूचयति । आदिपदेनेति । तेजोबन्नादीनामित्यादिपदेनेत्यर्थः । अस्माकमिति । तत्त्वसाक्षात्कारशून्या-नामित्यनेनाधिष्ठानं प्रधानज्ञानाभावरूपो भ्रमाभावे हेतुरभिहितः । तथापि तत्त्वसाक्षात्कारवतां योगिनां भ्रमः स्यादित्यत उक्तं तत्त्वेत्यादि । अनेन श्रुतिपुराणादिकं किं तत्त्वे तत्त्वान्तरसंयोगसद्भावे प्रमाणमुत प्रकृतशुक्तयादौ रजतादिभ्रमोपयोगिनि शुक्तयादौ रजतादिसद्भावे; आद्येऽपि स भ्रमः किमस्मदादीनामुत योगिनामिति विकल्प्य, नाद्यो ऽस्मदादीनां तत्साक्षात्कारस्यैवाभावात् । न द्वितीयः । योगिनां भ्रान्तेर-भावात् । नापि प्रथमद्वितीयः । तत्रास्यानुपयोगादिति योजनां सूचयति । मूले सोमादीति प्रकृतत्वेऽपि सोम एवेति सोममात्रग्रहणं व्रीह्याद्युपलक्षणाभिप्रायेण । आक्षेपकासिद्धिरुक्ता भवतीति नीवारेष्विति चोत्तरवाक्यव्याख्यावसरेऽस्य विशिष्यते चेदं स इति । रजतादिसद्भाव इत्यर्थः । कथं तत्र तत्सद्भाव-सिद्धिरित्यतस्तमुपपादयति श्रुत्यादिनेति (श्रुत्यादेरिति) । शुक्तयादावित्यनन्तरं त्रिवृत्कृतपृथिवी-सत्त्वेनेति शेषः । प्रतिपादित इत्यस्य प्रतिपादनादित्यर्थात्तद्बलेन शुक्तयादौ त्रिवृत्कृतपृथिवीसत्त्वेन तेजोंशसत्त्वमित्यत उक्तं त्रिवृत्त्वस्यापि सत्त्वात् तत एव तैजसरजतसद्भावोऽपि सिध्यतीति सम्बन्धः । शुक्तयादौ कुतः पृथिवीसत्त्वमित्यत उक्तं कारणस्य कार्ये सत्त्वनियमादिति ।

तावतापि कुतः पृथिवीसत्त्वमित्यत उक्तं पार्थिवेति । पृथिवीकार्येत्यर्थः । पृथिवीसत्त्वेऽपि कुतस्तेजोंशसत्त्वमित्यत उक्तं त्रिवृत्कृतपृथिवीति । एवं च त्रिवृत्कृतत्वसिध्यर्थं श्रुत्यादिकमिति परम्परया शुक्तयादौ रजतादिसद्भावे श्रुत्यादिकं प्रमाणमित्युक्तं भवति । न हीतीति । श्रुत्यादिप्रतिपादितत्रिवृत्त्वोपेतपृथिवीकार्यशुक्तयादावस्तु नामकार्ये कारणसद्भावोऽपि नियतो भवतु । न तावतापि रजतसद्भावः शुक्तयादौ सिध्यति । न च त्रिवृत्कृतपृथिवीरूपकारणसत्त्वे तेजोंशसिध्या तत्कार्यमपि तत्र सिध्यतीति वाच्यम् । यत्र यत्र कारणं सत् तत्र तत्कार्यमपि सदित्येवं कारणसत्त्वे कार्यसत्त्वनियमाभावेन क्वचित्तेन कारणेन स्वकार्यजननेऽपि शुक्तयादौ सत्यपि तस्मिंस्तकार्याभावो-पपत्त्या श्रुत्यादेः परम्परयाऽपि शुक्तयादौ रजतादिसद्भावावेदकत्वं