विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्
विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्
सुधा
यदपि ज्ञानत्वं च यथार्थमात्रवृत्तीत्यादि; तत्र किमिदं ज्ञानत्वं सामान्यं वा प्रतिनियतं वा । नाद्यः वादिप्रतिवादिनोराश्रयासिद्धेः । द्वितीये यथार्थज्ञानवृत्तिज्ञानत्वे सिद्धसाधनता । विमतज्ञानवृत्तिज्ञानत्वपक्षीकारेऽपि मात्रेति व्यर्थं स्यात् । तत्त्यागेन च प्रतिज्ञाने प्रथमानुमानदोष एव ॥ किञ्च यथार्थमात्रवृत्तीत्ययथार्थावृत्तित्त्वमात्रं विवक्षितम् उतायथार्थज्ञानावृत्तित्वम् । आद्ये सिद्धसाधनम् । अयथार्थव्यवहारावृत्तित्वस्य सिद्धत्वात् । द्वितीये परस्याप्रसिद्धविशेषणता, अदुष्ट-सामग्रीजन्यमात्रवृत्तित्वमुपाधिश्च ॥ यच्च शुक्तिका रजतत्वेनावभासत इत्यादि; तदप्यसत् । मेरुः सर्षप इत्यादिवाक्यान्मेरोरपि सर्षपत्वेन प्रतिभासाद् दृष्टान्तस्य साध्यवैकल्यात् । अन्यथा तथाविध-वाक्याभासं श्रुतवता तत्प्रतिषेधो न क्रियेताप्रसक्तत्वात् । न हि पदार्थप्रतिषेधो युक्तः ॥ अपि चैवं सत्यग्निरनुष्ण इति बाधितविषयस्य वाक्यस्य घटः पचतीत्यपार्थकाद्भेदो न स्यात् ॥ यदपीदं रजत-तादात्म्यमित्यादि । तच्चायुक्तम् । तदप्रतीतावाश्रयासिद्धेः, प्रतीतौ व्याघाताद् दृष्टान्तस्य साध्य-समत्वाच्चेत्यास्तां विस्तरः ॥
वाक्यार्थचन्द्रिका
धर्मिविकल्पप्रयुक्तदूषणालाभाय ज्ञानत्वस्य पक्षतया निर्देशेऽपि तत्प्रयुक्तदूषणं स्यादेवेत्याशयेनाह ॥ तत्रेति ॥ वादीति ॥ वादिना गुणगतजातेः प्रतिवादिना चानुगतसामान्यस्य क्वाप्यनभ्युपगमादिति भावः । प्रथमानुमानदोषः कालात्ययापदिष्टत्वम् ॥ अदुष्टेति ॥ अदुष्टसामग्रीजन्य-वर्तिनि सत्तादावयथार्थज्ञानावृत्तित्वाभावेन समव्याप्तिभङ्ग इत्यतः समव्याप्तस्यैवोपाधित्वमिति पक्षे तदर्थं मात्रपदम् । दुष्टसामग्य्रजन्यमात्रवृत्तित्वमित्यर्थान्नेश्वरज्ञानत्वे साध्यापकत्वम् । उपाधौ मात्रेति विशेषणं च पक्षे साधनाव्यापकत्वसिध्द्यर्थम् । उपाध्यभावेन साध्याभावसाधनेऽसिद्धिपरिहारार्थं चेति द्रष्टव्यम् । ननु मेरुसर्षपतादात्म्यं नैव प्रतिषिध्द्यत इत्यतः प्रतिषेधस्यानुभवसिद्धत्वात्तादात्म्याप्रतिषेधेऽन्यस्या-प्रसङ्गात्पदार्थप्रतिषेधो वक्तव्यः । स च पदार्थानां स्वरूपेण सत्त्वेन बाधितत्वान्न युक्त इत्याह ॥ न हीति ॥ यद्वाऽस्तु तर्हि प्रसक्तत्वात्पदार्थानामेव प्रतिषेध इत्यतोऽयुक्तः स इत्याह ॥ न हीति ॥ ननु मेरुः सर्षप इत्यस्यानन्वितत्वात्प्रतिषेध इत्यत आह ॥ अपि चेति ॥ तर्ह्यग्निरनुष्ण इत्यस्य मेरुः सर्षप इत्यतोऽविशेषत्वादनन्वितवाचकप्रयोगत्वादेव दुष्टत्वोपपत्तौ बाधितापार्थकयोर्भेदो न स्यादित्यर्थः । असतोऽपि प्रतीतेर्वक्ष्यमाणत्वेनासत्त्वादिहेतूनामप्रयोजकत्वादेः । सुज्ञानत्वादुपरम्यत इत्याशयेनाह आस्तामिति ॥ यद्वैतच्चक्षुरेतच्चक्षुर्जन्ययथार्थज्ञानातिरिक्तज्ञानजनकं चक्षुष्ट्वादिन्द्रियत्वाद्वा चक्षुरन्तर-वदिन्द्रियान्तरवच्च । विमतानि पदानि स्वस्मारितार्थान्वयप्रतिपादकान्याकाङ्क्षादिमत्पदकदम्बकत्वात्संमत-वदित्याद्यन्यथाख्यातिसाधकानुमानानां विपर्ययानभ्युपगमे प्रतिपक्षाप्रतिपत्तौ तन्निरासाय कथारम्भासंभव इत्यादिबाधकानां चोपपत्तौ तदनुपन्यासेन कथमुपरम्यत इत्यतोऽनुमानानामुपाधिप्रतिपक्षकलङ्कितत्वेन तन्निरासेन बहुयत्नसापेक्षेण न फलं परेषां तु वाचालतयाऽयुक्तो वाक्प्रपञ्चः । अविरुद्ध-साधकबाधकयोरुक्तरीत्या सुज्ञानत्वादुपरम एवोचित इत्याशयेनाह ॥ आस्तामिति ॥
परिमल
ज्ञानत्वं यथार्थमात्रवृत्ति ज्ञानमात्रवृत्तिधर्मत्वात्प्रमात्ववदिति पूर्वपक्षिणोक्तमनुमानान्तरं च निराह ॥ यदपीत्यादिना ॥ विमतज्ञानेति ॥ भ्रमस्थलीयज्ञानेत्यर्थः ॥ तत्त्यागेन च प्रतिज्ञान इति ॥ मात्रपदं हित्वा यथार्थज्ञानवृत्तीत्येव प्रतिज्ञाकरणे सति याथार्थ्यसाधकेषु यत्प्राथमिकं विगीतः प्रत्ययो यथार्थः प्रत्ययत्वादित्यनुमानं तत्रोक्तो बाधितत्वरूपो दोष एवेत्यर्थः । शुक्तिका न रजतत्वेनावभासते तद्रूपेणासत्त्वात् । तद्यद्रूपेणाऽसत् तत्तद्रूपेण नावभासते । यथा मेरुः सर्षपत्वेन । इदं रजततादात्म्यं न प्रत्येतुं शक्यम् असत्त्वात्कूर्मरोमवदिति पूर्वपक्षान्ते परोक्तमन्यदपि निराह ॥ यच्चेति ॥ पदार्थेति ॥ मेरुपदस्य सर्षपपदस्य वा योऽर्थस् तस्य प्रतिषेधो न युक्तः प्रमितत्वात् । किन्तु तत्तादात्म्यस्यैवेत्यर्थः । व्यक्तमुक्तमेतत्तर्कताण्डवे योग्यतावादे ॥ एवं सतीति ॥ बाधितस्थले संसर्गबोधाभावे सत्यनन्वित-वाचकपदादिप्रयोगरूपत्वाद् घटः पचति कुण्डमजाजिनं दश दाडिमानि षडपूपा इत्याद्यपार्थकवाक्याद्भेदो न स्यात् । अन्वयाप्रतीतेरुभयत्र तुल्यत्वादिति भावः ॥
यादुपत्यं
