विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्
रामानुजाख्यात्यनुवादः
विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्
सुधा
कश्चित्पुनरेवमाह । तासां त्रिवृतं त्रिवृतमेकैकामकरोदित्यादिश्रुतेः, समेत्यान्योन्य-संयोगमित्यादिपुराणात्, त्र्यात्मकत्वादिसूत्राच्च सर्वस्य सर्वात्मकत्वं प्रतीयते । किञ्च सोमाभावे पूतिकग्रहणं व्रीह्यभावे च नीवारग्रहणमन्यथाऽनुपपद्यमानं पूतिकनीवारयोः सोमव्रीह्यवयवसद्भावं गमयति । अपि च वस्तुनो वस्त्वन्तरसादृश्यं प्रत्यक्षत एव प्रतीयते । न च तद्द्रव्यावयवयोगा-दन्यत्सादृश्यं नामास्ति ॥ अतः शुक्तिकादिषु रजतादेः सद्भावाद्यथार्थ एवायं रजतप्रत्ययः । निर्देशव्यवस्थाऽर्थक्रियाव्यवस्था च भूतस्त्वादुपपद्यते । दोषवशादिन्द्रियं भूयांसमप्यंशं परित्यज्याल्पीयांसमंशं प्रकाशयतीति रजतार्थिनस्तत्र प्रवृत्तिरपि युज्यते । अपगते तु दोषे भूयस एवांशस्योपलम्भे निवर्तते । बाध्यबाधकभावोऽपि ज्ञानयोरत एवोपपद्यते ॥ पीतशङ्खादौ नयन-वृत्तिपित्तसंभिन्ना नायनरश्मयः शङ्खादिभिः संयुज्यन्ते । ततः पित्तगतपीतिमाऽभिभूतः शङ्खगत-शुक्लिमा न गृह्यते । अतः सुवर्णानुलिप्तशङ्खवत्पीतः शङ्ख इति प्रतीयते ॥ एवं स्वप्नस्फटिकलौहित्य-मरीचिकाजलालातचक्रदर्पणमुखदिगन्तरद्विचन्द्रादिप्रत्ययाः सर्वेऽपि यथार्था बोद्धव्या इति ॥ तदिदमयुक्तम् ॥
वाक्यार्थचन्द्रिका
यथार्थख्यातिमत्वाविशेषेऽप्यवान्तरविशेषानिराकरणेन प्रभाकरमतनिरासमात्रेण न तन्निराससिद्धिरिति रामानुजमतनिरासाय तदुपन्यस्यति ॥ कश्चिदिति ॥ आदिपदेन तेजआदि-भूतत्रिवृत्करणसंभावकतत्कार्याग्न्यादिरूपत्रयप्रदर्शनपरस्य यदग्ने रोहितं रूपमिति पदोदाहृतवाक्यस्य वा त्रिवृत्करणपरवाक्यान्तरस्य वोपादानम् । तत्त्वान्तरेऽपि मिश्रताप्रतिपादकत्वात्पुराणस्य भूतत्रयमात्र-विषयकश्रुत्यपेक्षया अधिकविषयकत्वम् । आदिपदेन परस्परसमाश्रयाः । महदाद्या विशेषान्ता ह्यण्डमिति वाक्यशेषस्य पुराणवाक्यान्तरस्य वोपादानम् । श्रुतिस्मृत्योरुक्तार्थपरतानिर्णयाय सूत्रोपादानम् । आदिपदेन तच्छेषस्य वा सूत्रान्तरस्य वा ग्रहणम् । यद्यप्येषां वाक्यानां तत्त्वमिश्रताप्रतिपादकतया न रजतादिभ्रमे उपयोगस्तथापि तत्त्वे तत्त्वान्तरभ्रमे साक्षात्कारणमिश्रतायाः कार्यरजतादिभ्रमेऽपि परम्परयोपयोगोऽ-स्त्येव । अत एवाह ॥ सर्वस्य सर्वात्मकत्वमिति ॥ अन्यथा तत्त्वस्य तत्त्वान्तरात्मकत्वमित्यवक्ष्यत् । यथा चैतत्तथा तन्मतदूषणावसरे स्पष्टयिष्यते । भूतादित्रिवृत्करणस्य सदृशे सदृशान्तरभ्रमे उपयोगाद् भूतत्रिवृत्करणश्रुत्यादिकमुपन्यस्य सदृशे सदृशान्तरभ्रमोपयोगितया श्रुतार्थापत्तिमुपन्यस्यति ॥ किं चेति ॥ श्रुतार्थापत्त्याव्रीह्यादिसद्भावे नीवारादौ सिद्धे शुक्त्यादौ रजतादिसद्भावः फालित इत्याशयः । साक्षादेव शुक्त्यादौ रजतादिसद्भावे प्रमाणमुपन्यस्यति ॥ अपि चेति ॥ तर्हि सर्वस्य सर्वात्मकत्वात्सर्वत्र सर्वशब्दप्रवृत्त्या सर्वस्य सर्वार्थक्रियाकारित्वापत्त्या च निर्देशादिव्यवस्था न स्यादित्यत आह ॥ निर्देशेति ॥