नायातीति मूलार्थः । कारणसद्भावः कार्ये चेदङ्गीकृतस्तर्हि तत्कारणेन जायमानं कार्यमपि कार्ये प्राप्तमेव । अन्यत्र तेन कारणेन स्वकार्य-करणात् । न च स्थलान्तरे तस्य स्वकार्यजनकत्वे तदन्यत्रापि तज्जनकत्वे नियामकाभावेन कार्ये तत्कार्यनियमो नेत्युक्तमिति वाच्यम् । यत्र तत्कारणं यादृशं स्वकार्यकारितयाऽवधृतं तादृशस्यैव तस्य कार्यान्तरानुप्रवेशे तत्रापि स्वकार्यकारिताया अवर्जनीयत्वात् । ततश्च शुक्तयादौ रजतरूपकार्यकारितया स्थलान्तरेऽवधृततेजोभूतांशस्य सत्त्वे रजतोत्पत्तिः सम्भवत्येवेत्याद्याशङ्कामुत्थाप्य तन्निवर्तकतयोत्तर-वाक्यमवतारयति ननु पाञ्चभौतिकेष्वपीति । अत्र त्रिवृत्करणपक्षस्यैव परोपन्यासानुसारेण प्रकृतत्त्वेऽपि वस्तुतः समानन्यायतयाऽभ्युच्चयेन सर्वत्र कार्यसद्भावोपपादनाय पाञ्चभौतिकेष्वपीत्युक्तम् । अन्यथा पार्थिवाप्यतैजसेऽपीत्यवक्ष्यत् । अत एव प्रकृताभिप्रायेण यद्यपीत्याद्यधिकमुपपादनमित्यदोषः । किञ्चिदित्यादि । किञ्चित्पार्थिवं कार्यं शैलतर्वादिपृथिवीरूपभूतेन शैलाद्याकारपरिणामविशेषवता आरब्धम् । तत्र तदानीमिति यावत् । तत्किंञ्चिच्छैलादिकार्यं शैलादिपरिणामविशेषवत्पृथिव्याख्यभूत-प्रचुरं जातम् । एवं यदा प्रचुरपृथिवीभूतस्य कार्यप्रवेशो जातस्तदैव तत्पृथिवीभूतमप्रचुरं यत्राबादिप्रचुरे सरिदादौ तिष्ठति तत्रापि शैलादिपरिणामविशेषवदेव स्वयमस्ति । पार्थिवं शैलादिकं जनयित्वा तत्रानुप्रविष्टपृथिवीभूतस्याबादिगतस्य चैकत्वादित्याशयः । ननु यदा त्रिवृत्करणं जायते तदा शैलादि-परिणामविशेषवत्वं पृथिवीभूतस्य नास्त्येव । तदानीमेवोत्तरपरिणामविशेषस्याभावात्तथाच कथं कार्यान्तरानुप्रविष्टस्यापि परिणामविशेषवत्वमित्युच्यत इत्याशङ्कते यद्यपीति । तद्दशायामवान्तर-परिणामाभावेऽपि तदुत्तरं तत्परिणामसत्त्वेन तत्परिणामकाल एव तत्परिणामवद्भूतस्य कार्यान्तरेऽपि सत्त्वं सम्भवत्येवेति परिहरति तथापीति । त्रिवृत्करणेनेति । भूतस्य स्वकार्यजनकता त्रिवृत्करणा-धीना । तथा च त्रिवृत्करणेन तदनन्तरमिति यावत् कार्यविशेषारम्भकतया कार्यानुप्रविष्टस्येति योज्यम् । कार्यान्तरेऽनुप्रविष्टं यत्तदेवभूतं तत्समानपरिणामसम्भवो नाम स्वयं प्रचुरं सद्यत्कार्यानुप्रविष्टं तत्र कार्ये कार्यान्तरगताप्रचुरस्य