वादिप्रतिवादिनोरिति ॥ प्राभाकरैर्गुणेषु गुणत्वावान्तरजातेरनङ्गीकारात् । अस्माभिरप्यनुगतसामान्यानङ्गीकारादिति भावः ॥ विमतज्ञानेति ॥ इदं रजतमिति ज्ञानवृत्तिप्रति-नियतज्ञानत्वपक्षीकार इत्यर्थः ॥ व्यर्थं स्यादिति ॥ न च धर्म्यंशे सिद्धसाध्यतापरिहाराय तदिति वाच्यम् । विमतग्रहणेनैव तस्य पक्षत्वपरिग्रहात् ॥ प्रथमानुमानदोष एवेति ॥ कालात्ययापदिष्टत्वमित्यर्थः ॥ अदुष्टसामग्रीति ॥ दुष्टसामग्य्रजन्यमात्रवृत्तित्वमित्यर्थः । अन्यथा प्रमात्वे साध्याव्यापकता । तत्र साध्यस्य सत्त्वेऽपि तस्येश्वरज्ञानेऽपि सत्त्वेनादुष्टसामग्रीजन्यमात्रवृत्तित्वाभावात् । परमतेन वेदमुपाध्युद्भावनं तन्मते ईश्वराभावात् । उपाधौ मात्रपदं च समव्याप्त्यर्थं तत्त्यागे प्रमेयत्वादौ व्यभिचारात् । तस्यायथार्थव्यवहार-वृत्तित्वेन तत्र साध्याभावात् । घटः पचतीति पाठे पचतीत्यत्र प्रकृतिप्रत्यययोरपि प्रत्येकं प्रयोगविषयत्व-मभिप्रेतम् । तथा च घटः पचनं कर्तेत्यपार्थकादित्युक्तं भवति । अनन्वितस्यैवापार्थकत्वात् । अन्यथा क्रियाकारकभावेनान्वयासंभवेनेदमपि बाधोदाहरणमेव स्यात् । पचन्तीति पाठे तु स्फुटमपार्थकत्वम् ॥ साध्यसमत्वादिति ॥ पक्षसमत्वादित्यर्थः । तथा च तदप्रतीतावाश्रयासिद्धिः प्रतीतौ च व्याघात इति यथा पक्षे दूषणमुक्तं तथा दृष्टान्तेऽपि दूषणं वक्तव्यमित्यर्थः । यद्वा कूर्मरोम्णोऽपि भ्रान्तिविषयत्व-संभवात्साध्यं तत्र सन्दिग्धमित्याशयः ।
श्रीनिवासतीर्थीया
इत्यादीत्यादिपदेन ज्ञानमात्रवृत्तित्वात्प्रमात्ववदिति हेतुदृष्टान्तग्रहणम् ॥ असिद्धेरिति ॥ अनुगतसामान्यानङ्गीकारादिति भावः ॥ सिद्धसाधनतेति ॥ प्रतिनियतज्ञानत्वपक्षीकारे यथार्थज्ञानवृत्तिज्ञानत्वानिगृहीतत्वा तेषां यथार्थज्ञानमात्रवृत्तित्त्वस्य सिद्धत्वात्सिद्धसाधनता स्यादित्यर्थः ॥ विमतज्ञानवृत्तिज्ञानत्वेति ॥ प्रतिनियतज्ञानत्वस्य पक्षत्वेऽपि न सिद्धसाधनता । इदं रजतमिति ज्ञानवृत्तिज्ञानत्वस्यैव पक्षीकरणादिति भावः ॥ प्रथमानुमानदोष एवेति ॥ विगीतप्रत्ययो यथार्थः प्रत्ययत्वात्संमतवदित्यनुमाने यो दोषः कालात्ययापदिष्टत्वरूपः स एव दोषोऽत्रापीत्यर्थः ॥ सिद्धत्वादिति ॥ पक्षीभूते ज्ञानत्व इति शेषः ॥ अप्रसिद्धेति ॥ अयथार्थज्ञानस्यैवानङ्गीकारादिति भावः । अदुष्टसामग्रीति ॥ ननु प्रमात्वे साध्याव्यापकता । तत्रायथार्थज्ञानावृत्तित्वे सत्यप्यदुष्टसामग्रीजन्यमात्रवृत्तित्वं नास्ति । तदजन्ये ईश्वरज्ञानेऽपि सत्त्वादिति चेन्न । दुष्टसामग्य्रजन्यवृत्तित्वस्य विवक्षितत्वात् । यद्वेश्वरज्ञानस्य गुणदोषाजन्यत्वेन प्रमाऽप्रमाबहिर्भूतत्वेन तत्र प्रमात्वस्यैवाभावान्न साध्याव्यापकताशङ्केति द्रष्टव्यम् ।
अथवा परमतेनैवेदमुपाध्युद्भावनम् । तन्मते ईश्वराभावेन साध्याव्यापकताशङ्काया एवाभावादिति मन्तव्यम् । उपाधौ मात्रपदाभावे समव्याप्तिपक्षेऽभिधेयत्वे व्यभिचारः स्यात् । तस्यादुष्टसामग्रीजन्य-वृत्तित्वेऽप्ययथार्थव्यवहारेऽपि सत्त्वेन यथार्थमात्रवृत्तित्वाभावात् । अतो मात्रपदम् । अभिधेयत्वस्य दुष्टसामग्रीजन्येऽपि सत्त्वेन व्यभिचाराभावादिति द्रष्टव्यम् । एवं प्रमेयत्वेऽप्युपाधेः सत्त्वेऽप्ययथार्थ-व्यवहारस्वरूपस्य सत्यत्त्वेन तत्रापि सत्त्वेन साध्याभावाद्य्वभिचारः स्यादतो मात्रपदम् । तस्य दुष्टसामग्री जन्यज्ञानस्वरूपस्य सत्यत्वेन तत्रापि विद्यमानत्वान्न व्यभिचार इत्यपि द्रष्टव्यम् । इत्यादीत्यादिपदेन तद्रूपेणासत्त्वाद् यद्यद्रूपेणासत् तत्तद्रूपेण नावभासते । यथा मेरुः सर्षपत्वेनेत्यस्य ग्रहणम् ॥ अन्यथेति ॥ मेरुः सर्षप इति वाक्यान्मेरोः सर्षपत्वेन प्रतिभास एव न भवतीत्यङ्गीकारे तादृशवाक्याभासश्रवणानन्तरं मेरुः सर्षपो न भवतीति तादात्म्यरूपसंबन्धप्रतिषेधः क्रियते तन्न स्यात् । प्रतिषेधस्य प्रतियोग्यधिकरण-संसर्गज्ञानरूपप्रसक्तिपूर्वकत्वात्तस्याश्चात्राभावादिति भावः । ननु मेरुरूपस्य पदार्थस्य सर्षपरूपस्य पदार्थस्य च प्रत्यक्षसिद्धतया प्रसक्तत्वेन तत्प्रतिषेधः संभवतीत्यत आह ॥ न हीति ॥ प्रत्यक्षबाधादेवेति भावः । मेरुः सर्षप इति बाधितवाक्यान्मेरोः सर्षपत्वरूपान्वयज्ञानमेव नोत्पद्यत इत्यङ्गीकारे बाधकान्तरमाह ॥ अपि चैवं सतीति ॥ घटः पचतीति । घटः पचनकर्तेत्यर्थो ऽपार्थकत्वाद् गौरश्वः पुरुषो हस्तीतिवदनन्वितात् । अनन्वितमपार्थकमिति वचनात् । तथाच बाधितापार्थकवाक्यद्वया-दप्यन्वयज्ञानानुत्पत्तेस्तयोर्न भेदः स्यादित्यर्थः । इत्यादीत्यादिपदेन न प्रत्येतुं शक्यम् असत्त्वात्कूर्म-रोमवदित्यस्य ग्रहणम् । अत्र प्रष्टव्यम् । इदं रजततादात्म्यरूपपक्षः प्रतीतो न वा । द्वितीये आश्रया-सिद्धिः । आद्ये तु प्रत्येतुं शक्यत इति साधने व्याघात इत्याह ॥ तदप्रतीतावित्यादिना ॥ साध्य-समत्वादिति ॥ साध्यधर्मवत्तया साधयितुं योग्यं साध्यं पक्षस्तत्समत्वादित्यर्थः । यथा पक्षे विकल्प्य दूषणमुक्तमेवं दृष्टान्तेऽपि विकल्प्य दूषणं वक्तव्यमिति भावः । तथा हि दृष्टान्तीकृतं कूर्मरोम प्रतीतं न वा । द्वितीये दृष्टान्तरूपाश्रयस्यैवासिद्धिः । आद्ये प्रत्येतुमशक्यत्वरूपसाध्याभावेन साध्यवैकल्यमिति द्रष्टव्यम् । विस्तरः शब्दप्रपञ्चः । ‘विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तर’ इत्यभिधानात् ॥