ननु तर्हि तथैव शुक्तौ रजतांशभूयस्त्वाभावेन रजतार्थिनस्तत्र प्रवृत्तिरपि न स्यादित्यत आह ॥ दोषेति ॥ तर्हि पश्चान्निवृत्तिर्न स्यादित्यतः प्रागभिभावकांशानुपलम्भप्रयुक्तप्रवृत्तावप्यभिभावकांशोप-लम्भान्निवृत्तिः पश्चाद्युक्तैवेत्याह ॥ अपगते त्विति ॥ ननूभयोः सद्विषयकत्वान्न बाध्यबाधक-भावोपपत्तिरित्यतोऽल्पांशभूयोंशविषयकत्वाभ्यामेव तदुपपत्तिरित्याह ॥ बाध्येति ॥ भूतसदृशयोर्भूत-सदृशान्तरसद्भावप्रकारस्य पीतशङ्खादावनुपपत्त्या तत्र प्रकारान्तरमाह ॥ पीतेति ॥ पित्तद्रव्यरहितं पीतरूपं गृह्यते पित्तद्रव्यं न गृह्यते इति प्राभाकरमतम् । रूपवद्द्रव्ये चक्षुषः सामर्थ्यात्पित्तद्रव्यमपि गृह्यत इत्येतन्मते विशेषः ॥ एवमिति ॥ स्वप्ने प्राणिनां पुण्यपापानुगुणं भगवतैव तत्तत्पुरुषमात्रानुभाव्य-तत्तत्कालावसानाश्चर्यभूततथाविधपदार्थाः सृज्यन्त इत्यर्थस्य श्रुतिस्मृतिसूत्रादिभिर्निर्णीतत्वात्तत्तत्पदार्थ-विषयकज्ञानं प्रमैव । विततजपाकुसुमप्रभास्वच्छद्रव्यसंयुक्ता स्फुटमुपलभ्यत इति जपाकुसुमप्रभाभिभूततया तत्समीपवर्ती स्फटिकमणी रक्त इति प्रतीयत इति साऽपि यथार्थैव । मरीचिकाजलज्ञानेऽपि तेजःपृथिव्योरम्बुनोऽपि विद्यमानत्वादिन्द्रियदोषेण च तेजःपृथिव्योरग्रहणाददृष्टवशाच्चाम्बुनो ग्रहणा-द्यथार्थत्वम् । अलातचक्रस्थलेऽप्यलातस्य द्रुतगमनेन सर्वदेशसंयोगात्पूर्वोत्तरकालभाविनोस्तत्तत्प्रदेशा-श्लेषालातसंयोगयोः क्रमाग्रहणाच्च तथा प्रतीतिरुत्पद्यते । सम्यक् चक्रप्रतीतावप्यन्तरालाग्रहणपूर्वकं तत्तद्देश-संयुक्ततत्तद्वस्तुग्रहणमेव । इयांस्तु विशेषः । तत्रान्तरालाभावादग्रहणम् । अत्र तु शैघ्य्रादित्यलातचक्र-प्रतीतिरिपि यथार्थैव । दर्पणादिप्रतिहता नायनरश्मयो दर्पणादिदेशग्रहणपूर्वकं दर्पणदेशमुखान्तराला-ग्रहणपूर्वकं निजमुखादि गृह्णन्तीति दर्पणादिषु निजमुखादिप्रतीतिरपि यथार्थैव । दिङ्मोहेऽपि दिगन्तरांशस्य दिगन्तरेऽपि सत्त्वाददृष्टवशाद्दिगन्तराग्रहेण दिगन्तरांशस्यैव ग्रहणमिति दिगन्तरे दिगन्तरप्रतीतिरपि यथार्थैव । द्विचन्द्रादावङ्गुल्यवष्टम्भेन नायनतेजोगतिभेदेन सामग्रीभेदात्सामग्रीद्वयमन्योन्यनिरपेक्षं चन्द्रगहणद्वयहेतुर्भवति । तत्रैका सामग्री स्वदेशविशिष्टं चन्द्रं गृह्णाति । द्वितीया तु चन्द्रसमीपदेशग्रहणपूर्वं स्वदेशरहितं चन्द्रं गृह्णाति । अतः सामग्रीद्वयेन युगपद्देशद्वयविशिष्टचन्द्रग्रहणे ग्रहणभेदेन ग्राह्याकारविशिष्टभेदात् । अत्रैकत्वाग्रहणाच्च द्वौ चन्द्राविति प्रतीतिः । तत्र देशान्तरस्य विशेषणत्वं चन्द्रं प्रत्यप्रधानत्वमेव । तथा च चाक्षुषतेजोगतिभेदरूपसामग्रीजन्यमतिशैघ्य्राद्गृहीतभेदं ज्ञानद्वयमगृहीतैकत्वचन्द्रमगृहीतान्तरालदेशान्तरं च निरन्तरं गृह्णातीति तत्प्रत्ययोऽपि यथार्थ एव । प्राभाकरमते नेत्रवृत्तिर्वित्तिगतद्वित्वमगृहीतभेदं गृह्णातीत्येवात्र तु देशगतद्वित्वं चागृहीतभेदं गृह्णातीति वैषम्यमित्येवं तदीयोपपादनप्रकारो बोद्धव्य इति भावः ।
परिमल