यः परिणामस्तेन समानो यथा स्यात्तथा परिणामस् तत्सम्भवादित्यर्थः । परिणामसम्भव इत्येव वक्तव्ये सम्भवादिति पञ्चमी ततश्च युक्तं तादृशस्यैव कार्यान्तरेऽपि सत्त्वमिति पूर्वत्र हेतुत्वाभिप्रायेण । एवं च त्रिवृत्करणदशायामवान्तरपरिणामविशेषाभावेऽपि त्रिवृत्करणेन कार्यानुप्रविष्टेत्यादेः सम्भवादित्यन्तम् । विद्यत एवेति पूर्वप्रतिज्ञोपपादकत्वेन योजनीयम् । सम्भव इत्येव पाठस्तु यथाश्रुत एव ।

एवं सामान्यतोभूतस्थितिमभिधाय शुक्तयादावपि रजतसद्भावोपपादकतया तदुपयोगमाह एवं चेति । तेजोभूतं हि प्रचुरं तैजसपदार्थभूतरजतारम्भकम् । तथा च तदारम्भोपयोगिपरिणामविशेषवद्यदा प्रचुरं तेजोभूतं भवति । तदैव शुक्तयादिगताप्रचुरस्य तस्य तथाविधः परिणामविशेषोऽस्त्येव । प्रागुक्तसमानपरिणामत्वयुक्तेः । तथा च रजतारम्भोपयोगिपरिणामविशेषे सति तेजोभूतेनान्यत्र स्थले रजतारम्भवच्छुक्तिकादावपि विद्यमानेन तेन तदारम्भाच्छुक्तयादौ रजतसद्भावसिद्धिरित्यर्थः । प्रकारान्तरेऽपि शुक्तयादौ रजतादिसद्भावमुपपादयति तथा त्रिवृदिति । एतत्पक्षोपन्यासस्यासङ्गतिं स्वयमेव परिहरिष्यति । पार्थिवेऽपि शुक्तयादौ त्रिवृत्करणेन निमित्तेन त्रिवृत्कृतपृथिवीरूपकारण-सत्त्वेनेति यावत् । प्राप्तो यस्तेजोंशस्तस्येति योजना । त्रिवृत्करणेनेत्येतत्सादृश्यादित्यत्रापि सम्बध्यते । रजतसादृश्यं च रजतावयवसादृश्यादित्युत्तरग्रन्थादेव स्पष्टम् । कथं तदवयवसादृश्यमात्रेण तदवयवत्व-मित्यतः पारिभाषिकमेतदित्याह रजतावयवेति । सदृशाकारत्वमेव हीति । प्रमाकरणत्वमेव हि प्रमाणत्वमितिवत्प्रमाकरणत्वमितिवच्चेदमुपपाद्यम् । शुक्तयाद्यन्तर्गतस्य तेजोंशस्येत्यनुवर्तते । अवयवत्व-मित्यनन्तरं विवक्षितमिति शेषः । एवकारव्यावर्त्यमाह नत्विति । उक्ततेजोंशस्य रजतावयवत्वं तदवयवसदृशकारणत्वादेवोपपन्नम् । न तु तस्य तदवयवत्वोक्तया रजतादानीय शुक्तयादौ निवेशितत्वं विवक्षितमिति योजनान्न कश्चित्क्षुद्रोपद्रवः । रजतादिभ्य इत्यादिपदं स्थलान्तरेऽप्यारोपोपपादनमुक्त-रीत्यैव द्रष्टव्यमित्याशयेन । ननु शुक्तिकादिगततेजोंशे रजतावयवसदृशाकारत्वरूपसादृश्याद्रजतावयव-त्वमित्युक्तमसत् । सादृश्यस्य तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्वरूपत्वात् । गेहस्थापणस्थरजतयोः