वाक्यार्थरत्नमाला
अलाभायेति । अप्राप्तय इत्यर्थः । तत्प्रयुक्तं धर्मिविकल्पप्रयुक्तम् । यद्यपीश्वरज्ञानत्वे यथार्थमात्रवृत्तित्व-साध्यवत्यपि नादुष्टसामग्रीजन्यमात्रवृत्तित्वमिति साध्याव्यापकत्व- शङ्कोदेति । तथापि पूर्वोक्तरीत्या अत्रापि दुष्टसामग्रयजन्यमात्रवृत्तित्वस्य विवक्षया ज्ञातुं शक्यतया न साध्याव्यापकत्वमिति स्पष्टम् । शिष्यैरेवोह्यतामित्याशयेन मात्रपदकृत्यमेवाह अदुष्टेति । सत्तादा-वित्यादिपदेन प्रमेयत्वादिग्रहणम् । इत्यत इत्यस्य तदर्थमिति वक्ष्यमाणेनान्वयः । तत्र तदर्थमित्यस्य समव्याप्त्यर्थमित्यर्थः । तस्यानावश्यकत्वमित्यत उक्तं समव्याप्तस्यैवेत्यादि । अत्र संस्कारमात्र-सहकृतमनोजन्यत्वोपाधीति स्मरणत्वसाधकानुमानीयोपाधिपरमूलव्याख्याने उपाधौ संस्कारेति मात्रेति च विशेषणं पक्षे साधनेत्युक्तं तदनुसारेण । गुरुराजसंमतः पाठस्तु; दुष्टेतीति प्रतीकोपादानानन्तर-मदुष्टसामग्रीजन्यवर्तिनि सत्तादौ अयथार्थज्ञानावृत्तित्वाभावेन समव्याप्तिभङ्ग इत्यतः समव्याप्तस्यैवो-पाधित्वमिति पक्षे तदर्थं मात्रपदमित्यनन्तरं वस्तुतस्तु दुष्टसामग्रयजन्यमात्रवृत्तित्वमित्यर्थान्नेश्वरज्ञानत्वे साध्यव्यापकत्वम् । उपाधौ मात्रेति विशेषणं च पक्षे साधनाव्यापकत्वसिध्यर्थम् । उपाध्यभावेन साध्याभावसाधनेऽसिद्धिपरिहारार्थं चेति द्रष्टव्यमित्यन्तः । तत्र वस्तुत इत्यनेन वक्ष्यमाणरीत्या साधना-व्यापकत्वादिसंपादनस्यान्तरङ्गतया तादर्थ्यमनुक्तवा समव्याप्त्यर्थत्वाभिधानायोग इति पूर्वयोजनाया-मस्वरसं सूचयति साधनाव्यापकत्वेति । अदुष्टसामग्रीजन्यत्वस्येदमंशे सत्त्वेन तद्वृत्तित्वेन साधन-व्यापकत्वपरिहारायादुष्टसामग्रीमात्रेति मात्रपदमुपात्तम् । ततश्च नेदमंशमादायापि उपाधिसत्त्वम् । तदंशे दुष्टसामग्रयजन्यत्वेऽपि तस्यैव रजतांशे तत्सामग्रीजन्यतया विमतज्ञानत्वस्य दुष्टसामग्रयजन्यमात्रवृत्तित्वं नेति युक्तं साधनव्यापकत्वम् । न चोभयांशेऽपि अदुष्टसामग्रीजन्यत्वमेवेति वाच्यम् । तथात्वे तस्य समीचीनज्ञानतुल्यतापत्तौ ग्रहणस्मरणवत्स्वविषयविवेकत्वप्रसङ्गात् । अन्यथा व्यवहारजनकत्वा-भावप्रसङ्गाच्चेति भावः । असिद्धीति । उपाध्युन्नीतप्रतीतिपक्षेऽसिद्धिवारकमपि विशेषणं सार्थकम् । व्यभिचारवारकत्वनियमस्तु तदनुन्नीतप्रतिपक्ष एवेति व्यवस्थाश्रयणस्य शरीरजन्यत्वोपाधिविचारे तत्त्वनिर्णयटीकायामुक्तत्वादिति प्रागेवोक्तमिति ज्ञेयम् । प्रतिषेधो न क्रियेतेत्यत्रेष्टापत्तिशङ्का-निरासकत्वेनोत्तरवाक्यं प्रवृत्तमित्याशयेन योजयति ननु मेरुसर्षपेति । न निषिध्यत इति कोऽर्थः । किं तथा प्रतिषेध एव नास्तीति । उत सत्त्वेऽपि तस्य विषयान्तरमितीति विकल्पं मनसि कृत्वाऽऽद्यदूषणं प्रतिषेधस्येति । द्वितीयं परिशेषयंस्तद्दूषणपरत्वेनोत्तरवाक्यमवतारयति तादात्म्येति । अनन्वित-त्वादिति । दश दाडिमानि षडपूपा इत्यादिवदनाकाङ्क्षिताभिधानत्वादित्यर्थः । बाधितेति । अग्निरनुष्ण इत्ययं प्रमाणबाधितो व्यवह्रियते । कुण्डमजेत्येतदपार्थकमिति व्यवह्रियते । तदुभयत्रानन्वयसत्त्वेऽपि बाधिते प्रथमोपस्थित्यादिनिमित्तेन बाध एव दूषणम् । नानन्वितवाचकपदप्रयोगतयाऽपार्थकत्वम् । कुण्डमित्यादौ तु प्रथमोपस्थित्यादिना अपार्थकमेव । आकाङ्क्षाभावेनैव दुष्टत्वप्रतीतेः । स चायं भेदो न स्यादित्यर्थः । तत्त्वप्रदीपिकाद्युक्तरीत्याऽधिकमपि साधकं कुतो नोक्तमित्याशङ्का तत्र कृतचर्चस्या-पर्यवसानमेवेति युक्ता ।
तत्रोक्तसाधकानुक्तिरित्येतदर्थकतया आस्तामित्येतदवतारयति यद्वैतच्चक्षुरित्यादिना । इत्यादी-त्यादिपदेन एतच्चक्षुरित्यनुमानान्तरसङ्ग्रहः । अत्राद्यमनुमानं चक्षुष्षु विभ्रमे प्रमाणम् । द्वितीयं शाब्द-विभ्रमसद्भावे इति विवेकः । आद्येऽनुमाने एतच्चक्षुषोऽपि स्वजन्यप्राक्कालीनयथार्थज्ञानातिरिक्तेदानींतन-यथार्थज्ञानजनकतामादाय सिद्धसाधनतापरिहाराय एतच्चक्षुर्जन्ययथार्थज्ञानत्वानधिकरणज्ञानजनकमिति साध्यार्थो विवक्षित इति ज्ञेयम् । चक्षुर्मात्रपक्षीकरणे चक्षुरन्तरजन्ययथार्थज्ञानत्वानधिकरणेनैतच्चक्षुर्जन्य-यथार्थज्ञानेन सिद्धसाधनता । तन्निवृत्त्यर्थमेतदिति चक्षुर्विशेषितम् । एवं साध्येऽपि द्रष्टव्यम् । यथार्थ-ज्ञानत्वानधिकरणज्ञानजनकमित्युक्ते प्राभाकररीत्या अप्रसिद्धविशेषणता । विरुद्धता चेत्यत एतच्चक्षु-र्जन्येत्युक्तम् । चक्षुरन्तरजन्यज्ञानस्य