अख्यात्यवान्तरचोदनं निराह ॥ कश्चित्पुनरिति ॥ रामानुजादिः । तासां तेजोबन्न-शब्दितदेवतानाम् । त्रिवृतं तेजोऽबन्नरूपवस्तूनामंशत्रयमेलनम् । एकैकपृथिव्यादिद्रव्यमकरोदिति षष्ठछन्दोगश्रुतेरित्यर्थः । ‘समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति त’ इति पुराणवाक्यात् । ‘त्र्यात्मकत्वात्तु भूयस्त्वादि’ति तृतीयाद्यपादे वक्ष्यमाणसूत्रादित्यर्थः । सर्वात्मकत्वं तेजोऽबन्नरूपभूतत्रयात्मकत्वमिति वा । त्रिवृत्त्वस्योपलक्षणत्वेन सर्वभूतात्मकत्वमिति वाऽर्थः । अर्थापत्तिं चाह ॥ किञ्च सोमेति ॥ ज्योतिष्टोमे हि ‘सोमेन यजेत’ इति सोमलतारूपद्रव्यस्य ‘दर्शपूर्णमासयोर्व्रीहिभिर्यजेते’ति व्रीहिद्रव्यस्य साधनत्वेन प्राप्तत्वात् सोमादिरेव गृह्यते । कदाचित्सोमादेरभावे पूतिकादिरूपसोमप्रतिनिधिग्रहणं याज्ञिकैर्यज्ञाङ्गत्वेन क्रियते । तदन्यथानुपपत्ति-रन्यत्रान्यावयवसत्त्वे मानम् । समग्रसोमाद्यवयवानामलाभे कतिपयतदवयवलाभाय पूतिकाद्युपादानात् । तथैव पूर्वतन्त्रे षष्ठे तृतीयपादे व्युत्पादितत्वादिति भावः । प्रत्यक्षं च प्रमाणयति ॥ अपि चेति ॥ कथं तर्हीयं शुक्तिर् इदं रजतमित्यादिनिर्देशः शुक्तिकया कटकादिरजतोचितार्थक्रियाऽभाव इत्यत आह ॥ निर्देशेति ॥ अत एवेति ॥ भूयोऽवयवज्ञानेनाल्पावयवज्ञाननिवर्तनादेवेत्यर्थः ॥ एव स्वप्नेत्यादि ॥ एतच्चाग्रे दूषणावसरे स्फुटीकरिष्यामः ।
यादुपत्यं
रामानुजमतं दूषयितुमनुवदति ॥ कश्चित्पुनरेवमित्यादिना ॥ सर्वत्र सर्वांशानां सत्त्वेन सर्वविज्ञानानां याथार्थ्यमुपपादयितुं सर्वत्र सर्वांशानां सद्भावे तावत् श्रुतिपुराणसूत्राणि दर्शयति ॥ तासामित्यादिना ॥ आदिपदेन ‘यदग्ने राहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्ये’ति वाक्यं ग्राह्यम् । अत्र ह्यग्नौ त्रिरूपता प्रत्यक्षेणोपलभ्यमानोक्ता । अत्र पञ्चीकरणमपि प्रतिपादयद्वेदवाक्य-मुपलक्षणया ग्राह्यम् । एवं भूतानां परस्परं मिश्रणं श्रुत्योपपाद्य तत्त्वानामपि तत्पुराणवचनेनोपपादयति ॥ समेत्येति ॥ ‘नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य कृत्स्नशः । समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महदाद्या विशेषान्ता दृश्यन्त’ इति पुराणवाक्यस्यायमर्थः । तत्त्वानां संहतिर्द्वेधा विवक्षिता । पृथक् स्थित्यर्हसंयोगमात्ररूपा, तदनर्हसंश्लेषविशेषरूपा चेति । पूर्वमेतद्द्वयाभावात्तत्त्वानि स्रष्टुं नाशक्नुवन्नित्याह ॥ नानावीर्या इति ॥ एतदुभयं प्राप्यासृजन्नित्याह ॥ समेत्येति ॥ नन्वेवमेकस्मिंस्तत्त्वे सर्वाणि तत्त्वानि सन्ति चेत्सर्वे शब्दाः सर्वत्र प्रसज्येरन्नित्यत आह ॥ परस्परेति ॥ परस्परमाश्रयाश्रयिभावश्च न्यूनाधिकभावनिबन्धनः । तत्कृता च व्यवस्थेति भाव इति ।