सादृश्ये तद्गतभूयोधर्मवत्वरूपत्वस्यैव दर्शनात् । न चेहोक्ततेजोंशे रजतावयवगतभूयोधर्मवत्वं सम्भवति । गेहस्थापणस्थरजतयो रजतत्वादिभूयोधर्मवत्ववदुक्ततेजोंशे रजतावयवगतरजतावयवत्वादि-धर्मबाहुल्याभावादित्यत आह गेहस्थेति । इदमेव शुक्लभास्वररूपेण सदृशाकारत्वमेवेत्यर्थः । तावन्मात्रेणैव सदृशव्यवहारोपपत्तौ तद्गतभूयोधर्मवत्त्वानुसरणस्य व्यर्थत्वात् । तथाच रजतावयवत्वादि-धर्मवत्त्वाभावेऽपि शुक्तयादिगततेजोंशस्य शुक्लभास्वररूपेण रजतावयवसादृश्यसम्भवाद्रजतावयव-सदृशाकारत्वरूपं सादृश्यं सम्भवतीति भावः ।

शुक्तयादिगततेजोंशे रजतावयवत्वोपपादनप्रकारेणैव पूतिकाद्यवयवानां सोमलताद्यवयवत्वमुप-पादयति पूतिकादिष्विति । प्रतीयमानसोमेत्यस्य सोमलताद्यवयवत्वेन प्रतीयमानानां पूतिकाद्यवयवा-नामित्यर्थः । शुक्तयादिगततेजोंशे रजतावयवत्वं पारिभाषिकं यथाश्रितमेवं सोमलताद्यवयवत्वमपि पूतिकाद्यवयवानां पारिभाषिकमेव । न तु सोमलताभ्य आनीयनिवेशितत्वमित्यर्थः । एवमुक्ततेजोंशे रजतावयवत्वोपपादनं यत्कृतं तत्फलमाह एवं चेति । प्रतीतेर्यथार्थत्वोपपादकशुक्तयादौ रजतसद्भाव-प्रतिपादनायोपन्यस्तश्रुत्यादिनिराकरणावसरे श्रुत्यादिबलादागतरीतेरेवोपन्यसनीयत्वेऽपि सादृश्य-युक्तेरपि च वस्तुनो वस्त्वन्तरेति युक्तौ कथञ्चित्सङ्गतत्वेऽपि इडासङ्गत्योपन्यासायोग इत्याशङ्का-परिहारायाह अयं च पक्ष इति । एवमपि शुक्तयादौ रजतावयवसद्भावेन रजतसद्भावोपपादनं कथञ्चित्कर्तुं शक्यमिति प्रकारान्तरसम्भवः प्रसङ्गादुक्त इत्यर्थः । अतो नासङ्गतिः शङ्कनीयेति भावः । प्रथमपक्ष एवेति । कार्यान्तरेऽपि किञ्चित्कार्यानुप्रविष्टपरिणामविशेषवत्तेजोभूतमस्तीति तत्कार्यरजतसिद्धिरिति । प्रथमपक्ष इत्यर्थः । प्रथमयुक्तीति । श्रुत्यादिरूपेत्यर्थः । तथा चेति । उक्तरीत्या रजतकारण-तेजोभूतांशस्य शुक्तयादौ सत्त्वेन विशिष्टकारणसद्भावे कार्यनियमेन रजतसद्भावसिद्धिरित्यर्थः । उत्तर-वाक्यार्थस्य स्पष्टमप्रतीतेस्तदर्थं कथयन्नेवोत्तरवाक्यमवतारयति तर्हीति । रजतकारणपरिणाम-विशेषवत्तेजोंशस्य शुक्तयादौ सत्त्वेन तत्कार्यरजतसद्भावमङ्गीकृत्य तत्र तत्प्रतीतिरित्यङ्गीकार इत्यर्थः । अंशस्येति त्रयस्य सत्त्वादित्यनेन सम्बन्धः । प्राक्प्रसङ्गात्प्रकारान्तरसम्भव