यथार्थत्वेनाङ्गीकारेऽपि एतच्चक्षुर्जन्यत्वाभावादेव एतच्चक्षुर्जन्यत्वे सति यथार्थज्ञानत्वानधिकरणत्वमस्तीति नाप्रसिद्धविशेषणता नापि विरुद्धतोक्तिलब्धं दृष्टान्ते साध्य-वैकल्यम् । व्याहतिनिवृत्त्यै यथार्थग्रहणम् । पक्षे त्वेतच्चक्षुर्जन्ययथार्थज्ञानत्वानधिकरणत्वमेतच्चक्षुर्जन्यत्व-रूपविशेषणस्याभावमादाय न सम्भवति । व्याघातादतो यथार्थत्वरूपविशेष्याभावमादायैव पर्यवस्यतीति यथार्थत्वानधिकरणं किञ्चिच्चक्षुर्जन्यं ज्ञानं सिध्यतीति चाक्षुषाऽयथार्थज्ञानसिद्धिः । एवं लिङ्गाभासादिकमपि पक्षीकृत्य लैङ्गिकादिभ्रमः साधनीय इति भावः । विमतानि पदानीति । द्वितीये पदमात्रपक्षीकरणे गामानयेत्यादिषु यथार्थज्ञानजनकेषु सिद्धसाधनता । तदर्थं विमतग्रहणम् । आकाङ्क्षा सन्निधिमात्रवन्ति पदानीत्यर्थः । पदानां देवदत्तोऽयमधीत इति वक्तृविशेषानुमापक-तयाऽप्यन्वय-प्रतिपत्तिजनकत्वेन सिद्धसाधनता तत उक्तं स्वस्मारितेति । पदकदम्बकत्वादित्युक्ते उरगस्तुरगः खदिर इत्यादिपदसमूहेष्वनैकान्तिकता तदर्थमाकाङ्क्षाग्रहणम् । तावत्युक्ते गामानय प्रासादं पश्येत्यना-काङ्क्षयोरप्यसन्निहिततया परस्परमन्वयप्रतीत्यजनकयोर्गां पश्येत्यनयोरनैकान्तिकता । तन्निवृत्त्यर्थं सन्निधिमदिति । तावत्युक्ते चायमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामिति वाक्ये राज्ञ इति पुरुष इति च पदयोः सन्निधिमत्त्वेऽपि पुरुषपदनैराकांक्ष्येण परस्परसमन्वयप्रतीत्यजनकयोरनैकान्तिकता । तदर्थ-माकाङ्क्षाग्रहणम् अधिको विचारः शब्दमणिमधुरानाथीग्रन्थानुसारेण कर्तव्योऽस्ति । न विलक्षणत्वाधि-करणीयमूलगतविवादाध्यासितानि पदानीत्यनुमानविचारष्टीकायां करिष्यते । तदनुमानस्यागमानु-मानतासाधकत्वेनान्वयप्रमितिपूर्वकत्वसाध्यकत्वम् । योग्यतागर्भहेतुकत्वं विशेष इति ज्ञेयम् ।
प्रतिपक्षाप्रतिपत्ताविति । योग्यतारहितस्याप्याकाङ्क्षादिमतः प्रतीतिजनकत्वानङ्गीकारे प्रतिवादि-वाक्यात् शब्दोऽनित्य इत्यादेरयोग्ययोः शब्दनित्यत्वयोः संसृष्टप्रतीत्यनुपपत्तौ तदनुवादाभावेन तन्निराकरणादिरूपकथनारम्भप्रसङ्गो बाधक इत्यर्थः । शब्दो नित्य इति शब्दस्यानित्यत्वे वादिना प्रतिपादिते सति प्रतिवादी यदि तन्न बुध्येत तदा अज्ञातस्य निराकरणानुपपत्त्या वादिपरिषद्भ्यां विज्ञातस्य स्वयमविज्ञानेऽविज्ञातार्थरूपनिग्रहस्थानापत्त्या च बुध्यत इत्यङ्गीकारे तज्ज्ञानस्य प्रतिवादिनि यथार्थत्वायोगेन विपर्यय एवाङ्गीकृतो भवतीति भावः । यद्यपीदं बाधकाभिधानं द्वितीयानुमाने अप्रयोजकत्वनिरासायैव तत्त्वप्रदीपिकायां कृतम् । तथापि विपर्ययानभ्युपगमे विपक्षे चेत्यनेनोक्तं बाधकं प्रथमेऽपि प्रसरत्येवेति उभयत्रापि तदभिधानं युक्तम् । द्वितीयानुमान एवैतदित्यप्याहुः । आदिपदे-नैकाधिकरणकविरुद्धधर्मप्रतिपत्तिलक्षणविप्रतिपत्तेरेव त्वन्मतेऽसिध्या कथारम्भस्य सुतरामयोगा-द्विप्रतिपत्तिनिरासस्य सुतमामयोगः । संसर्गप्रतिपत्त्यजनकं चेत्सर्वं वाक्यमनृतापार्थकनिरर्थकभेदाद-सिद्धिप्रसङ्गः । यत्र समुदायार्थप्रतीतिसद्भावेऽपि वाक्यार्थबाधास्तत्रानृतत्वं यथा नदीतीरे पञ्च-फलानीत्यादौ । यत्रावयवार्थप्रतीतिसद्भावेऽपि न समुदायार्थप्रतीतिस्तत्र दश दाडिमानीत्यादाव-पार्थकता । यत्र च नावयवार्थप्रतीतिरपि तत्र चटतकपानां जडदगबत्वात् । छठथखफवदित्यादौ तत्र निरर्थकत्वम् । तथा चास्य भेदस्य संसर्गप्रतीतेः सर्वत्राभावेऽयोग इत्येतयोर् बाधकयोः संग्रहः । उपाधिप्रतिपक्षेति । यद्यपि प्रथमानुमाने चक्षुश्चक्षुर्जन्ययथार्थज्ञानजनकत्वे सत्यतिरिक्तज्ञानजनकं न भवति इन्द्रियत्वाच्छ्रवणवदिति प्रतिपक्षस्यैव द्वितीये च योग्यतावत्वादिरूपोपाधेरेव चाशङ्कनानुसारेण प्रतिपक्षोपाधीति वाच्यम् । तथापि विशेषानुगतिभ्यामिति सूत्र इवाल्पाच्तरतयोपाधिग्रहणं प्रथमत इत्यदोषः । तन्निरासेनेति । प्रतिपक्षे मनस्यनैकान्त्येनोपाधेश्चाकाङ्क्षासन्निधिरहितपदे प्रयोज्यतावत्व-सद्भावेऽपि साध्याभावेन साध्यसमव्याप्तत्वाभावादित्येवंरूपनिरासेनेत्यर्थः । बहुयत्नेति । बहिरिन्द्रिय-त्वस्य हेतुतायां नानैकान्त्यमिति शङ्कापरिहाराय मास्तु अनैकान्त्यम् । तथापि चक्षुषि स्वजन्ययथार्थ-ज्ञानातिरिक्तरसादिज्ञानजनकत्वाभावेन सिद्धसाधनत्वं तु स्यादेव । आकाङ्क्षादिमत्वे सति योग्यता-वत्वस्योपाधित्वे समव्याप्त्युपपत्तावपि व्यर्थविशेष्यत्वमनिवार्यम् । आकाङ्क्षासन्निधिमत्वेऽपि योग्यता-भावप्रयुक्तान्वयज्ञानाजनकत्वस्य वादिप्रतिवाद्युभयसंमते स्थले दर्शनाभावात् । आकाङ्क्षासन्निधिमतां योग्यतारहितानां च सर्वेषां पक्षीकरणात् । योग्यतावत्वस्यैव विषमव्याप्तत्वेनोपाधित्वमप्ययुक्तम् । यदयोग्यार्थं तदन्वितप्रतिपत्तिजनकं नेत्यस्य उदाहरणाभावेन व्यतिरेकोपसंहारानुपपत्त्योपाधिव्यतिरेकेण साध्यव्यतिरेकसाधनायोग इत्यादि बहुयत्नसापेक्षेणेत्यर्थः । सर्वथा साधकाद्यनुक्तिस्तु नास्तीत्याह अविरुद्धेति ।
विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्
प्राभाकराख्यातिनिरासः
विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्
सुधा
अत्रोच्यते । यत्तावदन्यथाख्यातिलक्षणं निराकृतमन्याकारोल्लेखीत्यन्तेन तदिष्टमेवा-स्माकम् । अन्यदन्यात्मना विषयीकुर्वज्ज्ञानमन्यथाख्यातिरित्यङ्गीकारात् । यथोक्तमसतः सत्त्व-प्रतीतिः सतोऽसत्त्वप्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वादिति ॥ नन्वन्यस्यान्यात्मता सती उतासती । असतीति ब्रूमः । असतो न प्रतीतिरिति चेन्न । तस्या उपपदयिष्यमाणत्वात् । एवं सति रजतस्यापि कुतः सत्त्वमङ्गीकरणीयमिति चेन्न । को हि ब्रूते रजतं सदिति । वक्ष्यामो ह्यभिनवा-न्यथाख्यातिस्वरूपमुपरिष्टत्वात् ॥ अत्र केनचित्प्रलपितम् । खण्डो गौः शुक्लः पट इत्यादयः सर्व एव सविकल्पकप्रत्यया विभ्रमाः प्रसज्येरन् । सामानाधिकरण्यप्रत्ययस्य तादात्म्यालम्भनत्वात् । तस्य चात्राभावादिति । तदतीव मन्दम् ॥ तथा हि । सामानाधिकरण्यप्रत्ययो हि कयोस्तादात्म्यमव-लम्बते । किं गुणक्रियाजात्यादेर् द्रव्येणोत गुणादीनामेव परस्परमथ गुणाश्रयस्य क्रियाश्रयेणेत्यादि ॥ नाद्यः । असम्मतेः । न हि शुक्लः पट इत्यस्य शौक्ल्यं पट इत्यर्थोभिमतो लौकिकानाम् । न च चलति पट इत्यस्य चलनं पट इत्यर्थोऽभिमतः । नापि खण्डो गौरित्येतत्खण्डत्वं गोत्वं च पिण्ड एवेत्यनेन समानार्थम् । तथात्वे दण्डी इत्यस्यापि दण्डदेवदत्ततादात्म्यविषयतापत्तेः । दण्डीति शाब्दव्यवहारे भेदार्थप्रत्ययप्रयोगाज्ज्ञानमपि तादृशं कल्प्यत इति चेत्सममत्रापि । शुक्लगुणोऽस्या-स्तीत्यस्मिन्नर्थेऽर्शआदिभ्योऽजित्यकारप्रत्ययविधानात् । चलतीत्यादौ तु स्फुट एव प्रकृतिप्रत्यय-योरर्थभेदः । न हि गौरिति गोत्वमुच्यते तथात्वे त्वप्रत्ययवैयर्थ्यात् । अत एव शुक्लः पट इत्युक्त्वा शौक्ल्यं पटस्येति व्याकर्तारो भवन्ति ।
वाक्यार्थचन्द्रिका
अन्यथाविज्ञानमेव भ्रान्तिरिति वदता भाष्यकारेणाभिप्रेतमन्यथाख्याति-लक्षणान्तरनिराकरण पूर्वपक्षव्याजेनास्माभिर्दर्शितमित्याशयेनाह ॥ यत्तावदिति ॥ इत्यन्तेनेति ॥ अन्तशब्दो मर्यादावचनः । एतत्पर्यन्तेनेत्यर्थः । अत एवान्याकारोल्लेखीत्यस्मदभिमतान्यथाख्यातेरिति वक्ष्यति । अत्र पूर्वपक्षानुवादानुसारेणान्याकारोलेख्यन्यालम्बनं ज्ञानमन्यथाख्यातिरित्यङ्गीकारादिति वक्तव्येऽन्यदित्यादिवचनमेतत्पक्षाभिप्रेतार्थस्यान्यथाविज्ञानं भ्रान्तिरिति भाष्यारूढताप्रदर्शनाय । तथा चान्यथेत्येतत्सामर्थ्यलभ्यमन्यद्विषयीकुर्वदिति संयोज्य भाष्यव्याख्यानं भवति । नन्वत्रान्यशब्दाभ्यां वस्तुमात्रविवक्षायां वस्तुनो वस्त्वन्तरात्मनाऽवभासरूपान्यथाख्यातिलक्षणनिरासस्य पूर्वोक्तस्वाभीष्टत्व-विरोधः । वस्त्ववस्तूभयग्रहणे च न सिद्धान्तीयं ज्ञापकमन्यथाविज्ञानमिति भाष्यस्य वस्तुमात्रविषयकत्वे-नापि व्याख्यातुं शक्यत्वादित्यत एतद्-व्याख्यानरूपतत्त्वनिर्णयस्थभाष्यकारीयवाक्यानुसारेणैतद्भाष्यं व्याख्येयमित्याशयेन तत्स्थं वाक्यमुदाहरति ॥ यथोक्तमिति ॥ अत्र स्वमते पराभिमतान्यथाख्याति-वैलक्षण्यं दर्शयितुं सदसतोरसत्सत्त्वप्रतीतिरन्यथाख्यातिरित्युक्तं लक्षणं त्वन्यदित्याद्यस्मदुक्तरीत्यैवेति भाष्ये सदसतोरसत्सत्त्वप्रतीत्योरन्यतरस्थलेऽन्यतरसत्त्वनियमे लक्षणेऽन्यतरवैयर्थ्यमनियमे च प्रत्येकलक्षणत्वे परस्पराव्याप्तिर्मिलितस्य लक्षणत्वे चैकैकमात्रवत्यव्याप्तिरित्यादिचोद्यानवकाश इत्यप्यन्यदित्याद्युक्त्या सूचितमिति द्रष्टव्यम् ।
वस्तुनो वस्त्वन्तरात्मना अवभास इति पक्षे पूर्वपक्ष्युद्भावितं न्यायसाम्यादत्रापि प्रसक्तं विकल्पदूषणम् असद्विलक्षणज्ञप्ते’’त्याद्युत्तरभाष्येण निरस्तमित्याशयेन तद्विकल्पमाशङ्कते ॥ नन्विति ॥ अत्र यत्परेणोक्तं दूषणमुपपत्तौ वा किं रजतस्यापि वस्तुत्वग्रहणेनेति तस्य वस्तुत्वगर्भलक्षणप्रणेतृनैयायिकं प्रति सम्भवेऽपि नास्मान्प्रति प्रसक्तिरित्याशयेन समाधातुं तच्छङ्कते ॥ एवमिति ॥ ननु रजतस्य देशान्तरेऽपि सत्त्वानभ्युपगमेऽसत्ख्यातिपक्षापत्त्याऽन्यथाख्यातिपरित्याग इत्यत आह ॥ वक्ष्याम इति ॥ विगीतप्रत्यये भासमानस्य सर्वस्य नासत्त्वमभ्युपगम्यते येनासत्ख्यातिरपि तु सदेव शुक्तिकाशकलमत्यन्तासद्रजतात्मना भासत इति तार्किकोक्तविलक्षणान्यथाख्यातिस्वरूपं वक्ष्याम इति भावः । अनिर्वचनीयख्याति-समर्थनायान्यथाख्यातिलक्षणानि निराकुर्वता विवरणकारेणोक्तमेतल्लक्षणदूषणं निराकर्तुमनुवदति ॥ अत्रेति ॥ केनचिदिति ॥ निरसनीयत्वेन प्रसक्ताख्यातिवादिविलक्षणेनेत्यर्थः । अख्यातिवाद्युक्तदूषणस्य नैयायिकं प्रति सम्भवेऽपि मां प्रत्यप्यसम्भव इत्येव । त्वदुक्तस्य तु तं प्रत्यसम्भवः वक्ष्यमाणरीत्या तेनापि तादात्म्यभानानभ्युपगमादित्याशयेनातीवेत्युक्तम् । यद्वा धर्माणामाश्रयेण परस्परं च भेदस्य धर्माश्रया-भेदस्य सामानाधिकरण्यप्रतितिविषयतया स्फुटस्याज्ञानेनेदं दूषणाभिधानं परस्येत्याशयेनातीवेत्युक्तमिति बोध्यम् । ननु सामानाधिकरण्यप्रत्ययस्य तादात्म्यानालम्बनत्वे तवान्यथाख्यातिरेव न सिद्ध्येदिति कथं मन्दमित्यत आह ॥ तथा हीति ॥ सामानाधिकरण्यप्रत्ययस्य तादात्म्यालम्बनत्वेऽपि शुक्लः पटश्चलतीत्यादिप्रत्ययानां यत्तादात्म्यालम्बनता न तेषामन्यत्वं येषां चान्यत्वं न तेषां तादात्म्यालम्बनतेत्य-न्यथाख्यातिवैलक्षण्यान्नातिव्याप्तिरिति वक्तुं गुणक्रियाजातीनां तदाश्रयाणां चैषु प्रत्ययेषु भानात्तादात्म्यावभासेनातिव्याप्तिं वदता च गुणादीनां स्वाश्रयैर्वा गुणादीनां परस्परं वा तदाश्रयाणां परस्परं वा तादात्म्यभानमाश्रित्यादिव्याप्तेर्वक्तव्यतया तदभिप्रायं ज्ञातुं पृच्छति ॥ सामानाधिकरण्येति ॥ तवासम्मतिरप्रयोजिकेत्यतोऽनुभवविरुद्धेऽर्थे संमतिर्न युक्तेत्याशयेनानुभवविरोधमाह ॥ न हीति ॥ अनुभवमतिक्रामन्तं प्रति बाधकमाह ॥ तथात्व इति ॥ वैषम्यं शङ्कते ॥ दण्डीतीति ॥ प्रत्ययस्य भेदाविनाभूतसम्बन्धार्थकतया भेदार्थत्वोक्तिः ॥ शुक्लगुण इति ॥ गुणवचनेभ्यो मतुपोलुग्वक्तव्य इति तदस्यास्त्यस्मिन्नित्यत्रत्येन वार्तिकेन शुक्ल इत्यस्योपपत्तावप्यन्तोदात्तत्वार्थमर्शादिभ्योऽजित्यत्र अर्श आदिगणे वर्णादिति पाठात्तदभिप्रायेणैवमुक्तमिति द्रष्टव्यम् । (गुणवचनेभ्य इति । गुणे तद्वति च प्रसिद्धाः शुक्लादय एव गृह्यन्ते न तु रूपादयोऽपि । शुक्लगुणोऽस्यास्तीति शुक्लः पटः । कृष्णः । तदस्यास्त्यस्मिन्निति मतुप् । गावोऽस्यास्मिन्वा सन्ति गोमान् । अस्तीति पुरुषवचने अविवक्षिते । कालस्तु विवक्षित एव । धने गते भाविनि वा धनवानयमिति प्रतीत्यभावात् । इतिशब्दो विषयविशेषलाभार्थः । तथा च वार्तिकम् । ‘भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादय’ इति । अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमादिविषयेषु भवन्तीत्यर्थः । भूमादिग्रहणं प्रायेण भूमादयोऽपि प्रतीयन्त इत्येवं परम् । भूमा बहुत्वम् । यस्य यावदुचितं तावदेव । निन्दायां ककुदावर्तिनी कन्या । प्रशंसायां रूपवान् । नित्ययोगे क्षीरिणो वृक्षाः । अतिशायने उदरिणी कन्या । संसर्गे दण्डी । संसर्गः संयोगः । तेन संयुक्तदण्ड एवोच्यते न तु गृहावस्थितदण्डोऽपि ।) शुक्ल इत्यादौ चलतीत्यादाविव भेदार्थप्रत्ययस्यास्फुटत्वादभेदादेव व्यवहारोपपत्तेर्न भेदज्ञानकल्पकं किञ्चिदित्यतोऽभियुक्तव्याख्यानं तद्-व्यवहारस्य सम्बन्धविषयकत्वे दर्शयति ॥ अत एवेति ॥
परिमल
॥ इत्यन्तेनेति ॥ अन्याकारोल्लेखिज्ञानमन्यालम्बनमन्यथाख्यातिरिति तु विरुद्धमित्यन्तेनेत्यर्थः ॥ यथोक्तमिति ॥ विष्णुतत्त्वनिर्णये ॥ उपपादयिष्यमाणत्वादिति ॥ ‘असद्विलक्षणज्ञप्त्यै’ इत्यादिव्याख्यावसर इति भावः । तादात्म्यतत्संसर्गमात्रमसदिति प्राचीनतार्किकरीतिं मत्वा शङ्कते ॥ एवं सतीति ॥ उपरिष्टादिति ॥ तत्रारोप्यमाणं रजतं सदेवेति केचिदातिष्ठन्त इत्यादिना तार्किकमतानुवादपूर्वं तन्निरासप्रस्ताव इत्यर्थः ॥ अत्रेति ॥ अविद्यमानतादात्म्यविषयकत्वेन ज्ञानस्य भ्रमत्वमित्युक्तार्थविषये केनचिद्दूषणमलग्नकमेवोक्तमित्यर्थः ॥ इत्यादीति ॥ क्रियाश्रयस्य जात्याश्रयेण जात्याश्रयस्य क्रियाश्रयेण गुणाश्रयेण वा क्रियाश्रयस्येत्यर्थः ॥ निर्विशेषाभेदाभिप्रायेणाह ॥ असम्मतेरिति ॥ भेदार्थप्रत्ययेति ॥ दण्डोऽस्यास्तीति दण्डी । ‘तदस्यास्त्यस्मिन्नि’त्यर्थे ‘अत इनिठनावि’तीनिप्रत्ययस्य भेदार्थबोधकस्य प्रयोगादित्यर्थः ॥ तादृशमिति ॥ ज्ञानव्यवहारयोरेकविषयकत्वेनैव जन्यजनक-भावापन्नत्वादिति भावः ॥ अकारप्रत्ययेति ॥ व्यञ्जनस्य स्वरार्थत्वेनेत्संज्ञकत्वादकार इत्येवोक्तम् । तथाच यस्येतिप्रातिपदिकाकारलोपे शुक्ल इत्येव शुक्लवानित्यर्थे रूपमिति भावः । यद्यपि पञ्चमस्य द्वितीयपादे ‘तदस्यास्त्यस्मिन्निति मतुबि’तिसूत्रे ‘गुणवचनेभ्यो मुतपो लुग्वक्तव्यः’ । शुक्लः पट इति वार्तिकान्निर्वाहो वृत्तौ दर्शितः । तथापि तत्प्रकरणे ‘अर्श आदिभ्य’ इतिसूत्रे वर्णादिति वृत्तौ उक्तपदस्य मञ्जर्यां वर्णवाचिनः शुक्लादिशब्दादपि अच्प्रत्ययो भवति । शुक्लोऽस्यास्तीति शुक्लः पट इत्युक्त्वा गुणवचनेभ्यो मतुपो लुग्वक्तव्य इत्येव सिद्धमेतदित्याशङ्क्य ये आद्युदात्ता वर्णवाचिनः शब्दास् तद्वत्यन्तोदात्तसिद्ध्यर्थमच्प्रत्ययविधानमित्युक्तत्वादर्श आदिभ्योऽजित्यनेनैव निर्वाहो दर्शितः । नापि खण्डो गौरित्युक्तमुपपादयति ॥ न हि गौरिति ॥
यादुपत्यम्