एवं सामान्यतः सर्वत्र सर्वांशसद्भावमुपपाद्य सदृशे सदृशान्तरसद्भावमर्थापत्त्योपपादयति ॥ किञ्च सोमाभाव इति ॥ प्रत्यक्षेणापीममर्थमुपपादयति ॥ अपि च वस्तुत इति ॥ अत एवेति ॥ अल्पभूयोंऽशावगाहित्वादेवेत्यर्थः । दोषवशादल्पांशग्राहि विसंवादिप्रवृत्तिजनकपूर्वज्ञानं बाध्यं दोषापगमानन्तरं भूयोंशावगाह्युत्तरज्ञानं बाधकमिति भावः । शङ्खे पीतरूपस्यांशकल्पनाऽसंभवात् प्रकारान्तरेण तज्ज्ञाने याथार्थ्यमुपपादयति ॥ पीतः शङ्खादाविति ॥ सुवर्णानुलिप्तेति ॥ तथाच परम्परासंबन्धेन शङ्खे पीतरूपावगाहित्वात्तज्ज्ञानं यथार्थमिति भावः । एवं स्वप्नेन्यत्रैवं यथार्था बोद्धव्या इति याथार्थ्यमात्रातिदेश एव विवक्षितो न पूर्वोक्तस्तदुपपादकप्रकारातिदेशः । स्वाप्नार्थादिषु सदृशे सदृशान्तरावयवसद्भावरूपस्य नयनगतद्रव्यसंबन्धरूपस्य वोक्तप्रकारस्य संभवेन प्रकारान्तरेणैव तज्ज्ञानानां याथार्थ्यस्य परेण स्वग्रन्थे दर्शितत्वात् । तत्प्रकारश्च लेशतः कथ्यते । स्वाप्नार्थज्ञानं तावद्यथार्थमेव । यतः प्राणिनां पुण्यपापानुगुणं भगवतैव तत्तत्पुरुषमात्रानुभाव्यास्तत्तद्देशकालानुभवास्तत्तत्कालावसाना-स्तथाभूता एवार्थाः सृज्यन्ते । तथाहि स्वप्नविषया श्रुतिः । ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजत’ इत्यादिका । स हि कर्तेति वाक्याच्च सत्यसङ्कल्पस्याश्चर्यशक्तेस्तथाविधं कर्तृत्वं नासंभावितमित्यर्थोऽवगम्यते । सूत्रकारोऽपि ‘सन्ध्ये सृष्टिराह हि’ ‘निर्मातारं चैके पुत्रादयश्चे’ति सूत्रद्वयेन स्वप्नार्थेषु जीवस्य स्रष्टृत्वमाशङ्क्य ‘मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादि’ति परमात्मैव तत्र स्रष्टेति परिहरति । स्फटिकलौहित्यमरीचिकाजलालातचक्रदिङ्मोहेषु द्रव्यान्तरसंबन्धाद्यथार्था प्रतीतिरिति निर्वाहः । स्फटिकलौहित्यं हि स्फटिकस्य जपाकुसुमसंबन्धत्वात्प्रतीयते । जपाकुसुमसंबद्धस्यापि पाषाणादेरस्वच्छत्वान्न तत्र लौहित्यं प्रतीयते । मरीचिकाजलज्ञानेऽपि तेजःपृथिव्योरम्बुनो विद्यमान-त्वादिन्द्रियदोषेण तेजःपृथिव्योरग्रहणाददृष्टवशाच्चाम्बुनो ग्रहणाद्ययथार्थत्वम् । अलातचक्रेऽप्यलातस्य द्रुततरगमनेन सर्वदेशसंयोगात्पूर्वोत्तरभावितत्तत्प्रदेशविशेषालातसंयोगक्रमाग्रहणात्तथा प्रतीतिरुपपद्यते । सत्यचक्रप्रतीतावपि क्रमाग्रहणपूर्वकं तत्तद्देशसंयुक्ततत्तद्वस्तुग्रहणमेव ।
इयांस्तु विशेषः । तत्र क्रमाभावादेव क्रमाग्रहणम् । अत्र शैघ्रयात्तदग्रहणमित्यतस्तदपि यथार्थम् । दर्पणादिषु निजमुखादिप्रतीतिरपि यथार्था । दर्पणादिप्रतिहतगतयो नायनरश्मयो दर्पणादिदेशग्रहणपूर्वकं निजमुखादिकं गृह्णन्ति । तत्राप्यतिशैघ्रयादन्तरालाग्रहणात्तथाप्रतीतिः । अत एव तत्र सव्यदक्षिण-विपर्यासप्रतीतिर् मलिनत्वाल्पत्वाभिमुख्यप्रतीतिश्च यथार्था । स्वाभिमुखतया विपर्यस्तसव्यदक्षिणभावस्य दर्पणस्थमुखस्य चान्तरालग्रहणमेव तत्र न तु दर्पणादिगतसव्यदक्षिणविपर्यासादिकं मुखगततया गृह्यते । येनान्यथाख्यातिः स्यादिति । दिङ्मोहेऽपि सर्वत्र सर्वदिग्भावात्प्राच्यादिव्यवहारस्य प्रतियोग्यपेक्षत्वात् । अदृष्टवशेन तत्तद्दिगन्तरप्रतियोगिनो दिगन्तरस्य च निरन्तरभानम् । अतो यथार्थविषयत्वम् । द्विचन्द्रादि-ज्ञानादावप्यङ्गुल्यवष्टम्भादिभिर्नायनतेजोऽभिभवेन सामग्रीभेदात्सामग्रीद्वयमन्योन्यनिरपेक्षं चन्द्रग्रहण-द्वयहेतुर्भवति । तत्रैका सामग्री स्वदेशविशिष्टं चन्द्र गृह्णाति । द्वितीया तु किञ्चिद्वक्रगतित्वेन चन्द्रसमीपदेशग्रहणपूर्वकं चन्द्रं स्वदेशवियुक्तं गृह्णाति । अतः