उक्तस्तन्निराकरणमपि प्रसङ्गादेवोह्यमित्याशयेन तत्तत्सादृशावयवानां चेत्युक्तम् । एतेन प्रसङ्गात्कथितश्चेत्तन्निरासो मूले नास्तीति मूलमपूर्णमिति शङ्का गर्भस्रावेणैव निराकृतेति सूचितम् । कार्येति वाक्यं व्याकुर्वन्नेव तत्सूचितं दूषणं च दर्शयंस्तद्वाक्यमवतारयति सिद्ध इत्यादिना । आद्यसाधकमिति । श्रुत्यादिरूपमित्यर्थः । दर्शयन्निति । प्राक्किञ्चेत्यादिग्रन्थे श्रौतार्थापत्तित्वेन प्रमाणपर्यवसानं नोक्तमिति भावः । टीकाकृता त्वेतदुत्तरग्रन्थं मनसि कृत्वा पर्यवसानमुक्तमिति ज्ञेयम् । अत्यन्तपदमिति । अत्यन्तायुक्तमित्य-युक्तत्वेऽत्यन्तत्वमुक्तमित्यर्थः । अत्रापि श्रुतिप्रामाण्यादिति समाधानाभासोत्प्रेक्षास्तीति शङ्कानिरासाय प्रकारान्तरेणात्यन्तपदाभिप्रायमाह वक्ष्यमाणेति । पूतिकादौ हीत्यनुपदमेव वक्ष्यमाणेत्यर्थः । हान्यापत्त्या वैतत्साधकस्यात्यन्तायुक्तत्वमित्यस्य हान्यापत्त्याशयेन वा अत्यन्तायुक्तेत्यत्यन्तपदमित्यर्थः । तस्य चायुक्तत्वेऽत्यन्तत्वमुक्तमित्यर्थः । अनेनेति । एवं विकल्प्य भूयस्त्वपक्षस्य निराकरणेनेत्यर्थः ।

आक्षेपकेति । सोमाभावे पूतिकाग्रहणान्यथानुपपत्त्या पूतीके सोमावयवा इति कल्पितम् । तत्र सोमाभावे पूतीकग्रहणमित्येव त्वत्पक्षेऽसिद्धम् । उक्तरीत्या सोमावयवभूयस्त्वेन सोमवत्पृतिकस्यापि सोमत्वेन सोमत्वादेव सोमस्येव पूतिकस्यापि ग्रहणमिति प्राप्तत्वात् । तथा चोक्ताक्षेपकासिध्या तेन सोमावयवानां पूतिके कल्पनानुपपत्तिरित्युक्तं भवतीत्यर्थः । मूले उपलक्षणाभिप्रायेण सोम एवासा-वित्युक्तेष्टीकायामपि पूतिकावयवानामित्येवोक्तत्वेऽप्युपलक्षणया नीवारग्रहणं व्याख्येयम् । तदनु-सारेणाक्षेपकासिद्धिरपि नीवारे व्रीह्यवयवाक्षेपकव्रीह्यभावे नीवारग्रहणसिद्धिः । नीवारे व्रीह्यवयवानां भूयस्त्वेन व्रीहिवन्नीवारस्यापि व्रीहित्वादेव ग्रहणप्राप्तेरित्येवमुपलक्षणया व्याख्येया । अत एव कथं तर्हि नीवारा इत्येतद्भाववर्णनावसरे नीवाराणां व्रीहित्वापत्तेरुक्तत्वादिति वक्ष्यतीति ज्ञेयम् । समा इति द्वितीयदूषणेनापि लब्धमाह उभयेत्यनेनेति । कथं कुर्यादित्यस्याभिप्रायमाह तदर्थक्रियेति । कथमित्या-क्षेपे । न कुर्यादिति भावः सूचितोऽनेनेति ज्ञेयम् । तदंशाल्पत्वेऽपि तदर्थक्रियाकारित्वाभ्युपगमेऽति-प्रसङ्गमाह मूले अन्यथेति । सामान्यत्वधर्मान्तरत्वयोरेव वक्ष्यमाणत्वेऽपि तद्द्रव्यावयवसंयोगरूपता नेत्यस्य सामान्यपरीक्षायां वक्ष्यमाणत्वाभावात् कथं विशिष्टस्य वक्ष्यमाणत्वोक्तिरित्यतस्तदभिप्रायमाह सामान्यादीति । एवं च मुखतस्तद्द्रव्यावयवसंयोगस्य सादृश्यरूपता नास्तीत्यनुक्तावप्यर्थ-तस्तदुक्तिलाभान्न परोक्तस्य दूषणाभाव इत्याशयः । परीक्षादाविति । वैशेषिकाधिकरणस्थतत्परीक्षायाम् एतादृशं च सादृश्यमित्येतदनुव्याख्यानव्याख्यानव्याख्यानावसरे तथा आदिपदोक्त……………… पादस्थ…………………..नुव्याख्यानव्याख्यानावसरे चेत्यर्थः । सामान्यत्वपक्षेऽस्वरसं सूचयन् धर्मान्तरं वेत्येतदवतारयति अश्वादीति । अश्वत्वात्परत्वे इति । अश्वत्वव्यापकत्व इत्यर्थः । सर्वाश्वाना-मित्यनेन यत्राश्वत्वं तत्र रासभसादृश्यमिति प्राप्ते रासभासदृशाश्वेषु व्यभिचारः । तेषु सत्यप्यश्वत्वे तत्सादृश्याभावात्ततश्च न रासभसादृश्यस्याश्वत्वव्यापकता सम्भवतीत्युक्तं भवति । अश्वादिवृत्तीत्युक्तया रासभसादृश्याश्वत्वरूपपरस्परात्यन्ताभावसमानाधिकरणधर्मयो रासभसदृशाश्वव्यक्तिविशेषे समावेशोऽ स्तीति सूचितम् । आदिपदं प्रयुञ्जानेनैवमन्यत्रापि यत्र क्वचिद्व्यक्तिविशेषे किञ्चित्सादृश्यं तत्र व्यक्तिविशेषगतजातिमादाय व्यापकत्वं तत्सादृश्यस्य खण्डनीयमिति सूचयति । यद्वा रासभविशेषवृत्ति यदश्वसादृश्यं तस्य रासभत्वपरत्वापरत्वनिराकरणेन सङ्कराभिप्रायेणादिपदम् । वक्ष्यति चाश्वरास- भादीति परस्परसादृश्याभिप्रायेणेति ज्ञेयम् । सर्वाश्वानामित्यनेनैव रासभसादृश्यमप्यश्वव्यक्तिविशेष एवेति ध्वनयति अपरत्वे चेति । रासभसादृश्यस्याश्वत्वादिति वर्तते । तस्याश्वत्वव्याप्यत्व इत्यर्थः । रासभेऽपीत्यनेन रासभसादृश्यं रासभमात्रेऽस्ति नास्ति च तत्राश्वत्वमिति । यत्र सादृश्यं तत्राश्वत्वमिति व्याप्तेर्व्यभिचारान्न तस्य तद्व्याप्यता सम्भवतीत्युक्तं भवति ।