अविद्यमानतादात्म्यावगाहिज्ञानस्य भ्रमत्वे कस्यचिद्दूषणमनूद्य दूषयति ॥ अत्र केनचिदिति ॥ सामानाधिकरण्यप्रत्यय इति ॥ शुक्लः पटश्चलतीत्यादिप्रत्यय इत्यर्थः । गुणादीनां द्रव्येण तादात्म्येऽनुभवविरोधं क्रमेणाह ॥ न हि शुक्ल इत्यादिना ॥ अतिप्रसङ्गं चाह ॥ तथात्व इति ॥ स्फुट एवेति ॥ प्रतीयत इति शेषः ॥
श्रीनिवासतीर्थीया
उपपादयिष्यमाणत्वात् ॥ ‘असद्विलक्षणज्ञप्त्यै इत्यत्रेति’ शेषः ॥ एवं सतीति ॥ असतोऽपि प्रतीत्यङ्गीकार इत्यर्थः ॥ कुतः सत्त्वमिति ॥ अन्यत्र विद्यमानमेवान्यत्रारोप्यत इत्येवं रूपान्यथाख्यातिरङ्गीकृतेति भ्रान्त्येयं शङ्केति ज्ञातव्यम् ॥ वक्ष्याम इति ॥ शुक्तिकासन्निकृष्टं दुष्टमिन्द्रियं तमेवात्यन्तासद्रजतात्मनावगाहमानं ज्ञानं जनयतीत्यङ्गीकारादित्यत्रेत्यर्थः ॥ तस्येति ॥ तादात्म्यस्येत्यर्थः । तथाचाविद्यमानतादात्म्यावगाहिज्ञानस्य भ्रमत्वे खण्डो गौरित्यादिसविकल्पक-प्रत्ययेष्वतिव्याप्तिरित्यर्थः । चलति चलनवान् । जातेर्द्रव्येण तादात्म्यावलम्बनत्वे उदाहरणद्वयम् ॥ खण्डो गौरिति ॥ खण्डत्वजातिः खण्डरूपा व्यक्तिश्चैकैवेत्यर्थः । एवं गौरित्यत्रापि गोत्वं जातिर् गोरूपा व्यक्तिश्चैकैवेत्यर्थः ॥ खण्डत्वं गोत्वं च पिण्ड एवेति ॥ खण्डत्वं पिण्ड एव खण्डरूपा व्यक्तिरेव गोत्वं च पिण्ड एव गोरूपा व्यक्तिरेवेति योज्यम् । सामानाधिकरण्यप्रत्ययस्य गुणादेर्धर्मस्य धर्मिणा तादात्म्यावलम्बनत्वेऽनुभवविरोधमुक्त्वाऽतिप्रसङ्गञ्चाह ॥ तथात्व इति ॥ इत्यस्यापीति सामानाधिकरण्यप्रत्ययस्यापि ॥ ज्ञानमपि तादृशमिति ॥ दण्डदेवदत्तभेदविषयकमेव ज्ञानं तत्रास्ति न तु दण्डदेवदत्ततादात्म्यविषयकमतो नातिप्रसङ्गः शुक्लः पट इत्यादौ तु भेदार्थप्रत्ययप्रयोगाभावादत्र ज्ञानं तादात्म्यविषयकमेवेति तत्रातिव्याप्तिः स्यादेवेति भावः । प्रत्ययो मत्वर्थीय इन् प्रत्ययः । तादृशं भेदावगाहि । तथाच न तादात्म्यविषयकत्वमिति भावः । इत्यत्रार्थे इत्यस्मिन्मतुबर्थे ॥ अकारप्रत्ययेति ॥ भेदार्थकेत्यर्थः । ननु गौरित्यत्र कथमर्थभेदः । भेदार्थकप्रत्ययाभावादित्यत आह ॥ न हि गौरितीति ॥ तथात्वे गोगोत्वयोस्तादात्म्ये ॥ त्वप्रत्ययेति ॥ गोर्भावो गोत्वमिति भेदार्थकत्वप्रत्ययेत्यर्थः ॥ अत एवेति ॥ शुक्लः पट इत्यत्र भेदार्थकमत्वर्थीयाकारप्रत्ययसद्भावादेवेत्यर्थः ।
वाक्यार्थरत्नमाला
अन्यथाविज्ञानमेव भ्रान्तिरित्यादिरूपेण भाष्यकारीयभ्रान्तिबाधस्वरूपाव-धारणाभ्यां मतान्तरनिरास इत्युक्तेरेतदख्यातिमतस्य निरासोऽवधारणद्वयेनेति प्रतीतिः स्यान्न च सा युक्तेत्यतोऽत्रैकमेवावधारणं निरासमूलमिति सूचयन् पूर्वपक्ष्युक्तदूषणाङ्गीकारः कथमित्यतस्तदभिप्रायं चाह अन्यथाविज्ञानमेवेति । मूलस्थलक्षणमित्यस्य लक्षणान्तरमित्यनुवादेनानेकलक्षणसङ्ग्रहः । स्वाभिमतान्येति पूरणं च सूचितम् । एतत्पर्यन्तेनेत्यर्थ इति । एतदवधिनेत्यर्थः । पर्यन्तपदस्य आब्रह्मस्तम्बपर्यन्तमित्यादाववधित्वेऽपि प्रयोगात् । अत एव मर्यादावचन इत्युक्तम् । अत एवान्यथाकारोल्लेखीत्यस्मदभिमतेति । अन्याकारोल्लेखीति मूलपाठे तु तथैव पाठेन भवितव्यम् । परन्तु अन्यथाकारोल्लेखीत्यन्तेनेति स्पष्टमत्राभिधानेनान्यत्र च अन्येत्येवाभिधानेऽपि अर्थे विवादाभावेन पाठद्वयमपि अदृष्टमित्याशयेन तथोक्तिर्न दुष्यति । अत एवान्याकारोल्लेखीति वक्ष्यतीति ज्ञेयम् । सामर्थ्यलभ्यमिति । अन्यदित्यस्यापूरणे सर्वस्यापि तदन्यापेक्षया अन्यथात्वेन विशिष्योक्तिरनुपपन्ना स्यात् । तथाचान्यस्यान्यथाज्ञानमिति लाभायान्यदन्यथाज्ञानमिति अनुव्याख्यानमन्यदन्यथा विषयीकुर्वज्ज्ञानमित्येतदर्थतया योजनीयम् । तत्र च विषयीकुर्वदिति बहिरानेयमिति भावः । पूर्वोक्तेति । तदिष्टमेवास्माकमित्यनेनोक्तेत्यर्थः । अत्रेति । तत्त्वनिर्णय इत्यर्थः । लक्षणं तु अनुगतमिति शेषः । रीत्यैवेति । इतिशब्दस्येत्यत इत्यर्थः । इत्यादिचोद्यानवकाश इत्यनेन सम्बन्धः । भाष्य इत्यस्यान्यदित्याद्युक्तेत्युत्तरेण सम्बन्धः । अन्यथेत्येतत्सामर्थ्यलब्धत्वेनान्यदित्यस्यापि भाष्ये सत्त्वाभि-प्रायात् । भाष्यस्य तत्त्वनिर्णयग्रन्थोपपादनत्वाच्च । भाष्ये पदाभावपाठे तु इत्याद्युक्तया टीकास्थया सूचितमिति योज्यम् । तत्त्वनिर्णयवाक्यं स्वोक्तार्थे उदाहरता तदभिप्रायस्य स्वोक्तरीत्योह्यत्वसूचनात् । केचित्तु तत्त्वनिर्णयस्थभाष्यकारीयेति प्रागुक्तभाष्ये विषये इत्यपि तत्त्वनिर्णयस्थमपि वाक्यं भाष्यकारोक्तत्वेन भाष्यतया व्यवहृतम् । तत्त्वनिर्णय इति तु फलतीत्याहुः । निरस्तमित्याशयेनेति । उपपादयिष्यमाणत्वादित्यस्येदं व्याख्यानम् । आशयत्वं तु अत्र पक्षे पूर्वोक्तदोषोद्धारांशे । अन्यथो-पपादयिष्यमाणत्वादित्येतद्व्याख्यानाय प्रवृत्तौ असद्विलक्षणज्ञप्त्या इत्यनेनेति शेष इत्येव वाच्यतया आशयत्वोक्तिर्मन्दा स्यात् । एवं वक्ष्याम इति । भाव इत्युत्तरत्रापि भावत्वोक्तिरर्थत्वार्थिकेति ज्ञेयम् ।