सामग्रीद्वयेन युगपद्देशद्वयविशिष्टचन्द्रग्रहणे भवतः । ग्रहणभेदेन ग्राह्याकारभेदादेकत्र ग्रहणाभावाच्च द्वौ चन्द्राविति भवतीति विशेषः । देशान्तरस्य तद्विशेषणत्वं तु देशान्तरस्यागृहीतस्वदेशचन्द्रस्य च निरन्तरं ग्रहणेन भवति । अगृहीतस्वदेशचन्द्रस्य प्रतीयमाने समीपदेशान्तरेऽसंसर्गो न गृहीतोऽतस्तद्विशेषणमिव न तु विशेषणतया भवति । येनान्यथा-ख्यातिः स्यात् । तत्र सामग्रीद्वित्वं पारमार्थिकं तेन देशद्वयविशिष्टचन्द्रग्रहणद्वयं परस्परमगृहीतभेदं पारमार्थिकम् । ग्रहणद्वित्वेन चन्द्रस्यैकस्यैव ग्राह्याकारद्वित्वं च पारमार्थिकमिति न किञ्चिदत्रायथार्थमिति ।
श्रीनिवासतीर्थीया
गमयतीति ॥ तथा च शुक्तावपि रजतावयवाः सन्तीति गम्यत इति भावः । ननु तर्हीदमित्यङ्गुल्या शुक्तिः कस्मान्निर्दिश्यते । रजतावयवसद्भावे तदेव रजतं निर्दिश्येतेति निर्देशव्यवस्था । तथा रजतावयवसद्भावे रजतोचितार्थक्रिया स्यात् । सा न भवति । प्रत्युत शुक्त्युचि-तैवार्थक्रिया भवतीत्येवमर्थक्रियाव्यवस्था च नोपपद्यत इत्याशङ्क्याह ॥ निर्देशेति ॥ भूयस्त्वादिति ॥ शुक्त्यवयवानामिति शेषः । भूयांसमंशं शुक्त्यंशं तदवयवमित्यर्थः । अल्पीयांसमंशं रजतांशं तदवयव-मित्यर्थः । भूयस एवांशस्य संभिन्नाः संबद्धाः ।
वाक्यार्थरत्नमाला
ननूत्तरत्राप्यख्यातिमतनिराकरणमनुपपन्नम् । तन्निराकरणस्य प्रागेव सिध्या पुनस्तस्याकर्तव्यत्वात् । न च प्राक्प्राभाकरमतमात्रनिराकरणं कृतमिदानीं तु रामानुजमतं निराक्रियत इत्यपुनरुक्तिरिति वाच्यम् । निराकर्तव्ये विशेषाभावेऽङ्गीकर्तृभेदमात्रेण तन्मतनिराकरणे शास्त्रापर्यवसानप्रसङ्गादित्यतस्तन्मतयोरनतिभेदे उक्तदोषप्रसङ्गेऽपि प्राभाकरमतापेक्षया रामानुज-मतेऽवान्तरविशेषसद्भावेन तत्प्रसङ्ग इति सूचयन् प्राभाकरमतरूपाख्यातिमतनिरासमात्रेणैव मतान्तर-निरासस्यापि सिद्धेः किमवान्तरविशेषनिराकरणेनापीत्यतस्तस्य आवश्यकत्वं दर्शयन् रामानुजमतोप-न्यासाभावे तन्निराकरणानवकाशात् तदर्थं तन्मतोपन्यासस्तावत्क्रियत इत्याह यथार्थख्यातिमत्वेति । इह टीकायां प्राभाकरमतनिरासमात्रेण न रामानुजमतनिराससिद्धिरिति तन्निरासाय तदुपन्यस्यतीति मूलकोशानुसारी पाठः । तन्निराससिद्धिरित्येवं तत्पदस्य रामानुजमतनिरासायेति रामानुजपदस्य च व्यत्यासो लेखकागतः । तत्पाठेऽपि वा प्रथमप्रयुक्ततत्पदस्य बुद्धिस्थवक्ष्यमाणरामानुजपरत्वमिति ज्ञेयम् । रामानुजमतनिरासो नाम तदुक्तयथार्थख्यातिनिरासः । यद्वैतन्मतनिरासाय तदुपन्यस्यतीति प्रथमतो योज्यम् । तत्र यथार्थख्यातिमतविरोधे प्राभाकरमतनिरासेनैव सिद्धेः पुनस्तन्निरासो व्यर्थ इत्यत उक्तं यथार्थख्यातित्वेत्यादिनिराससिद्धिरितीत्यन्तं तच्च तच्छब्देन रामानुजमतपरामर्शसम्भव इति ज्ञेयम् । अत्र च प्राभाकरेति रामानुजेति च पदसमभिव्याहारेण प्राभाकररामानुजमतयोर्यथार्थख्यातिमतत्वा-विशेषेऽपीति लभ्यते । अथवा रामानुजमतस्य प्राभाकरमतेन यथार्थख्यातिमतत्वेन विशेषेणेति योज्यम् । तथाचावान्तरविशेषेत्यत्र रामानुजमतगतावान्तरविशेषेति व्याख्येयम् । इदंरजतमिति ग्रहणस्मरणात्मकं