एवं रासभसादृश्यस्याश्वत्वव्यापकत्वव्याप्यत्वयोर्निरासे सति परस्परात्यन्ताभावसमानाधिकरण-योर्धर्मयोरेकत्रसमावेशरूपसङ्करलक्षणसत्त्वात्सङ्कराख्यं जातित्वरूपसामान्यत्वपक्षे बाधकं सिद्धमित्याह जातीति । अनेनोपाधिसङ्करो दोषो नेति वदन्तोऽप्यनुगृहीताः । ननु रासभसादृश्यस्याश्वत्वव्याप्यत्वं न ब्रूमः । अपि तु तद्व्यापकत्वमेव । न च रासभविसदृशाश्वेषु सत्यप्यश्वत्वे तत्सादृश्याभावा-द्व्यापकत्वानुपपत्तिरित्युक्तमिति वाच्यम् । अश्ववृत्तिरासभसादृश्यस्याश्वाख्यद्रव्यतदवयवतद्गुणकर्मादि- गतसामान्यरूपतया द्रव्यादिगतसामान्यानां चाश्वेऽपि सत्त्वेन तस्य तद्व्यापकत्वोपपत्तेरित्याशङ्क्य निषेधति अश्वरासभादीति । आदिपदेन रासभत्वं प्रत्यश्वसादृश्यस्याप्युक्तरीत्या सामान्यत्वमुप-पादनीयमिति सूचयति । अश्वरासभादिद्रव्यं च तद्गुणावयवकर्माणि च तेषु वृत्तीति योज्यम् । अमुख्यत्वापत्तिरिति । एवमश्वाख्यद्रव्यतदवयवगुणकर्मवृत्तिसामान्यानामेव सादृश्यत्वाङ्गीकारे गवादिद्रव्यतद्गुणतदवयवकर्मादिवृत्तिसामान्यानामपि रासभसादृश्यरूपतापत्तौ रासभसादृश्यस्याश्व इव गवादावपि प्राप्त्या अश्वो रासभसदृश इति व्यवहारस्य मुख्यत्वाभावापातात् । आदिपदोपादानेनोक्त-रीत्याऽश्वसादृश्यस्य रासभ इव गवादावपि प्राप्त्या रासभोऽश्वसदृश इति व्यवहारमुख्यत्वप्रसङ्ग इति सूचितम् । तया गोगवयादिस्थलेऽप्येवं प्रसङ्ग इति सूचितम् । अत एव व्यवहाराणामिति बहुवचनमिति ज्ञेयम् । अत्र मूलं समुदायस्तु भिन्नग इत्येतद्वैशेषिकपरीक्षास्थानुव्याख्यानमूले प्राभाकरास्त्वाहुरित्यादि-ग्रन्थोऽस्ति स इति ज्ञेयम् । धर्मान्तरासिद्धिरिति न शङ्कनीयम् । प्रमाणसिद्धत्वादिति मूलाभिप्रायमाह गौरिति । अन्योन्यावयवसंयोगस्य सादृश्यरूपत्वाभावोक्तयैव परपक्षदूषणसिद्धेस्तस्य सादृश्यरूपत्वपक्षे दूषणान्तराभिधानमुत्तरमूलेऽसङ्गतमित्यतो द्रव्याणामन्योन्यावयवसंयोगस्य सादृश्यपदार्थतामङ्गीकृत्यापि दूषणीयोत्तरमूलप्रवृत्तेर्नासङ्गतिरित्याशयेन तत्पक्षेऽपि सम्भावितविकल्पप्रदर्शनपूर्वकमाद्यपक्षनिरासक-तया किञ्च घृतेति ग्रन्थं योजयति अस्तु वेति । अर्थक्रियोपयुक्ततया वा तत्कल्पनेति सम्बन्धः । सादृश्यकल्पनेत्यर्थः । आशयेन वेत्यनन्तरं तत्कल्पनेति वर्तते । मूले विसदृशयोरिति । गजोष्ट्राश्व-बलीवर्दमाहिषेषु कयोश्चिद्विसदृशत्वेन व्यवह्रियमाणयोरित्यर्थः । एतेषां भारवहनरूपैककार्यकारितास्ति तथा न भवितव्यमिति सम्बन्धः । येनकेनचिद्रूपेण सादृश्यं तु सर्वत्र वक्तुं शक्यमिति भावः । एवं शुंठि-पिप्पलीलवङ्गादिषु वैद्यशास्त्रे प्रतिनिधितया हरीतक्यादिस्थाने औषधान्तरविधानेन तादृशैककार्यकारि-विसदृशद्रव्येषु च शैत्यादिदोषनिवारणादिरूपैककार्येण न भवितव्यमित्यादिरूपोऽप्यर्थो ज्ञेयः ।