विवरणकारेणेति । अथ तथा रूपावभासनमिति पञ्चपादिकावाक्यव्याख्यावसरे न केवलमिदं
रजतमिति प्रत्ययानामेवासत्संसर्गविषयत्वं किन्तु खण्डो गौरित्यादीनामपि तथात्वमापद्यत इति प्रतिपादनाय प्रवृत्तैवं खण्डो गौरित्यादिसंसर्गप्रत्ययाः सर्व एव विभ्रमाः प्रसज्येरन्निति विवरणवाक्य-व्याख्याकरणावसरेण च खण्डो गौरित्यादिप्रत्ययानां न तादात्म्यमालम्बनम् । किन्तु समवायः स च सन्निति न विभ्रमत्वप्रसङ्ग इति शङ्क्यम् । समवायस्येह प्रत्ययहेतुत्वात्तादात्म्यप्रथासम्भवादित्यर्थ इति तत्त्वदीपने प्रतिपादनादुक्ताशेषार्थस्य विवरणोक्तत्वमिति ज्ञेयम् । तथा गुणादीनामित्युत्तरग्रन्थानु-सारेणाह यद्वेति । परस्परं च भेदस्येत्यस्य स्फुटस्येत्युत्तरेण सम्बन्धः । धर्माश्रयाभेदस्य चेति पाठः । वक्तुमिति । एवं च यत्र भेदो न तदित्यादिनेति शेषः । कयोस्तादात्म्यमिति विकल्पप्रसक्तिमाह गुणक्रियेति ।
मतुपो भेदे विधानाभावादाह प्रत्ययस्येति । शुक्लगणोऽस्यास्तीत्यर्थेऽर्श आदिभ्य इत्यकारप्रत्यय-विधानादिति मूले अर्शआद्यजन्तत्वेन शुक्ल इत्येतदुपपादितम् । तत्कथम् । तदस्यास्त्यस्मिन्नितिसूत्रीय-गुणवचनेभ्यो लुगिष्यत इति वार्तिके च शुक्लशब्दात्तदस्येत्यनेन प्राप्तमतुपो लुकि सति शुक्ल इत्यस्य साधुत्वसम्भवे सत्यर्श आद्यजन्तत्वस्यानाश्रयणीयत्वादित्याशङ्कामर्श आदिभ्योऽजिति सूत्रप्रवृत्ति-विषयत्वं शुक्ल इत्यादेरपि सम्भवतीत्येतत्प्रतिपादकगुणवचनेभ्यो मतुपो लुग्वक्तव्य इत्येतत्सिद्ध-मित्यादिमञ्जर्यनुसारेण परिहरति गुणवचनेभ्य इति । गुणमुक्तवा संप्रति गुणिनि वर्तन्ते ते गुणवचना गुणे तद्वति च प्रसिद्धाश्च शुक्लादयः शब्दा एवेति त एव गुणवचनत्वेन विवक्षिताः । अतो न सर्वदा गुणमात्रवाचिरूपादिशब्दानां गुणवचनत्वेन प्राप्तिरिति न तच्छब्देभ्यो मतुपो लुकः प्राप्तिः । अत्र वार्तिकपुस्तकेषु गुणवचनेभ्य इत्यस्यानन्तरं क्वचिल्लुगिष्यत इति पाठः क्वचिच्च मतुपो लुग्वक्तव्य इति पाठः । तत्र द्वितीयस्य कशिकायामुदाहृतस्य टीकायामुदाहरणम् । सिद्धान्तकौमुद्यां तु लुगिष्ट इति व्यवहारः । शेष्यामपि क्वचिद् ल्यबित्यपि प्रक्रियायां पाठ इत्यादिकमुक्तम् । न च शुक्लादीनाम-भेदोपचारेणैव शुक्लः पट इत्यादिप्रयोगसम्भवान्न मतुप् लुग्वाच्य इति वाच्यम् । तथापि मतुप्प्रत्ययप्राप्तौ तच्छ्रवणप्रसङ्ग इत्यतस्तन्निवृत्तये तल्लुगाश्रयणसार्थक्यात् । वार्तिकेनेत्यनन्तरं मतुपो लोपे सतीति पूरणीयम् । अन्तोदात्तत्वार्थमित्यत्र शुक्ल इत्यस्येति वर्तते । अजन्तत्वे चित इति सूत्रेण देवादिशब्देष्विवान्तोदात्तत्त्वसम्भव इति भावः । भवेदजाश्रयणं यदि तत्सूत्रे शुक्लशब्दो गृहीतः स्यादित्यत उक्तं वर्णादिति पाठादिति । अर्शस् । उरस् । तुन्देत्यादिगणान्ते वर्णादिति पाठादित्यर्थः । वर्णवाचिनः शुक्लादिशब्दादच्प्रत्ययो भवतीति तदर्थः । एवं चार्श आद्यजाश्रयणं न शुक्लः पट इत्येतत्प्रयोगमात्रोपपत्त्यर्थमपि तु चित इत्यन्तोदात्त-त्वार्थम् । न च मतुपि तल्लुकि च सत्यन्तोदात्तता प्राप्यत इत्यतोऽवश्यमजाश्रयणीयः । अन्यथा वर्णादिति पाठवैयर्थ्यमिति भावः । एवमुक्तम् । शुक्ल इत्यत्रार्श आदिभ्योऽजित्यनेनाकारप्रत्यय इत्युक्तमित्यर्थः । अनेन शुक्लः पट इत्यादौ मतुपि लोपे च शुक्ल इत्यस्य निर्वाहेऽपि शुक्लशब्दो वस्तुगत्याऽन्तोदात्तो भवति तन्निर्वाहार्थमजाश्रयणमावश्यकमिति भावेन मूले अर्शआद्यजाश्रयणं कृतमित्युक्तं भवति ।
अत्र प्रसङ्गतः किञ्चिदुच्यते । रसादिभ्यश्चेति सूत्रेण रसरूपस्पर्शगन्धशब्दस्नेहगुणादेकाच इति वृत्त्युदाहृतवक्तव्यानुसारेण रसरूपादिशब्देभ्यो मतुपं विना प्रत्ययान्तराभाव इति विहिते तर्हि रूपिणी भार्या रसिको नट इत्यादिप्रयोगायोग इति न वाच्यम् । इतिकरणस्य विवक्षार्थत्वेन तदनुवृत्तेर्यत्र मतुबन्तादेव लोकस्य विवक्षा भवति तत्रैवानेनान्यप्रत्ययनिवृत्तिः क्रियते । न सर्वत्रेति लाभाद्रूपिणीत्यादौ प्रत्ययान्तरेऽपि बाधकाभावात् । अथवा गुणादिति रूपादिविशेषणाद्रसनेन्द्रियादिग्राह्याणां रूपादी-नामेव प्राप्तेस्तच्छब्देभ्य एव मतुबि्नयमः । रूपिणी कन्येत्यत्र दर्शनीयतार्थः । रसिको नट इत्यत्र रतिहासादयो भावाः प्रतीयन्ते । नातस्तत्र प्रसङ्गः । भाष्यकारेण तूर्वशी वैरूपिण्यप्सरसां स्पर्शिको वायुरिति दर्शनाद्यथाभिधानं प्रत्ययान्तरमपि भवतीत्यादिरूपेण सूत्रं प्रत्याख्यातम् । तेन रूपी घट इत्यादिप्रयोगास्तत्रतत्रत्या अप्युपपन्नाः । एवमत इनि ठनावितिसूत्रीय एकाक्षरात्कृतो जातेः सप्तम्यां च नतौ स्म ताविति वार्तिकानुसारेण दण्डीत्यादौ जातिस्थले निषेधो नायाति । तस्य प्रायिकत्वादित्यादि प्रक्रियाशेष्यादौ ज्ञेयमिति । इत्यादाविवेति व्यतिरेकदृष्टान्तः ।