ज्ञानद्वयमिति प्राभाकरमतापेक्षयैकमेवेदं ज्ञानं रजतावयवानां च शुक्तिकायां सत्त्वात्तस्य यथार्थत्वमिति रामानुजमतेऽवान्तरो विशेषः । एवमन्योऽपि उत्तरमूलटीकयोरुक्तो विशेषो ज्ञेयः । उक्तविशेषस्या-निराकरण इति सप्तमी । सिद्धिर्नेति सम्बन्धः । पूर्वमतनिरासेन तन्मताविशिष्टे तन्मतभागमात्र-निराससिद्धावपि तदपेक्षया योऽवान्तरो विशेषस्तदभ्युपगमेन पूर्वमतोक्तविशेषान्तरस्वीकारे प्राप्तदूषण-परिहारस्य तेन कृतत्वात्तस्यापि दूषणाभावे यावत्तन्मतनिराससिद्धिर्नेति तत्सिध्यर्थमवश्यं तद्विशेष-निराकरणं कार्यमिति । एवं चात्र पाठे न्यायकल्पतरूदीरितमित्युत्तरमतोपन्यासावतारटीकायामपि यथार्थख्यातिमतत्वाविशेषेऽपीत्यादिकं निरासायेत्यन्तमनुवर्तनीयम् । रामानुजपदस्थानेऽख्याति-मतान्तरेति पठनीयमिति ज्ञेयम् । पाठान्तरेऽपि तथैव । यद्वा पाठान्तरे इयं योजना । अवान्तर-विशेषेति । प्राभाकरमतातिरिक्तरामानुजमतन्यायकल्पतरुमतरूपावान्तरविशेषनिराकरणाभाव इत्यर्थः । अत एवोक्तं न प्राभाकरमतनिरासमात्रेणेति । इतीत्यतःपरं तावदिति शेषः । तेनेत्यतो हेतोस्तावद्रामानुजमतेति योजनया विवक्षितसंपूर्त्तिरिति मूले त्रिवृत्करणे तासां त्रिवृतमिति श्रुतेरिव श्रुत्यन्तरस्यापि सद्भावाभिप्रायेणादिपदोपादानमिति प्रतीयते तच्चायुक्तम् । तादृशश्रुत्यन्तराभावात् । पञ्चीकरणसाधकश्रुतिसङ्ग्रहोऽप्यत एवानुपपन्नः । इति श्रुत्यैव चोदितम् । त्रिवृत्करणमेवं हीत्येव तद्ग्रन्थे उक्तेश्च । किन्तु त्रिरूपताप्रतिपादकश्रुतिसङ्ग्रह एवाभिप्रेतः । न च तच्छत्यन्तरस्य त्रिवृत्करणा-प्रतिपादकतया तत्संग्रहासङ्गतिरिति वाच्यम् । साक्षात्तस्य त्रिवृत्करणासाधकत्वेऽपि तत्सम्भावकत-त्कार्याग्न्यादिरूपत्रयप्रदर्शनपरतया परम्परया तदुपयोगादित्याशयेनाह आदिपदेनेति । वाक्यान्तरस्य वेति । वाशब्दोऽनास्थायाम् । पूर्वोक्तयुक्तया प्रथमपक्षस्यैव युक्तत्वात् । सद्भावेऽपि वाक्यान्तरस्य परानुपदर्शितस्य वचने कारणाभावादिति ज्ञेयम् । एवमुत्तरत्रापि पक्षान्तरगतिर्वा शब्दार्थश्च बोध्यः । प्रधानतया श्रुत्युदाहरणमात्रमस्तु कृतं पुराणोदाहरणेनेत्यतः श्रुत्यपेक्षया अधिकार्थप्रतिपादकत्वात् तदुदाहरणं युक्तमित्याह तत्त्वान्तरेऽपीति । तेजोबन्नातिरिक्तवाय्वाकाशभूतयोर्महदादितत्त्वेऽपीत्यर्थः । अधिकविषयत्वमिति । अतस्तदुदाहरणमिति शेषः । निर्णयायेति । सूत्राणां तदुभयनिर्णायकत्वादिति भावः । उपयोग इति । शुक्तयादौ रजतादिमिश्रताप्रतिपादकत्वाभावादिति भावः ।
साक्षादिति । उपयोगोऽस्त्येवेति सम्बधः । स्पष्टयिष्यत इति । कार्ये कारणसद्भावनियमादि-त्यादिना ननु पाञ्चभौतिकेष्वपीत्यादिग्रन्थेन चेति शेषः । भ्रमेऽनुपयोगादिति । अनेन पूर्वेणास्य गतार्थताशङ्का नेति सूचयति उपन्यस्येति । उपन्यस्यापीति योज्यम् । श्रुतार्थापत्तिमिति । एतन्मत-दूषणमूलस्थश्रुतार्थापत्तिस्त्वित्येतदनुसारेण तत्पर्यवसानमभिप्रेत्य श्रुत्यर्थेति व्यवहृतम् । उत्तरवाक्ये तु यथाश्रुतानुवाद एवेति ज्ञेयम् । श्रुतार्थापत्त्या व्रीह्यादौ नीवारसद्भावसिद्धावपि न शुक्तयादौ रजतादि-सद्भावसिद्धिरित्यत आह श्रुतार्थापत्त्येति । समानन्यायत्वादिति भावः । श्रुत्यैव बोधित इति परकारि-कार्थस्य मूलेऽनुक्तिशङ्काव्युदासाय तदुपपादनरूपेण फलितत्त्वमत्रोक्तमिति ज्ञेयम् । तथैवेति । निर्देशादिवदेव प्रवृत्तिरपीत्युत्तरेण सम्बन्धः । भूतसदृशयोरिति । भूते भूतान्तरसद्भावः सदृशे सदृशान्तरसद्भाव इति सम्बन्धः । अनुपपत्त्येति । विसदृशत्वेन रूपस्य निरवयवत्वेन च सादृश्यस्या-सम्भवादिति भावः । पीतग्रहणे विशेषाप्रतीतेराह पित्तद्रव्येति । प्राभाकरमतमिति । तन्मते द्रव्यगुणयोः केवलयोरेव दोषवशाद्ग्रहणाङ्गीकारादिति भावः । स्वप्नस्फटिकलौहित्यादिषु पीतशङ्खादिभ्रमस्य तद्ग्रन्थे गृहीततया अत्रापि स्वप्नादेरेव ग्रहणे कर्तव्येऽपि यदादितस्ततः पृथक्कृत्य च शङ्खपीतादिग्रहणं न तत्र विशेषविचारावकाशाभिप्रायेण । अत एव तद्ग्रन्थे कृतमप्युपपादनमुदाहरणान्तरं परित्यज्यात्रैवोप-न्यस्तम् । दूष्यते चान्यपरित्यागेनेदमेव विशेषतः । नन्वेतदपि कुत इति चेत्; स्वप्नादीनां भ्रमत्वेना-न्येष्टानां रजतभ्रमवैलक्षण्येन तत्रोपपादनस्य भिन्नभिन्नप्रकारतया सङ्ग्रहेऽपि रजतारोपतुल्यपीतारोपस्य तु पूर्वोक्तप्रकारेणैवोपपादनं कार्यम् । तच्चायुक्तमित्यतस्तत्र प्रकारान्तरस्य मूलकृता वक्तव्यत्वादिति बोध्यम् । एवं कारिकोक्तप्रकारेऽप्ययथार्थज्ञानतया रजतज्ञानादिकमुपपाद्य स्वप्ने च प्राणिनामित्यादि-ग्रन्थेनोक्तान् भ्रमत्वेन शङ्क्यमानान् यथार्थप्रत्ययत्वेनोपपादयद् ग्रन्थानुसारेण स्वप्नादिभ्रमाभाव-मुपपादयति स्वप्ने प्राणिनामित्यादिना । अनुगुणमिति सृज्यन्त इत्येतत्क्रियाविशेषणम् । भाव्यावसान-भूतविधान्तानां पदार्थपदेन कर्मधारयः । तथाविधा बाह्यसदृशाः ।
श्रुतिस्मृतिसूत्रादिभिरिति । न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजत इति न तत्रानन्दा मुदप्रमुदो भवन्त्यथानन्दानित्यादिका श्रुतिर् मायामात्रं तु कार्त्स्न्येनानभि-व्यक्तेति सूत्रम् । स्मृतिश्च यद्यपि परग्रन्थे नोपन्यस्ता तथापि ग्रन्थे उदाहृत ………………….. इत्यादिस्मृतिं मनसि निधाय स्मृतिग्रहणं स्वमते स्वप्नस्य सत्यतया परोपपादनमनुकूलमित्याशयेनेति न दोषः । तद्ग्रन्थव्याख्याने तद्ग्रहणादत्र तथोक्तमित्यप्याहुः । आदिपदेन जीवस्य आश्चर्यसृष्टिकर्तृत्वा-योगरूपयुक्तिग्रहणम् । जपाकुसुमप्रभयाभिभूतत्वे हेतुकथनं वितत्येत्यादि । इतिशब्दो हेतौ । पाषाणादि संयोगे सति कुतः स्फुटतरोपलम्भाभाव इत्यत उक्तं स्वच्छेति । तत्तत्प्रदेशाश्लेषेति । पूर्वदेशेनाश्लेषो विभाग अलातस्यापकर्षः । उत्तरदेशेनालातसंयोगश्चानयोरित्यर्थः । अन्तरालेति । पूर्वोत्तर-देशाभ्यामराणां विभागसंयोगक्रमस्येत्यर्थः । यत्तु स्फटिकलौहित्यमरीचिकाजलालातचक्रदिङ्मोहेषु द्रव्यान्तरसम्बन्धाद्यथार्थाप्रतीतिरिति निर्वाह इति प्रतिज्ञाय प्रत्येकमुपपादनमन्यथाख्यातौ कृतम् । तदसत् । द्रव्यान्तरसम्बन्धो हि अवयविसामीप्यरूपश्चेत्तस्य स्फटिकादौ सत्त्वेऽपि न मरीचिकादौ सद्भावः । सर्वत्र सर्वावयवसंयोगमङ्गीकृत्यावयवसंयोगश्चेन्न स्फटिकादौ तस्य सत्त्वं तत्कथं द्रव्यान्तर-सम्बन्धादिति अनुगमेन वचनम् । किञ्चालातचक्रे न द्रव्यान्तरसम्बधस्योपयोगः । सर्वत्रापि केन-चिन्निमित्तेन द्रव्यान्तरसम्बन्धोपयोगवर्णने वा स्फटिकादावपि जपाकुसुमावयवानां सद्भावेन दोषविशेषसामीप्यादिकमाश्रित्य स्फटिकावयवानामग्रहणम् अन्यावयवानामेव ग्रहणमिति कल्पनापातः । तत्र तथा परानुक्तया तदस्वीकारे चान्यत्रापि व्यर्थं तत्स्वीकरणेन व्याख्यानम् । तस्माद्यत्किञ्चिदेतत् ।