विप्रतिपद्यमानं प्रतीति । अनेन घृततैलयोरप्यन्योन्यसादृश्यवदन्योन्यार्थक्रियाया अपि सत्त्वा-त्तदापादने इष्टापत्तिरित्याशङ्कानिरासाय तच्छङ्काशून्यमतिप्रसङ्गान्तरमाहेत्युक्तं भवति । तत्र तच्छङ्काभावः कुत इत्यत उक्तम् अलौकिकतयेति । मूले मातङ्गपदेन चण्डालो विवक्षितः । मात्राद्युपयोगे प्रत्यवायवद्भार्यापितृसोमाद्युपयोगे प्रत्यवायवद्भार्यापितृसोमाद्युपयोगेऽपि प्रत्यवायोऽस्त्येवेति विप्रतिपन्नो नास्ति । श्रुतिस्मृत्यादिना भार्याद्युपयोगस्य विहितत्वान्मात्राद्युपयोगस्य च निषिद्धत्वेनापाततस्तत्र शङ्कायाः कर्तुमशक्यत्वादित्यर्थः । एतेन तैलमातृमातङ्गमदिराद्यतिसादृश्यं घृतभार्यादिष्वस्तीत्येक-योक्तयैवातिप्रसङ्गदानं कुतो नेत्यपि निरस्तम् । तैलघृतस्थले लौकिकतया अन्योन्यार्थक्रियाऽस्त्येवेति शङ्कावकाशेऽपि मातृभार्यादिस्थले तदभावेन तद्वैषम्येन पृथक्करणोपपत्तेः । तदेतदप्युक्तं विप्रतिपद्यमानं प्रतीत्यादिनेति ज्ञेयम् । अल्पेतीति । अंशभूयस्त्वस्यैवार्थक्रियोपयुक्तत्वेन सादृश्यस्य चावयवसद्भाव-मात्रगमकत्वेन तैलमात्रादिसदृशेष्वपि घृतभार्यादिषु अन्योन्यावयवभूयस्त्वाभावान्नान्योन्यार्थक्रियाप्रसङ्ग इत्यर्थः । नीवारेष्वपि व्रीह्यवयवभूयस्त्वसत्त्वाद्युक्तं तत्कार्यकारित्वमिति शङ्कमानं प्रति आद्ये सोम एवासाविति प्रागुक्तं दूषणं स्मारयति नीवारेष्विति । अनेनैव प्राचीनसोमपदघटितवाक्ये व्र्रीह्याद्युप-लक्षणमत्रापि नीवारघटितवाक्ये पूतिकाद्युपलक्षणमिति व्याख्यानप्रकारः सूचितः । अन्यथोक्तत्वादि-त्ययुक्तं स्यादिति ज्ञेयम् । इत्याशयेनेति । किं तर्हि सोमावयवेत्यादिपूर्वमूलोक्तेनाशयेनेत्यर्थः । निरवयव-तयाऽपरावयवसंयोगशून्ययोः ककारखकारयोः सादृश्यं नास्त्येवेति वदन्तं प्रत्याह आलङ्कारिकेति । अत एव पद्यादिनिर्मातारः यतिप्राससिध्यै द्वितीयचरमवर्णस्थाने ककारप्रासाय ककारारोपितपदालाभादि-निमित्तेन खकारं प्रयुञ्जते । एवं तथदधनणरवबानामन्योन्यं द्वयोर्द्वयोः क्रमेण शषसकाराणां परस्परं च सादृश्यमाश्रित्य तकारादिस्थाने थकारादीन्प्रयुञ्जत इति ज्ञेयम् ।