दर्पणदेशमुखेति । दर्पणदेशमुखयोर्यदन्तरालं व्यवधानं तदग्रहणेत्यर्थः । अङ्गुल्यवष्टम्भेनेति । अङ्गुल्यवष्टम्भतिमिरादिभिरिति तद्ग्रन्थे उक्तत्वादुपलक्षणमिदम् । ननु ग्रहणभेदेऽपि नार्थे भेदप्रतीतिः सम्भवति । अनेकग्रहणसन्निपातेऽप्यर्थस्यैकत्वापातादित्यतो वस्तुन एकत्वेऽपि तद्ग्रहणविषयीकृत-विलक्षणदेशादिरूपतत्तद्वस्त्वाकारविशिष्टस्य भेदेन देवदत्ते दण्डकुण्डलादिविशेषणयोगेनानेकविशिष्ट-प्रतीतिस् तद्वस्तुनि भेदेन प्रतीत्युपपत्तेरित्याह ग्राह्याकारेति । तर्ह्यनेकपुरुषप्रतीतेर् ग्रहणभेदेन वस्तुनि भेदप्रतीतिप्रसङ्ग इत्यत उक्तम् अत्रैकत्वेति । तत्र तु एकत्वग्रहणमेव प्रतिबन्धकमिति भावः । ननु देशान्तरस्य विशेषणत्वं नोपपत्तिमत् । व्यावर्तकरूपविशेषणं न वस्तुतोऽव्यावृत्ते व्यावृत्तिकरणायोगात् । असम्बद्धस्य व्यावर्तकत्वायोगेन सम्बद्धत्वेन ज्ञानाङ्गीकारेऽन्यथाख्यात्यापत्तिश्चेत्यत आह तत्र देशान्तर-स्येति । एवेति व्यावर्तकत्वं व्यावर्तयति । यद्यपि देशान्तरस्य तद्विशेषणत्वं देशान्तरस्य चागृहीत-स्वदेशचन्द्रस्य च निरन्तरग्रहणेन भवतीति परग्रन्थे उक्तम् । तथापि उक्तनिरन्तरग्रहणेन सम्बन्ध-ग्रहमात्रे प्रतिपादितेऽपि सम्बन्धाग्रहेऽपि विशेषणत्वमायातीति व्यावर्तकत्वप्राप्तावसम्बद्धस्य व्यावर्त-कत्वानुपपत्त्या सम्बन्धग्रहसिद्धिरेव स्यादतो विशेषणत्वमेवान्यथयितव्यम् । निरन्तरग्रहणरूपमेव विशेषणत्वमिति पर्यवसानाय निरन्तरग्रहणेनेति तृतीया प्रथमार्थे व्याख्येया । ततश्चाप्रधानत्वमेव फलत आयाति । असंसर्गरूपान्तरग्रहणाभावेऽपि वेदनद्वयस्य परस्परविशेषणत्वेनानङ्गीकारादित्याशयः । अगृहीतेति । न गृहीतो भेदो यत्र ज्ञानद्वये तदगृहीतभेदं ज्ञानद्वयमिति प्रथमा । अगृहीतमेकत्वं यत्र सोऽगृहीतैकत्वः स चासौ चन्द्रश्च तमिति द्वितीया । न गृहीतमन्तरालं चन्द्रेणासम्बन्धो यत्र तादृशं देशान्तरं चेति असंसर्गप्रतियोगिनिर्देशोऽयम् । चन्द्रदेशान्तरयोरसंसर्गरूपान्तरस्याग्रहणे सामग्रीकथनं पूर्वोक्तम् । निरन्तरमिति फलकथनम् । चन्द्रं देशान्तरं च निरन्तरमिति निरन्तरत्वेन विद्यमाना-संसर्गमग्रहीत्वैवेत्यर्थः । अगृहीतभेदमिति । अगृहीतासंसर्गकमित्यर्थः । चन्द्रेण सहेति शेषः । यथोक्तं प्राक् । ग्रहणनिष्ठद्वित्वस्य च चन्द्रेण सहासंसर्गाग्रहस् ततश्च द्वौ चन्द्राविति सामानाधिकरण्याव्यवहार इति । उदाहृतं च नयवीथीवाक्यम् । तथा द्विचन्द्रबोधेऽपीत्यादि । संवित्ती तेन भिद्येते तद्द्वित्वे सति मन्यते । भिन्नार्थबुद्धीत्यादि चादेशगतद्वित्वमगृहीतभेदमित्यत्रापि चन्द्रेणेति शेषः । आहिता-संसर्गकमित्यर्थः ।